१८ इंग्लन्डसनाथनात् पूर्वम् आंग्ला विजितजाते: एकं हिन्दुप्रचारकं केन भावेन ग्रहीष्यन्ति इतीदं तस्य चिन्ताविषय आसीत् । परन्तु कतिपयदिनाभ्यन्तरे एव तस्य मनः विगतसंशयमभूत् । सः मिस- मूलर-मिस्टर हार्डीप्रभृतिमित्राणां निमन्त्रणेन लन्दनं गत आसीत् तथा तेषां भवने स्थित्वैव मध्याह्ने लन्दनस्य दर्शनीयानि स्थानानि द्रष्टु' प्रावर्तत | सायं प्रात: आलोचनाकक्षा प्राचलत् तथा ये जनाः सन्द्रष्टुमागच्छन् तैः सह वार्तालापमकरोत् । एवमत्रैव लेडीमार्जेशन - भवने एकस्मिन्सभाप्रकोष्ठे भगिनी निवेदिता ( मिस मार्गरेट नोबल ) स्वामिनः सम्पर्क लभमाना तस्य शिष्यत्वमङ्गीचकार । । महान् तेजस्वी स तरुणसंन्यासी स्वल्पैरेव दिनैः अनेकव्यक्तीनां दृष्टिमाकृष्टां चकार । तस्य नाम समन्ततः प्रासरत् । सप्ताहत्रयाभ्यन्तरे एव संघा: समित्यादयः तस्मै निमन्त्रणं प्रैपयन | उच्चवर्गस्य तथा शिक्षितसमाजस्य अनेके स्त्री-पुरुषाः, धर्मप्रचारका लोका अपि तं प्रत्याकृष्टा अभवन् । समाचारपत्राणि तत्प्रशंसया पूर्णान्यभवन् । १८६५ई० अक्टूबर मासस्य २२ तारिकायां 'पिकाडिली'-स्थिते 'प्रिन्से- पहाल' शालायां स्वामी आत्मज्ञानविषये यद् भाषणमकरोत् तस्य प्रभाव-
- ...“आङ्गलजातिः सहजतया कमपि नूतनं भावं ग्रहीतु न वाञ्छति ।
परन्तु तस्या मनसि एकवारं नवीनो भावः प्रवेशयितु यदि शक्येत तर्हि सा तं कदापि न परित्यजति ।” – आङ्गलेयानाम् एतं विशिष्टं गुणं स्वामी प्राथमिकेषु कतिपयदिवसेष्वेव आविरकरीत् ।