रुद्धधर्मसंसर्गात् । अत्र तु तद्विरहात् । अत्रा [य]वृता [वृतत्वा] नावृतत्वविरुद्धधर्मसंसर्ग इति चेन्न, अर्धावरणेऽव्यवयविनोऽनावृतैकरूपत्वात् । अनावृतै कस्वभावत्वे [१] अर्धावृते प्राग्वत् तत्स्थौल्योपलम्भ [२] प्रसङ्ग इति चेन्न, विचारासहत्वात् । स्थौल्यमवयविरूपं वा तद्धर्मरूपं वा तत्राद्यं प्रतीयत
न्यायलीलावतीकण्ठाभरणम्
ख्यातिरेव पारमार्थिकस्यैकत्वस्य काव्यभावादिति वाच्यम्, विज्ञान एव एकत्वस्य पारमार्थिकत्वात् । प्रकृते विरुद्धधर्मांध्यासं शङ्कते---- अत्रापीति । अर्द्धावृतस्यैवावयविन आवृतत्वमनावृतत्वं च विरुद्धमित्यर्थ: । आवृताद्वयविनोऽनावृतोऽन्यस्तद्विरुद्धधर्म्मवत्त्वादित्यादावाश्रयासिद्धावपि समाध्यन्तरमाह - अर्द्धति । अवयवी तत्रोपलभ्यमानत्वादनावृत एवान्यथा इन्द्रिय सन्निकर्षविरहे तदुपलम्भ एव न स्यादित्यर्थः । एवं सति अनावरणदशायां यथा स्थौल्यमुपलब्धं तथाप्यावरणदशायामप्युपलभ्येतेत्याह - अनावृतेति । अवयविस्वरूपं यदि स्थौल्यं तदा इष्टापत्तिस्तद्धर्म्मोऽपि यदि परिमाणं तत्रापीष्टापत्तिर्महत्त्वविशेषश्चेत्तदा भूयोऽवयवच्छेदेनावयविसन्निकर्षस्य त. व्घञ्जकतया तदभावादर्द्धावृतस्य स्थौल्यं नोपलभ्यत इत्याह-- स्थौल्यमिति । अर्द्धावृतस्य महत्त्वरूपपरिमाणविशेषोपलम्भमापाद्य
न्यायलीलावतीप्रकाशः
दाह - अर्द्धावरणेऽपीति । अवयविनीन्द्रियसम्बद्धे तत्सम्बन्धविच्छेदकघनद्रव्याभावादित्यर्थः । अवयविग्रहे यद्यवयवेन्द्रिय सन्निकर्षो हेतुः स्यात् तदा परमाणुमात्रानन्तरितस्याप्यवयविनो ग्रहापत्तिरिति
न्यायलीलावती प्रकाशविवृतिः
आह - बाधकस्येति । अवयविग्रह इति । यद्यपि द्वितीयविकल्पस्योपक्रान्तत्वादिदमयुक्तं तथाप्यवयविग्रह इत्युपलक्षणं तत्परिमाणग्रहे इत्यपि द्रष्टव्यम् । यद्यप्यर्द्धावृतेऽपि भूयोऽवयवेन्द्रिय सन्निकर्पोऽस्त्येघान्यथा तत्रावय विग्रहोऽपि न स्यात् तथापि परिमाणग्रहे तद्वृत्तिसामान्यग्रहे वा यावदवयवसन्निकर्षो व्यञ्जकस्तदभावात्तदग्रहं इत्यत्र तात्पर्यम् । परमाणुमात्रानन्तरितस्येति । परमाणुमात्रावच्छेदेनेन्द्रियसम्ब-