सामग्री पर जाएँ

बोधिचर्यावतारः (पञ्जिकाव्याख्यासहितः)/प्रथमः परिच्छेदः

विकिस्रोतः तः
बोधिचर्यावतारः (पञ्जिकाव्याख्यासहितः)
प्रथमः परिच्छेदः
प्रज्ञाकरमतिः
द्वितीयः परिच्छेदः →

शान्तिदेवविरचितः बोधिचर्यावतारः ।
प्रज्ञाकरमतिविरचितया पञ्जिकाख्यव्याख्यया संवलितः ।

॥ ओं नमो बुद्धाय ।

१. बोधिचित्तानुशंसो नाम प्रथमः परिच्छेदः ।

सुगतान् ससुतान् सधर्मकायान् प्रणिपत्यादरतोऽखिलांश्च बन्द्यान् ।
सुगतात्मजसंवरावतारं कथयिष्यामि यथागमं समासात् ॥ ब्च_१.१ ॥

............ अखिलांश्च बन्द्यानिति कल्याणमित्रप्रभृतीनाम् । सुगतात्मजसंवरावतारमिति अभिधेयकथनम् । कथयिष्यामीति प्रयोजनाभिधानम् । संबन्धप्रतिपादनपदं तु न विद्यते, सामर्थ्यादेव तु स प्रतिपत्तव्यः । यथागममिति स्वातन्त्र्यपरिहारपदम् । समासादिति पुनरुक्ततापरिहारवचनम् । इति समुदायार्थः । अवयवार्थस्तु उच्यते । सुगतानित्यत्र गतशब्देन सर्वपृथग्जनेभ्यो भगवतां व्यवच्छेदं दर्शयति, तेषां संसारान्तर्गतत्वात्, भगवतां तु संसारविनिर्गतत्वात् । सुशब्दस्तु प्रशस्ताद्यर्थत्रयवृत्तिविशिष्टं सुग.......... । तेनायमर्थः- प्रशस्तं यथा भवति एवं मध्यमप्रतिपदा क्लेशाद्यावरणप्रहाणं गताः सुगताः । अनेन प्रहाणसंपत्तिरुक्ता । यदि वा । प्रशस्तं सर्वधर्मनिःस्वभावतातत्त्वं गता अधिगताः सुगताः । अनेन अधिगमसंपदुपदर्शिता । य[दि वा]..............तीर्थिकशास्तृभ्यो भगवतां विशेषश्चोपदर्शितो भवति । तेषामात्मादिभावाभिनिवेशवशात्प्रशस्तगमनाभावात् । आत्मादीनां च प्रमाणबाधितत्वात् । संसाराप्रतिपक्षत्वाच्च अप्रशस्तं गमनम् । अपुनरावृत्त्या वा गताः, पुनर्जन्मनो रागादिना ......... हंकारशुद्धया अहंकारबीजस्य अविद्यायाः सर्वथा प्रहाणात्सुगताः । अनेन स्त्रोतआपन्नसकृदागामिबोधिसत्त्वेभ्योऽपि भगवतां विशेषो दर्शितः । तेषां प्रशस्तगमनेऽपि सर्वधात्वप्रहाणात्पुनरावृत्तिसंभवात् । निःशेषं वा ..........सर्ववासनाया अपि कायबाग्बुद्धिवैगुण्यलक्षणायाः स्वयमधिगतमार्गोक्तावपाटवस्य वा सर्वथा प्रहाणात्सुगताः । एतावता संपूर्णगामित्वं भगवतां प्रतिपादितम् । अनेनापि अनागामिश्रावकप्रत्येकबुद्धेभ्यो भगवतामसाधारणगुणत्वमावेदितम् । तेषां..........कायवाग्बुद्धिवैगुण्यस्य स्वाधिगतमार्गोक्तयपाटवस्य
च संभवात् । एवं च बुद्धत्वमशेषगुणसरसमसाधारणमपरयोगिभिः सुगतशब्देन ख्यापितम् । तानेवंभूतान् सुगतानादरतः परमप्रसादेन प्रणिपत्येति (ब्च्प्२) नमस्कृत्य सुगतात्मजसंवरावतारं कथयिष्यामिति संबन्धः । किंभूतान्? ससुतानिति । सुताश्च मुनीनामिह लब्धप्रमुदितादिभूमयो बोधिसत्त्वा एव गृह्यन्ते । तेषामेव अत्र अधिकृतत्वात् । तैः सह । अनेन विशेषणेन आर्यसंघस्य नमस्कारोऽन्तर्भावितः । अपरं विशेषणमाहसधर्मकायानिति । सर्वाप [द्विमु]क्तो भगवतां स्वाभाविको धर्मकायः । स एव च अधिगमस्वभावो धर्मः । समूहार्थो वा कायशब्दः जनकायो बलकाय इति यथा । तेन प्रवचनस्यापि ग्रहणम् । तेन सह । अनेनापि धर्मस्य नमस्कारोऽन्तर्भावितः इति । रत्नत्रयनमस्कारोऽयमित्यु[क्तं भवति] ॥

ननु बुद्धाद्धर्मो धर्मतश्च आर्यसंघ इति क्रमः । तत्किमिति बुद्धानन्तरमार्यसंघः, तदनु धर्म इति व्यतिक्रमनिर्देशः? सत्यम् । इह श्लोकबन्धानुरोधाद्व्यतिक्रमनिर्देशो वेदितव्यः । योजनात्तु सुगतान् सधर्मकायान् ससुतान् प्रणिपत्य, इति अनुक्रमेणैव । न कश्चिदत्र दोषः । अथवा । बोधिसत्त्वानामपि अधिगतधर्मत्वादानुरूप्येण धर्मकायो विद्यत एव । तेषामपि सह धर्मकायेन नमस्करणं प्रतिपादनीयम् । तेऽपि हि समधिगतधर्मतया सुगतत्वनियताः सुगतप्रायाः । इति धर्मात्पूर्वं निर्देशः । इति न किंचिदयुक्तम् । किमेतानेव? नेत्याह- अखिलांश्च बन्द्यानिति । अपरानपि समस्तान् वन्दनीयानाचार्योपाध्यायप्रभृतीनपि । आदरतः प्रणिपत्येति । इति पूर्वार्धेन सुगतादीनां नमस्कृतिमभिधाय अपरार्धेन अभिधेयादीनि प्रतिपादयन्नाह- सुगतात्मजेत्यादि । आत्मनो जाताः आत्मजाः । सुगतानामात्मजाः जिनपुत्राः, बोधिसत्त्वा इत्यर्थः । तेषां संवरावतारम् । संवरणं संव्रियते वा अनेनेति संवरः, बोधिचित्तग्रहणपूर्वकं बोधिसत्त्वशिक्षासमादानम् । तच्च यथावसरं वक्ष्यामः । तस्य अवतरणम् । अवतीर्यते तस्मिन् वा अनेनेत्यवतारो मार्गः, येन बोधिसत्त्वपदप्राप्तौ सुगतत्वमवाप्यते । तं कथयिष्यामि प्रतिपादयिष्यामि । अनेन ग्रन्थेनेत्यर्थः । एवमनेन प्रतिपाद्यमानत्वात्संवरावतारः अभिधेयमस्य, अयमभिधानं संवरावतारस्य, इति अभिधानाभिधेयलक्षणः संबन्धोऽप्यर्थात्कथितः । तत्कथनं च अभिधानप्रयोजनम् । परमार्थतस्तु अभिधेयस्वरूपव्युत्पत्तिरेव तत्प्रयोजनम् । अभिधेयस्य पुनः श्रुतमय्यादिप्रज्ञोत्पादनक्रमेण सर्वावरणविगमाद्बुद्धत्वमेव प्रयोजनमिति प्रयोजननिष्ठा । इदं च सुगतात्मजसंवरावतारशब्दे एव अन्तर्भावितम् । तदनन्तरमेवोक्तेः
। यदनुशंसकथनेन च सूचयिष्यति ।

अशुचिप्रतिमामिमां गृहीत्वा जिनरत्नप्रतिमां करोत्यनर्धाम् ।
[बोधि १.१०]

इति संबन्धाभिधेयप्रयोजनानि प्रवृत्त्यङ्गतया प्रतिपादितानि । अन्यथा अनभिधेयादिशङ्कया प्रेक्षावतामत्र प्रवृत्तिर्न स्यात् । ननु त्वया स्वातन्त्रयेण कथितं कथनं कथं ग्रहीष्यन्तीत्याह- यथागममिति । आगमानतिक्रमेण । यथैव प्रवचने भगवद्भिः प्रतिपादितः, (ब्च्प्३) तथा मयापि तदर्थानतिवृत्त्या प्रतिपादयितव्यः । अनेन आगमात्स्वातन्त्र्यं परिहृतं भवति । उत्सूत्रमिदं न भवतीत्यर्थः । प्रवचनार्थावगाहनमपि च अवक्रतया अनेन आत्मनो दर्शितम् । इदमपि प्रवृत्त्यङ्गमेव । ननु यदि यथागमं कथयितव्यः, तर्हि आगमे एव तदभिलाषिणः प्रवर्तिष्यन्ते, तत्किमनेनेत्याह- समासादिति । संक्षेपात् । यदि नाम आगमेऽपि कथितः, तथापि तत्र अतिविस्तरेण नानासूत्रान्तेषु प्रतिपादनात् । अहं तु पिण्डीकृत्य संक्षेपेण कथयिष्यामीति विशेषः । अनेन पुनरुक्तमिदं भवतीति परिहृतम् । अयमपि च अप्रवृत्त्यङ्गतापरिहारः । तस्मात्प्रवृत्त्यङ्गत्त्वादभिधेयादिकथनमसंगतं न भवति- तर्हि प्रणामकरणमपार्थकम् । तदपि श्रेयोलाभाद्यर्थमभिधीयमानं कथमपार्थकम्? अयमस्याभिप्रायःसुगतादिप्रणामसमुद्भूतपुण्यसंभारसमाक्रान्तचित्तसंतानस्य प्रतनुतरपुराकृतपापवृत्तेरूपशान्तविघ्नस्य आरब्धार्थपरिसमाप्तिरुपजायते । समस्तसाधुजनगतमार्गानुगमनमपि च अनेन आत्मनः प्रकाशितं भवेत् । इष्टदेवतादिनमस्कृतिश्रवणादास्तिकत्वसंभावनया श्रोतृणामात्मग्रन्थे च गौरवमापादितं स्यात् । अत्र च सुगतशब्देन उद्भावितभगवन्दुणमाहात्म्यश्रवणात्तदभिलाषिणः तदुपार्जनप्रवणमानसाः सुगतात्मजसंवरावतारपरिज्ञानाय यत्नवन्तः अस्मिन् प्रवर्तन्ते । इदमभिमतदेवतादिप्रणामफलम् । एतेन इदमपि- येन यदभिमतमभिप्रेतं कर्तुम्, स तदेव करोतु नान्यत् । अन्यकरणे अप्रस्तुताभिधानमतिप्रसङ्गश्च स्यात् । तदयमपि संवरावतारकथने
कृताभिप्रायः किमप्रस्तुतमिष्टदेवतादिप्रणामं करोति? प्रागुक्तदोषद्वयप्रसङ्गादिति यदुच्यते, तदपि निराकृतं भवति, तदुपयोगस्य वर्णितत्वात्नाप्रस्तुताभिधानम् । यत्प्रकृतोपयोगि तद्वक्तव्यं नान्यत्, इत्यतिप्रसङ्गो नास्तीति सर्वं सुस्थम् ॥

ननु आगमानतिरिक्तं संक्षेपेणाभिधीयमानमपि कथमर्थविशेषाद्यभावाद्विशेषेण प्रवृत्त्यङ्गतया कस्यचिदुपादेयं स्यात्? तस्मादागमादधिकमपि किंचिदत्र वक्तव्यमित्याशङ्कयाह-

न हि किंचिदपूर्वमत्र वाच्यं न च संग्रथनकौशलं ममास्ति ।
अत एव न मे परार्थचिन्ता स्वमनो वासयितुं कृतं मयेदम् ॥ ब्च_१.२ ॥

नैव किंचिदपूर्वमपरमागमादतिरिक्तमस्मिन् वक्तव्यमस्ति मम । यस्मादर्थे वा हिशब्दः । तर्हि तदधिकप्रमेयानभिधानेऽपि पदार्थरचनाविशेषो भविष्यति । तस्मादपि विशेषेण प्रवृत्तिः स्यादिति । अत्राह- न चेति । नापि संग्रथनमर्थपदविन्यासविशेषः, तत्र कौशलं नैपुण्यं ममास्ति । अवधारणे वा चकारः । यद्येवम्, कथमस्य परार्थोपयोगित्वमिति । (ब्च्प्४) आह- अत एवेति । परप्रसञ्जितमेव अभ्युपगच्छति । यस्मादपूर्वं वक्तुं मम शक्तिर्नास्ति । नापि संग्रथनकौशलमस्ति । न च परार्थचिन्तापि । परार्थोपयुक्तमिदं भवतीति विकल्पोऽपि मे नास्ति, तत्र श्क्तिवैगुण्यात् । किमर्थं करणाय यत्न इति चेदाह- खमन इति । आत्मचित्तं सुगतात्मजसंवरावताराभ्यासरसेन अधिकाधिकं वासयितुं कृतं प्रणितं मया प्रकरणमिदम् । संवरावतारकथनं वा । अतीतकालनिर्देशः अन्तस्तत्त्वनिष्पन्नं मनसि निधायेति ॥

ननु नात्मार्थं ग्रन्थप्रणयनं दृष्टम्, न च स्वयंकृतेनैव आत्मनि विशेषाधानम्, तावतः संस्कारविशेषस्य प्रागेवात्मनि विद्यमानत्वादिति । अत्राह-

मम तावदनेन याति वृद्धिं कुशलं भावयितुं प्रसादवेगः ।
अथ मत्समधातुरेव पश्येदपरोऽप्येनमतोऽपि सार्थकोऽयम् ॥ ब्च_१.३ ॥

अनेन ग्रन्थेन वा । कुशलं शुभमनस्कारं भावयितुमाराधयितुम् । वृद्धिं याति प्रसादवेगः । उत्तरोत्तरवर्धमानस्य प्रसन्नचित्तसंतानस्य प्रवाहवाहितया प्रवृत्तिः । अनेन स्वार्थकारित्वमनुभवसिद्धमस्य निदर्शयति । परार्थकारित्वमपि लेशतः संभवति इति दर्शयन्नाह- अथ मत्समेत्यादि । अथेति प्रकारान्तरोपन्यासे । स्वार्थकारित्वमस्य तावदनुभवसिद्धम् । यदि पुनर्मम समानप्रकृतिरेव कश्चिदन्यः पश्येदीक्षेत, एनं ग्रन्थमर्थं वा, अतोऽपि परार्थोपयुक्तत्वादपि सार्थकः सप्रयोजनोऽयम् । परार्थोपयोगस्यापि कथंचित्संभवात् । अनेन श्लोकेन निरभिमानतामात्मनो दर्शयति ॥

इदानीं संवरावतारकथां ग्राहयितुमुपोद्धातं रचयन्नाह-

क्षणसंपदियं सुदुर्लभा प्रतिलब्धा पुरुषार्थसाधनी ।
यदि नात्र विचिन्त्यते हितं पुनरप्येष समागमः कुतः ॥ ब्च_१.४ ॥

अष्टाक्षणविनिर्मुक्तस्य क्षणस्य संपत्तिः समग्रता । इयं सुदुर्लभा सुष्ठु दुःखेन लभ्यत इति कथंचित्प्राप्या ।

महार्णवयुगच्छिद्रकुर्मग्रीवार्पणोपमा ।

प्रतिलब्धा प्राप्ता, सा च पुरुषार्थसाधनी । पुरुषस्य अर्थः अभ्युदयनिःश्रेयसलक्षणः, तस्य साधनी निष्पादनी । तदङ्गत्वात्तत्र समर्थेति यावत् । यदि च एवंभूतायामपि अस्यां (ब्च्प्५) न हितं विचिन्त्यते, स्वपरसुखहेतुः स्वर्गापवर्गसाधनं नोपादीयते, तदा पुनरपि भूयोऽपि एष तथागतोत्पादः श्रद्धाक्शणविमुक्तो मनुष्यभावः इत्ययं समागमः समावेशो मिलनमिति यावत् । कुतः कथम्? न कथंचिद्भविष्यति सुदुर्लभत्वात् । अक्षणावस्थायां धर्मप्रविचयस्य कर्तुमशक्यत्वात्, इत्यभिप्रायः । यथोक्तमार्यगण्डव्यूहसूत्रे आर्यजयोष्मायतनविमोक्षे-

दुर्लभा अष्टाक्षणविनिवृत्तिः । दुर्लभो मनुष्यभावप्रतिलम्भः । दुर्लभा क्षणसंपद्विशुद्धिः । दुर्लभो बुद्धोत्पादः । दुर्लभा अविकलेन्द्रियता । दुर्लभो बुद्धधर्मश्रवणः । दुर्लभं सत्पुरुषसमवधानम् । दुर्लभानि भूतकल्याणमित्राणि । दुर्लभो भूतनयानुशासन्युपसंहारः । दुर्लभं सम्यग्जीवितं मनुष्यलोके इति ॥ [गण्डव्यूहसूत्र ११६]

इदमेवाभिसंधायोक्तम्-

मानुष्यं दुर्लभं लोके बुद्धोत्पादोऽतिदुर्लभः ।
ततोऽपि श्रद्धाप्रव्रज्याप्रतिपत्तिः सुदुर्लभा ॥
बोधौ चित्तं दृढं सर्वसत्त्वानामनुकम्पया ।
सर्वदुःखप्रशान्त्यर्थं दुर्लभानां परंपरा ॥
इति ॥

अक्षणाः पुनरिमे-

नरकप्रेततिर्यञ्चो म्लेच्छा दीर्घायुषोऽमराः ।
मिथ्यादृग्बुद्धकान्तारौ मूकताष्टाविहाक्षणाः ॥
इति ॥

तस्मादिदानीमेव उद्योगः कर्तव्य इति ॥

सांप्रतं बोधिचित्तग्रहणाय तत्राभिलाषमुत्पादयितुमनुशंसामवतारयन्नाह-

रात्रौ यथा मेघघनान्धकारे विद्युत्क्षणं दर्शयति प्रकाशम् ।
बुद्धानुभावेन तथा कदाचिल्लोकस्य पुण्येषु मतिः क्षणं स्यात् ॥ ब्च_१.५ ॥

निशायां यथा जलदागमसमये मेघैर्बहुले तमसि सति सौदामनी क्षणलवमात्रमालोकयति किंचिद्वस्तुजातं प्रकाशयति । सैवोपमा अत्रापि इत्याह- बुद्धानुभावेनेत्यादि । बुद्धा एव हि भगवन्तो हितसुखोपसंहाराय सदा भव्याभव्यतया सर्वसत्त्वसंतानमवलोकयन्तस्तिष्ठन्ति । यदा यत्र येनोपायेन यस्मै यं भव्यं पश्यन्ति तदा तत्र तेनोपायेन तस्मै तमधितिष्ठन्ति । अभव्यावस्थायामुपेक्ष्य विहरन्ति । इति तथागताधिष्ठानेन कथंचिद्दुर्लभोत्पत्तिकत्वात् । लोकस्य जनस्य पुण्येषु हितसुखहेतुषु कुशलेषु कर्मसु बुद्धिर्मुहूर्तमेकं भवेत् । तत्र तस्या अस्थिरत्वात् । अनादिसंसारे लोकेन अकुशलपक्षस्यैव अभ्यस्तत्वात् ॥

(ब्च्प्६) यदि नाम एवम्, ततः किमित्याह-

तस्माच्छुभं दुर्बलमेव नित्यं बलं तु पापस्य महत्सुघोरम् ।
तज्जीयतेऽन्येन शुभेन केन संबोधिचित्तं यदि नाम न स्यात् ॥ ब्च_१.६ ॥

यत एवम्, तस्माच्छुभं पुण्यं दुर्बलं सामर्थ्यविकलमेव, विद्युदुन्मेषप्रायत्वातति कृशम् । नित्यं सर्वकालम् । कस्य तर्हि अतिशयवद्बलमस्तीत्याह- बलं त्विति । सामर्थ्यं पुनरशुभस्य महत्, मेघघनान्धकारसदृशत्त्वात्तस्य । सुघोरमतिभयंकरं नरकादिदुःखदायकत्वात्, सुदुर्जयत्वाच्च । भवतु नाम महत्सामर्थ्यमस्य, तथापि तदपरेण बलवता पुण्येन जेष्यते, तथा च न काचित्क्षतिरिति, आह- तदित्यादि । तत्तादृशं महासामर्थ्यं जीयते अभिभूयते । अन्येन इतरेण । केन? न केनापीत्यर्थः । कुतः पुनरेवमुच्यते? संबोधीत्यादि । सम्यक्संबोधौ बुद्धत्वे यच्चित्तं सर्वसत्त्वसमुद्धरणाभिप्रायेण तत्प्राप्त्यर्थमध्याशयेन मनसिकारः । तद्यदि नाम न भवेत्, महासामर्थ्यं हि तदपरेण महीयसा पराजीयते सूर्येणेव निशान्धकारः । न च संबोधिचित्तात्प्रतिपक्षो महीयानपरः संभवति । तस्मात्तत्प्रतिघाताय संबोधिचित्तमेव उपादेयं नान्यदित्यभिप्रायः ॥

इतोऽपि संबोधिचित्तमुपादेयमित्याह-

कल्पाननल्पान् प्रविचिन्तयद्भिर्दृष्टं मुनीन्द्रैर्हितमेतदेव ।
यतः सुखेनैव सुखं प्रवृद्धमुत्प्लावयत्यप्रमिताञ्जनौघान् ॥ ब्च_१.७ ॥

एकोऽन्तरकल्पः कल्पः । विंशतिरन्तरकल्पाः कल्पः । अशीतिरन्तरकल्पाः कल्पः । स च महाकल्प इत्यभिधीयते । तदिह महाकल्पस्यैव ग्रहणम् । अनल्पान् बहून् प्रथमासंख्येयान्तर्गतान् । प्रविचिन्तयद्भिः तात्पर्येण परिभावयद्भिः । दृष्टमधिगतम् । मुनीन्द्रैः बुद्धैर्भगवद्भिर्बोधिसत्त्वावस्थायाम् । हितं सर्वार्थसाधनयोग्यम्, तद्बीजभूतत्वात् । एतदेव संबोधिचित्तमेव । कथं पुनरिदमेव हितमित्याह- यत इत्यादि । यस्मात्सुखं प्रवृद्धं प्रकर्षगतं बुद्धत्वलक्षणम् । अप्रमितानप्रमेयान् । जनौघान् सत्त्वसमूहान् । उत्प्लावयति उत्तारयति संसारदुःखमहार्णवात् । तस्मादिदमेव हितम् ॥

अथवा । यस्मात्सुखं देवमनुष्यसंपत्तिलक्षणम् । प्रवृद्धं वृद्धिं गतम् । अर्थात्संबोधिचित्तादेव । उत्प्लावयति अतिशयेन संतर्पयति । सौकर्यादधिकतरं यद्भवति तदुत्प्लावनमुच्यते । यथा दध्ना वयमुत्प्लाविता इति सौकर्यादधिकतरं दधि भूतमित्यर्थः ॥

(ब्च्प्७) यदि वा । यतः संबोधिचित्तात्सुखं प्रवृद्धमिति योजनीयम् ॥

कथं प्रवृद्धमित्याह- सुखेनैवेति । न अकृच्छ्रेण । न शिरोलुञ्चनादिना महता कष्टेन । तथा हि बोधिचित्तसंवरादेव बोधिसत्त्वोऽमितपुण्यज्ञानसंभारात्प्रवर्धमानो देवमनुष्यसंपत्तीः सुखमधिगच्छन् सत्त्वानेव अधिकतरं ताभिः संतर्पयतीति । यद्वक्ष्यति-

एवं सुखात्सुखं गच्छन् को विषीदेत्सचेतनः ।
बोधिचित्तरथं प्राप्य सर्वखेदश्रमापहम् ॥
इति ॥ [बोधि. ७.३०]

ननु भगवतामपि मैत्रीबलादिजातकेषु [जातकमाला-८] महद्दुष्करं श्रूयते । तत्कथं सुखेनैव सुखं प्रवृद्धमिति? नैष दोषः । यतः उत्पाद्यमेव परहितसुखाधायकं दुःखं स्वपरयोः । कृपात्मभिः । सुखमेव तादृशं दुःखं परदुःखदुःखिनां धिमतामिति प्रतिपादयिष्यते ॥

अस्मादपि स्वपरहितहेतुत्वाद्बोधिचित्तं न परित्याज्यमेवेति दर्शयन्नाह-

भवदुःखशतानि तर्तुकामैरपि सत्त्वव्यसनानि हर्तुकामैः ।
बहुसौख्यशतानि भोक्तुकामैर्न विमोच्यं हि सदैव बोधिचित्तम् ॥ ब्च_१.८ ॥

संसारदुःखशतानि नरकादिगतिदुःखानामसातवेदितानां शतानि अपर्यन्तसमूहां स्तर्तुकामैः परित्यक्तुमिच्छद्भिः श्रावकप्रत्येकबुद्धगोत्रैः । न केवलमात्मीयानि, लोकानां जात्यादिदुःखान्यपि हर्तुकामैरपनेतुकामैर्बोधिसत्त्वगोत्रैः । न केवलं स्वपरदुःखानि हर्तुकामैः, अपि च, बहूनि सुखान्येव सौख्यानि तेषां शतानि देवमनुष्योपपत्तिलभ्यानि अनुभवितुकामैः संसारसुखाभिलाषुकैरपि । सदैव सर्वकालं न विमोच्यमपरित्याज्यं बोधिचित्तम् । स्वीकर्तव्यमित्यर्थः । अथवा संबोधिकाङ्क्षिणामेव विशेषणानि ॥

अस्मादपि गुणविशेषाद्बोधिचित्तं ग्राह्यमित्याह-

भवचारकबन्धनो वराकः सुगतानां सुत उच्यते क्षणेन ।
सनरामरलोकवन्दनीयो भवति स्मोदित एव बोधिचित्ते ॥ ब्च_१.९ ॥

संसार एव बन्धनागारम्, तत्र बन्धनं बन्धो रागादय एव यस्येति विग्रहः । तादृशो वराकस्तपस्वी सन् । उदिते एव बोधिचित्ते प्रथमतरं बोधिचित्तसंवरग्रहणसमये । सुगतानां सुत उच्यते, बुद्धपुत्र इत्यभिधीयते । क्षणेन तत्क्षणमेव । न केवलमेवमित्याह- (ब्च्प्८) सनरामरेत्यादि । सह नरामरैः मनुष्यदेवैर्वर्तन्ते ये असुरादयो लोकाः, तेसामपि वन्दनीयो नमस्करणीयः स्तवनीयश्च भवति स्म । स्मशब्देन अतीतकालाभिद्योतनाद्बोधिचित्तोदयसमये एव भूतः ॥

अस्मादपि गुणानुशंसदर्शनाद्बोधिचित्तग्रहणे यत्नः करणीय इत्याह-

अशुचिप्रतिमामिमां गृहीत्वा जिनरत्नप्रतिमां करोत्यनर्घाम् ।
रसजातमतीव वेधनीयं सुदृढं गृह्णत बोधिचित्तसंज्ञम् ॥ ब्च_१.१० ॥

अमेध्यप्रतिमामिमां मनुष्यादिकलेवरस्वभावां तद्धातुकां तत्स्वभावाम् । तेन संवर्धितामित्यर्थः । तां गृहीत्वा आदाय । जिन एव रत्नम्, दुर्लभप्रतिलम्भादिगुणयोगात् । तस्य प्रतिमां करोति निष्पादयति बोधिचित्तम् । तथागतविग्रहं निर्वर्तयतीत्यर्थः । किं भूताम्? अनर्घाम् । न विद्यते अर्घो मूल्यं यस्याः । सर्वत्रैधातुकातिशायिगुणत्वाद्गुणपर्यन्तापरिज्ञानाच्च । तथोक्तां ताम् । अत एव रसजातं रसप्रकारम् । अत्युच्चवेधकारित्वादतीव वेधनीयम् । कर्तरि अनीयः करणे वा । तत्तादृशम् । बोधिचित्तं संज्ञा अस्य रसजातस्य । बोधिचित्तापरव्यपदेशम् । सुदृढं गृह्णत यथा गृहीतं पुनर्न चलति गृह्णीतेति प्राप्ते गृह्णतेति यथागमपाठात् । तस्माज्जिनरत्नमात्मानं कर्तुकामैर्बोधिचित्तमहारसः सुदृढं ग्रहीतव्यः । उक्तं च आर्यमैत्रेयविमोक्षे [गण्डव्यूहसूत्र ५०२]

तद्यथा कुलपुत्र अस्ति हाटकप्रभासं नाम रसजातम् । तस्यैकं पलं लोहपलसहस्रं सुवर्णीकरोति । न च तद्रसपलं शक्यते तेन लोहपलसहस्रेण पर्यादातुं लोहीकर्तुं वा । एवमेव एकः सर्वज्ञताचित्तोत्पादरसधातुः कुशलमूलपरिणामनाज्ञानसंगृहीतः सर्वकर्मक्लेशावरणलोहानि पर्यादाय सर्वधर्मान् सर्वज्ञतासुवर्णान् करोति । न च सर्वज्ञताचित्तोत्पादरसधातुः शक्यते सर्वकर्मक्लेशावरणलोहादिभिः पर्यादातुं तत्कर्तुं वेति ॥

भवगतिषु विभूतिकामैरपि नात्र संशयो विपर्यासो वा कर्तव्यः इत्युपदर्शयन्नाह-

सुपरीक्षितमप्रमेयधीभिर्बहुमूल्यं जगदेकसार्थवाहैः ।
गतिपत्तनविप्रवासशीलाः सुदृढं गृह्णत बोधिचित्तरत्नम् ॥ ब्च_१.११ ॥

गतय एव पत्तनानि पण्यद्रव्यक्रयविक्रयनगराणि इह पत्तनानि । तद्वत्शुभाशुभकर्मपण्यद्रव्यक्रयविक्रयस्थानानि गतिपत्तनानि । तेषु विप्रवासो विप्रवसनमेव शीलं स्वभावो येषां ते तथोक्ताः । तेषां संबोधनम् । हे गतिपत्तनविप्रवासशीलाः, सुदृढं गृह्णत बोधिचित्तरत्नम् । बोधिचित्तमेव रत्नं रत्नमिव । यथा चिन्तामणिमहारत्नं सर्वदारिद्यदुर्गतिप्रशमनहेतुः, (ब्च्प्९) तथा इदमपि बोधिचित्तरत्नम् । अयमभिप्रायः- वणिज एव सुखसंपत्तिलाभार्थिनो यूयम् । अतः इदमेव महारत्नं महतादरेण गृह्णत । कुतः? बहुमूल्यमिति हेतुपदमेतत् । यस्मादनर्घमिदं सर्वातिशायि लौकिकलोकोत्तरसंपत्तिनिदानभूतत्वात्, तस्मादिदमेव ग्राह्यमित्यर्थः । कथमिदं ज्ञायत इति चेदाह- सुपरीक्षितमिति । सुष्ठु निरूपितं सम्यङ्निर्णीतमित्यर्थः । कैरित्याह- अप्रमेयधीभिः । अप्रमेया प्रमातुमशक्या धीर्बुद्धिर्येषां तैः महाप्राज्ञैः बुद्धबोधिसत्त्वैः । एतावता परीक्षायां स्खलितमपि नास्ति इति सुपरीक्शितमुच्यते । पुनरपि किंभूतैः? जगदेकसार्थवाहैः । सार्थं वाहयन्तीत्यण् । जगतामेक एव सार्थवाहाः करुणावशवर्तिनो बुद्धा भगवन्तो बोधिसत्त्वाश्च, तैः । यथा खलु वणिजां हिताहितप्राप्तिपरिहारयोर्हितैषिणो ज्ञानवन्तश्च सार्थवाहा नेतारो भवन्ति, इति न तत्र विसंवादसंभावना, तथा अत्रापीत्यभिप्रायः । तस्मादिदमेव बोधिचित्तरत्नमनर्घं सुदृढं ग्राह्यमिति । एतच्च तत्रैवोक्तम्-

तद्यथा कुलपुत्र यावच्चन्द्रसूर्यौ मन्डलप्रभया अवभासेते । अत्रान्तरे ये केचिद्धन धान्यरत्नजातरूपरजतपुष्पधूपगन्धमाल्यविलेपनपरिभोगाः, ते सर्वे वशिराजमहामणिरत्नस्य मूल्यं न क्षमन्ते, एवमेव यावत्त्रिष्वपि अध्वसु सर्वज्ञज्ञानं धर्मधातुविषयमवभासयति । अत्रान्तरे यानि कानि चित्सर्वदेवमनुष्यसर्वसत्त्वसर्वश्रावकप्रत्येकबुद्धकुशलमूलानि सास्रवानास्रवाणि सर्वाणि तानि बोधिचित्तोत्पादवशिराजमहामणिरत्नस्य मूल्यं न क्षमन्ते । [गण्डव्यूहसूत्र-५००] इति ॥

इदमपरमसाधारणमतिशयवत्कल्पतरोरिव माहात्म्यमस्य उपदर्शयन्नाह-

कदलीव फलं विहाय याति क्षयमन्यत्कुशलं हि सर्वमेव ।
सततं फलति क्षयं न याति प्रसवत्येव तु बोधिचित्तवृक्षः ॥ ब्च_१.१२ ॥

कदली यथा पलमेकवारं दत्वा न पुनः फलति, तथा बोधिचित्तादन्यदपि कुशलं सर्वमेव किंचिदेव विपाके परिपक्वे न पुनः फलदानसमर्थं भवति । तावतैवास्य परिक्षयात्, विपाकस्य च अव्याकृततया पुनः फलानुबन्धाभावात् । बोधिचित्तस्य पुनरयं विशेषः इत्याह- सततमित्यादि । सर्वकालं फलति देवमनुष्योपपत्तिषु सुखसंपत्तिप्रदानात्क्षयं न याति तदन्यकुशलवत्, स्थिरस्वभावत्वात् । प्रतिक्षणमनेकप्रकारैः शुभमेघप्रवाहैरापूर्यमाणत्वाच्च प्रसवत्येव तु बोधिचित्तवृक्षः, अविच्छिन्नसुखसंपत्तिफलप्रसवनात्, उत्तरोत्तरमपरा परगुणविशेषजननाच्च । बोधिचित्तं वृक्श इव । उपमितं व्याघ्रादिभिः इति समासः । यस्मादेवम्, तस्मादनुपरतमतिशयवत्सर्वसुखसंपदः प्राप्तुकामैः प्रेक्षावद्भिरिदमेव ग्राह्यम् । कथितं चैतदार्याक्षयमतिनिर्देशे-

(ब्च्प्१०) तद्यथापि नाम भदन्त शारद्वतीपुत्र महासमुद्रपतितस्योदकबिन्दोर्नास्त्यन्तरा परिक्षयः पर्यादानं यावन्न कल्पपर्यन्तः इति, एवमेव बोधिपरिणामितस्य कुशलमूलस्य नास्त्यन्तरा परिक्षयः पर्यादानं यावन्न बोधिमण्डनिषदनम् ॥ इति ॥

न केवलं सर्वशुभसंचयकारणम्, अकुशलपक्षक्षयहेतुरपि बोधिचित्तमिति सार्धश्लोकेनाह-

कृत्वापि पापानि सुदारुणानि यदाश्रयादुत्तरति क्षणेन ।
शूराश्रयेणेव महाभयानि नाश्रीयते तत्कथमज्ञसत्त्वैः ॥ ब्च_१.१३ ॥

बोधिचित्तग्रहणात्पूर्वं कृत्वापि पापानि अकुशलकर्माणि नरकादिषु दुःसहदुःखदायकत्वात्सुदारुणानि अतिभयंकराणि महान्ति वा यस्य बोधिचित्तस्याश्रयादाश्रयणात्तदुत्पादनरक्षणवर्धनसेवनलक्षणातुत्तरति निस्तरति । तत्सामर्थ्याभिभवेन अतिक्रामतीत्यर्थः । क्षणेन एकस्मिन्नेव क्षणे महतः पुण्यराशेः समुपार्जनात् । तदुत्पादनमात्रेण । कथमिवोत्तरति? शूराश्रयेणेव महाभयानि बलवत्पुरुषाश्रयेण यथा महापराधं कृत्वापि कश्चिदुत्तरति तदपराधफलान्निर्भयो भवति, तथा प्रकृतेऽपि । तदेवंभूतं बोधिचित्तं कथं किमिति नाश्रीयते न सेव्यते? अज्ञसत्त्वैः प्रज्ञाविकलैर्मूढजनैरित्यर्थः । आश्रयणीयमेव तद्भवेदिति भावः । इदमपि तत्रैवोक्तम्-

तद्यथा कुलपुत्र शूरसंनिश्रितः पुरुषः सर्वशत्रुभ्यो न बिभेति, एवमेव बोधिचित्तोत्पादशूरसंनिश्रितो बोधिसत्त्वः सर्वदुश्चरितशत्रुभ्यो न बिभेतीति ॥

अपरमपि बोधिचित्तात्पापक्षयदृष्टान्तमाह-

युगान्तकालानलवन्महान्ति पापानि यन्निर्दहति क्षणेन ।

युगान्तकाले प्रलयसमये अनलो बह्निः सप्तसूर्योदयसमुद्भूतः यथा सर्वं कामाधातुं सप्रथमध्यानं निर्दहति, निःशेषं दहति यथा भस्मापि नावशिष्यते, तद्वत्पापानि । किंभूतानि? महान्ति सुमेरुप्रख्यानि महारौरवादिदुःखविपाकानि यद्बोधिचित्तं निर्दहति तद्विपाकोपघातान्निर्मूलयति । क्षणेन नचिरेण । नाश्रीयते तत्कथमज्ञसत्त्वैरिति संबन्धः कार्यः ॥ एतदपि तत्रैवोक्तम्- कल्पोद्दाहाग्निभूतं सर्वदुष्कृतनिर्दहनतया । पातालभूतं सर्वाकुशलधर्मपर्यादानकरणतया इति ॥

ननु कृतकर्माविप्रणाशवादी भगवान्, तत्कथमिदमभिधीयते? सत्यमुच्यते । बोधिचित्तप्रसूते प्रतिक्षणमाकाशधातुव्यापके महति पुण्यौघेऽन्तर्भूततया लवणपलोपमन्यायेन अप्रज्ञायमानत्वात्, बलवता प्रतिपक्षेण अभीभूतत्वाच्च, फलदानासमर्थं दग्धमेव तदित्यदोषः । यदि वा निरुपायाभिसंधिना तदुक्तम्- नाभुक्तं क्षीयते कर्मेति । इदं तु सर्वपापनिर्मूलने (ब्च्प्११) महानुपायः । तथा हि- यदा बोधिसत्त्वः सर्वसत्त्वानाकाशधातुव्यापिनः सर्वदुःखात्समुद्धृत्य सर्वसुखसंपन्नान् करिष्यामीत्यध्याशयेन विचिन्तयति । पूर्वकृतं च पापं विदूषणासमुदाचारादिभिः क्षपयति, तदा बोधिचित्तबलादेव तत्संताने पापस्य कः सद्भावः, येन चोद्यस्यावकाशः स्यादिति सर्वं निराकुलम् । एतावता यदुक्तम्- तज्जीयतेऽन्येन शुभेन केन इति, तदपि विस्पष्टीकृतम् । अन्ये पुनः- अनियतविपाकापेक्षया सर्वमेतदुच्यते, नियतविपाकस्य तु कर्मणः केनचित्प्रतिषेद्धुमशक्यत्वादित्याहुः ॥

इत्थमपि बोधिचित्तमुपादेयमित्याह-

यस्यानुशंसानमितानुवाच मैत्रेयनाथः सुधनाय धीमान् ॥ ब्च_१.१४ ॥

यस्य बोधिचित्तस्य अनुशंसान् स्वाभाविकान् गुणानमितानप्रमाणान्मैत्रेयनाथः भगवानजितः । किंभूतः? धीमान् बोधिसत्त्वः । उवाच उक्तवान् । सुधनाय सुधननाम्ने बोधिसत्त्वाय । तथा च आर्यगण्डव्यूहसूत्रे [वर्णितम्-

बोधिचित्तं हि कुलपुत्र बीजभूतं सर्वबुद्धधर्माणाम् । क्षेत्रभूतं सर्वजगच्छुक्लधर्मविरोहणतया । धरणिभूतं सर्वलोकप्रतिशरणतया । यावत्पितृभूतं सर्वबोधिसत्त्वारक्षणतया । पे......... । वैश्रवणभूतं सर्वदारिद्यसंछेदनतया । चिन्तामणिराजभूतं सर्वार्थसंसाधनतया । भद्रघटभूतं सर्वाभिप्रायपरिपूरणतया । शक्तिभूतं क्लेशशत्रुविजयाय ॥ इत्यादि विस्तरः ॥

नाश्रीयते तत्कथमज्ञसत्त्वैः इति अत्रापि योजनीयम् ॥

इदानीं बोधिचित्तस्य प्रभेदं दर्शयन्नाह-

तद्बोधिचित्तं द्विविधं विज्ञातव्यं समासतः ।
बोधिप्रणिधिचित्तं च बोधिप्रस्थानमेव च ॥ ब्च_१.१५ ॥

तत्समनन्तरप्रदर्शितानुशंसं बोधिचित्तं द्विविधं द्विप्रकारं विज्ञातव्यं वेदितव्यम् । गोत्रभूम्यादिगतानेकप्रकारसंभवेऽपि कथं द्विविधमित्याह- समासतः । अपरप्रकारसंभवेऽपि संक्षेपतः इदं द्विविधमुच्यते । द्विविधमपि कथम्? बोधिप्रणिधिचित्तमित्येकम्, बोधिप्रस्थानमिति द्वितीयम् । बोधौ प्रणिधिः, तदेव चित्तं तत्र वा चित्तम् । यच्चित्तं प्रणिधानादुत्पन्नं भवति दानादिप्रवृत्तिविकलं च, तत्प्रणिधिचित्तम् । तद्यथा- सर्वजगत्परित्राणाय बुद्धो भवेयमिति प्रथमतरं प्रार्थनाकारा चेतना । प्रस्थाने चित्तं प्रस्थानमेव वा चित्तम् । चित्तस्य तत्स्वभावत्वात् । पूर्वकमनस्कारपुरःसरमेव यतः प्रभृति संवरग्रहणपूर्वकं संभारेषु प्रवर्तते, तत्प्रस्थानचित्तम् । इति उक्तक्रमेण द्वैविध्यम् । इयानेव भेदः इति एवकारेण प्रतिपादयति । चकारद्वयं परस्परसमुच्चये । द्वयोरपि बोधिचित्तत्वं दर्शयति । तेन पूर्वकं बोधिचित्तं न भवतीति शङ्कां निरस्यति । शूरंगमसूत्रे आद्योत्पादितस्यापि बोधिचित्तस्य बुद्धत्वहेतुत्वाभिधानात् । तथा आर्यगण्डव्यूहे चोक्तम्-

(ब्च्प्१२) दुर्लभाः कुलपुत्र ते सत्त्वाः सत्त्वलोके ये अनुत्तरस्यां सम्यक्संबोधौ चित्तं प्रणिदधति । ततोऽपि दुर्लभतमास्ते सत्त्वाः ये अनुत्तरां सम्यक्संबोधिमनुप्रस्थिताः ॥ इति ॥

इदानीमुक्तमेव प्रभेदमुदाहरणेन व्यक्तीकुर्वन्नाह-

गन्तुकामस्य गन्तुश्च यथा भेदः प्रतीयते ।
तथा भेदोऽनयोर्ज्ञेयो याथासंख्येन पण्डितैः ॥ ब्च_१.१६ ॥

यथा कश्चित्पुरुषः अभिमतदेशप्राप्तये गन्तुकामः गमनाभिप्रायः, न तु पुनर्गच्छत्येव, अन्यः पुनस्तत्प्राप्तये प्रस्थितो गच्छत्येव । यद्वद्यथा । तयोर्भेदो विशेषः प्रतीयते अवगम्यते, तद्वत्तथा भेदो नानात्वमनयोर्बोधिप्रणिधिप्रस्थानचेतसोर्ज्ञेयः अवबोद्धव्यः पण्डितैर्विचक्षणैः । कथम्? याथासंख्येन । स्वार्थेऽप्यण् । प्राक्तनं प्रणिधिचित्तस्य निदर्शनं पश्चात्तनं प्रस्थानचेतसः इति संख्यार्थः ॥

तदेतत्प्रणिधिचित्तं प्रतिपत्तिविकलमपि संसारे महाफलं भगवता वर्णितमित्याह-

बोधिप्रणिधिचित्तस्य संसारेऽपि फलं महत् ।

यदि नाम तत्प्रतिपत्तिविकलम्, तथापि तस्य आस्तां तावद्बुद्धत्वम्, संसारेऽपि देवमनुष्योपपत्तिस्वभावं सुखसंपत्तिलक्षणं फलं महत्, अन्यस्मात्कुशलाद्बृहत् । सततं फलतीत्यादिविशेषणविशिष्टत्वात् । तथा चोक्तमार्यमैत्रेयविमोक्षे [=गण्डव्यूहसूत्र-५०८]-

तद्यथापि नाम कुलपुत्र भिन्नमपि वज्ररत्नं सर्वप्रतिविशिष्टं सुवर्णालंकारमभिभवति, वज्ररत्ननाम च न विजहाति, सर्वदारिद्यं च विनिवर्तयति, एवमेव कुलपुत्र प्रतिपत्तिभिन्नमपि सर्वज्ञताचित्तोत्पादवज्ररत्नं सर्वश्रावकप्रत्येकबुद्धगुणसुवर्णालंकारमभिभवति, बोधिचित्तनाम च न विजहाति, संसारदारिद्यं च विनिवर्तयतीति ॥

तस्माद्योऽपि पारमितासु सर्वेण सर्वं सर्वथा शिक्षितुमसमर्थः, तेनापि बोधिचित्तमुत्पादनीयम् । एवमुपायपरिग्रहेण महाफलत्वात् । यथोक्तमार्यापरराजाववादकसूत्रे-

यस्मात्त्वं महाराज बहुकृत्यो बहुकरणीयः, असहः सर्वेण सर्वं सर्वथा सर्वदा दानपारमितायां शिक्षितुम्, यावत्प्रज्ञापारमितायां शिक्षितुम् । तस्मात्तर्हि त्वं महाराज एवमेव संबोधिच्छन्दं श्रद्धां प्रार्थनां प्रणिधिं च, गच्छन्नपि तिष्ठन्नपि निषण्णोऽपि शयानोऽपि जाग्रदपि भुञ्जानोऽपि पिबन्नपि, सततममितमनुस्मर, मनसि कुरु, भावय । सर्वबुद्धबोधिसत्त्वप्रत्येकबुद्धार्यश्रावकपृथग्जनानामात्मनश्च अतीतानागतप्रत्युत्पन्नानि कुशलमूलानिपिण्डयित्वा तुलयित्वा अनुमोदयस्व अग्रया अनुमोदनया । अनुमोद्य च सर्वबुद्धबोधिसत्त्वप्रत्येकबुद्धार्यश्रावकाणां पूजाकर्माणि निर्यातय । निर्यात्य च सर्वसत्त्वसाधारणानि कुरु । ततः सर्वसत्त्वानां यावत्सर्वज्ञताप्रतिलम्भाय सर्वबुद्धधर्मपरिपूरणाय दिने दिने त्रैकाल्यमनुत्तरायां सम्यक्संबोधौ परिणामय । एवं खलु त्वं महाराज प्रतिपन्नः सन् राज्यं च कारयिष्यसि, राज्यकृत्यानि च न हापयिष्यसि, बोधिसंभारांश्च परिपूरयिष्यसि ॥ इत्यादिकमुक्त्वाह- (ब्च्प्१३) स खलु पुनस्त्वं महाराज सम्यक्संबोधिचित्तकुशलमूलविपाकेन अनेककृत्वो देवेषु उपपन्नोऽभूः । अनेककृत्वो मनुष्येषु उपपन्नोऽभूः । सर्वासु च देवमनुष्योपपत्तिषु आधिपत्यं कारयिष्यसि । इति विस्तरः ॥

इति चर्याविकलेऽपि बोधिचित्ते नावमन्यना कार्या । तस्यापि अनन्तसंसारे सुखप्रसवनात् । यत्पुनः प्रतिपत्तिसारं बोधिचित्तं तदतितरां विपुलफलमेवेति सिद्धमित्याह-

न त्वविच्छिन्नपुण्यत्वं यथा प्रस्थानचेतसः ॥ ब्च_१.१७ ॥

न तु न पुनः । यथा प्रस्थानचित्तस्य अविच्छिन्नपुण्यत्वं निरन्तरशुभप्रवाह वाहित्वम्, न तथा अस्येति भावः ॥

इदमेव अविच्छिन्नपुण्यत्वं वृत्तद्वयेन प्रसाधयन्नाह-

यतः प्रभृत्यपर्यन्तसत्त्वधातुप्रमोक्षणे ।
समाददाति तच्चित्तमनिवर्त्येन चेतसा ॥ ब्च_१.१८ ॥
ततःप्रभृति सुप्तस्य प्रमत्तस्याप्यनेकशः ।
अविच्छिन्नाः पुण्यधाराः प्रवर्तन्ते नभःसमाः ॥ ब्च_१.१९ ॥

यतःप्रभृतिः यस्मादारभ्य । न विद्यते पर्यन्तः इयत्ता अस्येति अपर्यन्तस्य आकाशधातुव्यापिनः सत्त्वधातोः । प्रमोक्षणे प्रमोक्षे सर्वदुःखोपशमनिमित्ते । समाददाति तच्चित्तम्, सम्यक्संबोधिचित्तं समादाय वर्तते । कथम्? अनिवर्त्येन चेतसा अप्रवृत्तिभ्रष्टेन मनसा । ततःप्रभृति तदादिं कृत्वा । सुप्तस्य मिद्धाक्रान्तचित्तस्य प्रमत्तस्य विक्षिप्तचित्तस्यापि । उभयत्रापि संबध्यते । उपलक्षणं चैतत् । गच्छतोऽपि तिष्ठतोऽपि निषण्णस्यापि भुञ्जानस्यापि मूर्च्छाद्यवस्थायामपीत्यादि द्रष्टव्यम् । अनेकश इति । प्रतिक्षणमनेकवारम् । अविच्छिन्नाः पुण्यधाराः निरन्तरसंततयः शुभवेगाः प्रवर्तन्ते । नभःसमाः प्रतिक्षणमाकाशधातुप्रमाणाः । तस्मात्प्रतिपत्तिसारेण बोधिसत्त्वेन भवितव्यम् । आर्यसमाधिराजे चोक्तम्-

तस्मात्प्रतिपत्तिसारो भविष्यामि, इत्येवं कुमार शिक्षितव्यम् । तत्कस्य हेतोः? प्रतिपत्तिसारस्य कुमार न दुर्लभा भवति अनुत्तरा सम्यक्संबोधिरिति [समाधि-१०] ॥

अविच्छिन्नपुण्यंत्वमस्य भगवतैवोक्तमित्युपदर्शयन्नाह-

इदं सुबाहुपृच्छायां सोपपत्तिकमुक्तवान् ।
हीनाधिमुक्तिसत्त्वार्थं स्वयमेव तथागतः ॥ ब्च_१.२० ॥

इदमेव अप्रमेयपुण्यत्वं स्वयमेव आत्मनैव तथागतो बुद्धो भगवानुक्तवान् कथितवान् । क्व? सुबाहुपृच्छायां सुबाहुपृच्छानाम्नि सूत्रे । कथम्? सोपपत्तिकं सयुक्तिकम् । किमर्थम्? हीनाधिमुक्तिसत्त्वार्थम् । हीने श्रावकप्रत्येकबुद्धयाने अधिमुक्तिः श्रद्धा छन्दो वा (ब्च्प्१४) येषां ते । ते सत्त्वाश्च । तेभ्य इदं तदर्थम् । तत्प्रयोजनमुद्दिश्येत्यर्थः । तथा हि- ये अनियतगोत्राश्चिरतरकालेन बहुतरसंभारोपार्जनभीता महायानाच्चित्तं व्यावर्त्य लघुतरकालेन अल्पतरसंभारसाध्ये श्रावकप्रत्येकबुद्धयाने चित्तमुत्पादयन्ति, तद्वयावर्तनार्थं भगवानुपपत्तिमाह ॥

तामेवोपपत्तिं वृत्तद्वयेन कथयन्नाह-

शिरःशूलानि सत्त्वानां नाशयामीति चिन्तयन् ।
अप्रमेयेण पुण्येन गृह्यते स्म हिताशयः ॥ ब्च_१.२१ ॥
किमुताप्रतिमं शूलमेकैकस्य जिहीर्षतः ।
अप्रमेयगुणं सत्त्वमेकैकं च चिकीर्षतः ॥ ब्च_१.२२ ॥

कतिपयजनानां मस्तकपीडां नाशयामि मन्त्रेण अगदेन वा, इत्येवं मनसि कुर्वनप्रमाणेन सुकृतेन असौ कल्याणाभिप्रायो गृहीतो द्रष्टव्यः । किं पुनरप्रमाणं संसारदुःखं प्रतिसत्त्वमप्रमाणस्य जगतो हर्तुमिच्छतः । अपि च तच्छूलमपनीय सर्वसत्त्वान् सर्वगुणसमङ्गिनः कर्तुमिच्छतः किमप्रमेयं पुण्यं न भवति? इति विभक्तिविपरिणामेन योजनीयम् । अविच्छिन्नाः पुण्यधाराः किमुत तस्य न प्रवर्तन्ते नभःसमा इति । तस्माद्यथा संभारबाहुल्यसाध्यं बुद्धत्वम्, यथा संभारवैपुल्येऽपि प्रतिक्षणमिति हेतुविशेषादत्रैव महायाने महान्लाभः । अतो नास्मच्चित्तमभयस्थाने कातरतया विनिवर्तनीयमित्युपदर्शितं भवति । यद्वक्ष्यति-

क्षपयन् पूर्वपापानि प्रतीच्छन् पुण्यसागरान् ।
बोधिचित्तबलादेव श्रावकेभ्योऽपि शीघ्रगः ॥
इति ॥ [बोधि. ७.२९]
यश्चैवं सर्वसत्त्वानां हितसुखार्थमुद्युज्यते, स देवादिभ्योऽप्यसाधारणगुणात्वात्प्रशस्य इत्युपदर्शयन्नाह-

कस्य मातुः पितुर्वापि हिताशंसेयमीदृशी ।
देवतानामृषीणां वा ब्रह्मणां वा भविष्यति ॥ ब्च_१.२३ ॥

कस्य सत्त्वस्य । मातुर्जनन्याः । कस्य पितुर्वा जनकस्य । देवतानां सोमवरुणादीनाम् । ऋषीणां वा वसिष्ठगोतमादीनाम् । ब्रह्मणां वा वेधसाम् । इयमीदृशी हीताशंसा हितोपसंहारमतिः यादृशी समनन्तरं प्रतिपादिता बोधिसत्त्वस्य भविष्यति इति । आस्तां तावत्भूता भवति वा, भविष्यत्यपि नैव कस्यचिद्बोधिसत्त्वमन्तरेणान्यस्य ॥

कुतः पुनरेतदित्याह-

तेषामेव च सत्त्वानां स्वार्थेऽप्येष मनोरथः ।
नोत्पन्नपूर्वः स्वप्नेऽपि परार्थे संभवः कुतः ॥ ब्च_१.२४ ॥

(ब्च्प्१५) तेषां मात्रादीनां स्वार्थेऽपि आत्मनः कृतेऽपि एष मनोरथः सर्वदुःखमपहर्तुम्, अप्रमाणगुणानाधातुं नोत्पन्नपूर्वः अभूतपूर्वः स्वप्नेऽपि । आस्तां तावज्जाग्रदवस्थायां बुद्धिपूर्वकमुत्पन्नः । परार्थे कदाचिदुत्पद्येत इत्याह- परार्थे संभवः कुतः । आत्मा हि वल्लभो लोकस्य परस्मात् । तत्रैव चेन्नास्ति, परार्थे संभावनापि कुतः? अथवा । स्वप्नेऽपि परार्थे संभवः कुतः इति योज्यम् ॥

तदेवमसाधारणत्वं बोधिसत्त्वस्य प्रतिपाद्य उपसंहरन्नाह-

सत्त्वरत्नविशेषोऽयमपूर्वो जायते कथम् ।
यत्परार्थाशयोऽन्येषां न स्वार्थेऽप्युपजायते ॥ ब्च_१.२५ ॥

एवमत्यद्भुतकर्मकारितया दुर्लभोत्पादात्सत्त्व एव रत्नविशेषः अपूर्वः अनुपलब्धपूर्वः । अयमिति यादृशगुणोऽत्र कथितः । जायते कथम् । कथमित्यद्भुते । कस्मात्पुनरेवमुच्यते? आह- यत्परार्थेति । यस्य महात्मनः परार्थाशयः अन्येषां सत्त्वानामुक्तक्रमेण न स्वार्थेऽप्युपजायते इत्यस्मात् ॥

अत्र च अन्येऽपि बोधिचित्तोत्पादकस्य गुणा वक्तव्याः । यथा आर्यगण्डव्यूहे भगवता आर्यमैत्रेयेण सुधनमधिकृत्य उद्भाविताः । ते च अतिविस्तरेण शास्त्रकृता शिक्षासमुच्चये दर्शिताश्च, तत्रैव अवधारयितव्या ॥

पुनरपि बोधिचित्तानुशंसाद्वारेण बोधिसत्त्वस्याप्रमेयपुण्यत्वमाह-

जगदानन्दबीजस्य जगद्दुःखौषधस्य च ।
चित्तरत्नस्य यत्पुण्यं तत्कथं हि प्रमीयताम् ॥ ब्च_१.२६ ॥

सर्वसत्त्वानां सर्वप्रामोद्यकारणस्य देवादिसर्वसंपत्तिनिदानभूतत्वात् । चित्तरत्नस्य बोधिचित्तस्य यत्पुण्यं तत्कथं हि प्रमीयताम्, केन प्रकारेण नाम संख्येयताम् । अतिविपुलतया प्रमातुमशक्यत्वात् । एतदुक्तमार्यवीरदत्तपरिपृच्छायाम्-

बोधिचित्ताद्धि यत्पुण्यं तच्च रूपि भवेद्यदि ।
आकाशधातुं संपूर्य भूयश्चोत्तरि तद्भवेत् ॥
इति ॥

यदि नाम सामान्येन निर्देशः, तथापि प्रस्थानचित्तस्येति द्रष्टव्यम्, तस्यैव प्रकृतत्वात् । पुनरपि तस्यैव विशेषणमाह- जगद्दुःखौषधस्य चेति । सर्वप्राणभृतां कायिकचैतसिकसर्वदुःखनिवर्तनतया सर्वव्याधिहरणमहागदस्वभावत्वात् । तदनेन अभ्युदयनिःश्रेयसहेतुत्वं बोधिचित्तस्य प्रतिपादितं भवति । अतो युक्तमेव अस्य असंख्येयपुण्यत्वमित्युक्तं भवति ॥

कथं पुनरेतद्युक्तमित्याशङ्कय प्रतिपादयन्नाह-

हिताशंसनमात्रेण बुद्धपूजा विशिष्यते ।
किं पुनः सर्वसत्त्वानां सर्वासौख्यार्थमुद्यमात् ॥ ब्च_१.२७ ॥

(ब्च्प्१६) सर्वजगत्परित्राणाय बुद्धो भवेयमित्यध्याशयेन आशंसनात्प्रार्थनात्केवलात्प्रतिपत्तिविकलाद्बोधिचित्तादित्यर्थः । यत्पुण्यं भवति तद्बुद्धपूजामतिशेते इत्यागमाद्भवत्येव पुण्यस्कन्धप्रसवहेतुः । इति प्रथमस्य बोधिचित्तस्य माहात्म्यमुक्तम् । एतदपि तत्रैवोक्तम्-

गङ्गावालिकसंख्यानि बुद्धक्षेत्राणि यो नरः ।
दद्यात्सद्रत्नपूर्णानि लोकनाथेभ्य एव हि ॥
यश्चैकः प्राञ्जलिर्भूत्वा चित्तं बोधाय नामयेत् ।
इयं विशिष्यते पूजा यस्यान्तोऽपि न विद्यते ॥
इति ॥

किं पुनः सर्वदुःखितजनानां सर्वदुःखमपनीय सर्वसुखसंपन्नान् करिष्यामीत्युद्योगकरणादतिशयवत्पुण्यं न भवति ॥

ननु हिताहितप्राप्तिपरिहारयोः स्वयमेव सत्त्वा विचक्षणाः । तत्कुत्रोद्यमस्योपयोग इति वृत्तत्रितयेन परिहरन्नाह-

दुःखमेवाभिधावन्ति दुःखनिःसरणाशया ।
सुखेच्छयैव संमोहात्स्वसुखं घ्नन्ति शत्रुवत् ॥ ब्च_१.२८ ॥
यस्तेषां सुखरङ्काणां पीडितानामनेकशः ।
तृप्तिं सर्वसुखैः कुर्यात्सर्वाः पीडाश्च्छिनत्ति च ॥ ब्च_१.२९ ॥
नाशयत्यपि संमोहं साधुस्तेन समः कुतः ।
कुतो वा तादृशं मित्रं पुण्यं वा तादृशं कुतः ॥ ब्च_१.३० ॥

दुःखान्निःसरणाभिप्रायाः प्राणातिपातादिभिरकुशलैः कर्मभिः क्षुधादिदुःखप्रतीकारमिच्छन्तः । दुःखमेव नरकादिप्रपातवेदनास्वभावम् । अभिधावन्ति तदभिमुखाः प्रवर्तन्ते । दुःखमेव प्रविशन्तीत्यर्थः । शलभा इव दीपशिखामिति । अत एव सुखेच्छयैव सुखाभिलाषेणैव स्वसुखं घ्नन्ति शत्रुवत् । आत्मसुखघाताय कथमात्मनैव शत्रवो भवन्तीति चेत्, संमोहाद्विपर्यासवशाथिताहितप्राप्तिपरिहारयोः परिज्ञानाभावात् ॥

अतो यः पुण्यात्मा अकारणवत्सलः तेषां विपर्यस्तानां सुखरङ्काणां सुखभिलाषुकाणां सर्वशोऽलब्धसुखानां पीडितानां दुःखितानाम् । अनेकश इति अनेकैर्दुःखशतैर्बहुधा बाधितानां तृप्तिमाप्यायनं सर्वसुखैः कुर्यात्कायिकचैतसिकैः । यदि वा । अनेकशः अनेकप्रकारं तृप्तिं सर्वसुखैः कुर्यातिति योजनीयम् । न सुखतृप्तिमात्रं जनयति, किं तर्हि सर्वाः पीडाः समस्ता दुःखा वेदनाश्च्छिनत्ति च शमयति च ॥

न केवलं दुःखप्रशान्तिं सुखतृप्तिं च करोति, नाशयत्यपि संमोहम्, अपरिज्ञानमपि निवर्तयति ।

अपथमिदमेष पन्था भयमत इत एत गात मासादम् ।

इति हेयोपादेयमार्गप्रकाशनात् । यश्चैवं परव्यसननिवर्तनपरतन्नो हितसुखविधानतत्परश्च (ब्च्प्१७) सर्वभूतानाम् । साधुस्तेन समः कुतः, तेन महात्मना तुल्यः साधुः कुतः? नैव कुतश्चिद्विद्यते अकारणपरमवत्सलस्वभावत्वात् । कुतो वा तादृशं मित्रम्, हितसुखोपसंहारप्रवणमानसं परमविश्वासस्थानं तादृशं तत्समं मित्रम्, सुहृत्कुतः? नैव संभवति । पुण्यं वा तादृशं कुतः? एवं विहरतो बोधिसत्त्वस्य यत्पुण्यमुपजायते, तदपि न केनचित्पुण्येन समानम् ॥

कृते यः प्रतिकुर्वीत सोऽपि तावत्प्रशस्यते ।
अव्यापारितसाधुस्तु बोधिसत्त्वः किमुच्यताम् ॥ ब्च_१.३१ ॥

पूर्वं भयसंकटव्यसनेषु उपकृतमनेन इत्युपकृते सति प्रत्युपकारं करोति यः, सोऽपि तावत्प्रशस्यते लोकेन स्तूयते साधुरयमिति । यः पुनरव्यापारितसाधुः अनभ्यर्थितकल्याणोपनेता बोधिसत्त्वः, किमुच्यतां किमपरमभिधीयताम्? तस्य प्रशंसा कर्तुमशक्येत्यर्थः ॥

दृष्टव्यवहारमपेक्ष्यापि बोधिसत्त्वस्य पुण्यमाहात्म्यमुद्भावयन्नाह-

कतिपयजनसत्त्रदायकः कुशलकृदित्यभिपूज्यते जनैः ।
क्षणमशनकमात्रदानतः सपरिभवं दिवसार्धयापनात् ॥ ब्च_१.३२ ॥

परिमितसत्त्वानामाहारपानमात्रदानसमादानमादिशन् पुण्यकर्मा अयमिति पूज्यते सत्क्रियते जनैः सत्कर्मरतैर्लोकैः । तदपि दानं क्षणम्, न सकलमहः, तदर्धं वा, अपि तु मुहूर्तमेकम् । अशनकमात्रदानत इति । कुत्सितमशनमशनकम्, अप्रणीतं भोजनम्, तदेव केवलं तन्मात्रम्, तथाविधव्यञ्जनरहितम् । तस्य दानतः परित्यागतः । कथम्? सपरिभवम् । क्रियाविशेषणमेतत् । सतिरस्कारं नमस्कारापुरःसरम् । हठात्सत्रागारं प्रविशतः खटचपेटादिना प्रहृत्येति यावत् । पुनः किंभूतात्? दिवसार्धयापनात्प्रहरद्वयोपस्तम्भनात् । मध्यान्हे भुक्त्वा सायं पुनराहारान्वेषणात् ॥

बोधिसत्त्वस्य पुनरेतद्विपरीतं दानमिति प्रतिपादयन्नाह-

किमु निरवधिसत्त्वसंख्यया निरवधिकालमनुप्रयच्छतः ।
गगनजनपरिक्षयाक्षयं सकलमनोरथसंप्रपूरणम् ॥ ब्च_१.३३ ॥

न विद्यते अवधिरियत्ता । इयद्भयः शतसहस्रलक्षकोटिसंख्येभ्यो दास्यामि, ततः परं नेति न सत्त्वानां गणनया ददाति, किं तु निरवधिसत्त्वसंख्यया । नापि नियतकालम्, (ब्च्प्१८) अपि तु निरवधिकालम् । कल्पशतसहस्रलक्षकोटिशतं यावद्दास्यामि, ततः परं नेति सावधिकं न ददाति । गगनेति । गगनमिव जनाः गगनजनाः । यथा आकाशमपर्यन्तं तथा जनोऽपीत्यर्थः । यदि वा । गगनं च जनाश्च ते गगनजनाः । तेषां परिक्षयः पर्यवदानम् । यावदाकाशधातुर्यावच्च सत्त्वा न परिनिर्वृताः तावदवधिकम् । यद्वक्ष्यति-

आकाशस्य स्थितिर्यावद्यावच्च जगतः स्थितिः ।
तावन्मम स्थितिर्भूयातिति । [बोधि. १०.५५]

तस्मादक्षयम्, न विद्यते क्षयः पर्यन्तोऽस्येति कृत्वा । अयमभिप्रायः- गगनजनपरिक्षयावधि यद्दानं तद्वस्तुतोऽक्षयमेव, तेषां परिक्षयाभावात् । नापि प्रतिनियतं वस्तु, अपि तु सकलमनोरथसंप्रपूरणम् । यद्यस्याभिमतं तत्सर्वमनवद्यमभिप्रायाल्हादनकरं परमप्रेमगौरवसत्कारप्रियवचनपुरःसरं प्रमुदितमनसा अनुप्रयच्छतो बोधिसत्त्वस्य किं पुनः पूजा न युज्यते? तस्य सुतरां युज्यते इति योज्यम् । यदुक्तं नारायणपरिपृच्छायाम्-

न तद्वस्तु उपादातव्यं यस्मिन् वस्तुनि नास्य त्यागचित्तमुत्पद्यते । न त्यागबुद्धिः क्रमेत । यावतयं ममात्मभावः सर्वसत्त्वेभ्य उत्सृष्टः परित्यक्तः, प्रागेव बाह्यानि वस्तूनि । यस्य यस्य सत्त्वस्य येन येन यद्यत्कार्यं भविष्यति, तस्मै तस्मै तत्तद्दास्यामि । तत्संविद्यमानं हस्तं हस्तार्थिकेभ्यो दास्यामि, यावत्शिरः शिरोर्थिकेभ्यः परित्यक्ष्यामि, कः पुनर्वादो बाह्येषु वस्तुषु । यदुत धनधान्यजातरुपरजतरत्नाभरणहयरथगजवाहनग्रामनगरनिगमजनपदराज्यराष्ट्रराजधानीपत्तनदासीदासकर्मकरपौरुषेयपुत्रदुहितृपरिवारेषु । इति विस्तरः ॥

एवं च गुणरत्नसमुच्चयस्थाने परहितसुखविधानैकपरममहाव्रते बोधिसत्त्वे स्वात्महितकामैः स्वचित्तं रक्षितव्यं प्रयत्नतः इत्युपदर्शयन्नाह-

इति सत्त्रपतौ जिनस्य पुत्रे कलुषं स्वे हृदये करोति यश्च ।
कलुषोदयसंख्यया स कल्पान्नरकेष्वावसतीति नाथ आह ॥ ब्च_१.३४ ॥

इत्येवमुक्तक्रमेण सत्त्रपत्तौ सर्वदा सुखदानपतौ जिनस्य पुत्रे सुगतस्य सुते । बोधिसत्त्वे इत्यर्थः । कलुषं पापचित्तं स्वे हृदये आत्मचित्तसंताने करोति उत्पादयति दुरात्मा यः, स नरकेष्वावसति इति नाथो बुद्धो भगवानाह ब्रूते । उपान्वध्याड्वसः इति कर्मत्वे प्राप्ते अधिकरणविवक्षा । कियद्यावत्कलुषोदयसंख्यया कल्पान् । यावतः क्षणांस्तत्संताने कलुषचित्तमुत्पद्यते, तावतः कल्पान् कलुषचित्तक्षणसंख्यान्नरकेषु तिष्ठतीति भावः । यदुक्तं प्रशान्तविनिश्चयप्रातिहार्यसूत्रे-

(ब्च्प्१९) यावन्ति मञ्जुश्रीर्बोधिसत्त्वो बोधिसत्त्वस्यान्तिके प्रतिघचित्तान्युत्पादयति अवमन्यनाचित्तानि वा, तावतः कल्पांस्तेन संनाहः संनद्धव्यः- वस्तव्यं मया महानरकेषु इति ॥

ननु तथागतस्य दुष्टचित्तेन रुधिरमुत्पादयतो नावीचौ चित्तोत्पादनक्षणसंख्यया कल्पानवस्थितिरुक्ता । न तथागतात्कश्चिदधिकतरः संभवति त्रैलोक्ये । तत्कथमिदमतिदुर्घटं नीयते? सत्यम् । न खलु यथाभूतमस्मिन्नये वस्तुतत्त्वव्यवस्था । सर्वस्य प्रवचनस्य नेयनीतार्थतया व्यवस्थापनात् । न हि कश्चित्तथागते सदेवकोऽपि लोको दुष्टचित्तमुत्पादयितुं क्षमते । अनल्पकल्पसंख्यया अभ्यासेन सर्वसत्त्वेषु मैत्रचित्तस्य सात्मीभावात्, नास्य काये शस्त्रं क्रमतीति मैत्रचित्तस्यानुशंसकथनात् । न च कर्मप्लुतिरिह वस्तुतो दर्शिता । कर्मावरणस्य बुद्धानां प्रहीणत्वात् । तस्माद्वैनेयजनाभिसंधिना तदुपदर्शितं न परमार्थतः । बोधिसत्त्वापकारे तु बुद्धत्वमेव समूलोपघातमुपहतं भवेत् । तथा च सदेवकस्य लोकस्य अर्थः उपहतो भवेत् । यथागममिदमुक्तम् । परमार्थमिह भगवानेव जानाति । इदमुक्तं च श्रद्धाबलाधानावतारमुद्रासूत्रे-

यः कश्चिन्मञ्जुश्रीः कुलपुत्रो वा कुलदुहिता वा गङ्गानदीवालुकासमान् स्तूपान् विनिपातयेद्दहेद्वा, यश्चान्यः कुलपुत्रो वा कुलदुहिता वा महायानाधिमुक्तस्य बोधिसत्त्वस्य महासत्त्वस्य व्यापादखिलक्रोधचित्तमुत्पाद्य आक्रोशयेत्परिभाषयेत्, अयं ततोऽसंख्येयतरं पापं प्रविशति । तत्कस्माद्धेतोः? बोधिसत्त्वनिर्जाता हि बुद्धा भगवन्तः, बुद्धनिर्जाताश्च स्तूपाः सर्वसुखोपधानानि च सर्वदेवनिकायाश्च । बोधिसत्त्वमसत्कृत्य सर्वबुद्धा असत्कृता भवन्ति । बोधिसत्त्वं सत्कृत्य सर्वबुद्धाः सत्कृता भवन्ति । इत्यादि ॥

यस्य पुनस्तत्र प्रसन्नं चित्तमुत्पद्यते, तस्य कियत्पुण्यफलमुपजायते, इत्याह-

अथ यस्य मनः प्रसादमेति प्रसवेत्तस्य ततोऽधिकं फलम् ।
महता हि बलेन पापकं जिनपुत्रेषु शुभं त्वयत्नतः ॥ ब्च_१.३५ ॥

यस्य पुनः पुण्यात्मनो मनः प्रसादमुपयाति बोधिसत्त्वे, प्रसवेत्तस्य ततोऽधिकं फलम्, तस्य प्रसन्नचित्तस्य प्रसवेदुपजायेत ततोऽधिकं फलं तस्मात्पूर्वकपापफलाद्बहुतरं पुण्यकर्मफलं विपाकविशेषात्प्रसवेदुत्पद्येत । यदि वा । तत्समधिकविपाकफलाधायकं कर्मैव फलमुच्यते । अधिकतरफलजनकं कर्म उपजायते इति यावत् । उक्तं च नियतानियतावतारमुद्रासूत्रे-

सचेन्मञ्जुश्रीः दशसु दिक्षु सर्वलोकधातुषु सर्वसत्त्वा उत्पाटिताक्षा भवेयुः परिकल्पमुपादाय । (ब्च्प्२०) अथ कश्चिदेव कुलपुत्रो वा कुलदुहिता वा तेषां सर्वसत्त्वानां मैत्रचित्तस्तान्यक्षीणि जनयेत्परिकल्पमुपादाय । योऽन्यो वा मञ्जुश्रीः कुलपुत्रो वा कुलदुहिता वा महायानाधिमुक्तं बोधिसत्त्वं प्रसन्नचित्तः पश्येत्, अयं ततोऽसंख्येयतरं पुण्यं प्रसवति । इति ॥

तस्मादस्मिन्महति पुण्यक्षेत्रे शुभचित्तमेव करणीयमात्मज्ञैः ॥

अपि च । इतोऽपि शुभचित्तमेव कर्तुमुचितम् । यस्मान्महता बलेन परमकृच्छ्रेण पापकं पापमेव पापकं कुत्सितत्वाद्वा दुष्कृतं कर्म बोधिसत्त्वेषु क्रियते, तेषां सकलकायवाङ्यनःप्रचारस्य प्रसादजनकत्वात् । बोधिचित्तप्रभावाच्च न बोधिसत्त्वेषु कस्यचिदपकारचित्तमुत्पद्यते । एतदुक्तमार्यमञ्जुश्रीविमोक्षे-

तद्यथा कुलपुत्र चिन्तामणिरत्नराजमुकुटावबद्धानां महानागराज्ञां नास्ति परोपक्रमभयम्, एवमेव बोधिचित्तमहाकरुणाचिन्तामणिरत्नराजमुकुटावबद्धानां बोधिसत्त्वानां नास्ति दुर्गत्यपायपरोपक्रमभयम् । इति ॥

अतः किमर्थमनर्थोपार्जनं कटुकफलं तेषु प्रयत्नतः प्रारभ्यते? अत एव शुभं त्वयत्नतः, संग्रहवस्त्वादिभिः सर्वसत्त्वहितसुखकर्मकारित्वात्परिशुद्धकर्मकारितया, क्वचिदपि स्खलिताभावाच्च । अप्रयत्नत एव प्रीतिप्रसादप्रामोद्यमुपजायते तेषु । अतः कुशलं पुनरयत्नत एव प्रसूयते ॥

सांप्रतमुत्पादितबोधिचित्तेषु अतिशयवता आत्मना मनःप्रसादमाविष्कुर्वन् शास्त्रकारस्तान्नमस्यन्नाह-

तेषां शरीराणि नमस्करोमि यत्रोदितं तद्वरचित्तरत्नम् ।
यत्रापकारोऽपि सुखानुबन्धी सुखाकरांस्तान् शरणं प्रयामि ॥ ब्च_१.३६ ॥

तेषां पुरुषकुञ्जराणां शरीराणि आत्मभावान्नमस्करोमि प्रणिपत्य वन्दे । यत्र येषु (येषां?) संतानेषु उदितमुत्पन्नं तदुक्तानुशंसं वरचित्तरत्नम् । चित्तमेव रत्नं चिन्तामणिसदृशम् । वरं श्रेष्ठं सर्वदारिद्यदुःखापहारित्वात् । तच्च तद्वरचित्तरत्नं चेति विग्रहः । तदिति भिन्नं वा । इयं च अधिकगुणाधारस्य सत्कृतिः । अपरमपि तद्विशेषणमाह- यत्रापकारोऽपीति । येषु परमकल्याणहृदयेषु बोधिसत्त्वेषु अपकारोऽपि पराभवोऽपि कृतः तत्कर्तुः सुखानुबन्धी परंपरया सुखमावहतीति । अयमभिप्रायः- तत्रापकारः कर्तुमशक्यः । संभवे वा कथंचित्तदपकारमेव निमित्तं कृत्वा प्रवृत्तानां दुष्टाभिप्रायाणां पुनः केनचिन्निमित्तेन तत्प्रसादसमुत्पादनात् । तत्र अपकारो निर्वाणे सुखमनुबन्धाति । तद्यथा मैत्रीबलजातके [जातकमाला-८] पञ्चकानधिकृत्योक्तम् । बोधिसत्त्वप्रणिधानाद्वा अपकारोऽपि सुखानुबन्धीत्युच्यते । यद्वक्ष्यति-

(ब्च्प्२१) अभ्याख्यास्यन्ति मां ये च ये चान्येऽप्यपकारिणः ।
उत्प्रासकास्तथान्येऽपि सर्वे स्युर्बोधिभागिनः ॥
इति ॥ [बोधि. ३.१६]

अथवा । यत्रापकारोऽपि येषामपकारोऽपि महाकरुणाध्याशयात्प्रियपुत्रेण कृत इव दुःखहेतुरपि सुखमेव जनयति, यथा क्षान्तिपरिच्छेदे कथयिष्यामः । एवं सर्वथा सुखहेतुत्वात्सुखार्थिनां रत्नाकर इव रत्नार्थिनामाश्र्यणीया बोधिसत्त्वा इत्युपदर्शयति । सुखाकरांस्तान् शरणं प्रयामि । सुखस्य आकराः सर्वसुखैकप्रभवत्वात् । तानुक्तक्रमेण अपकारेऽपि सुखहेतून् । शरणं प्रयामि । ते मम त्राणं भवन्तु इति भावः ॥

इति प्रज्ञाकरमतिविरचितायां बोधिचर्यावतारपञ्जिकायां बोधिचित्तानुशंसाविवरणं नाम प्रथमः परिच्छेदः ॥