स इति चेन्न, द्रवत्वस्यापि तथात्वप्रसङ्गात् । क्षितिपयसोरभेदे गन्धानुपलम्भो याधक इति चेन्न, नियतावान्तरजातिवृत्तित्वेनाप्युपपत्तेः । अभेदः कथमिति चेन्न, भेदप्रतिपादक-
न्यायलीलावतीकण्ठाभरणम्
नेति । यदि जलं पृथिव्यभिन्नं स्यात्तदा जलेऽपि गन्ध उपलभ्यते, न चोपलभ्यते तस्माज्जलं न पृथिवीत्याह- क्षितीति । यथा पृथिवीत्वे सत्यपि नैमित्तिकं द्रवत्वं घृतादावेव न घटादौ, तथा पृथिव्यन्तरविशेषे चम्पकादावेव गन्धो न जलेऽपीति त्वदुक्ततर्कमूलव्याप्तौ विपक्षवाधकाभाव इत्याह - नियतेति । ननु गन्धवत्त्वेनाभेद: स्यात् तच्चेज्जले त्वया नेष्यते तदा त्वदभिमतस्तयोरभेदो न स्यादित्याह- अभेद इति । भेदप्रतिपादकेति । जलत्वस्यानुगतस्य करकादिसाधारण्याभावात् । स्नेहसमवायिकारणतावच्छेदकत्वस्य घृतादिसाधारण्यात् स्नेहत्वस्य कार्य्याकार्यवृत्तितया कार्य्यतानत्रच्छेदकत्वात् अनित्यस्नेहत्वस्य तथात्वेन तत्समवायिकारणतावच्छेदकतया अवयविनि जातिसिद्धौ परमाणुः स्वोपादेयवृत्तिद्रव्यत्वसाक्षायाव्यजातिमानिति
न्यायलीलावती प्रकाशः
स्नहोपलब्धिरित्यर्थः समवाये बाधके सत्येव तथात्वमित्यभिप्रेत्याह-- द्रवत्वस्येति । ननु किञ्चिद्भेदसाधनदूषणेऽपि साधनान्तराद्भेदः स्यादित्याह—क्षितीति । यथा पृथिवीविशेषे सौरभं न तन्मात्रे तथा गन्धोऽपि स्यादित्याह - नियतेति । भेदप्रतिपादकेति| जलत्वजा तेरण्यभावात् करकासाधारणानुगतमतरेभावात् । न च विलयनदशायां तत्रापि तत्प्रतीतिः, विलीनस्य करकातो द्रव्यान्तरत्वात् । न च शीतस्प-
न्यायलीलावती प्रकाशविवृति:
यथा पृथिवीति । यद्यप्येवमपि गन्धनियामकजातिस्वीकारे [१] तेनैवेतरभेदरक्षा भवत्येव तथापि जलादिमिन्नस्यैव कस्यचिन्निर्गन्धत्वे गन्धनियामकजात्या विभागे आधिक्यं स्यादिति ( त? ) या विभागो न ( कर ? )रणीयस्तथा सतीदमुक्त [२] मिति ध्येयम् । ननु जलत्वं जातिरेवेतरभेदसाधिकास्तु इत्यत आह -- जलत्वेति । तत्रापीति ।