२०७ युगाचार्य - विवेकानन्दः डा० स्ट्रीट, मैडम कालवे, श्रीमती तथा श्रीमान् लेगेट, मिस मैक्लाउड- आदीनां नामानि सविशेषमुल्लेख मर्हन्ति । एषु केचित् जनाः स्वामिनः शिष्या भूत्वा परवर्तिजीवने वेदान्तप्रचाराय आत्मनियोगमकुर्वन् ।* पाश्चात्त्य विजयेन मत्तो भूत्वा स्वामी निजदेशं न व्यस्मरत् । पाश्चात्त्य देशेषु स 'भारतस्य हिन्दुसंन्यासी' तथा तस्य वाण्यासीत् धर्मस्य वाणी, वेदान्तवाणी एवं भारते स आसीत् भारतस्य देशप्रेमी साधुः देशप्रेमिकः तथा स्वाधीनताया ऋत्विक ग्वामी विवेकानन्दः ! प्राच्यदेशस्य कृते धर्मवेदान्तवाण्या अतिरिक्ता तस्य स्वतन्त्रताया वाणी, उद्बोधनस्य कर्मणः एवं संघटनस्य वाणी आसीत्, दुःस्थानां पद- दलितानां प्रपीडितानां रुग्णानां तथा मूर्खाणामुद्धारं कृत्वा मनुष्यत्वे प्रतिष्ठानकारिणी वाणी आसीत् । अतः स पाश्चात्त्य देशेभ्य एव समस्ते भारते विभिन्न केन्द्राणि तथा शाखा केन्द्राणि च स्थापयित्वा जनसाधारणस्यान्तरे जातीयताबोधं जागरयितुं निजशिष्यान् तथा सतीर्थ्यान् आह्वयत् । ग्रामेषु गत्वा जनहितकार्यं कर्तुं तथा अकिञ्चनानां तथाकथित-निम्नश्रेणिकानां जनानां प्रतिगृहं शिक्षाविस्तारार्थम् आत्मोत्सर्ग कर्तुं तान् उपादिशत् । सोऽलिखत् –“· अहं ब्रवीमि – 'दरिद्रदेवो भव । मूर्खदेवो भव ।। दरिद्राः मूर्खाः तथा अज्ञानिनः कातराः – एते एव तव देवता भवन्तु ; एषां सेवामेव परमं धर्म जानीहि ।” -
- स्वामी १८६६ ई० मार्चमासे अमेरिकातः आलासिंगायालिखत्-
“... इयता समयेन मम द्वौ संन्यासिशिष्यौ तथा शतशो गृहस्थशिष्याः संजाताः, परन्तु वत्स ! कतिपयान् विहाय सर्वेऽपि निर्धनाः सन्ति । कतिचनातीव सम्पन्नाः । एनं वृत्तान्तं इदानीं मा प्रकाशय ।..."