वार्थश्च न द्वयविधिःनि द्वयनिषेधः । अन्यतरनिषेधोवा । कीर्तितदोषात् । नापि चरमो, नित्योऽनित्यो वेत्यत्राधिकाभावासत्त्वे
तदनुपपत्तेः । नापि विरोधः | तन्निश्चये वाशब्दसम्भेदानुपपत्तेः ।
एककोटिस्वीकारमश्ने [१] च तदनुपपत्तेः । अन्य एवायमाकारभेदः
स्ववासनायातो वाशब्दसम्भेदी । अस्थाण्वादिव्यावृत्तिकृतश्च स्थाण्वादिपदप्रयोगः । चित्राकारे [२]
नीलादिशब्द सम्भेदवदिति समा-
न्यायलीलावतीकण्ठाभरणम्
व्य(वाऽ?)र्थश्चेति । उभयविधिनिषेधौ वेति चरमं दूषितमपि दूषणान्तरदानाय विशिष्याक्षिपति --- नापीति । परस्परविरहरूपयो: कोट्योर्भावत्वाभावत्वयोर्विधिकोटिचतुष्टयाभावादित्याह---अनित्य इति । नित्यत्वानित्यत्वयोः परस्परविरहस्वभावत्वमभ्युपेत्योक्तम् । अन्यथा तयोः सत्तागर्भत्वेन ध्वंसप्रागभावयोर्व्यतिरेक एव तदनुपपत्तेरिति कोटिवतुष्टयानुपपत्तेरित्यर्थः । नापि विरोध इति । वानर्हन्नर्हत्यनुषञ्जनीयम् ? । संशय विषय इत्यनुषञ्जनीय इत्येके । गोत्वाश्वत्वे विरुद्धे इत्यत्रापि वाकारसम्भेदापत्तेरित्याह - तन्निश्चय इति । किञ्च चैत्रः श्यामो वा गौरो बेत्यत्राविरोधाभानेऽपि वाकारसम्मेददर्शनादित्युभयतो व्यभिचार इत्याह - एककोटीति । तत् किं संशय विषयो नास्त्येव तथा चानुभवविरोध इत्यत आह - अन्य एवेति । समानधर्म्म जत्वादिकमिति । आ-
न्यायलीलावतीप्रकाशः
वाऽर्थश्चेति । नापीति । प्रागुतविकल्पे चरमः कल्पः उभयविधिनिषेधरूपो वाकारार्थो नापीति संशयस्य विषय इत्यनुपपत्तेर्विरोधोल्लेखानुपपत्तेः न हि नित्यत्वानित्यत्वे सहानवस्थायिनीति तत्र वाशब्दार्थः । तथा च तज्ज्ञानं संशयो न स्यादित्यर्थः । तल्किं संशयस्य विषय एव नास्ति ? नेत्याह - अन्य एवेति । स्ववासनेति । अनादितादृशज्ञानज संस्कारप्रभव इत्यर्थः । वाशब्देति । वाशब्दार्थोऽपि स एव ज्ञानाकार इत्यर्थः । नन्वेवं संशयविषये कथं स्थाणुत्वाद्यवभास इत्यत आह - अस्थाण्वादीति । विचि-
न्यायलीलावतीप्रकाशविबृतिः
मानपि वह्नयभाववान् स्यादित्यत्रेत्यर्थः । नन्वेवमिति । संशयस्याकार-