त्रस्तमर्त्यगणमस्तमिताश हस्तिहस्तपृथुलोदकधाराः ।
मुञ्चति स्म समुदञ्चित विद्युत्पञ्चरात्र महशत्रुरजत्रम् ॥१३५
तीरभूरुहततीरपकर्षन्नग्रहारनिकरैः सह पूरः ।
आययावधिकघोषमनल्पः कल्पवार्धिलहरीव तटिन्याः ॥१३६
घोषवारिझरभीरुनराणां घोषमेष कलुषं स निशम्य ।
देशिकं ध्रुवसमाधिविधानं वीक्ष्य च क्षणमभूद विवक्षुः ॥१३७
सोऽभिमन्त्र्य करकं त्वरमाणस्तत्मवाहपुरतः प्रणिधाय ।
कृत्स्नमत्र समवेशयदम्भ: कुम्भसंभव इव स्वकरेऽब्धम् ॥१३८
तं निशम्य निखिलैरपि लोकैरुस्थितोऽस्य गुरुरुक्तमुदन्तम् ।
योगसिद्धिमचिरादयमापेत्यभ्यपद्यततरां परितोषम् ॥१३९
छात्र मुख्यमसुमाह कियद्भिवसरैर्गतघने गगने सः ।
पश्य सौम्य शरदा त्रिमलं खं विद्ययेव विशदं परतत्वम् ॥१४०
वारिदा यतिवराच सुपायोधारया सदुपदेशगिरा च
ओषधीरनुचरांच कृतार्थीकृत्य सम्मति हि यान्ति यथेच्छम् ॥ १४१
शीतदीधितिरसौ जलमुग्भिर्मुक्तपद्धतिरतिस्फुटकान्तिः ।
भाति तत्वविदुषामिव बोधो मायिकावरणनिर्गमशुभ्रः ॥१४२
वारिवाहनिबहे प्रतियाते भान्ति भानि शुचिभानि शुभानि ।
मत्सरादिविगमे सति मैत्रीपूर्वका इत्र गुणा: परिशुद्धाः ॥१४३
मत्स्य कच्छपमयी घृतचा गर्भवर्तिभुवना नलिनाढ्या ।
श्रीयुताऽद्य तटिनी परहंसै: सेव्यते मधुरिपोरिव मूर्तिः ॥१४४
नीरदा: सुचिरसंभृतमेते जीवनं द्विजगणाय वितीर्य ।
त्यक्तवियुदबला: परिशुद्धाः मत्रजन्ति घनवीथिगृहेभ्यः ॥१४५
चन्द्रिकाभसितचर्चितगात्रश्चन्द्रमण्डलकमण्डलुशोभी ।
बन्धुजीवकुसुमोत्करशाटी संवृतो यतिरिवायमनेहाः ॥१४६
- “ मैत्री करुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भाव-
नातश्चित्तप्रसादनम्” इति पातञ्जलयोगसुत्रम् ॥