हुहूस्तावद् देवलस्यापि शापाद् ग्राहीभूतस्तज्जले वर्तमानः । |
हूहूरिति । तावत् तस्मिन् काल एव हूहूर्नाम गन्धर्वोऽपि देवलस्यर्षेः शापाद् ग्राहीभूतो ग्राहतां प्राप्तः । ननु गजेन्द्रश्चेद् भक्तः कथं ग्राहादभिभव इति नाशङ्कनीयमित्याह–शान्त्यर्थमिति | हि यस्माच्छान्त्यर्थं विषयविरक्त्यर्थं स्वकानां भक्तानां श्रान्तिदोऽसि पीडाकरो भवसि ॥ ५ ॥
त्वत्सेवाया वैभवाद् दुर्निरोधं युध्यन्तं तं वत्सराणां सहस्रम् । |
त्वदिति । प्राप्ते काले प्रारब्धेऽवसिते त्वत्पदयोरैकाग्र्यं समाधिस्तस्य सिध्घै प्राप्तये । अथवा प्राग्जन्माभ्यस्तस्य त्वत्पदैकाग्र्यस्य सिद्धिः फलं मोक्षस्तप्राप्तये ॥ ६ ॥
आर्तिव्यक्तप्राक्तनज्ञानभक्तिः शुण्डोत्क्षिप्तेः पुण्डरीकैः समर्चन् । |
आर्तीति । आर्त्या नक्राक्रान्तिजन्यथा पीडया व्यक्ते प्राक्तने जन्मान्तराभ्यस्ते ज्ञानभक्ती यस्य । निर्विशेषात्मनिष्ठं निर्गुणब्रह्मविषयम् ॥ ७ ॥
श्रुत्वा स्तोत्रं निर्गुणस्थं समस्तं ब्रह्मेशाद्यैर्नाहमित्यप्रयाते ! |
श्रुत्वेति । ब्रह्मेशाद्यैर्ब्रह्माहमीशोऽहमित्यभिमानिभिर्नाहमनेन स्तुतः, यतो ब्रह्मनिष्ठं स्तोत्रमस्येत्यप्रयाते सति त्वं पुरस्तात् प्रेक्षितः प्रादुर्भूतोऽभूः । ननु विष्णुरपि विष्णुरहमित्यभिमान्येव, नेत्याह – सर्वात्मेति । ब्रह्मादीनामप्यात्मान्तर्यामी त्वम् ॥ ८ ॥
अथ गजेन्द्रमोक्षमाह-
हस्तीन्द्रं तं हस्तपद्मेन धृत्वा चक्रेण त्वं नक्रवर्यं व्यदारीः । |