म् तस्य परसामान्यनियतत्वात् । नापि भावविरोधित्वम्, अन्योन्याभावे तदभावात् तदर्थांनिरुक्तेक्ष्च सहानवस्थानं तदिति चेत्, न । अत्रापि नञर्थाभिधानेऽनवस्था, अन्यथा वैयर्ध्यम् । नापि भावानात्मकत्वं निषेध्यनिरूप्यत्वं वा, तदनिरुत्त्क्तेः । नापि भावान्यत्वम् स्वरूपस्याननुगते: अनुगतस्यासिद्धेः । नास्तीति बुद्धिवेद्यत्वं तदिति चेत् । न । तदालम्बनस्यैवानुगतस्यासत्त्वात् [१] । भावेन स्वरूपप्रत्या [२] सन्नत्वं त-
न्यायलीलावतीकण्ठाभरणम्
सत्ता तन्नियतत्वात तद्व्याप्यत्वादित्यर्थः । अन्योन्याभाव इति । तस्य भावसमानाधिकरणत्वात् सहानवस्थानलक्षणविरोध्यभावादित्यर्थः । तदर्थेति । विरोधिशब्दार्थस्येत्यर्थः । अत्रापीति । अनवस्थानपदेऽपि नऽर्थः क इति प्रश्ने पुनरन्यत् किञ्चिद्वाच्यमेव तत्रापीत्यर्थः । अन्यथेति । यद्यनवस्थानपदे नञर्थो न भासते तदा तदभिधानं व्यर्थमेवेत्यर्थः । तदनिरुक्तेरिति । भावानात्मकत्वमत्र नञर्थानिरुक्तेः, निषेध्यं च निषेधप्रतियोगि वाच्यं तत्र च निषेधार्थानिरुक्तेरित्यर्थः । स्वरूपस्येति । भावान्यत्वं यद्यभावानां प्रत्येकं स्वरूपमेव तदाऽननुगमः, सकलाभावानुगतं च तन्नास्त्येवेत्यर्थः । तदालम्बनस्यैवेति । नास्तीति बुद्धेरनुगतं किमालम्बनमित्येव जिज्ञास्यते एतश्च त्वया न निरुक्त
न्यायलीलावतीप्रकाशः
परसामान्यं सत्ता तन्नियतमपरसामान्यमभावे च तदभावादित्यर्थः । अन्योन्याभाव इति । अन्योन्याभाववत् प्रतियोगिनोरेकत्र स्वकारणे वृत्तेरित्यर्थः । तदनिरुत्तेरिति । नञन्तर्भावनात्माश्रयादित्यर्थः । तदालंवनस्यैवेति । बुद्धेरर्थनिरूप्यत्वादित्यर्थः । भावेनेति । प्रतियोगिनाधिकरणेन चा-
न्यायलीलावती प्रकाशविवृतिः
दित्यर्थ: । तज्ज्ञाने बाघज्ञानं कारणमेवेति भावः । दुःखवदात्मेति । ज्ञानस्य चाभावत्वे तन्नाशे मुक्तस्यामुक्तत्वापत्तेरित्यपि द्रष्टव्यम् । न ह्यभाबत्वमेवेति । यद्यप्यनुगताभावस्य प्रागेव सिद्धौ तस्यैव लक्षणत्वे किं