युगाचार्य - विवेकानन्दः कटाक्ष विमलानन्देन तस्य मानसमाप्लुतमभूत् । शिरो प्रार्थयत् - "मातः, मह्यं विवेकं वैराग्यं च देहि, ज्ञानं प्रयच्छ, स्वीयं निरर्गलं दर्शनं वितर ।" ७० नमयन्नसौ भक्तिं च एकेनालौकिकानन्देन शान्त्या च तदीयं मनः परिप्लावितं जातम् । मातुर्दिव्ययाऽनुभूत्या स आत्मानं व्यस्मरत् । भावाविष्ट इव कंचन क्षणं मन्दिरे स्थित्वा श्रीठाकुरस्याभ्यर्णमाजगाम | श्रीठाकुरस्य प्रश्नेन नरेन्द्रनाथश्चकितः संवृत्तः, शिरो नमयन्नुवाच - "न हि महाशय, मातरमवलोक्यैवाहं सर्व विस्मृतवान् | सांसारिकदुःखनिराकरण- वृत्तान्तमहं मात्रे न निवेदितवान् ।” - ततः श्रीठाकुरः प्रत्युवाच– “गच्छ गच्छ, पुनर्गच्छ । मांत्रे दुःख- मोचनवार्ता श्रावय ।” - स पुनर्मन्दिरं ययौ। परन्तु पुनरपि तथैव भावान्तरमुपतस्थौ । निर्निमेषं मातुरभिमुखं निरीक्षमाणां ज्ञानभक्तिहेतवेऽभ्यर्थनामकरोत् । पुनः श्रीठाकुरस्य समीपमागतः । श्रीठाकुरेण तिरस्कृतो दृढसंकल्प- मनुष्ठायासौ तृतीयवारं मन्दिरमयासीत् । इदानीं नासौ विसरमार | दुःखकष्टानामपसारणाय प्रार्थनां करिष्यामीति निरचिनोत् । किंतु मातुः सम्मुखे प्रणामं कुर्वतस्तस्य मनसि विचारोऽयं समायातो यद् दुःखविमोचनरूपतुच्छं वस्तु मातुः कथं याचनीयम् ? लज्जया तस्य मुखात् तादृशी प्रार्थना न निरगच्छत् । मातरं वारं वारं प्रणामं कुर्वन्न सौ गम्भीरस्वरेण प्रार्थयत्- “मातः, अहं नान्यत् किमपि याचे, केवलं त्वामेवेच्छामि । मह्यं ज्ञानं भक्तिं च प्रयच्छ ।” समागत एव श्रीठाकुरेण पृष्ट:- "साम्प्रतं पारिवारिकदुःखकष्टकथा मात्रे निवेदिता ननु ?” 'न' निवेदिता' इति कथनेन पुनरसौ निर्भसिंतः, परन्तु नरेन्द्रेण मनस्यनुभूतं - सर्वमिदं श्रीठाकुरस्यैव क्रीडनम् ऐन्द्रजालिकेनेव तेन - तस्य मानसं वैपरीत्यं नीतम् । किन्तु जननीभगिनीदशा तस्य चिन्ता-
पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/८०
दिखावट