युगाचार्य-विवेकानन्दः श्री विवेकानन्दप्रशस्तिः । वर्ष भारतमार्षगौरवभरं लब्ध्वापि कालक्रमात् स्वातंत्र्यापचयाद्विचाररुचिराचारप्रचारात्ययात् दैन्यालस्यविलासदास्यमभजन्त्रासं च सञ्चारयत् प्राच्याशामुखमन्धकारविधुरीकृत्येव दुःखं दधौ ॥ १ ॥ भ्रातृद्वेषमनैक्य शेषमभितो माहंमदाः सन्मदा- दालोक्याखिलभारतं निजपदाधीनत्वमानिन्थिरे । श्वेतांगास्तदनन्तरं प्रहरणप्रावीण्यतो जिवरा विश्वग्रासकृतत्वरा भरतभूराज्येश्वरा रेजिरे ॥ २ ॥ प्रातः सूरसमः समस्तभुवनं सम्पूरयन्नोजसा हित्वा तत्कालोचितभावविग्रहधरः श्रीरामकृष्णोऽभवत् । कांचनकामकांचनरुचिं देवीपदाब्जद्वये मग्नोऽनग्नयतीन्द्रभातिरकृतश्रीसंभृतं तत्तेजोभरयोगसुन्दरतरः श्रीमान्नरेन्द्रः सुधीः भारतम् ॥ ३ ॥ शुद्धः श्रीगुरुवैभवानुभवतो लब्ध्वा विवेकोदयम् । संन्यासव्रतमादधद्दिशिदिशि स्वाधीनचेताः परि- भ्राम्यन्नैश्वरभावभास्वरर सैरासिञ्चदाशाचयम् ॥ ४ ॥ आनन्दं च विवेकमण्डितमहो नामाक्षरं धारयन् यः पाश्चात्त्यविपश्चितां मनसि चिद्रूपां द्युतिं दीपयन् । सप्तद्वीपवसुन्धरातलमधिश्रीभारतस्याद्भुतं गौरं गौरवसङ्गतं शभयशः प्राकाशयत्सन्ततम् ॥ ५ ॥ वेदान्ते च गुरौ दृढस्थितिरपि प्रोद्दामकर्मप्रियो वैराग्येऽर्पितमर्मधर्मपरमो देशानुरागानुगः ।
- उद्बोधनपत्रिकातः 'विवेकानन्दशतवार्षिकी संख्यायाः संगृहीता |
३८०