ङ्कायाम् एवं सति विकर्मलक्षणेनाधर्मेण पततीत्यभिप्रायेणाह - समनुचरन्निति ।
नैष्कर्म्यं कर्मनिवृत्तिसाध्यं ज्ञानं यानि प्राप्नुयामित्यर्थः । वेदैरिति स्मृत्यादेरप्युपलक्षणम् । निषिद्धे अभक्ष्यभक्षणादौ कुहचिदपि [१] अल्पदुष्कृतेष्वपि कर्मसु मनःकर्मवाचां प्रवृत्तिः मा भूत् । दुर्वर्जे वर्जयितुमशक्यं यद् निषिद्धकर्म, तच्चेदवाप्तम् अनुष्ठितं तर्हि तदपि भवति [२] चिरप्रकाशे ब्रह्मणि अर्पये मन्त्रपुरस्सरं समर्पयामीत्यर्थः ॥ १ ॥
वैदिकं कर्मयोगमुक्त्वा तान्त्रिकमाह -
यस्त्वन्यः कर्मयोगस्तव भजनमयस्तत्र चाभाष्टमूर्ति |
यस्त्विति । अन्यः वैदिका वन्यस्तान्त्रिकः तव भजनमयः त्वत्पूजारूपः आशु त्वत्प्रसादजनकः । अभीष्टां श्रीनारायणवासुदेवादिरूपां मूर्ति हृद्याम् अतिमनोहरघेषविशिष्टां सत्त्वैकरूपां शुद्धसत्त्वमयीं दृषदि शिलामय्यां मृदि लेप्यायां हृदि मनोमय्यां क्वापि कांस्यरजतसुवर्णादिप्रतिमायां वा । यथोक्तं -
"शैली दारुमयी लौही लेप्या लेख्या च सैकती । |
इति । भावयित्वा तव मूर्ति सङ्कल्प्य विरचितैः सम्पादितैः शक्तितः यथाशक्ति “पत्रं पुष्पं फलम्” (गी. ९.२६) इत्यादिवचनात् । भक्तिपूतैः पुष्पादिभिः नित्यं नियमेन त्रिकालं वा वर्यो 'पुंसि जायालयः पूजे'त्युक्तरीत्या ईश्वरे स्वशरीरारम्भकार्यकारणलक्षणप्रकृतिलयात्मकतया श्रेष्ठां सपर्या पूजां विदधत् कुर्वन् ॥ २ ॥