बोधिचर्यावतारः/प्रथमः परिच्छेदः
बोधिचर्यावतारः प्रथमः परिच्छेदः [[लेखकः :|]] |
द्वितीयः परिच्छेदः → |
परिच्छेद १
औं नमो बुद्धाय ।
सुगतान् ससुतान् सधर्मकायान् प्रणिपत्यादरतोऽखिलांश्च वन्द्यान् ।
सुगतात्मजसंवरावतारं कथयिष्यामि यथागमं समासात् ॥ १.१ ॥
न हि किंचिदपूर्वमत्र वाच्यं न च संग्रथनकौशलं ममास्ति ।
अतएव न मे परार्थचिन्ता स्वमनो वासयितुं कृतं ममेदं ॥ १.२ ॥
मम तावदनेन याति वृद्धिं कुशलं भावयितुं प्रसादवेगः ।
अथ मत्समधातुरेव पश्येदपरोऽप्येनमतोऽपि सार्थकोऽयं ॥ १.३ ॥
क्षणसंपदियं सुदुर्लभा प्रतिलब्धा पुरुषार्थसाधनी ।
यदि नात्र विचिन्त्यते हितं पुनरप्येष समागमः कुतः ॥ १.४ ॥
रात्रौ यथा मेघघनान्धकारे विद्युत्क्षणं दर्शयति प्रकाशं ।
बुद्धानुभावेन तथा कदाचिल्-लोकस्य पुण्येषु मतिः क्षणं स्यात् ॥ १.५ ॥
तस्माच्छुभं दुर्बलमेव नित्यं बलं तु पापस्य महत्सुघोरं ।
तज्जीयतेऽन्येन शुभेन केन संबोधिचित्तं यदि नाम न स्यात् ॥ १.६ ॥
कल्पाननल्पान् प्रविचिन्तयद्भिर्दृष्टं मुनीन्द्रैर्हितमेतदेव ।
यतः सुखेनैव सुखं प्रवृद्धमुत्प्लावयत्यप्रमिताञ्जनौघान् ॥ १.७ ॥
भवदुःखशतानि तर्तुकामैरपि सत्त्वव्यसनानि हर्तुकामैः ।
बहुसौख्यशतानि भोक्तुकामैर्न विमोच्यं हि सदैव बोधिचित्तं ॥ १.८ ॥
भवचारकबन्धनो वराकः सुगतानां सुत उच्यते क्षणेन् ।
न नरामरलोकवन्दनीयो भवति स्मोदित एव बोधिचित्ते ॥ १.९ ॥
अशुचिप्रतिमामिमां गृहीत्वा जिनरत्नप्रतिमां करोत्यनर्घां ।
रसजातमतीव वेधनीयं सुदृढं गृह्णत बोधिचित्तसंज्ञं ॥ १.१० ॥
सुपरीक्षितमप्रमेयधीभिर्बहुमूल्यं जगदेकसार्थवाहैः ।
गतिपत्तनविप्रवासशीलाः सुदृढं गृह्णत बोधिचित्तरत्नं ॥ १.११ ॥
कदलीव फलं विहाय याति क्षयमन्यत्कुशलं हि सर्वमेव ।
सततं फलति क्षयं न याति प्रसवत्येव तु बोधिचित्तवृक्षः ॥ १.१२ ॥
कृत्वापि पापानि सुदारुणानि यदाश्रयादुत्तरति क्षणेन ।
शूराश्रयेणेव महाभयानि नाश्रीयते तत्कथमज्ञसत्त्वैः ॥ १.१३ ॥
युगान्तकालानलवन्महान्ति पापानि यन्निर्दहति क्षणेन ।
यस्यानुशंसानमितानुवाच मैत्रेयनाथः सुधनाय धीमान् ॥ १.१४ ॥
तद्बोधिचित्तं द्विविधं विज्ञातव्यं समासतः ।
बोधिप्रणिधिचित्तं च बोधिप्रस्थानमेव च ॥ १.१५ ॥
गन्तुकामस्य गन्तुश्च यथा भेदः प्रतीयते ।
तथा भेदोऽनयोर्ज्ञेयो यथासंख्येन पण्डितैः ॥ १.१६ ॥
बोधिप्रणिधिचित्तस्य संसारेऽपि फलं महत् ।
न त्वविच्छिन्नपुण्यत्वं यथा प्रस्थानचेतसः ॥ १.१७ ॥
यतः प्रभृत्यपर्यन्त-सत्त्वधातुप्रमोक्षणे ।
समाददाति तच्चित्तमनिवर्त्येन चेतसा ॥ १.१८ ॥
ततः प्रभृति सुप्तस्य प्रमत्तस्याप्यनेकशः ।
अविच्छिन्नाः पुण्यधाराः प्रवर्तन्ते नभःसमाः ॥ १.१९ ॥
इदं सुबाहुपृच्छायां सोपपत्तिकमुक्तवान् ।
हीनाधिमुक्तिसत्त्वार्थं स्वयमेव तथागतः ॥ १.२० ॥
शिरःशूलानि सत्त्वानां नाशयामीति चिन्तयन् ।
अप्रमेयेण पुण्येन गृह्यते स्म हिताशयः ॥ १.२१ ॥
किमुताप्रमितं शूलमेकैकस्य जिहीर्षतः ।
अप्रमेयगुणं सत्त्वमेकैकं च चिकीर्षतः ॥ १.२२ ॥
कस्य मातुः पितुर्वापि हिताशंसेयमीदृशी ।
देवतानामृषीणां वा ब्रह्मणां वा भविष्यति ॥ १.२३ ॥
तेषामेव च सत्त्वानां स्वार्थेऽप्येष मनोरथः ।
नोत्पन्नपूर्वः स्वप्नेऽपि परार्थे संभवः कुतः ॥ १.२४ ॥
सत्त्वरत्नविशेषोऽयमपूर्वो जायते कथं ।
यत्परार्थाशयोऽन्येषां न स्वार्थेऽप्युपजायते ॥ १.२५ ॥
जगदानन्दबीजस्य जगद्दुःखौषधस्य च ।
चित्तरत्नस्य यत्पुण्यं तत्कथं हि प्रमीयतां ॥ १.२६ ॥
हिताशंसनमात्रेण बुद्धपूजा विशिष्यते ।
किं पुनः सर्वसत्त्वानां सर्वसौख्यार्थमुद्यमात् ॥ १.२७ ॥
दुःखमेवाभिधावन्ति दुःखनिःसरणाशया ।
सुखेच्छयैव संमोहात्स्वसुखं घ्नन्ति शत्रुवत् ॥ १.२८ ॥
यस्तेषां सुखरङ्काणां पीडितानामनेकशः ।
तृप्तिं पूर्वसुखैः कुर्यात्सर्वाः पीडाश्छिनत्ति च ॥ १.२९ ॥
नाशयत्यपि संमोहं साधुस्तेन समः कुतः ।
कुतो वा तादृशं मित्रं पुण्यं वा तादृशं कुतः ॥ १.३० ॥
कृते यः प्रतिकुर्वीत सोऽपि तावत्प्रशस्यते ।
अव्यापारितसाधुस्तु बोधिसत्त्वः किमुच्यतां ॥ १.३१ ॥
कतिपयजनसत्रदायकः कुशलकृदित्यभिपूज्यते जनैः ।
क्षणमशनकमात्रदानतः सपरिभवं दिवसार्धयापनात् ॥ १.३२ ॥
किमु निरवधिसत्त्वसंख्यया निरवधिकालमनुप्रयच्छतः ।
गगनजनपरिक्षयाक्षयं सकलमनोरथसंप्रपूरणं ॥ १.३३ ॥
इति सत्त्रपतौ जिनस्य पुत्त्रे कलुषं स्वे हृदये करोति यश्च ।
कलुषोदयसंख्यया स कल्पान्नरकेष्वावसतीति नाथ आह ॥ १.३४ ॥
अथ यस्य मनः प्रसादमेति प्रसवेत्तस्य ततोऽधिकं फलं ।
महता हि बलेन पापकर्म जिनपुत्त्रेषु शुभं त्वयत्नतः ॥ १.३५ ॥
तेषां शरीराणि नमस्करोमि यत्रोदितं तद्वरचित्तरत्नं ।
यत्रापकारोऽपि सुखानुबन्धी सुखाकरांस्तान् शरणं प्रयामि ॥ १.३६ ॥
बोधिचर्यावतारे बोधिचित्तानुशंसा नाम प्रथमः परिच्छेदः ॥