समष्ट्यात्मकेऽस्मिन् जीवे खलु निर्विकल्पं मनुष्यत्वादिविशेषणरहितं यथा भवति
तथा अहमित्येवंप्रकारेण स्थितस्योद्वोधस्य ज्ञानस्य निष्पादकः कारणम् । असौ महान् महत्तत्त्वं कर्तृ हे विष्णो ! भवत्प्रेरणात् खलु भवान् हि महान्तमधिष्ठाय तं
प्रेरितवान्, अतः खल्वसौ अहंतत्त्वं चक्रे । तच्चास्मिन् जीवे सविकल्पबोधकम्
अहं मनुष्य इत्यादिसविकल्पकज्ञाननिष्पादकं त्रिगुणैः संपुष्टं त्रिगुणात्मकं, तथापि
तमोतिबहुलम् अतितरां तमःप्रधानमित्यर्थः ॥ ५ ॥
अथाहमस्त्रैविध्यमाह -
सोऽहं च त्रिगुणक्रमात् त्रिविधतामासाद्य वैकारिको |
स इति । सः महत्कार्यभूतः अहं च अहङ्कारश्च भवन् उत्पन्नः सन् भूयः पुनः त्रिगुणक्रमात् त्रयाणां गुणानां सत्त्वं रजस्तम इत्यनेन क्रमेण वैकारिकस्तैजसस्तामस इत्यनेन क्रमेण त्रिविधतां त्रिप्रकारतामासाद्य प्राप्य सत्त्वात्मना सात्त्विकेन आद्येन वैकारिकाहङ्कारेण इन्द्रियमानिनो देवान् इन्द्रियाणामधिष्ठातृदेवान् अकृत कृतवान् । के ते इत्यत आह – दिशेति । दिग्वातार्कप्रचेतोश्विनः क्रमाच्छ्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानां ज्ञानेन्द्रियाणामधिष्ठानदेवताः । तत्र चायं जीवः कर्णद्वारादिषु स्थितानां श्रोत्रादीन्द्रियाणां स्वस्वाधिष्ठानदेवताभिः प्रेरितः[१] श्रोत्रादीन्द्रियद्वारा निर्गच्छन्तीभिरन्तःकरणवृत्तिभिः शब्दादिविषयाननुभवति । एवं वहीन्द्रोपेन्द्रमित्रप्रजाप[२]तिसंज्ञाः क्रमाद् वाक्पाणिपादपायूपस्थाख्यकर्मेन्द्रिय[३]पञ्चकाधिष्ठात्र्यो देवताः । तैरयं प्रेरितो जीवो वचनादानगमन[४]विसर्गानन्दा[५]नुभवरूपाणि कर्माणि करोति । एवं चन्द्रचतुर्मुखश्रीरुद्रक्षेत्रजा [६] मनोबुद्ध्यहङ्कारचि[७] ८. त्ताख्यान्तःकरणचतुष्टयदेवताः । तैरयं सङ्कल्पनिश्चयशरीराभिमानधारणा[८] अधिगच्छति ॥ ६ ॥
† वह्नीन्द्रोपेन्द्रमित्रप्रजापतिभिः ।