सामग्री पर जाएँ

पृष्ठम्:शङ्करदिग्विजयः.djvu/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
160
[पञ्चदशः
श्रीमच्छङ्करदिग्विजये

अथ भास्करमस्करिमवीरौ बहुधाक्षेपसमर्थनप्रवीणौ ।
बहुभिर्वचनैरुदारहत्तैर्व्यदधातां विजयैषिणौ विवादम् ॥९०

अनयोरतिचित्रशब्दशय्यां दधतोदुर्नयभेद शक्तयुक्त्योः ।
पटुवादमृधेऽन्तरं तटस्थाः श्रुतवन्तोऽपि न किञ्चनान्वविन्दन् ॥९१

अथ तस्य यतिः समीक्ष्य दाक्ष्पं निजपक्षाब्जशरज्जडा ब्जभूतम् ।
बहुधाऽऽक्षिपदस्य पक्षमार्यो विबुधानां पुरतोऽप्रभातकक्ष्यम् ॥ ९२

अथ भास्कर वित्स्वपक्षगुप्त्यै विधुतो वाग्मिवरः मगल्भयुक्त्या ।
श्रुतिशीर्षवचः प्रकाश्यमेवं कविरद्वैतमपाकरिष्णुरूचे ॥९३

प्रशमिंस्त्वदुदीरितं न युक्तं प्रकृतिजींवपरात्मभेदिकेति ।
न भिनत्ति हि जीवगेशगा दोभयभावस्य तदुत्तरोद्भवत्वात् ॥९४

मुनिरेवमिहोत्तरं बभाषे मुकुरो वा प्रतिबिम्वविम्बभेदी ।
कथमीरय वक्तूमात्र गश्वेच्चि तिमात्राश्रि दियं तथेति तुल्यम् ॥९५

चितिमात्रगमकृत्युपधेर्जहतो बिम्बपरात्मपक्षपातम् ।
प्रतिविम्वितजीवपक्षपातो मुकुरस्येव विरुध्यते न जातु ॥९६

अविका रिनिरस्त सद्बोधकरसात्माश्रयता न युज्यतेऽस्याः ।
अत एव विशिष्ट संश्रितत्वं प्रकृतेः स्यादिति नापि शङ्कनीयम् ॥ ९७

न हि मानकथा विशिष्टगत्वे भवदापादित ईक्षते तथा हि ।
अहमज्ञ इति प्रतीतिरेषा न हि मानत्वमिहाश्ते तथा चेत् ॥९८

अनुभव्यहमित्यपि प्रतीतेरनुभूतेश्च विशिष्ट निष्ठता स्यात् ।
अजडानुभवस्य नो जडान्तःकरणस्थत्वमितीष्टता न तस्याः ॥९९

ननु दाहकता यथाग्नियोगादधिकूटं व्यपदिश्यते तथैव ।
अनुभूतिमदात्मयोगतोऽन्तःकरणे सा व्यपदिश्यतेऽनुभूतिः ॥ १००

इति चेन्मैवमिहापि तस्य मायाश्रयचिन्मात्रयुते तथोपचार: ।
न पुनस्तदुपाधियोगतोऽन्तःकरणस्येति समाऽन्यथागतिर्हि ॥ १०१