न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता १२७ धर्मिंप्रतीतावपि च धर्माणामप्रतीतिर्व्यञ्जकाभावादुपपत्स्यते । अस्तु तर्हि सकम्पत्वनिष्कम्पत्वमिति चेन्न, भागभागिनोर्भिन्नसामग्रयधीनकम्पत्वेन भागानां कम्पित्वेऽपि [१] भागिनो निष्कम्पैकस्वभावत्वात् । चलाचलयोर्युतसिद्धिप्राप्तिरिति चेन्न, भेदोवा युतसिद्धिरसम्बन्धो वा । नाद्यः । इष्टत्वात् । न द्वितीयः । चलाचलत्वेऽपि नित्य सम्बन्धबले नासम्बन्ध [२] विरोधात् ।
न्यायलीलावतीकण्ठाभरणम्
ल्पानवकाशः । विरोधान्तरं शङ्कते-अस्त्विति । पाण्यवच्छेदेन शरीरं सकम्पं चरणावच्छेदेन निष्कम्पमनुभूयते तदेकत्वे न स्यात् । न हि कर्माप्यव्याप्यवृत्तीति भावः । तत्र शरीरं निष्कम्पं पाणिमात्रं सकम्पमिति नैकत्र द्वयमिति परिहरति-- भागभागिनेरिति । एवं सत्यवयववायविनौ युतसिद्धौ स्यातामित्याह—चलाचलयोरिति । इष्टत्वादिति । भागभागिनोर्भेदस्य मयाऽभ्युपगमादित्यर्थः । असम्बन्धश्चेदापाद्यते तत्र नित्यसम्बन्धविरह उपाधिरित्याह - चलाचलत्वेऽपीति । स्थाणुश्येनयोश्चलाचलयोरसम्बन्धो
न्यायलीलावती प्रकाशः
किञ्चिदवयवाबच्छेदेन तत्र कम्पो नोपलभ्येत । अथ स कम्पते तदा प्रदेशान्तरोऽपि अकम्पो नोपलभ्यतेति अकम्पोऽपि स्वीकर्त्तव्य इति विरोध इत्याह -- अस्त्विति । अवयविकम्पस्य सकलावयवकम्पनियतत्वात् क्वचिवयवकस्पेऽपि अवयवी निष्कम्प एवेत्याह - भागभागिनोरिति । न च संयोगवत्कर्माप्यव्याप्यवृत्ति भवत्विति वाच्यम्, अवययिनि यथोक्तेनैवोपपत्तेः अवयवेषु सकलावच्छेदेनैवोपलम्भात् । ननु वस्त्रोदकवत् चलाचलयोरवयवावयविनोर्युतसिद्धापत्तिरित्याह-- चलाचलयोरिति । परस्य गुणगुणिनोरभेदादेव न व्यभिचारः । नित्येति ।
न्यायलीलावती प्रकाशविवृतिः
तुरित्यत्रैव तात्पर्य्यम् 1 प्रतिबन्धकाभावकारणत्वापेक्षयाऽवच्छेदकमात्र कल्पनायां लाघवादिति । द्विहस्तेतिफक्किकालिखनानन्तरम वयविरूपेतिफक्किकाधारणं लिपिप्रमादात् । तटस्थः शङ्कते-- न च संयोगति । अवयविनीति । व्याप्यवृत्तिजातीयताविरोधादिति भावः ।