सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/२००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२९
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


गोचरत्वमपि स्यात् । आक्रान्तदेश विभागेऽपरदेशावष्टम्भः कम्पो भागिनि प्रत्यक्षसिद्धः, पाणौ भागान्तरे [तु] नैवमिति चेन्न, [अत्र?] आक्रान्तदेशभेदेनैव केनचिद संयोगेऽपि केनचित् संयोगोपपत्तेः [] । अस्तु तर्हि महारजनसंयोगासंयोगौ विरोध इति चेन्न, विकल्पानुपपत्तेः । किं यस्य संयोगसमवायित्वं तस्य तदभावसमवायित्वं विरुद्ध्यते, अथ यस्य संयोगजनकत्वं तस्याभाव []जनकत्वं, उतैकस्य संयोगतदभावावच्छेदकत्वं, उभयावच्छे-


न्यायलीलावतीकण्ठाभरणम्

न्मते चलाचलत्वाद्वस्त्रोदकयोर्नावयवावयविभावकल्पनेति तन्तुपटयोरपि तथा स्यात्तथा च सहचारदर्शनमप्रयोजकमिति भावः । ननु कम्पो न संयोगविभागाभ्यामन्यस्तौ चलाचलौ पाण्यवच्छिन्ने भागिन्यनुभूयेते न तु भागान्तरावच्छिन्ने भागिनि चरणाद्यवच्छिन्ने शरीर इत्याह — आक्रान्तेति । संयुक्तदेशविभागे सतीत्यर्थः । संयोगविभागौ त्वया नाभ्युपगम्येते एव, तदभ्युपगमेऽपि न विरोधो देशावच्छेदभेदेनैव एकस्य तदुभयोपपत्तेरित्याह – अत्रेति । रक्तारक्त विरोधस्त्वया महारजनसंयोगासंयोगाभ्यां समाधेयस्तथा च स एव दुःसमाधेयो न ह्येकस्यैव पटस्य महारजनेन सह संयोगस्तदभावश्च सम्भवतीत्याह -- अस्तु तर्हीति । एवं संयोगतदभावयोः समवायि न भवति तदुभयजनकं वा न भवति तदुभयावच्छेदकं वा न भवति तदुभ-

न्यायलीलावती प्रकाशः

त्वादित्याह – आक्रान्तेति | 'पाणौ' पाणिस्थे । 'भागान्तरे' भागान्तरस्थे भागिनीत्यर्थः । आक्रान्तदेशभूतलादिभेदेन एकस्मिन् केनचित्संयोगेऽपि केनचित्तदभावो न विरुद्ध इत्याह- आक्रान्तदेशभेदेनेति । एकत्र सं. योगतदभावयोश्चाविरोधं वक्ष्याम इति भावः । विरोध इति । विरुध्य

न्यायलीलावतीप्रकाशविवृतिः

प्रतियोगीति हृदयम् । एकत्रेति । एकप्रतियोगिकयोरपीत्यध्याहार्यम् । एवं चैक प्रतियोगिकयोरेव चेन्न विरोधस्तदा सुतरां भिन्नप्रतियोगिकयोरिति भावः । संयोगतदभावाद्यंशे सिद्धसाधनमत आह-


  1. केनचित् संयोगेऽपि केनचिदस० ।
  2. तस्य तदभावज० ।