सामग्री पर जाएँ

पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/१८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

द्रव्याधिकारः पूर्वार्धे पञ्चमः पटलः । प्रकृतार्थविशेषकर्मणामप्यभिरूपे सुविचारितप्रदेशे ।

यदसौ विदधाति बीजमुप्तं ननु देशानुगुणं फलाय रोहेत् ॥ ३०॥

देशाधिकारः।

विदधीत वशीकरं वसन्त परविद्वेषणकं निदाघकाले ।
वर्षास्वरिचाटनप्रयोगं शिशिरे मारणकर्म चेत् करोतु ।। ३१ ।। 

शरदेव हि शान्तिके प्रशस्ता खलु हेमन्तकृतानि पौष्टिकानि । ननु शान्तिकपौष्टिके हिमे वा मधुमासेऽपि तथा परे वदन्ति ॥ ३२॥

उदयात् परतो रवेस्तु यामाविह हेमन्तवसन्तकौ क्रमोक्तौ । । ।
प्रहरावधि पश्चिमौ निदाघाह्वयमासावुदितौ दिनावसानात् ।। ३३ ।।
मिहिरास्तमयात् तु विंशतिः स्याद् घटिकाः शारदकालसंज्ञितोऽसौ । 

परतो घटिकास्तु शैशिरः स्यादुदयात् प्रागिति तत्त्वसागरोक्तम्॥३१॥ कालाधिकारः। सिततण्डुलभक्तपञ्चगव्यैस्तिलपुष्पाक्षतशुक्लगन्धयोगैः ।

ननु नित्यविधौ पलाशदूर्वायवशालिप्रमुखाश्च धान्यवर्गाः ॥ ३५ ॥
अथ शान्तिककर्मणां विशिष्टे हवनादौ च यथोदितं समिद्भिः । 

विदधीत शमीवटाम्रनित्याखदिरोदुम्बरमार्गबोधिबिल्वैः ॥ ३६ ॥

दधिमाक्षिकदुग्धपायसाज्यैश्वरवो बिल्वतिलाश्च शालिभेदाः।
फलमादकशर्करोक्तपुष्पैः समिधः स्युर्विविधाश्च पौष्टिकेष्टाः ॥ ३७॥ 

लवणस्तिलसर्षपौ यथोक्ताः समिधः पुष्पफलानि पुत्तलीकाः ।

मधुराणि सजन्मवृक्षहेमैः स्युरमी चन्दनरोनने च वश्ये ॥ ३८ ॥ 

मधुपेन्द्रलते सहा च भीता हरिपत्नीहरिलङ्गितासुभद्राः ।

मुसली गिरिकर्णिमोहनीकाः सुरताल्युत्पलमादैलाब्जदूर्वाः ॥ ३९ ॥
गजदानशिले सितार्कमूलं कनकं क्षीरनगाः स्वदेहजानि । 

उदितानि हि वश्यकर्षणार्थं जतुभूर्जादि च तत्र. तन्त्रगीतम् ॥४०॥ तुषसर्षपकाककाकवैरिच्छददण्डीविषनिम्बमातुलुङ्गैः । महिषाश्च जलेऽप्यलक्तसारं ननु विद्वेषणकर्मवस्तु गीतम् ॥ ४१ ॥ _ 'ज' ख. पाठः. २. 'हि' ग. पाठः. ३. 'लदाज' ख. पाठः,