एतत् पृष्ठम् परिष्कृतम् अस्ति
________________
ईशानशिवगुरुदेवपद्धतौ [सामान्यपाद:
नेत्रेण सर्वx परिपश्यतीह मन्त्रः स्फुटं यं दृशि दर्शनाय । वौषड् भवेदङ्गमतस्तु नेत्रं नेत्रे तु सिद्धयै दृशि वौषडुक्तम् ॥ १४॥ असूनदः पालयतीत्यतोऽस्त्रं धातोरसुक्षेपणवाचकार्थात् । अनिष्टमाक्षिप्य तु पाति मन्त्रं त्रैङ्पालनेऽस्त्रायफडित्यतोऽस्त्रम् ॥ १५ ॥ पूर्वं गुरुर्योऽस्य मनोर्विधानं विज्ञाय संसाधितवानृषिः स्यात् । इच्छाप्रधानार्थकथां तु योगाच्छन्दो भवेद् वर्णगतं यथावत् ॥ १६ ॥ ददात्यभीष्टानवतीह दुःखाद् या देवता दैवतभावदानात् । सा देवताख्या मनुवाच्यवस्तुस्वरूपिणी यत् कथितं प्रपञ्चे ॥ १० ॥ मन्त्रात्मिकायास्त्वथ देवताया मूर्तिर्हि सर्वो मनुवर्णपूगः ।
शक्तिस्तु तत्पूर्तिकरी चितिः स्याद् बीजाख्यमस्यैव तु जीवभूतम् ॥ १८॥ तच्छन्दो मुनिरहितं जपेद् यदासौ तुच्छं वै दिशति फलं तु बीजशक्तयोः। अज्ञानाद् व्रजति मनुर्जडत्वमङ्गैरन्यस्तैरसुरगणा हरन्ति जप्यम् ॥ १९॥ शुद्धो विष्णुर्येन केन स्वरेण स्पृष्टो वह्निर्होमसंवर्तको वा ।
ठोपोवोमा(?) सोऽपि वामाक्षयुक्तो बीजं खड्गी सामरेशोऽपि मन्त्रे॥२०॥ सानन्तो वा वामपार्श्वं भुजादिर्वामाक्षाढ्यो वाथ मेषोधिसूक्ष्मौ ।
सामान्याः स्युः सर्वमन्त्रेषु बीजान्येतान्येवं यत्र नोक्तं तु बीजम् ॥ ११ ॥
एकाक्षरस्य तु मनोर्न परं तु देववीजं वदन्ति यदतः परतः पुरोक्तम् ।
शक्तिश्च नादसमबिन्दुरनिश्चिता चेद् बीजादजः परतरः खलु शक्तिरुक्ता ॥
राशेस्तथा साधकसाध्यनाम्नोर्नक्षत्रयोः सर्वमिहानुकूलम् । यो मन्त्र उक्तेन जपेन सिध्येत् सिध्येन्न मन्त्रोऽपि चिरेण वान्यः ॥ २३ ॥
नामर्क्षराश्यादिकमानुकूल्यं मन्त्रेषु सप्तस्वनपेक्ष्यमेषु ।
हंसाष्टपञ्चाक्षरवह्नितारैः सावित्रिसञ्जीवनगोपकेषु ॥ २४ ॥
mimicommen 1. 'त्र', २. 'ति', ३. 'न्त्रत्रपा' ख. पाठः. ४: 'कोपो मोवो सो', ५. 'व्यै' ग. पाठः. ६. "विधानु' ख. पाट...