सामग्री पर जाएँ

पृष्ठम्:शङ्करदिग्विजयः.djvu/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
सर्गः १५]
165
आचार्यकृतदिग्विजयवर्णनम्

चलयन्ति रथं यथैकमत्या बहवो वाजिन एवमप्रतीताः ।
इतरेतरमङ्गमेजयन्तु ज्ञपते चेतनतामपि प्रपद्य ॥१५०

बहवोऽपि नियामकस्य सन्त्रात्सुमते तत्र भजेयुरैकमत्यम् ।
कथमत्र नियामकस्थ तद्वद्विरहात् कस्यचिदप्यदो घंटेत ॥१४१

उपयान्ति न चापयान्ति जीवावयवाः किन्तु महत्तरे शरीरे ।
विकसन्ति च सङ्कअन्त्यनिष्ठे यतिवर्यात्र निदर्शनं जलौका ॥१५२

यदि चैवमी सविक्रित्वात्ते च विनश्वरा भवेयुः ।
इति नश्वरतां प्रयाति जीये कृतनाशाकृतसङ्गमौ भवेताम् ॥१४३

अपि चैवमला बुद्भवाब्धौं निजकर्माष्टकमारमनजन्तोः ।
सततोर्ध्वगतिस्वरूपमोक्षस्तव सिद्धान्तसमर्थितो न सिध्येत् ॥१५४

अपि साधनभूतसङ्गीनयमध्याहत नाऽऽद्रियामहे ते ।
परमार्थसतां विरोधमाजां स्थितिरेकत्र हि नैकदा घटेत ॥१५५

इति माध्यमिकेषु भग्नदर्पेष्वथ भाष्याणि स नैमिशे वितत्य ।
दरदान् भरतांच शु/सेनान् कुरुपाञ्चालमुखान बहूनजैपीत् ॥१५६

पटुयुक्ति निकृत्तसर्वशास्त्रं गुरुभट्टीदयनादिकैरजय्यम् ।
स हि खण्डनकारमृहद बहुधा व्युद्य वशंवदं चकार ॥१५७

तदनन्तरमेष कामरूपानधिगत्या भिनवोपशब्दगुप्तम् ।
अजयत्किल शक्तिभाष्यकारं स च भग्नो मनसेदमालुलोचे ॥ १५८

निगमाब्ज विकासिवालमानोर्न समोऽमुष्य विलोक्यते त्रिलोक्याम् ।
न कथञ्चन मदर्शवदाऽसौ तदमुं दैवतकृत्यया हरेयम् ॥ १५९

इति शूढमसौ विचिन्त्य पश्चात् सह शिष्यैः सहसा स्वशाक्तभाष्यम् ।
परिहृत्य जनापवादमीत्या यमिनः शिष्य इवान्ववर्ततैषः ॥१६०

निजशिष्यपदं गतानुदीच्यानिति कृत्वाऽथ विदेहकौशलाद्यैः ।
विहितापचितिस्तथाऽन्वङ्गेष्वयमास्तीर्य यशो जगाम गौडान् ॥ १६१