सामग्री पर जाएँ

भाषावृत्तिः/षष्ठोऽध्यायः /प्रथमः पादः

विकिस्रोतः तः
भाषावृत्तिः
प्रथमः पादः
पुरुषोत्तमदेव
द्वितीयः पादः →

-6-1-1- एकाचो द्वे प्रथमस्य ।।
प्रथमस्यैकाचो द्वे भवतः इत्यधिक्रियते प्राक् सम्प्रसारणात्। (6-1-13) वक्ष्यति--लिटि धातोः इति। पपाच। जजागार।
 
-6-1-2- अजादेर्द्वितीयस्य ।।
अजादेर्धातोर्द्वितीयस्यैकाचो द्वे भवतः इत्यधिक्रियते। वक्ष्यति--सन्यङोः इति। अटिटिषति। प्रतीषिषति।

-6-1-3- न न्द्राः संयोगादयः ।।
अजादीनां धातूनां संयोगादिभूता न-द-रा न द्विरुच्यन्ते। उन्दिदिषति। अडि्डडिषति। अर्चिचिषति।
वकारस्याप्ययं निषेधः । उब्जिजिषति।
यकारपस्य रेफस्य न प्रतिषेधः । अरार्य्यते। अर्त्तेर्यङि चेति गुणः।
इर्र्ष्यतेस्तृतीयस्य । इर्र्ष्यतेस्तृतीयस्य द्वे भवतः।
तृतीयस्यैकाच इत्येके--इर्षिषिषति।
        व्यञ्ञ्जनस्येत्यपरे । इर्र्ष्यियिषति।
इर्र्ष्यो यिः सन् वा द्विः इति चान्द्रं सूत्रम्।
कण्ड्वादीनाञ्ञ्च । तृतीयस्यैकाचो द्वे भवतः। कण्डूयियिषति। असूयियिषति।
वा नामधातूनाम् । तृतीयस्यैकाचो द्वे स्याताम्। अश्वीयियिषति, अशिश्वीयिषति वा।
यथेष्टमपरे नामधातूनाम् । पुपुत्रीयिषति। पुतित्रीयिषति। पुत्रीयियिषति वा।
पुपुतित्रीयियिषतीत्यनार्षम्।

-6-1-4- पूर्वोऽभ्यासः ।।
द्विरुक्तस्य पूर्वोऽभ्याससंज्ञः स्यात्। दित्सति। धित्सति। ज्ञीप्सति। इर्र्त्सति। धिप्सति। धिप्सुः। अत्र लोपोऽभ्यासस्य इत्यभ्यासकार्यम्।

-6-1-5- उभे अभ्यस्तम् ।।
उभे द्विरुक्ते अभ्यस्तसंज्ञे स्याताम्। अदभ्यस्तात्--ददति, बिभ्यति। नाभ्यस्ताच्छतुः इति नुम्निषेधः--ददत्, बिभ्यत्।
उभे किम् ? इर्प्सति। ऐप्सन्।

-6-1-6- जक्षित्यादयः षट् ।।
जक्षिर्धातुः, तदादायश्चान्ये षडभ्यस्तसंज्ञकाः स्युः। जक्षति। जाग्रति। दरिद्रति। चकासति। शासति। दीधीवेव्यौ छान्दसौ।
जक्षिजागृदरिद्राणां चकासेः शासोरेव च।
दीधीवेव्योश्च सप्तानां जक्षित्यादावुपग्रहः ।। 1 ।।

-6-1-7- तुजादीनां दीर्घोऽभ्यासस्य ।।
छान्दसम्।

-6-1-8- लिटि धातोरनभ्यासस्य ।।
लिटि परतो धातोरकृतद्विरुक्तेर्द्वे स्याताम्। पपाच। जजागार। इयेष। उवोष। प्रोर्णुनाव। इयाय।
अनभ्यासस्येति किम् ? पिपक्षतुः। पिपक्षुः।

-6-1-9- सन्यङोः ।।
सन्नन्तस्य यङन्तस्य च धातोर्द्धे स्याताम्। पिपक्षति। यियक्षति। समीचिक्षिषते। इण्-प्रतीषिषति।
यङ्--पापच्यते। अटाट्यते।

-6-1-10- श्लौ ।।
श्लो द्वे स्याताम्। जुहोति। बिभेति। इयर्त्ति। ददाति।

-6-1-11- चङि ।।
द्वे स्याताम्। अपीपचत्। अममालत्। पाचेश्चङि णिलोपः, उपधाह्रस्वत्वम्, द्विरुक्तिरिति क्रमः।

-6-1-12- दाश्वान्-साह्वान्-मीढ्वांश्च ।।
छान्दसम्।
कृञ्ञादीनां के द्वे । घञ्ञर्थे कः। चक्रम्। चिक्लिदम्।
वा चरिचलिपतिवदीनां द्वित्वमच्याक् चाभ्यासस्य । एषां पचाद्यचि द्विरुक्तिर्वा स्यात्, वा अभ्यासस्याक् चागमः, तेन च हलादिः शेषो बाध्यते। चराचरः। चलाचलः। पतापतः। वदावदः।
पक्षे--चरः। चलः। पतः। वदः। इत्येवार्थः।
हन्तेर्धत्वं च । हन्तेरचि द्वे स्यातां घनादेशोऽभ्यासस्याक् चागमः। घनाघनः। हन्तेत्यर्थः।

-6-1-13- ष्यङः सम्प्रसारणं पुत्रपत्योस्तत्पुरुषे ।।
पुत्रपत्योरुत्तरपदयोः ष्यङः सम्प्रसारणं स्यात्। कारीषगन्धीपुत्रः। कारीषगन्धीपतिः। जातुकर्णीपतिः।
तत्पुरुषे किम् ? कारीषगन्ध्यापतिर्ग्रामः।

-6-1-14- बन्धुनि बहुव्रीहौ ।।
बन्धावुत्तरपदे बहुव्रीहौ ष्यङः सम्प्रसारणं स्यात्। कारीषगन्ध्या बन्धुरस्य कारीषगन्धीबन्धुः।
बन्धुनि इति क्लीबनिर्देशो रूपापेक्षः।
मातच्मातृकामातृषु । ष्यङः सम्प्रसारणं विभाषा बहुव्रीहौ। कारीषगन्ध्यामातः, कारीषगन्धीमातर्वा। कालेन्यामातृकः(1), कालेनीमातृको वा। वाराह्यामाता, वाराहीमाता वा। वचनसार्मथ्यान् मातुर्मातजादेशः, समासान्ताभावश्च। (1-) कलानाम् इनः स्वामी कलेनः चन्द्रः। तस्यापत्यम् अत इञ्ञ्, स्त्रियां ष्यङ्। कालेन्या माता अस्येति विग्रहः।

-6-1-15- वचिस्वपियजादीनां किति ।।
एषां किति सम्प्रसारणं स्यात्। वचेर्ब्रूञ्ञश्च। उक्तम्। उक्तवान्। उच्यते। असंयोगाल्लिट् कित्। ःढ़द्य;चतुः, ःढ़द्य;चुः। ःढ़द्य;चे। ञ्ञिस्वप्--सुप्यते। सुप्तम्।
यजादयो नव--
यजो वपो वहश्चैव वेञ्ञ्-व्येञ्ञौ ह्वयतिस्तथा।
वद्वसौ श्वयतिश्चैव यजादयो नव स्मृताः ।।
इष्टम्। उप्तम्। ःढ़द्य;ढम्। संवीतम्। निरुतम्। आहूतम्। उदितम्। उषितम्। उच्छनम्।
कथं सम्बदितम् ? बद स्थैर्ये।

-6-1-16- ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च ।।
एषां ङिति किति च सम्प्रसारणं स्यात्। गृह्णति, गृह्यते। जिनाति, जीयते। लिट्यन्यतरस्याम् इति वेञ्ञो वयिः--ःढ़द्य;यतुः। ःढ़द्य;युः। विध्यति। विद्धम्। वश--उष्टः। उशन्ति। उशितवान्। उशितः। व्यच्--विचितम्। विचति। वृश्चति--वृक्णम्। पृच्छति, पृष्टम्। प्रश्नस्तु निपातनात् (3-2-177)। भृज्जति--बरीभृज्यते। भृष्टम्।

-6-1-17- लिट्यभ्यासस्योभयेषाम् ।।
लिटि वाच्यादीनां गृह्यादीनां चाभ्यासस्य सम्प्रसारणं स्यात्। उवाच, उवचिथ। इयाज, इयजिथ। ग्रहिपृच्छतिभृज्जतीनामुरत्त्वरपरत्व-हलादिः शेषैर्न विशेषः। जग्राह। पप्रच्छ।
बभ्रज्ज। जिज्यिथ। हलादिः शेषादिदमिष्टम्। विव्याच। विव्याध।

-6-1-18- स्वापेश्चङि ।।
स्वापेश्चङि सम्प्रसारणं स्यात्। असूषुपत्, असूषुपताम्, असूषुपन्।

-6-1-19- स्वपिस्यमिव्येञ्ञां यङि ।।
एषां यङि सम्प्रसारणं स्यात्। सोषुप्यते। सेसिम्यते। व्येञ्ञः - वेवीयते।
यङि किम् ? स्वप्नक्।

-6-1-20- न वशः ।।
वशो यङि सम्प्रसारणं न स्यात्। वावश्यते।

-6-1-21- चायः की ।।
चायतेर्यङि कीः स्यात्। चेकीयते।
दीर्घग्रहणं यङ्लुगर्थम्। चेकीतः।

-6-1-22- स्फायः स्फी निष्ठायाम् ।।
स्फायतेर्निष्ठायां स्फीः स्यात्। स्फीतः, स्फीतवान् निष्ठायां विधानं यावत् लिड्यङोश्च इति।
निष्ठायां किम् ? स्फातिः।

-6-1-23- स्त्यः प्रपूर्वस्य ।
प्रपूर्वस्य स्त्यायतेः सम्प्रसारणं स्यात्। प्रस्तीतः, प्रस्तीतवान्। प्रस्तीमः, प्रस्तीमवान्।
प्रपूर्वस्य किम् ? संस्त्यानः, संस्त्यानवान्। पूर्वग्रहणं किम् ? इहापि यथा स्यात्--प्रसंस्तीतः, प्रसंस्तीतवान्।

-6-1-24- द्रवमूर्त्तिस्पर्शयोः श्यः ।
अनयोरर्थयोः श्यैङः सम्प्रसारणं स्यात्। द्रवस्य मूर्त्तिः काठिन्यम्।
शीनं घृतम्। शीना वसा। स्पर्शे--शीतं वर्त्तते। तद्योगाच्छीतो वायुः।

-6-1-25- प्रतेश्च ।।
प्रतेः श्यैङस्तत् स्यात्। प्रतिशीनो विप्रः। प्रतिशीनवान्।

-6-1-26- विभाषाऽभ्यवपूर्वस्य ।।
अभ्यवपूर्वस्य श्यैङस्तद् वा स्यात्। अभिशीनम्, अभिश्यानम्। अवशीनम्, अवश्यानम्।
अभ्यवपूर्वस्येति पूर्वग्रहणं किम् ? अभिसंशीनम्, अभिसंश्यानम्।

-6-1-27- शृतं पाके ।।
श्रातेः केवलस्य ण्यन्तस्य च पाके शृभावो निपात्यते। शृतं क्षीरम्। शृतं हविः, पक्वं पाचितं वा।
क्षीरहविषोरेवाभिधानान्नेह--श्राणा, श्रपिता यवागूः।

-6-1-28- प्यायः पी ।।
प्यायतेर्निष्ठायां पीः स्यात्। पीनं मुखम्। पीनो बाहुः।
सोपसर्गस्यानभिधानान्नेह--प्रप्यानः।
आङ्पूर्वस्यान्धूधसोः । आडि प्यायतेः पीः स्यात्। आपीनोऽन्धुः। आपीनमूधः।
अन्धूधसोः किम् ? आप्यानस्कन्धकण्ठांशम्।

-6-1-29- लिड्यङोश्च ।।
लिटि यङि च प्यायः पीः स्यात्। आपिप्ये, आपिप्याते, आपिप्यिरे। यङि--आपेपीयते।

?B-6-1-30- विभाषा श्वेः ।।
श्वयतेर्लिटि यङि च सम्प्रसारणं वा स्यात्। शुशाव, शिश्वाय। शिश्वियतुः। धातोरसम्प्रसारणे
लिट्यभ्यासस्य इत्यपि नेष्यते। यङि--शोशूयते, शेश्वीयते। शेश्वीयमानः।

-6-1-31- णौ च संश्चङोः ।।
संश्चङ्परे णौ श्वेः सम्प्रसारणं वा स्यात्। शुशावयिषति।
शिश्वाययिषति। चङि--अशूशवत्। अशिश्वयत्। इह कृते सम्प्रसारणे वृद्ध्यावादेशौ।

-6-1-32- ह्वः सम्प्रसारणम् ।।
ह्वयतेः संश्चङ्परे णौ नित्यं सम्प्रसारणं स्यात्। जुहावयिषति। अजूहवत्।

-6-1-33- अभ्यस्तस्य च ।।
अभ्यस्तनिमित्तसय ह्वयतेः सम्प्रसारणं स्यात्। ततो द्विरुक्तिः। जुहाव। जोहूयते। जुहूषति। समरायैव समाजुहूषमाणः।
इह च्छन्छःसूत्रत्रयम् (1)। (1-) तच्च--

-6-1-34- बहुलं छन्दसि ।।
                             
-6-1-35- चायः की ।।

-6-1-36- अपस्पृधेथामानृचुरानृहश्चिच्युषेतित्याजश्राताश्रितमाशीराशीर्ताः ।।
      
-6-1-37- न सम्प्रसारणे सम्प्रसारणम् ।।
सम्प्रसारणे परे पुनस्तन्नास्ति। विद्धम्। विचितम्। यूना, यूने।
समानाङ्गस्येति वक्तव्यम् । इह मा भूत्--उपेयुषेति। अत्र विभक्तौ वस्वन्तमङ्गम्--क्वसौ वसिति।

-6-1-38- लिटि वयो यः ।।
लिटि वयो यकारस्य सम्प्रसारणं नास्ति। ःढ़द्य;यतुः, ःढ़द्य;युः।

-6-1-39- वश्चास्यान्यतरस्यां किति ।।
वयो यकारस्य लिटि किति वकारो वा स्यात्। ःढ़द्य;वतुः, ःढ़द्य;यतुः वा। ःढ़द्य;वुः, ःढ़द्य;युः वा। खमूयुर्वसुधामूवुः।
किति किम् ? उवाय। उवयिथ।

-6-1-40- वेञ्ञः ।।
वेञ्ञो लिटि किति यजादित्वादकिति च लिट्यभ्यासस्य इति प्राप्तं सम्प्रसारणं नास्ति। ववौ, ववतुः, ववुः।

-6-1-41- ल्यपि च ।।
वेञ्ञो ल्यपि तन्नास्ति। प्रवाय। प्रतिवाय।

-6-1-42- ज्यश्च ।।
ज्यो ल्यपि तन्नास्ति। प्रज्याय।

-6-1-43- व्यश्च ।।
व्येञ्ञो ल्यपि तन्नास्ति। प्रव्याय।

-6-1-44- विभाषा परेः ।।
परेर्वा। परिवीय, परिव्याय।

-6-1-45- आदेच उपदेशेऽशिति ।।
एजन्तोपदेशस्य(1) धातोराकारः(1) स्यात्, अशिति न शिदादौ। ग्लै--ग्लानः। ग्लातुम्। सुग्लः। जग्ले। जग्लौ। ग्लाता। सुग्लानम्। मम्लौ, मम्ले। सुम्लः। (1-1-) एजन्तस्य धातोरुपदेशे आत्वम् इति मुद्रितः पाठः।
  अशिति किम् ? ग्लायति। धातोरित्येव--गोभ्याम्। उपदेशे किम् ? चेता।

-6-1-46- न व्यो लिटि ।।
व्येञ्ञो लिट्यात्वं नास्ति। संविव्याय। संविव्ययिथ। परिविव्याय। किति तु सम्प्रसारणे परपूर्वाभ्यां नास्ति विशेषः--संविव्यतुः। संविव्युः।

-6-1-47- स्फरतिस्फुलस्योर्घञ्ञि ।।
घञ्ञ्यनयोरेचः स्थाने आत्त्वं स्यात्। विस्फारः। विस्फालः।
पक्षे षत्वम्--विष्फारः। विष्फालः।

-6-1-48- क्रीङ्जीनां णौ ।।
एषां णौ पर एच आत्त्वं स्यात्। क्रापयति। अध्यापयति। अध्यापकः। जापयति। अर्त्तिह्री इत्यादिना पुक्।

-6-1-49- सिध्यतेरपारलौकिके ।।
षिधु संराद्धौ इत्येतस्य णावेच आत्त्वं स्यात्। अर्थं साधयति। ग्रामं साधयति।
अपारलौकिके किम् ? तपस्तापसं सेधयति, ज्ञानविशेषं लम्भयतीत्यर्थः। पारलौकिकग्रहणं ज्ञानविशेषोपलक्षणार्थमिति स्मृतिः।

-6-1-50- मीनातिमिनोतिदीङां ल्यपि च ।।
मीञ्ञ्-डुमिञ्ञ्-दीङां ल्यपि, एजविषये च उपदेशे आत्त्वं स्यात्। प्रमाय। प्रमातव्यम्। निमाय। निमातव्यम्। उपदाय। उपदातव्यम्। घञ्ञि--उपदायो वर्त्तते। युचि--इर्षदुपादानम्।

-6-1-51- विभाषा लीयतेः ।।
लीनातिलीयत्योः परस्मैपद्यात्मनेपदिनोरयं यका निर्देशः। सामान्यग्रहणार्थः। आत्त्वं वा स्याल् ल्यपि, एज्विषये चानयोः। विलाय, विलीय। विलातासि, विलेतासि। विलातासे, विलेतासे।
व्यवस्थितविभाषया प्रलम्भनशालीनीकरणयोर्नित्यमात्त्वम्--शिशुमुल्लापयते। श्येनो
वर्त्तिकामुल्लापयते।
मीमिलियां खलचोः प्रतिषेधः । इर्षल्लयः। विलयः। इर्षन्निमयः। निमयः। निलयः।

-6-1-52- खिदेश्छन्दसि ।।
छान्दसम्।

-6-1-53- अपगुरो णमुलि ।।
अस्य णमुलि परत एच आत्वं स्याद्वा। अस्यपगारं युद्ध्यन्ते। अस्यपगोरं वा। द्वितीयायाञ्ञ्च इति णमुल्। पल्लवगारं नृत्यन्ति, पल्लदगोरं वा।

-6-1-54- चिस्फुरोर्णौ ।।
अनयोर्णावेच आत्वं स्याद्वा। चिञ्ञ आत्वपक्षे पुक्--सञ्ञ्चापयति। स्फारयति। पक्षे वृद्धिगुणौ--चाययति। स्फोरयति।

-6-1-55- प्रजने वीयतेः ।।
प्रजनार्थस्य वीधातोर्णावेच आत्वं स्याद्वा। पुरोवातो गाः प्रवापयति। पक्षे--प्रवाययति, प्रथमगर्भं ग्राहयतीत्यर्थः।
सूत्रे यका निर्देशः अजेर्वी इत्यस्यापि ग्रहणार्थ इत्याहुः।

-6-1-56- बिभेतेर्हेतुभये ।।
प्रयोजकाद् भये भियो णावेच आत्वं वा स्यात्। मुण्डो भापयते। मुण्डो भीषयते।
हेतुभये किम् ? अहिना भाययति। करणादत्र भयम्।

-6-1-57- नित्यं स्मयतेः ।।
स्मिङो णौ नित्यमात्वं स्यात्। जटिलो विस्मापयते। भीस्म्योर्हेतुभये इत्यात्मनेपदम्। हेतुभय इत्येव। करणाद् विस्मये मा भूत्--रूपेण विस्माययति त्रिलोकीम्।

-6-1-58- सृजिदृशोर्झल्यमकिति ।।
सृजिदृशोर्झलादावकित्यमागमः स्यात्। गुणापवादः। स्रष्टा। द्रष्टा। अस्राक्षीत्। अद्राक्षीत्। अमि कृते वृद्धिः।
अकिति किम् ? सृष्टः। दृष्टः। दृष्टिः। सिसृक्षिति। दिद्दक्षते। झलि किम् ? ससर्जिथ। ददर्शिथ।

-6-1-59- अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् ।।
अनुदात्तस्य ऋदुपधस्य धातोर्झलादावकित्यमागमः स्याद्वा। र्तप्ता, त्रप्ता, तर्पिता वा। र्दप्ता, द्रप्ता, दर्पिता वा।
अनुदात्तस्य किम् ? वृहू उदात्तोपदेशः--वर्ढा, वर्ढुम्।

-6-1-60- शीर्षंर्श्छन्दसि ।।
      
-6-1-61- ये च तद्धिते ।।
यादौ तद्धितेऽर्थान्तरतम्याच् शिरसः स्थाने शीर्षन् स्यात्। शिरसि भवः शीर्षण्यः स्वरः।
वा केशेषु । शीर्षण्याः केशाः, शिरस्या वा।

-6-1-62- अचि शीर्षः ।।
अजादौ तद्धिते शिरसः शीर्षः स्यात्। अन् इति प्रकृतिभावो मा भूत्। हास्तिशीर्षः पुत्रः। स्थौलशीर्षं वपुः। मृगशिरीसा युक्ता मार्गशीर्षी तिथिः।

-6-1-63- पद्दन्नोमास्हृन्निशसन्यूषन्दोषन्यकञ्ञ्छकन्नुदन्नाञ्ञ्छस्प्रभृतिषु ।।
पाददन्तनासिकामासहृदयनिशास्रग्यूषदोर्यकृच्शकृदुदकासन इत्येतेषां स्थाने यथासंख्यं पदादय आदेशाः स्युः।
इह पद्दन्नोमास् इत्यत्र सूत्रे छन्दसीत्यनुवर्त्तते इत्यागमः। दृश्यन्ते च पाददन्ताद्यर्थे पद्ददादिप्रयोगाः--पद्भ्यामुद्वर्त्तितस्य च दतो धावति सुदती, हृदि विनिहितरूपः, अप्रशस्तं निशि स्नानम्, पीते यूष्णि निरामयः, यद्दोष्णां भाति विंशतिः इत्यादि।
तदिमेऽपयशब्दाः--इत्येके। शब्दान्तराणीत्यन्ये।
छन्दसीति नानुवर्त्तत इत्यपरे।
छान्दसा अपि क्वचिद् भाषायां प्रयुज्यन्ते इति परे।
नस् नासिकाया यत् तसि क्षुद्रेष्ववर्णनगरयोः । एषु नासिकाया नस् स्यात्। नस्यम्, नस्या। नस्तः पतितः। नः क्षुद्रः। नेह--नासिक्यो वर्णः। नासिक्यं नगरम्।
[385]

-6-1-64- धात्वादेः षः सः ।।
उपदेश इत्येव। धातोरादिषकारस्य दन्त्यः स्यात्। षह-सहते। षिच-सिञ्ञ्चति। आदेशप्रत्यययोः इति षत्वव्यवस्थार्थं षोदपदेशा धातवः पठ्यन्ते। तदुक्तम् भाष्ये --अजदन्तयपराः सादयः षोपदेशाः स्मिङि्श्वदिश्वपयश्च। सृपिमृजिस्तृस्त्यासेकृसृवर्जम् इति।
सुब्धातुष्ठिष्ठिवुष्वष्कतीनां प्रतिषेधः । षोडीयति। ष्ठीव्यति। ष्वष्कते।

-6-1-65- णो नः ।।
धात्वादिणकारस्य नः स्यात्। णत्वव्यवस्थार्थं णोपदेयशा धातवः पठ्यन्ते। तदुक्तम् भाष्ये--सर्वे नादयो णोपदेशा नृतिनन्दिनर्दिनक्किनाटिनाथृनाधृनृवर्जम् इति। नयति। नमति। प्रणयति। प्रणमति। परिणयति।
सुब्धातोरयं प्रतिषेधः। णकारीयति।

-6-1-66- लोपो व्योर्वलि ।।
वलि परे व्योर्लोपः स्यात्। तत्र वलोपश्छन्दस्येव सम्भवति। दिव् -- दिदिवान्। दिदिवांसौ। जीवेरदानुक् जीरदानुः।
व्रश्चकव्रीहिव्रणादौ तु प्रतिषेधः। यलोपः -- क्नूयी -- क्नूतः। क्नूतवान्। गौधेरः। पचेरन्। इहापृक्तलोपाद् वलि लोप इष्टः -- कण्डूः। लोलूः। वलि किम् ? भवेयुः।

-6-1-67- वेरपृक्तस्य ।।
अपृक्तसंज्ञकस्य वेर्लोपः स्यात्। क्विन्--घृतस्पृक्। क्किप्--ग्राम, णीः। ण्विः--पादभाक्।
अपृक्तस्य किम् ? जागृविः।

-6-1-68- हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् ।।
एभ्यः सु-तिप्-सिपामपृक्तस्य हलो लोपः स्यात्। हलन्तात् सुलोपः--राजा, तक्षा। ङ्याबन्ताभ्यां दीर्घाभ्याम--कुमारी, बहुप्रेयसी नृपः। खट्वा।
दीर्घाभ्यां किम् ? निष्कौशाम्बिः। अतिखट्वः। हल्ङ्याब्भ्यः किम् ? ग्रामणीः। तिप्सिपोर्हलन्तादेव लोपसम्भवः। भृञ्ञो जागर्त्तेश्च लङि तिपि--अबिभर्भवान्, अजागर्भवान्। अपरस्तत्र परः पुमानजागः। अभिनस्त्वम्।
अच्छिनस्त्वम्।
अपृक्तस्य किम् ? जागर्त्ति। हलिति किम् ? बिभेद।

-6-1-69- एङ्ह्रस्वात् सम्बुद्धेः ।।
एङो ह्रस्वाच्च सम्बुद्धेर्हलो लोपः स्यात्। हे अग्ने। हे वायो। हे पटो। ह्रस्वात्--हे नाथ, हे वृक्ष, हे नदि। हे वन--इत्यत्रामि पूर्वत्वे कृते मकारमात्रस्य लोपः।

-6-1-70- शेश्छन्दसि बहुलम् ।।
छान्दसम्।

-6-1-71- ह्रस्वस्य पिति कृति तुक् ।।
ह्रस्वान्तस्य धातोः पिति कृति तुगागमः स्यात्। अग्निचित्। प्रकृत्य। सङ्गत्य।
ह्रस्वस्य किम् ? ग्रामणीः। आहूय। नेह--ग्रामणि कुलम्। ह्रस्वस्य बहिरङ्गरस्यासिद्धेः। पिति किम् ? चितम्। स्तुतम्। कृति किम् ? पटुतरः।

-6-1-72- संहितायाम् ।।
अनुदात्तं पदम् ( 6-1-157 ) इत्यतः प्रागयमधिकारः।

-6-1-73- छे च ।।
छे परे ह्रस्वस्य तुगागमः स्यात्। इच्छति। गच्छति। चिच्छेद। चिच्छिदतुः। दधिच्छत्रम्।
संहितायामित्येव--दधि छत्रम्।
संहितैकपदे नित्या नित्या धातूपसर्गयोः।
सूत्रेष्वपि तथा नित्या सैवान्यत्र विभाषया ।। इति स्मृतिः।

-6-1-74- आङ्माङोश्च ।।
आङ्माङोश्च च्छे परे तुक् स्यात्। पदान्ताद्वा इत्यस्य बाधा। आच्छादयति। मा च्छैत्सीत्।

-6-1-75- दीर्घात् ।।
दीर्घाच्छे तुक् स्यात्। ह्रीच्छति। म्लेच्छति। छो-चाच्छायते। छुप--चोच्छप्यते।

-6-1-76- पदान्ताद्वा ।।
पदान्ताद् दीर्घाच्छे तुक् स्याद्वा। नदीच्छया, नदीछाया। वधूच्छाया, वधूछाया।
 
-6-1-77- इको यणचि ।।
इकः स्थानेऽचि परे यण् स्यात्। दध्यत्र। मध्वत्र। कर्तत्र संहितायामित्येव - दधि अत्र। मधु अत्र। कर्तृ अत्र।
इकां यण्भिर्व्यवधानं व्याडिगालवयोरिति वक्तव्यम् । दधियत्र। भूवादयः।
अचि इति वर्त्तते यावत् सम्प्रसारणाच्च (6-1-108) इति।

-6-1-78- एचोऽयवायावः ।।
एत, ओत्, ऐत, औत् स्थानेऽचि परे अय्, अव्, आय्, आव्--इत्येते स्युः। चयनम्, लवनम्। चायकः, लावकः। कायति। गवित्याह। अस्मायाचष्टे। असावत्र।

-6-1-79- वान्तो यि प्रत्यये ।।
एचो यादौ प्रत्यये वान्त आदेशः स्यात्। गव्यम्। शङ्कव्यम्। नाव्यम्। गामिछति गव्यति।
वान्तः किम् ? यान्तो मा भूत्। रायमिच्छति रैयति। प्रत्यये किम् ? गोयानम्।
गव्यूतिशब्दस्तु क्रोशयोजनवदव्युत्पन्न एव।

-6-1-80- धातोस्तन्निमित्तस्यैव ।।
यादौ प्रत्यये तद्धेतोरेव धात्वेचो वान्त आदेशः स्यात्। लव्यम्। पव्यम्। अवश्यलाव्यम्।
तन्निमित्तस्य किम् ? लौयमानिः पुत्रः।

-6-1-81- क्षय्यजय्यौ शक्यार्थे ।।
एतौ शक्यार्थे निपात्येति। क्षेतुं शक्यः क्षय्यः। जेतुं शक्यो जय्यः। शक्यादन्यत्र--क्षेयः। जेयः।

-6-1-82- क्रय्यस्तदर्थे ।।
विक्रयार्थं प्रसारिते द्रव्ये क्रय्यो निपात्यते। क्रेयमन्यत्र।

-6-1-83- भय्यप्रवय्ये च च्छन्दसि ।।
छान्दसम्।

-6-1-84- एकः पूर्वपरयोः ।।
पूर्वपरयोरेकादेशो वाच्यः। अधिकरोऽयम् प्राक् ख्यत्यात् परस्य
(6-1-112) इति। वक्ष्यति--आद् गुणः, द्वयोरेकादेशो भवति--खट्वेन्द्रः।

-6-1-85- अन्तादिवच्च ।।
ए एकादेशः पूर्वं प्रत्यन्तवत्, परं प्रत्यादिवच्च विज्ञेयः। धीबन्धूः। धीबन्धूभ्याम्। पूर्वान्तवत्त्वे स्वादयः। वृक्षौ। पटौ। परादिवत्त्वे सुबिति पदत्वम्। वर्णाश्रये नान्तादिवत्। खट्वाभिः--ऐस् न भवति।

-6-1-86- षत्वतुकोरसिद्धः ।।
षत्वे तुकि च कर्त्तव्ये स एकादेशोऽसिद्धः स्यात्। कोऽसिचत्।
योऽसिचत्। कोऽस्य, योऽस्य--एङः पदान्तादति इत्यस्यासिद्धत्वाद्
इणः इति षत्वं न भवति। अधीत्य, प्रेत्य--ह्रस्वस्य तुग् भवति।
सम्प्रसारणङीट्सु प्रतिषेधो वक्तव्यः ।। षत्वं तुग्विकल्पश्च यथा स्यात्। शकं ह्वयति। शकहूषु--क्विपि सम्प्रसारणम्। वृक्षेच्छत्रम्, वृक्षेछत्रम्। इट--अप चे च्छत्रम्। अपचे छत्रम्।

-6-1-87- आद् गुणः ।।
अवर्णान्तादचि द्वयोरेकादेशो गुणः स्यात्। तवेदम्। धनेन्द्रः। धनेशः।
खट्वेयम्। खट्वेन्द्रः। खट्वेशः। खातोदकम्। गङ्गोदकम्। तवर्षिः। तर्वश्यः। खर्ट्वश्यः। महर्षिः। तवल्कारः। खट्वल्लकारः।

-6-1-88- वृद्धिरेचि ।।
अवर्णान्तादेचि परे वृद्धिः स्यात्। तवैडका। खट्वैडका। तवैतिकायनः। गङ्गौघः। ममौपगवः।

-6-1-89- एत्येधत्यूठ्सु ।।
अवर्णान्तादेत्येधत्योरेचि ःढ़द्य;ठि च परे वृद्धः स्यात्। उपैति। उषैषि। प्रैति। प्रैधते। परैधते। धौतम्।
धौतवान्। प्रष्ठौहः।
एचीत्येव--उपेतः। उपेथः। अवेहि। अपेहि।
        प्रादूहोढोढ्यैषैष्येषु । प्रशब्दादूडादौ वृद्धिः स्यात्। प्रौढः। प्रौढिः--प्रैषः। इषैर्धञ्ञ्ण्यतौ।
स्वादीरेरिणोः । वृद्धिः स्यात्। स्वैरम्। स्वैरी। स्वैरिणी बन्धकी।
ऋते च तृतीयामसमासे । वृद्धिः स्यात्। सुखार्तः। दुःखार्तः। क्षुधार्तः। कामार्तः।
प्रवत्सतरकम्बलवसनदशार्णानामृणे । वृद्धिः स्यात्। प्रार्णम्। वत्सतरार्णम्। कम्बलार्णम्। वसनार्णम्। दशार्णम्। ऋणार्णम्।
अक्षौहिणीशब्दस्तु परिमाणविशेषस्य संज्ञा। अक्षादूहिन्याम् । इति ( वा0 ) व्युत्पत्तिमात्रम्, नान्वयः।

-6-1-90- आटश्च ।।
अचि इत्येव। आटोऽचि वृद्धिः स्यात्। ऐक्षत। ऐक्षिष्ट। औम्भीत्। प्रौर्णावीत्। प्रार्ध्नोत्।

-6-1-91- उपसर्गादृति धातौ ।।
अवर्णान्तात् प्रादेर्ऋकारादौ धातौ वृद्धिः स्यात्। प्रार्च्छति। उपार्च्छति। आर्त्तः।

-6-1-92- वा सुप्यापिशलेः ।।
उपसर्गादृति सुब्धातौ वृद्धिर्वा स्यात्। उपार्षभीयति, उपर्षभीयति।
ऋकारलृकारयोः सार्वण्यात्--उपाल्कारोयति, उपल्कारीयति।
आपिशलिग्रहणं पूजार्थम्।

-6-1-93- ओतोऽम्-शसोः ।।
ओत आकारः स्यादमि शसि च परे। गां पश्य। गाः पश्य। द्यां पश्य। द्याः पश्य।
सुपीत्येव--अचिनवम्। अकरवम्।
ओतः किम् ? ग्लावम्।

-6-1-94- एङि पररूपम् ।।
अवर्णन्तादुपसर्गादेङादौ धातौ पररूपमेकादेशः स्यात्। वृद्धेर्बाधा। प्रेलयति। प्रोखयति।
केचिद् वा सुप्यापिशलेः इत्यनुवर्त्तयन्ति सुब्धातोर्विकल्पार्थम्। उपैडकीयति, उपेडकीयति।
शकन्ध्वादिषु पररूपं वक्तव्यम् । शकन्धुः। कर्कन्धुः। कुलटा। सीमन्तः केशेषु। सीमान्तोऽन्यः। गन्धर्वः। अर्धशनम्। समशनम्। हलीषा। लाङ्गलीषा। मनसो लोपश्च--मनीषा। केनोभ्यते कुम्भः। शुद्धोदनः।
ओत्वोष्ठयोः समासे वा । सूक्ष्मोतुः, सूक्ष्मौतुः। बिम्बोष्ठी, बिम्बौष्ठी। समासे किम् ? पश्यौष्ठम्।
एवे चानियोगे । इहएव, इहेव। अद्येव। नियोगे तु--इहैव भव मा
गाः। अद्यैव नाधिशयितो रुधिरार्द्रशय्याम्।

-6-1-95- ओमाङोश्च ।।
अवर्णान्तादोम्याङि च परे पररूपमेकादेशः स्यात्। का ओमिति कोमिति। सोमित्यवोचत्। आ ःढ़द्य;ढा औडा। अद्योढा। कदोढा। आ इहि एहि। उपेहि। अवेहि। वृद्धिरेचि इत्यस्यापवादः।
आ ऋश्यते अर्श्यते। उर्पश्यते। इह तु सवर्णदीर्घं बाधते।

-6-1-96- उस्यपदान्तात् ।।
अपदान्तादवर्णादुसि परे पूर्वपरयोः पररूपमेकादेशः स्यात्। आद्गुणापवादः। भिन्द्या उस्-भिन्द्युः। छिन्द्युः। अदुः। अधुः।
अपदान्तात् किम् ? का उस्रा कोस्रा। कोषिता।
उस्रौमाङ्क्ष्वाटः प्रतिषेधः इति भाष्यम्। उस्रामैच्छत् औस्रीयत्। औमि--औङ्कारीयत्। आङि--औढीयत्।

-6-1-97- अतो गुणे ।।
अपदान्तादतो गुणे पररूपं स्यात्। पचन्ति। पचे। यजे।
अतः किम् ? यान्ति। यातः पश्य। गुणे किम् ? अपचे।
अपदान्तादित्येव--दण्डाग्रम्।

-6-1-98- अव्यक्तानुकरणस्यात इतौ ।।
अस्फटानुकरणस्याच्छब्दस्येतिशब्दे परे पररूपं स्यात्। पटदिति पटिति। दमदिति दमिति।
अव्यक्तानुकरणस्य किम् ? जगदिति। अतः किम् ? मरुदिति। इतौ किम् ? पटदत्र।
श्रदिति नास्ति, अनभिधानात्।
कथं घटदिति गम्भीरैरम्बुदैर्नदितम् इति ? दान्तमनुकरणम्।

-6-1-99- नाम्रेडितस्यान्त्यस्य तु वा ।।
पूर्वो विधिराम्रेडितस्य न स्यात्। आम्रेडितस्य अव्यक्तानुकरणस्य योऽच्छब्दस्तस्येतौ पररूपं न स्यात्। अन्त्यस्य तु तकारस्य वा।
पटत्पटदिति करोति, पटत्पटेति करोति वा। नित्यवीप्सयोः इति द्विरुक्तिः।

-6-1-100- नित्यमाम्रेडिते डाचि ।।
अव्यक्तस्य अच्छब्दस्यान्त्यस्य डाजन्ते आम्रेडिते परे नित्यं पररूपं स्यात्। पटपटाकारोति। पटपटाकृत्य। दमदमाकृत्य। डाचि बहुलम् इति द्विरुक्तिः, ततष्टिलोपः।

-6-1-101- अकः सवर्णे दीर्घः।
सवर्णेऽचि अको दीर्घः स्यात् पूर्वपरयोः। दण्डाग्रम्। शैलाग्रम्। वनाग्रम्। तवास्यम्। लताग्रम्। योषास्यम्।
महीन्द्रः। नदीहते। मधूष्णम्। मधूपमम्। वधूढा। होतॄश्यः।
सवर्णे किम् ? दध्यत्र। अचीत्येव--कुमारी शेते। ऋति र्ऋर्वा । ऋकारे सवर्णे परे र्ऋरित्ययं टि्वमात्रो रेफभाग द्वययुक्त आदेशो वा स्यात्। पितृ ऋणम्--पिर्तृणम्। पक्षे एकरेफ एव दीर्घः--पितॄणम्।
लृति ल्लृर्वा । लृकारे सवर्णे द्विलकारभागयुक्तो ल्लृकारो वा स्यात्। होतृलृकारः होत्ल्लृकारः। पक्षे लृतो दीर्घस्याभावादृकारलृकारयोः
सार्वण्यादेकरेफ एव दीर्घ ऋकारः--होतॄकारः।

-6-1-102- प्रथमयोः पूर्वसवर्णः ।।
प्रथमाद्वितीययोरचि परे पूर्वसवर्णदीर्धः स्यात्। वृक्षाः। वृक्षान्। अग्नी। वायू। अग्नीन्। वायून्। बुद्धीः।
अचीत्येव--वृक्षः। अक इत्येव-नावौ ।।

-6-1-103- तस्माच्छसो नः पुंसि ।।
अनन्तरदीर्धाच्छसोऽवयवस्य नः स्यात्। वृक्षान्। घटान्। माणवकान्। पर्वतान्। प्लक्षान्। अग्नीन्। गिरीन्। पटन्। पितृन्। नन्। कर्तृन्।
तस्मात् किम् ? गाः पश्य। पुंसि किम् ? चञ्ञ्चाः। वघ्रिकाः पश्य।
बुद्धीः। धेनूः। मातृः।

-6-1-104- नादिचि ।।
अवर्णान्तादिजाद्योः प्रथमयोः पूर्वसवर्णदीर्धो न कर्त्तव्यः। वृक्षौ। खट्वे। कुण्डे।
आदिति किम् ? अग्नी। इचि किम् ? वृक्षाः।

-6-1-105- दीर्घाज्जसि च ।।
दीर्घादिचि जसि च पूर्वसवर्णदीर्घो न स्यात्। पद्यौ। धीबन्ध्वौ।
जसि--नद्यः, धीबन्ध्वः। खट्वास्तिष्ठन्तीति अकः सवर्णे दीर्धः।

-6-1-106- वा छन्दसि ।।
छान्दसम्।

-6-1-107- अमि पूर्वः ।।
अकोऽमि परे पूर्वरूपमेकादेशः, स्यात्। वृक्षम्। खट्वाम्। अग्निम्। नदीम्। वयुम्। वधूम् पश्य।

-6-1-108- सम्प्रसारणाच्च ।।
सम्प्रसारणादचि परे द्वयोः पूर्वरूपमेकादेशः स्यात्। इष्टम्। उप्तम्। ःढ़द्य;ढम्। आहूतम्। गृहीतम्।
कथं शकह्वर्थम् ? जातौ पदार्थे कृतकत्वात् कार्यस्य।

-6-1-109- एङ पदान्तादति ।।
एङोऽति परे पूर्वरूपमेकादेशः स्यात्। अग्नेऽत्र। पटोऽत्र। वायोऽत्र।
पदान्तात् किम् ? नयनम्। लवनम्। अति किम् ? पटविह। तपरः किम् ? वायवायाहि।

-6-1-110- ङसिङसोश्च ।।
एङो ङसिङसोरति परे पूर्वरूपमेकादेशः स्यात्। गिरेरागतम्। गिरेः स्वम्। गुरोरागतम्। गुरोः स्वम्।

-6-1-111- ऋत उत् ।।
ऋकारान्तान् ङसिङसोरति परे पूर्वपरयोरेकादेश उत्त्वं स्यात्।
होतुरागच्छति। पितुराज्ञा।

-6-1-112- ख्यत्यात् परस्य ।।
खितिशब्दौ ह्रस्वौ खीतीशब्दौ दीर्घो वा कृतयणादेशौ ख्यत्यौ। ताभ्यां
परस्य ङसिड्सोरत उत्त्वं स्यात्। सख्युरायाति। सख्युः स्वम्। पत्युरागतम्। पत्युःस्वम्। क्यजन्तात् सखीयतेः क्विप् प्रत्ययः--सखीः। सख्युः। पतीः। पत्युः।
कथं लून्युः, पून्युः, क्षाम्युः ? नत्वमत्वे पूर्वत्रासिद्धम्।

-6-1-113- अतो रोरप्लुतादप्लुते ।।
अति इत्येव। अतः परस्य रो रेफस्याति परे उकारः स्यात्। वृक्षोऽत्र। नभोऽत्र। आश्रयाद् रोरसिद्धत्वं नास्ति।
अतः किम् ? अग्निरत्र। तपरः किम् ? वृक्षा अत्र। रोः किम् ? स्वरत्र। प्रातरत्र। अतीत्येव--वृक्षःथ्द्य;ह। पुनस्तपरः किम् ? वृक्ष आश्रितः।

-6-1-114- हशि च ।।
हशि परे अत उत्तरस्य रो रेफस्योत्यं स्यात्। विप्रो हसति। विप्रो याति। देवो वर्षति।

-6-1-115- प्रकृत्यान्तः पादमव्यपरे ।।
प्रकृत्या इत्यधिकारोऽयम्। शेषश्छान्दसः। इह च्छन्दः षट्सूत्री(1)।
(1-) सेयं षट्सूत्री।

-6-1-116- अव्यादवद्यादवक्रमुरब्रतायमवन्त्वस्युषु च ।।
      
-6-1-117- यजुष्युरः ।।
      
-6-1-118- आपोजुषाणोवृष्णोवर्षिष्ठेम्बेम्बालेम्बिकेपूर्वे ।।
       
-6-1-119- अङ्ग इत्यादौ च ।।
       
-6-1-120- अनुदात्ते च कुधपरे ।।
                              
 -6-1-121- अवपथासि च ।।
                                 
-6-1-122- सर्वत्र विभाषा गोः ।।
सर्वत्र इति च्छन्दोऽधिकारनिवृत्यर्थम्। मण्डूकप्लुत्या एङः अति इति वर्त्तते। अति परे गोरेङ् प्रकृत्या स्याद्वा। गो अस्थि, गोऽस्थि,
गवास्थि वा। गो अग्रम्, गोऽग्रम्, गवाग्रं वा।

-6-1-123- अवङ् स्फोटायनस्य ।।
अति इति निवृत्तम्। अचि इति वर्त्तते। गोरचि परे अवङ् वा स्यात्। गवाजिनम्। गवोष्णम्।
पक्षे--गो अजिनम्। गोऽजिनम्। गुवष्णम्। ग उष्णम् (2)। (2-) अत्र वकारस्य लोपः शाकल्यस्य इति वैकल्पिको लोपः।
व्यवस्थितविभाषया--नित्यं गवाक्षः।
विभाषानुवृत्तौ स्फोटायनग्रहणं पूजार्थम्।

-6-1-124- इन्द्रे च नित्यम् ।।
गोरिन्द्रे नित्यमवङ् स्यात्। गवेन्द्रः।

-6-1-125- प्लुतप्रगृह्या अचि नित्यम्।।
प्लुत इति स्वरभागः। प्रगह्यसंज्ञका अचि नित्यं प्रकृत्या स्युः। अग्नी अत्र। वायू इमौ। पचेते इमौ।
अत्र नित्यानुवृत्तिः किम् ? इकोऽसवर्णे ह्रस्वो मा भूत्।

-6-1-126- आङोऽनुनासिकश्छन्दसि ।।
छान्दसम्।

-6-1-127- इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च ।।
पदान्ताद इत्येव। पदान्तस्येकोऽसवर्णेऽचि प्रकृतिभावः, ह्रस्वश्च शाकल्यस्य सम्मतः। दधि अत्र। कुमारि
अपि। नदि आयाति। वधु ऋतुः।
पदान्तानुवृत्तिः किम् ? कुमार्यौ, कुमार्यः। सिन्नित्यसमासयोः शाकलप्रतिषेधः । ऋत्वियः। छन्दसि घस्। नित्यसमासे -- व्याकरणम्। कुमार्यर्थम्।

-6-1-128- ऋत्यकः ।।
ऋति परेऽकः शाकल्यस्य मतेन प्रकृत्या स्युः, ह्रस्वश्च। स्थूल ऋश्यः। हिम ऋतावपि ता भृशस्विदः। उच्चारितरुचिर ऋचाञ्ञ्चाननानां चतुर्णाम्। खट्व ऋश्यः। होतृ ऋश्यः।
अकः किम् ? वृक्षे ऋश्यः वृक्षयृश्यः।
      
-6-1-129- अप्लुतवदुपस्थिते ।।
                                           
-6-1-130- इर्3 चाक्रवर्मणस्य ।।
सूत्रद्वयं छान्दसम्।

-6-1-131- दिव उत् ।।
पदान्तग्रहणमनुवर्त्तते। दिवः पदान्तस्योत् स्यात्। विमलद्यु दिनम्। व्यपदेशिवद्भावात् पदान्तत्वे-द्युकामः। द्युमनाः। द्युभ्याम्। द्युभिः।
निरनुबन्धकस्य ग्रहणान्नेह- अक्षद्युभ्याम्। अक्षद्यूभिः। पदान्तस्य किम् ? दिवौ दिवः।

-6-1-132- एतत्-तदोः सुलोपोऽकोरनञ्ञ्समासे हलि ।।
एतत्-तदोर्हलि सुलोपः स्यात्। एष दाता। स भोक्ता।
अकोः किम् ? एषको दाता। सको भोक्ता। अनञ्ञ् समासे किम् ? अनषो ददाति। प्रतीयते सम्प्रति सोऽप्यसः परैः। हलि किम् ? एषोऽत्र।
इह छन्दः सूत्रद्वयम्।

-6-1-133- स्यश्छदसि बहुलम् ।।
      
-6-1-134- सोऽचि लोपे चेत् पादपूरणम् ।।
अत्र ऋक्पादपूरणं श्लोकपादपूरणञ्ञ्च गृह्यते। तेन--
सैष दाशरथी रामः सैष राजा युधिष्ठिरः।
सैष कर्णो महात्यागी सैष भीमो महाबलः ।।
इति भाषायामपि स इत्यस्याचि सुलोप इत्येके।
 
-6-1-135- सुट् कात् पूर्वः ।।
      
-6-1-136- अडभ्यासव्यवायेऽपि ।।
एतद् द्वयमधिक्रियते। टकारः सहसुट्स्तुस्वञ्ञ्जाम् इति विशेषणार्थः।

-6-1-137- सम्पर्युपेभ्यः करोतौ भूषणे ।।
एभ्यो भूषणार्थे करोतौ कात् पूर्वः सुट् स्यात्। संस्करोति। परिष्कारः। उपस्क्रियते। उपस्कारः। उपस्कर्त्तव्यः। अडभ्यासव्यवायेऽपि--समस्कार्षीत्। सञ्ञ्चस्कार।
भूषणे किम् ? उपकरोति।
यत्त्विदम्--अनित्याः सर्वे संस्काराः, सर्वं संस्कृतमनित्यम् इति कार्यपर्यायः संस्कृतशब्दः, सोऽव्युत्पन्न एव।

-6-1-138- समवाये च ।।
अत्र तेभ्यः कृञ्ञि सुट् स्यात्। संस्कृतम्। परिष्कृतम्। उपस्कृतम्। समवेतमित्यर्थः।

-6-1-139- उपात्प्रतियत्नवैकृतवाक्याध्याहारेषु ।।
उपात् करोतावेषु सुट् स्यात्। प्रतियत्ने--एधो दकस्योपस्कुरुते। विकृतमेव वैकृतम्। उपस्कृतं भुङ्क्ते। गम्यमानार्थस्य वाक्यस्योपादानम् वाक्याध्याहारः। उपस्कृतं जल्पति नित्यमेषः कथन्नु भो निश्चिनुमः पदार्थम्।
[398]

-6-1-140- किरतौ लवने ।।
उपात् किरतौ कात् पूर्वः सुट् स्यात्। उपस्कीर्य लुनन्ति। लवने किम् ? उपकिरति पुष्पम्।

-6-1-141- हिंसायां प्रतेश्च ।।
प्रत्युपाभ्यां किरतौ हिंसायां सुट् स्यात्। प्रतिस्कीर्णः। उपस्कीर्णो विप्रः। उरोविदारं प्रतिचस्करे नखैः। उपस्कीर्णो दस्युः। हिंसापूर्वकं विक्षिप्त इत्यर्थः।

-6-1-142- अपाच्चतुष्पाच्छकुनिष्वालेखने ।।
किरतौ अपाच्चतुष्पाच्छकुनिषु यदालेखनं तत्र सुट् स्यात्। हर्षजीविकाकुलायकरणेष्वभिधानम्। अपस्किरते वृषभो हृष्टः। अपस्किरते कुक्कुटो भक्षार्थी। अपस्किरते श्वा आश्रयार्थी।
अन्यत्र--अपकिरति श्वा ओदनपिण्डमाशितः।

-6-1-143- कुस्तुम्बुरूणि जातिः ।।
ससुट्कमिदं निपात्यते जातिश्चेत्। बहुवचनमतन्त्रम्। कुस्तुम्बुरुः धान्याकम्। कुस्तुम्बुरूणि तत्फलानि।

-6-1-144- अपरस्पराः क्रियासातत्ये ।।
अपरस्परा इति क्रियासातत्ये ससुट्कं निपात्यते। अपरस्पराः सार्था गच्छन्ति। अविच्छेदेन यान्तीत्यर्थः।
सातत्ये किम् ? अपरपरा यान्ति।
इह सातत्यशब्दप्रसङ्गादागतभाष्यवाक्यार्थं गृहीत्वा कस्यचित्श्लोकः --
लुम्पेदवश्यमः कृत्ये तुम् काममनसोरपि।
समो वा हितततयोर्मांसस्य पचि युड्घञोः ।। इति।
अवश्यलाव्यम्। अवश्यस्तुत्यम्। संहितायामित्येव -- अवश्यं वक्तव्यमिति भाष्ये व्यवस्थितम्।
तुमुनः समश्च काममनसोरन्त्यं लुम्पेत्। भोक्तुकामः। भोक्तुमनाः। सम्यक् कामोऽस्य सकामः। समनाः।
वा हितततयोश्च। [399] सम इत्येव। सहितम्। संहितम्। सततम्। संततम्। सततं निशामयन्त उत्सुकाः। व्यवस्थितविभाषया नित्यं सातत्यमिति स्मृतिरस्ति।
मांसस्य पचि युङ्घञोरिति। अन्त्यलोपो वा। मांस्पचनम्, मांसपचनम्। मांस्पाकः। मांसपाकः।
सूत्रार्थे केचिदनुस्वारस्य च लोपमिच्छन्ति -- मास्पचनम्, मास्पाक इति। तत् तु तन्त्रभाष्यवाक्यस्याभावात् सन्दिग्धमिति भागवृत्तिः।

-6-1-145- गोष्पदं सेवितासेवितप्रमाणेषु ।।
सुट्षत्वाभ्यामिदं निपात्यते। गोभिः सेवितो गोष्पदो देशः। अविद्यमानसेवितान्यगोष्पदान्यरण्यानि। प्रमाणे गोष्पदं क्षेत्रम्। गोष्पदपूरं वृष्टो देवः।

-6-1-146- आस्पदं प्रतिष्ठायाम् ।।
सुटि निपात्यते। को नामास्पदं त्याजितः ? प्रतिष्ठामित्यर्थः। अन्यत्र -- आपदम्।

-6-1-147- आश्चर्यमनित्ये ।।
अनित्यम् आगन्तुकम्, अद्भुतम्। तत्राश्चर्यं स्यात्। आश्चर्यमबन्धनमन्तरिक्षान्न पतति नक्षत्रचक्रम्।
अद्भुते किम् ? आचर्यं कर्म शोभनम्।

-6-1-148- वर्चस्केऽवस्करः ।।
कुत्सितं वर्चो वर्चस्कम्। तत्रावस्करः स्यात्। अवकरोऽन्यत्र।

-6-1-149- अपस्करो रथाङ्गम् ।।
अयमत्र निपात्यते।

-6-1-150- विष्किरः शकुनिर्विकिरो वा ।।
वा सुटि विष्किरो विकिरश्च स्यात्। शकुनिश्चेत्।
[400]

-6-1-151- हस्वाच्चन्द्रोत्तरपदे मन्त्रे ।।
छन्दः सूत्रमेकम्।

-6-1-152- प्रतिष्कशश्च कशेः ।।
कशेः सौत्रात् पचाद्यचि सुटि षत्वं निपात्यते। प्रतिष्कशः पुरोयायी।
कशेः किम् ? कशां प्रतिगतः प्रतिकशोऽश्वः।

-6-1-153- प्रस्कण्वहरिश्चन्द्रावृषी ।।
इमौ निपात्येते ऋषी चेत्।

-6-1-154- मस्करमस्करिणौ वेणुपरिव्राजकयोः ।।
मस्करो वेणुः स्यात्। मा कुरुत कर्माणि शान्तिर्वः श्रेयसी इति माकरणशीलो मस्करी परिव्राजकः।
अन्यत्र -- मकरो ग्राहः। मकरी समुद्रः।

-6-1-155- कास्तीराजस्तुन्दे नगरे ।।
इमे निपात्येते। कास्तीरं नाम नगरम्। अजस्तुन्दं नाम नगरम्।

-6-1-156- कारस्करो वृक्षः ।।
कारकरोऽन्यत्र।

-6-1-157- पारस्करप्रभृतीनि च संज्ञायाम् ।।
अमूनि नाम्नि यथापाठं साधूनि स्युः। पारस्करो देशः। रथस्पा नदी। किष्किन्धः पर्वतः। किष्कुः। वनस्पतिः। परःशताद्यास्ते येषां पराः संख्याः शतादिकात्।
तद्बृहतोः करपत्योश्चौरदेवतयोः सुट् तलोपश्च । तस्करः चौरः। बृहस्पतिर्देवता।
प्रायस्य चित्तिचित्तयोः । प्रायश्चित्तः प्रायश्चित्तम्। आकृतिगणोऽयम्।
पूर्वे योगा अप्यस्यैव प्रपञ्चाः। उक्तः सुट्।

[401] इदानीं स्वरसूत्राणि (1) यावद् अलुगुत्तरपदे ( 6-3-1 ) इति।

-6-1-158- अनुदात्ते पदमेकवर्जम् ।।
      
-6-1-159- कर्षात्वातो घञ्ञोऽन्त उदात्तः।।
       
-6-1-160- उञ्ञ्छादीनाञ्ञ्च ।।
      
-6-1-161- अनुदात्तस्य च यत्रोदात्तलोपः ।।
      
-6-1-162- धातोः ।।
      
-6-1-163- चितः ।।
                         
 -6-1-164- तद्धितस्थ
                       
-6-1-165- कितः ।।
                        
-6-1-166- तिसृभ्यो जसः ।।
      
-6-1-167- चतुरः शसि ।।
      
-6-1-168- सावेकाचस्तृतीयादिर्विभक्तिः ।।
      
-6-1-169- अन्तोदात्तादुत्तरपदादन्यतरस्यामनित्यसमासे ।।
      
-6-1-170- अञ्ञ्चेश्छन्दस्यसर्वनामस्थानम् ।।
      
-6-1-171- ःढ़द्य;डिदम्पदाद्यप्पुम्रैद्युभ्यः ।।
      
-6-1-172- अष्टनो दीर्घात् ।।
      
-6-1-173- शतुरनुमो नद्यजादी ।।
      
-6-1-174- उदात्तयणो हल्पूर्वात् ।।
      
-6-1-175- नोङ्धात्वो ।।
      
-6-1-176- ह्रस्वनुङ्भ्यां मतुप् ।।
      
-6-1-177- नामन्यतरस्याम् ।।
      
-6-1-178- ङ्याश्छन्दसि बहुलम् ।।
      
-6-1-179- षटि्त्रचतुर्भ्यां हलादिः ।।
      
-6-1-180- झल्युपोत्तमम् ।।
      
-6-1-181- विभाषा भाषायाम् ।।
      
-6-1-182- न गोश्वन्साववर्णराडङ्कुङ्कृदभ्यः ।।
      
-6-1-183- दिवो झल् ।।
      
-6-1-184- नृ चान्यतरस्याम् ।।
      
-6-1-185- तित- स्वरितम् ।।
      
-6-1-186- तास्यनुदात्तेन्ङिददुपदेशाल्लसार्वधातुकमनुदात्तमह्न, विङोः ।।
       
-6-1-187- आदिः सिचोऽन्यतरस्याम् ।।
      
-6-1-188- स्वपादिर्हिसामच्यनिटि ।।
      
-6-1-189- अभ्यस्तानामादिः ।।
      
-6-1-190- अनुदात्ते च ।।
       
-6-1-191- सर्वस्य सुपि ।।
      
-6-1-192- भीह्रीभृहुमदजनधनदरिद्राजागरां प्रत्ययात् पूर्वं पिति ।।
       
-6-1-193- लिति ।।
      
-6-1-194- आदिर्णमुल्यन्यतरस्याम् ।।
      
-6-1-195- अचः कर्तृयकि ।।
      
-6-1-196- थलि च सेटीङन्तो वा ।।
      
-6-1-167- ञ्ञ्नित्यादिर्नित्यम् ।।
      
-6-1-198- आमन्त्रितस्य च ।।
      
-6-1-199- पथिमथोः सर्वनामस्थाने ।।
       
-6-1-200- अन्तश्च तवै युगपत् ।।
       
-6-1-201- क्षयो निवासे ।।
      
-6-1-202- जयः करणम् ।।
      
-6-1-203- वृषादीनाञ्ञ्च ।।
      
-6-1-204- संज्ञायामुपमानम् ।।
      
-6-1-205- निष्ठा च द्व्यजनात् ।।
      
-6-1-206- शुष्कधृष्टौ ।।
                      
-6-1-207- आशितः कर्त्ता ।।
                         
-6-1-208- रिक्ते विभाषा ।।
      
-6-1-209- जुष्टार्पिते च च्छन्दसि ।।
      
-6-1-210 नित्यं मन्त्रे ।।
      
-6-1-211- युष्मदस्मदोर्ङसि ।।
      
-6-1-212- ङयि च ।।
      
-6-1-213- यतो नावः ।।
    
-6-1-214- इर्डवन्दवृशंसदुहां ण्यतः ।।
      
-6-1-215- विभाषा घेण्विन्धनयोः ।।
      
-6-1-216- त्यागरागहासकुहश्वठक्रथानाम् ।।
      
-6-1-217- उपोत्तमं रिति ।।
      
-6-1-218- चङ्यन्यतरस्याम् ।।
      
-6-1-219- मतोः पूर्वमात् संज्ञायां स्त्रियाम् ।।
      
-6-1-220- अन्तोऽवत्याः ।।
      
-6-1-221- इर्वत्याः ।।
      
-6-1-222- चौ ।।
      
-6-1-223- समासस्य ।। इति ।।
भाषायां तु स्वरलक्षणं न निबध्यते। स्वरस्य लोकाप्रचारदर्शनादित्युक्तम्।