सामग्री पर जाएँ

भाषावृत्तिः/सप्तमोऽध्यायः/प्रथमः पादः

विकिस्रोतः तः
भाषावृत्तिः
प्रथमः पादः
पुरुषोत्तमदेव
द्वितीयः पादः →

-7-1-1- युवोरनाकौ ।।
युव्वोरनाकावादिश्येते। यु-नन्दनः। सामन्तनः। चिरन्तनः। वु--कारकः। हारकः। गार्गकम्।
युव्वोरिहानुनासिकयणोः प्रत्यययोश्च ग्रहणान्नेह--उर्णायुः। कंयुः। शंयुः। युध्यते। वुस्यति।
युवोरिति सौत्रत्वाद् वलोपः।
-7-1-2- आयनेयनीयियः फढखछघां प्रत्ययादीनाम् ।।
फढखछघामायन्नादयः स्युः। फादिष्वकार उच्चारणार्थः। हलन्तानामेव हलन्तादेशाः। फक्--नाडायनः। ढः--वैनतेयः। खः--कुलीनः। छः--गार्गीयः। घः--क्षत्रियः। कियान्। इयान्।
प्रत्ययः किम् ? फक्कति। ढौकते। आदिः। किम् ? जानुदघ्रः।
शेफ-शंख-षण्ढ-पुच्छादयस्त्वौणादिकाः।
खश्घञ्ञादेरुच्चारणानन्तरमेवेत्संज्ञायां लोपादादेशाभावः।
-7-1-3- झोऽन्तः ।।
प्रत्ययझकारस्यान्तादेशः स्यात्। नवन्ति। कुर्वन्ति। झच्--(उ0 3.121) जरन्तः। वेशन्तः।
-7-1-4- अदभ्यस्तात् ।।
अङ्गाद् अभ्यस्तात् परस्य झस्यात् स्यात्। ददति। दधति। जाग्रति। चकासति। शासति। बिभ्यति।
-7-1-5- आत्मनेपदेष्वनतः।
अनकारात् तङि झस्यात् स्यात्। आसते। चिन्वते। भुञ्ञ्जते। लुनते। पुनते। व्यतिवाते।
अनकारान्तात् किम् ? च्यवन्ते। प्लबनते।
-7-1-6- शीङो रुट् ।।
शीङः परस्य झादेशस्यातो रुडागमः स्यात्। शेरते। अशेरत।
-7-1-7- वेत्तेर्विभाषा ।।
वेत्तेर्झादेशस्यातो रुड् वा स्यात्। संविद्रते, संविदते वा।
-7-1-8- बहुलं छन्दसि ।।
छान्दसम्।
-7-1-9- अतो भिस ऐस् ।।
अदन्ताद् भिस ऐस् स्यात्। वृक्षैः। वनैः। धनैः। दारैः। विप्रैः।
तपरः किम् ? खट्वाभिः। मालाभिः।
-7-1-10- बहुलं छन्दसि ।।
छान्दसम्।
-7-1-11- नेदमदसोरकोः ।।
इदमदसोर्भिस ऐस् नास्ति। एभिः। अमीभिः।
अकः किम् ? इदकैः। अमुकैः।
-7-1-12- टाङसिङसामिनात्स्याः ।।
अदन्तादङ्गाट् टादीनामिनादयः स्युः। वृक्षेण। वृक्षात्। वृक्षस्य।
-7-1-13- ङेर्यः ।।
अदन्तान् ङेर्यः स्यात्। वृक्षाय। कलत्राय। विप्राय। वनाय। धनाय।
-7-1-14- सर्वनाम्नः स्मै ।।
अदन्तात् सर्वनाम्नो ङेः स्मै स्यात्। सर्वस्मै। अस्मै। यस्मै। तस्मै। कस्मै।
अत इत्येव--भवते।
-7-1-15- ङसिङ्योः स्मात्-स्मिनौ ।।
अदन्तात् सर्वनाम्नो ङसेः स्मात्, ङेः स्मिन् स्यात्। सर्वस्मात्, सर्वस्मिन्। यस्मात्, यस्मिन्। तस्मात्,
तस्मिन्। कस्मात्, कस्मिन्।
-7-1-16- पूर्वादिभ्यो न वभ्यो वा ।।
पूर्वपरावरदिक्षणोत्तराधरापरस्वान्तरेभ्यस्तयोः स्मात्स्मिनौ वा
स्याताम्। पूर्वात्, पूर्वस्मात्। पूर्वे, पूर्वस्मिन्।
-7-1-17- जशः शी ।।
अदन्तात् सर्वनाम्नो जशः शीः स्यात्। सर्वे। विश्ये। ये। ते। के।
-7-1-18- औङ आपः ।।
अङ्गाद् आबन्तादौङः शीः स्यात्। खट्बे तिष्ठतः। खट्वे पश्य। ते द्वे पश्य।
औङ इति ओऔटोः संज्ञा।
-7-1-19- नपुंसकाच्च ।।
अङ्गात् नपुंसकादौङः शीः स्यात्। कुण्डे स्तः पश्य वा। शुचिनी। दधिनी। पटुनी। मधुनी। पयसी।
-7-1-20- जश्शसोः शिः ।।
नपुंसकाज् जश्शसोः शिः स्यात्। कुण्डानि पयांसि तिष्ठन्ति पश्य वा। यशांसि।
-7-1-21- अष्टाभ्य औश् ।।
कृतात्त्वस्याष्टनो जश्शसौरौश् स्यात्। अष्टौ सन्ति पश्य वा।
इह अङ्गाधिकारे तस्य तदुत्तरपदस्य इति वचनात् परमाष्टौ। उत्तमाष्टौ।
कृतात्त्वस्य किम् ? अष्ट सन्ति पश्य वा।
-7-1-22- षड्भ्यो लुक् ।।
षट्संज्ञकाज् जश्शसोर्लुक् स्यात्। पञ्ञ्च। षट्। सप्त। नव। दश। एकादश। कति सन्ति पश्य वा।
-7-1-23- स्वमोर्नपुंसकात् ।।
क्लीबात् स्वमोर्लुक् स्यात्। दधि। मधु। कर्तृ। कर्म तिष्ठति पश्य वा।
इह तत्कुलमिति त्यदाद्यत्वात् लुगयं पूर्वविप्रतिषेधेन, नित्यत्वाद्वा।
-7-1-24- अतोऽम् ।।
अदन्तात् क्लीबात् स्वमोरम् स्यात्। धनमस्ति पश्य वा। वनमस्ति पश्य वा।
-7-1-25- अद्ड् डतरादिभ्यः पञ्ञ्चभ्यः ।।
क्लीबाड् डतरादिपञ्ञ्चकात् स्वमोरद्डादिश्यते। कतरत्। कतमत्। अन्यत्। अन्यतरत्। इतरत् तिष्ठति पश्य वा।
। एकतरान्नेष्यते ।। एकतरमस्ति वा।
-7-1-26- नेतराच्छन्दसि ।।
छान्दसम्।
-7-1-27- युष्मदस्मद्भ्यां ङसोऽश् ।
आभ्यां परस्य ङसोऽशादिश्यते। तव। मम।
इह श्रुतेनाङ्गविशेषणात् तदन्तत्वेऽपि निर्दिश्यमानस्यादेशा भवन्ति इति वचनात्-अतितव, अतिमम। तथा अतियुष्माकम, अत्यस्माकम्। सुसक्थ्ना विप्रेण। प्रियानड्वानित्यादि।
इह तु बहुवना गिरयः, सुवनौ शैलौ, बहुत्रपुर्ग्राम्, सुत्रपोर्विप्रस्येति अङ्गेनैव नपुंसकविशेषणाच्छिशीलुङ्नुम्विधयो न भवन्ति।
-7-1-28- ङेप्रथमयोरम् ।।
आभ्यां परस्य ङेः प्रथमद्वितीययोश्चाम् स्यात्। ङेः--तुभ्यम्। मह्यं दीयते। प्रथमयोः--त्वम, अहम्। अहम् युवाम्, आवाम्। यूयम्, वयम्। त्वाम्, माम्। युवाम्, आवाम्।
-7-1-29- शसो नः ।।
आभ्यां परस्य शसो नः स्यात्। आदेः परस्य, संयोगान्तलोपः। युष्मान् नदीः पश्यामि। अस्माम् कुलानि पश्य।
-7-1-30- भ्यसो भ्यम् ।।
आभ्यां भ्यसो भ्यमादिश्यते। युष्मभ्यम्, अस्मभ्यं देहि।
-7-1-31- पञ्ञ्चम्या अत् ।।
आभ्यां पञ्ञ्चमीभ्यसोऽत् स्यात्। युष्मद् भीतः। अस्मत् पतितः।
-7-1-32- एकवचनस्य च ।।
पञ्ञ्चम्येकवचनस्यात् स्यात्। त्वद् गच्छति। मद् बिभेति।
-7-1-33- साम आकम् ।
युष्मदस्मद्भ्यां ससुट्कस्यामो निवर्त्तक आकम् स्यात्। युष्माकम्, अस्माकम्। प्रिययुष्माकम्, अत्यस्माकम्। प्रियास्माकम्।
-7-1-34- आत औ णलः ।।
आदन्तात् परस्य णल औरादिश्यते। ददौ। ज्गलौ। मम्लौ। तस्थौ। पपौ। औत्वम्, एकादेशः, द्विरुक्तिरिति क्रमः।
-7-1-35- तुह्योस्तातङ्ङाशिष्यन्यतरस्याम् ।।
तुहिशब्दयोराशिषि तातङ् वा स्यात्। जीवतु, जीवताद्वा भवान्। जीव, जीवताद्वा त्वम्। ङित्त्वाद् गुणवृद्ध्योरभावः। ब्रूतात्। मृष्टात्। अल्लोपः--भिन्तात्। स्तात्। इत्त्वम् शिष्टात्। इर्त्वम्--लुनीतात्। उत्त्वम्--कुरुतात्।
-7-1-36- विदेः शतुर्वसुः ।।
विदेः शतुर्वसुरादिश्यते वा। विद्वान् विद्वांसौ, विद्वांसः। विदुषी स्त्री। पक्षे--विदन्, विदन्तौ, विदन्तः। विदती स्त्री।
-7-1-37- समासेऽनञ्ञ्पूर्वे क्त्वो ल्यप् ।।
अनञ्ञ्पूर्वे समासे क्त्वो ल्यप् स्यात्। प्रकृत्य। प्रस्थाय। विजित्य। प्रणीय। प्रदाय। ःढ़द्य;रीकृत्य। नानाकृत्य। पार्श्वतःकृत्य।
अनञ्ञ्पूर्वे किम् ? अकृत्वा।
नञ्ञ्पूर्वे किम् ? अकृत्वा।
नञ्ञ्पर्युदासादनव्ययसमासेऽपि न भवति--परमकृत्वा। उत्तमकृत्वा। अपकृत्येति पदसंस्कारपक्षे पश्चान्नञ्ञ्समासः।
इह छन्दः सूत्राणि द्वादश (1)। (1.) तानि यथा--
-7-1-38. क्त्वापि च्छन्दसि ।।
-7-1-39. सुपां सुलुक्पूर्वसवर्णाच्छेयाडाड्यायाजालः ।।
-7-1-40. अमो मश् ।।
-7-1-41. लोपस्त आत्मनेपदेषु ।।
-7-1-42. ध्वमो ध्वात् ।।
-7-1-43 यजव्वैनमिति च ।।
-7-1-44. तस्य तात् ।।
-7-1-45. तप्तनप्तनथनाश्च ।।
-7-1-46. इदन्तो मसि ।।
-7-1-47. क्त्वो यक् ।।
-7-1-48. इष्ट्वीनमिति च ।।
-7-1-49. स्रात्वादयश्च ।।
-7-1-50- आज्जसेरसुक् ।।
आद्, असुगिति द्वयमधिक्रियते। शेषश्छान्दसः।
-7-1-51- अश्व क्षीरवृषलवणानामात्मप्रीतौ क्यचि ।।
अश्वादेरसुगागमः स्यात् क्यच्यप्रीतिश्चेत्। स चाश्ववृषयोर्मैथुनेच्छा चेत्। क्षीरलवणयोर्लालसा चेत्।
अश्वस्यति वडवा। लक्ष्मणं सा वृषस्यन्ती। क्षीरस्यति वटुः। लवणस्यत्युष्ट्रः।
। सर्वप्रातिपदिकेभ्यो लालसायामसुग् वक्तव्यः।। दध्यस्यति। मध्वस्यति।
। सुगित्यपरे ।। दधिस्यति। मधुस्यति। पतिस्यन्ती वराङ्गना। लालसायां किम् ? दधीयति।
-7-1-52- आमि सर्वनाम्नः सुट् ।।
अवर्णान्तात् सर्वनाम्नः परस्यामः सुट् स्यात्। सर्वेषाम्। विश्वेषाम्। येशाम्। तेशाम्। केषाम्। सर्वासाम्। यासाम्। तासाम्। कासाम्।
आदित्येव--भवताम्। उभयीनाम्।
-7-1-53- त्रेस्रयः ।।
त्रेरामि त्रयः स्यात्। त्रयाणाम्।
-6-1-54- ह्वस्वनद्यापो नुट् ।।
ह्रस्वान्तान्नद्यन्तादाबन्ताच्चामो नुट् स्यात्। वृक्षाणाम्। विप्राणाम्। मालानाम्। खट्वानाम्। बहुराजानाम्। अग्रीनाम्। दीनाम्। लक्ष्मीणाम्। वायूनाम्। बन्धूनाम्। वधूनाम्। कर्तृणाम्।
एभ्योऽन्यत्र--ग्रामण्याम्।
-7-1-55- षट्चतुर्भ्यश्च ।।
षट्संज्ञकेभ्यश्चतुरश्चामो नुट् स्यात्। षष्ण्णाम्। सप्तानाम्। दशानाम्।
चतुर्णाम्।
इह--
-7-1-56- श्रीग्रामण्योश्छन्दसि ।।
-7-1-57- गोः पादान्ते ।।
छन्दःसूत्रद्वयम्।
-7-1-58- इदितो नुम् धातोः ।।
इदितो धातोर्नुम् आगमः स्यात्। नन्दति। वन्दते। कुण्डा। हुण्ड।
-7-1-59- शे मुचादीनाम् ।।
शे परतो मुचादीनां नुमागमः स्यात्। मुञ्ञ्चति। सिञ्ञ्चति। लिम्पति। लुम्पति। निकृन्तति। विन्दति।
। तृम्फादीनाञ्ञ्च ।। तृम्फति। गुम्फति। नुमोऽत्र विधानसार्मथ्यान्न लोपः।
-7-1-60- मस्जिनशोर्झलि ।।
मस्तेर्नशेश्च झलि नुमागमः स्यात्। मङ्क्वा। नंष्ट्वा। झलि किम् ? मज्जनम्। नशनम्।
-7-1-61- रधिजभोरचि ।।
अनयोरचि नुमागमः स्यात्। रन्धनम्। रन्धकः। रन्धयति। जम्भनम्। जम्भयति। जम्भकः। नित्यो नुम् वृद्धिं बाधते।
अचि किम् ? रद्धा। जभ्यम्।
-7-1-62- नेट्य लिटि रधेः ।।
रधेरिटि नुम् नास्ति। रधिता। रधितुम्।
अलिटि किम् ? ररन्धिव। ररन्धिम।
-7-1-63- रभेरशब्लिटोः ।।
-7-1-64- लभेश्च ।।
रभेर्लभेश्चाजादौ नुम् स्यात्। आरम्भयति। आरम्भकः। आरम्भणम्। आरम्भी। लम्भयति। लम्भनम्। लम्भकः।
अशब्लिटोः किम् ? आरभते। आरेभे। लभते। लेभे।
-7-1-65- आङो यि ।।
आङ्पूर्वस्य लभेर्यकारादौ नुम् स्यात्। आलम्भ्यः पशुः।
आलभ्यत इति अनिदिताम् इति नलोपः।
-7-1-66- उपात् प्रशंसायाम् ।।
उपलभेर्यकारादौ नुम् स्यात्। उपलम्भ्या विद्या।
प्रशंसायां किम् ? उपलभ्यं किञ्ञ्चिद् वृषलात्।
-7-1-67- उपसर्गात् खल्घञ्ञोः ।।
उपसृष्टस्यैव लभेः खलि घञ्ञि च नुम् स्यात्। खल्--सुप्रलम्भः। घञ्ञ्--विप्रलम्भः।
उपसृष्टस्यैव किम् ? इर्षल्लभः। लाभो वर्त्तते।
कथं राष्ट्रलम्भः ? तर्हि चिन्त्यम्।
उपसृष्टस्यैवेति नियमात् खल्घञ्ञोरन्यत्रापि स्यात्--प्रलम्भनम्।
-7-1-68- न सुदुर्भ्यां केवलाभ्याम् ।।
आभ्यां नभेः खलि घञ्ञि च नुम् नास्ति। सुलभः, दुर्लभः। सुलाभः, दुर्लाभः।
केवलाभ्यां किम् ? अतिसुलम्भः। यदा सुः पूजायाम् अतिरतिक्रमणे च इति कर्मप्रवचनीयोऽतिर्नोपसर्गः, तदा अतिसुलभमित्यपि भवति।
-7-1-69- विभाषा चिण्णमुलोः ।।
चिणि णमुलि च परे लभेर्वा नुम् स्यात्। अलाभि, अलम्भि वा। लम्भंलम्भम्, लाभंलाभं वा। अनुपसर्गाद् विकल्पोऽयम्।
उपसर्गे तु नित्यम्--प्रालम्भि। प्रलम्भम्।
-7-1-70- उगिदचां सर्वनामस्थानेऽधातोः ।।
उगितामञ्ञ्चतेञ्ञ्च सर्वनास्थाने नुम् स्यात्। भवान्, भवन्तौ, भवन्तः। श्रेयान्। विद्वान्। उपेयिवान्। पचन्। पठन्। अञ्ञ्चेः--प्राङ्, प्राञ्ञ्चौ प्राञ्ञ्चः।
सर्वनामस्थाने किम् ? भवतः पश्य। भवता कृतम्। अधातोः किम् ? उखास्रत्। पर्णध्वत्।
-7-1-71- युजेरसमासे ।।
युजेः सर्वनामस्थाने नुम् स्यात्। युञ्ञ्जौ। युञ्ञ्जः।
असमासे किम् ? अश्वयुक्, अश्वयुजौ, अश्वयुजः।
-7-1-72- नपुंसकस्य झलचः ।।
झलन्तस्याजन्तस्य च क्लीबस्य सर्वनामस्थाने नुम् स्यात्। उदश्विन्ति। पयांसि। कुण्डानि। वारीणि। मधूनि।
झलचः किम् ? विमलदिवि। चत्वारि। अहानि।
उगितोऽपि झलन्तस्य परत्वादयं नुम्--श्रेयांसि। कुर्वन्ति।
। बहूर्जि प्रतिषेधः ।।
। अन्त्यात् पूर्वं नुममेके।। रेफात् परो नुमित्येके। बहूर्ञ्ञ्जि विप्रकुलानि, बहूर्जि वा। बहोरन्यत्र अत्यूर्न्जि। सूर्न्जि।
-7-1-73- इकोऽचि विभक्तौ ।।
अङ्गस्य इगन्तस्य क्लीबस्याजादौ विभक्तौ नुम् स्यात्। दधिनी। मधुनी। त्रपुणी। त्रपुणे। त्रपुणः।
इकः किम् ? कुण्डे द्वे।
-7-1-74- तृतीयादिषु भाषितपुंस्कं पुंवद् गालवस्य ।।
उक्तपुंस्कं क्लीबमिगन्तं टादावचि गालवस्य मतेन पुंवत् स्यात्। ग्रामण्ये कुलाय। ग्रामण्यां कुले।
अन्येषां न--ग्रामणिने। ग्रामणिनि। एवं शुचये, शुचिने वा। पटवे, पटुने वा।
-7-1-75- अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः ।।
अस्थ्यादीनामनङादिश्यते टादावचि। अस्थ्ना। दध्रा। सक्थ्ना।
अक्ष्णा।
गुणानामपीष्यते। सुसक्थ्ना विप्रेण।
अचि किम् ? अक्षिभ्याम्। अस्थिभ्याम्।
-7-1-76- छन्दस्यपि दृश्यते ।।
-7-1-77- इर् च द्विवचने।
छन्दःसूत्रद्वयम्।
-7-1-78- नाभ्यस्ताच्छतुः ।।
अभ्यस्तात् परस्य शतुः उगिदचाम् इति नुम् नास्ति। ददत्। ददतौ। शासत्। चकासत्। जाग्रत्।
-7-1-79- वा नपुंसकस्य ।।
उक्तो निषेधः क्लीबस्य वा स्यात्। ददति, ददन्ति वा कुलानि। जाग्रति, जाग्रन्ति वा।
-7-1-80- आच्छीनद्योर्नुम् ।।
अवर्णान्तात् परस्य शतुर्नुम् वा स्याच्छीनद्योः परतः। तुदन्ती, तुदती वा। करिष्यती, करिष्यन्ती वा। याती, यान्ती वा विप्रकुले। नद्याम्--तुदती,
तुदन्ती वा। भाती, भान्ती वा। ब्राह्मणी।
आदिति किम् ? अदती, ध्नती, बिभ्रती, चिन्वती रुन्धती, लुनती।
-7-1-81- श्यप्श्यनोर्नित्यम् ।।
शप्श्यनोरवर्णान्तात् परस्य शतुर्नित्यं नुम् स्यात्। पचन्ती। चोरयन्ती। दीव्यन्ती कुले स्त्री वा।
-7-1-82- सावनडुडः ।।
नुम् स्यात्। अनड्वान्। हे अनड्वन्।
सौ किम् ? अनड्वाहौ।
-7-1-83- दृक्स्ववस्स्वतवसां छन्दसि ।।
छान्दसम्।
-7-1-84- दिव औत् ।।
सौ दिव औत् स्यात्। द्यौः। हे द्यौः !
सौ किम् ? दिवं पश्य।
-7-1-85- पथिमथ्यृभुक्षामात् ।।
एषामात्त्वं स्यात् सौ। पन्थाः। मन्थाः। ऋभुक्षाः। हे पन्थाः।
-7-1-86- इतोऽत् सर्वनामस्थाने ।।
पथ्यादीनामितोऽत् स्यात् सर्वनामस्थाने। पन्थाः, पन्थानौ, पन्थानः। मन्थाः, मन्थानौ, मन्थानः। ऋभुक्षाः, ऋभुक्षाणौ, ऋभुक्षाणः। ऋभुक्षाणाम्, ऋभुक्षाणौ।
-7-1-87- थो न्थः ।।
तेषां थो न्थः स्यात् सर्वनामस्थाने। तथैवोदाहृतम्।
-7-1-88- भस्य टेर्लोपः ।।
तेषां भसंज्ञकानां टिलोपः स्यात्। पथः पश्यः। पथा। पथे। मथः। मथा। ऋभुक्षः। ऋभुक्षा। ऋभुक्षि।
-7-1-89- पुंसोऽसुङ् ।।
अस्यासुङ् स्यात्। पुमान्, पुंमासौ, पुंमासः। हे पुमन्।
सर्वनामस्थान इत्येव--पुंसः। पुंसा। पुंसाम्।
-7-1-90- गोतो णित् ।।
गोसम्बन्धि सर्वनामस्थानं णित् स्यात्। गौः, गावौ, गावः। हे गौः। द्यौश्च--द्यौः, द्यावौ, द्यावः। हे द्यौः।
-7-1-91- णलुत्तमो वा ।।
उत्तमो णल् णिद्वा स्यात्। अहं किल चकर, चकार वा। चुकुटाहम्,
चुकोट वा। अहं विविच, विव्याच वा।
-7-1-92- सख्युरसम्बुद्धौ ।।
सख्युः सर्वनामस्थानं णित् स्यात्। सखायौ, सखायः।
असम्बुद्धौ किम् ? हे सखे।
-7-1-93- अनङ् सौ ।।
सख्युरनङ् स्यात् सौ।
असम्बुद्धावित्येव--हे सखे।
-7-1-94- ऋदुशनस्पुरोदंशोऽनेहसाञ्ञ्च ।।
ऋदन्तानामुशनसादेश्च सावनङ् स्यात्। कर्त्ता। हर्त्ता। भर्त्ता। माता। पिता। थशना पुरोदंशा। अनेहा।
सौ किम् ? कर्त्तारौ। अनेहसौ।
असम्बुद्धावित्येव--हे कर्त्तः। हे अनेहः।
। सम्बोधने उशनसस्त्रैरूप्यमिच्छन्ति सान्तम्, नान्तम्, अदन्तं चेति ।
(1)। हे उशनः हे उशनन्, हे उशन। (1.) तथाच श्लोकवार्तिकम्--
सम्बोधने तूशनस्त्रिरूपं सान्तं तथा नान्तमथाप्यदन्तम्।
माध्यन्दिनिर्वष्टि गुणं ------ नपु सके व्याघ्रपदां वरिष्ठः ।। इति
-7-1-95- तृज्वत् क्रोष्टुः ।।
क्रोष्टुशब्दस्य तृजन्तवत् स्यात्। क्रोष्टृशब्दवदित्यर्थः। क्रोष्टा, क्रोष्टारौ, क्रोष्टारः।
सर्वनामस्थान इत्येव--क्रोष्टून्। असम्बुद्धावित्येव--हे क्रोष्टो।
-7-1-96- स्रियां च ।।
स्त्रियां क्रोष्टुशब्दः तृज्वत क्रोष्टृवत् स्यात्। क्रोष्ट्री। क्रोष्ट्रीभिः।
-7-1-97- विभाषा तृतीयादिष्वचि ।।
टादावचि क्रोष्टुस्तृज्वद्वा स्यात्। क्रोष्ट्रा, क्रोष्टुना वा। क्रोष्टरि, क्रोष्टौ वा।
अचि किम् ? क्रोष्टुभ्याम्। क्रोष्टुभिः।
। नुमचिरतृज्वद्भावेभ्यो नुम्नुटौ पूर्वप्रतिषेधेन ।। त्रपूणाम्। तिसृणाम्। क्रोष्टूनाम्।
-7-1-98- चतुरनडुहोरामुदात्तः ।।
अनयोराम् स्यात्। चत्वारः। चत्वारि। अनड्वान्। अनड्वाहौ। अनडवाहम्। तदन्ताच्च--सुचत्वारः। सुचत्वाः, सुचत्वारौ। प्रियानड्वान्,
प्रियानड्वाहौ।
सर्वनामस्थान इत्येव--चतुरः पश्य।
। अनडुहः स्त्रियां वेति वक्तव्यम् ।। अनडुही, अनड्वाही। गौरादिः।
-7-1-99- अम् सम्बुद्धौ ।।
सम्बुद्धौ तयोरम्। स्यात। हे प्रियचत्वः। हे अनड्वन्। हे प्रियानड्वन्।
-7-1-100- ऋत इद्धातोः ।
ऋदन्तस्य धातोर्रॠतः स्यादिति। किरति। गिरति। विसतीर्णम्। चिकीर्षति।
धातोः किम् ? मातृणाम्।
-7-1-101- उपधायाश्च ।।
धातोरुपधाया ॠत इत् स्यात्। कीर्त्तयति। कीर्त्तनम्।
-7-1-102- उदोष्ठ्यपूर्वस्य ।।
औष्ठ्यवर्णपूर्वस्य ॠत उत् स्यात्। पृ-पूर्त्तम्, पुषूर्षति। सुस्मूर्षते। प्रावुवूर्षति। मुमूर्ष। वुवूर्षति समाहूत आज्ञां विवरिषुः प्रभोः।
। इत्त्वोत्त्वोत्त्वाभ्यां गुणवृद्धी भवतो विप्रतिषेधेन ।। आस्तरणम्, आस्तारकः। निपरणम्, निपारकः।
कथम् उदगिरणमिति ? निपातनात् साधु।
-7-1-103- बहुलं छन्दसि ।।
छान्दसम्।