सामग्री पर जाएँ

पृष्ठम्:मथुराविजयम्.djvu/३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रथम: सर्गः

प्रबन्धमीषन्मात्रोऽपि दोषो नयति दूष्यताम् ।
कालागरुद्रवभरं शुक्तिक्षारकणो यथा ॥ १८ ॥
निर्दोषाप्यगुणा वाणी न विद्वज्जनरञ्जिनी ।
पतिव्रताप्यरूपा स्त्री परिणेत्रे न रोचते ॥ १९ ॥
गुणं विहाय काव्येषु दुष्टो दोषं गवेषते ।
वनेषु त्यक्तमाकन्दः काको निम्बमपेक्षते ॥ २० ॥
चौर्यार्जिन काव्येन कियद् दीव्यत्ति दुर्जनः ।
आहार्यरागो न चिरं रुचिर: कृत्रिमोपलः ।। १२ ।।
तार्किका बहवः सन्ति शाब्दिकाश्च सहस्रशः ।
विरलाः कवयो लोके सरलालापपेशलाः ॥ २२ ॥
करोति कीर्तिमर्थाय कल्पते हन्ति दुष्कृतम् ।
उन्मीलयति चाह्लादं किं न सूते कवेः कृतिः ॥ २३ ॥
न प्रार्थनीयः सत्काव्यश्रुत्यै सहृदयो जनः ।
स्वादुपुष्परसास्वादे कः प्रेरयति षट्पदम् ॥ २४ ॥
तन्मदीयमिदं काव्यं विबुधाः ! श्रोतुमर्हथ ।
मधुराविजयं नाम चरितं कम्पभूपतेः ॥ २५ ॥
आसीत् समस्तसामन्तमस्तकन्यस्त शासनः ।
बुक्कराज इति ख्यातो राजा हरिहरानुजः ॥ २३ ॥
यः शेष इव नागानां नगानां हिमवानिव |
दैत्यारिरिव देवानां प्रथमः पृथिवीभुजाम् ॥ २७ ॥
तिग्मांशोरपि तेजस्वी शीतांशोरपि शीतलः ।
सागरादपि गम्भीरः सुमेरोरपि यः स्थिरः ॥ २८ ॥