सामग्री पर जाएँ

प्रत्यभिज्ञाहृदयम्

विकिस्रोतः तः
ॐ नमो मङ्गलमूर्तये ।
अथ प्रत्यभिज्ञाहृदयम् ॥ [१]


________


नमः शिवाय सततं पञ्चकृत्यविधायिने ।
चिदानन्दघनस्वात्मपरमार्थावभासिने ॥ [२]
शाङ्करोपनिषत्सारप्रत्यभिज्ञामहोदधेः ।
क्षेमेणोद्धृयते सारः संसारविषशान्तये ॥


इह ये सुकुमारमतयोऽकृततीक्ष्णतर्कशास्त्रपरिश्रमाः
शक्तिपातोन्मिषितपारमेश्वरसमावेशाभिलाषिणः कतिचित्भक्तिभाजः
तेषामीश्वरप्रत्यभिज्ञोपदेशतत्त्वं मनाकुन्मील्यते । तत्र
स्वात्मदेवताया एव सर्वत्र कारणत्वं सुखोपायप्राप्यत्वं महाफलत्व.=
म्
च अभिव्यङ्क्तुमाह
चितिः स्वतन्त्रा विश्वसिद्धिहेतुः ॥ १ ॥


विश्वस्य सदाशिवादेः भूम्यन्तस्य सिद्धौ निष्पत्तौ प्रकाशने
स्थित्यात्मनि परप्रमातृविश्रान्त्यात्मनि च संहारे पराशक्तिरूपा चितिर्
एव भगवती स्वतन्त्रा अनुत्तरविमर्शमयी शिवभट्टारकाभिन्ना हेतुः
कारणम् । अस्यां हि प्रसरन्त्यां जगतुन्मिषति व्यवतिष्ठते च
निवृत्तप्रसरायां च निमिषति इति स्वानुभव एव अत्र साक्षी ।
अन्यस्य तु मायाप्रकृत्यादेः चित्प्रकाशभिन्नस्य अप्रकाशमानत्वेन
असत्त्वान्न क्वचिदपि हेतुत्वं प्रकाशमानत्वे तु प्रकाशैकात्म्यात्
प्रकाशरूपा चितिरेव हेतुः न त्वसौ कश्चित् ।
अत एव देशकालाकारा एतत्सृष्टा एतदनुप्राणिताश्च नैतत्स्वरूपं
भेत्तुमलमिति व्यापकनित्योदितपरिपूर्णरूपा इयमित्यर्थलभ्यमेव
एतत् । ननु जगदपि चितो भिन्नं नैव किंचितभेदे च कथं
हेतुहेतुमद्भावः उच्यते । चिदेव भगवती स्वच्छस्वतन्त्ररूपा
तत्तदनन्तजगदात्मना स्फुरति इत्येतावत्परमार्थोऽयं
कार्यकारणभावः । यतश्च इयमेव प्रमातृप्रमाणप्रमेयमयस्य
विश्वस्य सिद्धौ प्रकाशने हेतुः ततोऽस्याः
स्वतन्त्रापरिच्छिन्नस्वप्रकाशरूपायाः सिद्धौ अभिनवार्थप्रकाशनरूप.=
म्
न प्रमाणवराकमुपयुक्तमुपपन्नं वा ।
तदुक्तं त्रिकसारे


स्वपदा स्वशिरश्छायां यद्वल्लङ्घितुमीहते ।
पादोद्देशे शिरो न स्यात्तथेयं बैन्दवी कला ॥ इति ।


यतश्च इयं विश्वस्य सिद्धौ पराद्वयसमारस्यापादनात्मनि च संहरे
हेतुः तत एव स्वतन्त्रा । प्रत्यभिज्ञातस्वातन्त्र्या सती
भोगमोक्षस्वरूपाणां विश्वसिद्धीनां हेतुः ।
इत्यावृत्त्या व्याख्येयम् । अपि च विश्वं नीलसुखदेहप्राणादि तस्य या
सिद्धिः प्रमानोपारोहक्रमेण विमर्शमयप्रमात्रावेशः सैव हेतुः
परिज्ञाने उपायो यस्याः । अनेन च सुखोपायत्वमुक्तम् । यदुक्तं
श्रीविज्ञानभट्टारके


ग्राह्यग्राहकसंवित्तिः सामान्या सर्वदेहिनाम् ।
योगिनां तु विशेषोऽयं संबन्धे सावधानता [३] ॥ इति ।


चितिः इति एकवचनं देशकालाद्यनवच्छिन्नतामभिदधत्
समस्तभेदवादानामवास्तवतां व्यनक्ति । स्वतन्त्रशब्दो
ब्रह्मवादवैलक्षण्यमाचक्षाणः चितो माहेश्वर्यसारतां ब्रूते ।
विश्व इत्यादिपदमशेषशक्तित्वं सर्वकारणत्वं सुखोपायत्वं
महाफलं च आह ॥


ननु विश्वस्य यदि चितिः हेतुः ततस्या उपादानाद्यपेक्षायां
भेदवादापरित्यागः स्यात्
इत्याशङ्क्य आह
स्वेच्छया स्वभित्तौ विश्वमुन्मीलयति ॥ २ ॥


स्वेच्छया न तु ब्रह्मादिवदन्येच्छया । तयैव च न तु उपादानाद्यपेक्षय्=
। एवं हि प्रागुक्तस्वातन्त्र्यहान्या चित्त्वमेव न घटेत । स्वभित्तौ न
तु अन्यत्र क्वापि । प्राक्निर्णीतं विश्वं दर्पणे नगरवतभिन्नमपि
भिन्नमिव उन्मीलयति । उन्मीलनं च अवस्थितस्यैव प्रकटीकरणमित्=
य्
अनेन जगतः प्रकशैकात्म्येनावस्थानमुक्तम् ॥


अथ विश्वस्य स्वरूपं विभागेन प्रतिपादयितुमाह
तन्नाना अनुरूपग्राह्यग्राहकभेदात् ॥ ३ ॥


तद्विश्वं नाना अनेकप्रकारम् । कथमनुरूपाणां
परस्परौचित्यावस्थीनां ग्राह्याणां ग्राहकाणां च भेदाद्वैचित्र्यात् ।
तथा च सदाशिवतत्त्वेऽहन्ताच्छादितास्फुटेदन्तामयं यादृशं
परापररूपं विश्वं ग्राह्यं तादृगेव
श्रीसदाशिवभट्टारकाधिष्ठितो मन्त्रमहेश्वराख्यः प्रमातृवर्गः
परमेश्वरेच्छावकल्पिततथावस्थानः ।
ईश्वरतत्त्वे स्फुटेदन्ताहन्तासामानाधिकरण्यात्म यादृग्विश्वं ग्राह्य.=
म्
तथाविध एव ईश्वरभट्टारकाधिष्ठितो मन्त्रेश्वरवर्गः ।
विद्यापदे श्रीमदनन्तभट्टारकाधिष्ठिता बहुशाखावान्तरभेदभिन्ना
यथाभूता मन्त्राः प्रमातारः तथाभूतमेव भेदैकसारं विश्वमपि
प्रमेयम् । मायोर्ध्वे यादृशा विज्ञानाकलाः
कर्तृताशून्यशुद्धबोधात्मानः तादृगेव तदभेदसारं
सकलप्रलयाकलात्मकपूर्वावस्थापरिचितमेषां प्रमेयम् । मायायां
शून्यप्रमातॄणां प्रलयकेवलिनां स्वोचितं प्रलीनकल्पं प्रमेयम् ।
क्षितिपर्यन्तावस्थितानांतु सकलानां सर्वतो भिन्नानां परिमितानां
तथाभूतमेव प्रमेयम् । तदुत्तीर्णशिवभट्टारकस्य
प्रकाशैकवपुषः प्रकाशैकरूपा एव भावाः । श्रीमत्परमशिवस्य
पुनः विश्वोत्तीर्णविश्वात्मकपरमानन्दमयप्रकाशैकघनस्य
एवंविधमेव शिवादिधरण्यन्तमखिलमभेदेनैव स्फुरति । न तु
वस्तुतः अन्यत्किंचित्ग्राह्यं ग्राहकं वा । अपि तु
श्रीपरमशिवभट्टारक एव इत्थं नानावैचित्र्यसहस्रैः स्फुरतीत्य्
अभिहितप्रायम् ॥



यथा च भगवान् विश्वशरीरः तथा
चितिसंकोचात्मा चेतनोऽपि संकुचितविश्वमयः ॥ ४ ॥


श्रीपरमशिवः स्वात्मैक्येन स्थितं विश्वं सदाशिवाद्युचितेन रूपेन
अवबिभासयिषुः पूर्वं
चिदैक्याख्यातिमयानाश्रितशिवपर्यायशून्यातिशून्यात्मतया प्रकाशाभेदेन
प्रकाशमानतया स्फुरति । ततः
चिद्रसाश्यानतारूपाशेषतत्त्वभुवनभावतत्तत्प्रमात्राद्यात्मतयापि
प्रथते । यथा च एवं भगवान् विश्वशरीरः तथा चितिसंकोचात्मा
संकुचितचिद्रूपः चेतनो ग्राहकोऽपि वटधानिकावत्
संकुचिताशेषविश्वरूपः । तथा च सिद्धान्तवचनम्


विग्रहो विग्रही चैव सर्वविग्रहविग्रही । इति ।


त्रिशिरोमतेऽपि=२०


सर्वदेवमयः कायस्तं चेदानीं शृणु प्रिये ।
पृथिवी कठिनत्वेन द्रवत्वेऽम्भः प्रकीर्तितम् ॥


इत्युपक्रम्य=२०


त्रिशिरोभैरवः साक्षाद्व्याप्य विश्वं व्यवस्थितः ।


इत्यन्तेन ग्रन्थेन ग्राहकस्य संकुचितविश्वमयत्वमेव व्याहरति ।
अयं चात्राशयः ग्राहकोऽपि अयं प्रकाशैकात्म्येन उक्तागमयुक्त्या च
विश्वशरीरशिवैकरूप एव केवलं तन्मायाशक्त्या
अनभिव्यक्तस्वरूपत्वात्संकुचित इव आभाति । संकोचोऽपि विचार्यमाणः
चिदैकात्म्येन प्रथमानत्वात्चिन्मय एव । अन्यथा तु न किंचितिति सर्वो
ग्राहको विश्वशरीरः शिवभट्टारक एव । तदुक्तं मयैव


अख्यातिर्यदि न ख्याति ख्यातिरेवावशिष्यते ।
ख्याति चेत्ख्यातिरूपत्वात्ख्यातिरेवावशिष्यते ॥ इति ।


अनेनैवाशयेन श्रीस्पन्दशास्त्रेषु


यस्मात्सर्वमयो जीवः ............................ ।


इत्युपक्रम्य=२०


तेन शब्दार्थचिन्तासु न सावस्था न यः शिवः [४] ।


इत्यादिना शिवजीवयोरभेद एवोक्तः । एतत्तत्त्वपरिज्ञानमेव मुक्तिः ।
एतत्तत्त्वापरिज्ञानमेव च बन्ध इति भविष्यति एव एतत् ॥



ननु ग्राहकोऽयं विकल्पमयः विकल्पनं च चित्तहेतुकं सति च चित्ते
कथमस्य शिवात्मकत्वमिति शङ्क्त्वा चित्तमेव निर्नेतुमाह
चितिरेव चेतनपदादवरूढा चेत्यसंकोचिनी
चित्तम् ॥ ५ ॥


न चित्तं नाम अन्यत्किंचितपि तु सैव भगवती तत् । तथा हि सा स्व.=
म्
स्वरूपं गोपयित्वा यदा संकोचं गृह्णाति तदा द्वयी गतिः । कदाचिद्
उल्लसितमपि संकोचं गुणीकृत्य चित्प्राधान्येन स्फुरति । कदाचित्
संकोचप्रधानतया । चित्प्राधान्यपक्षे सहजं प्रकाशमात्रप्रधानत्वे
विज्ञानाकलता । प्रकाशपरामर्शप्रधानत्वे तु विद्याप्रमातृता । तत्रापि
क्रमेण संकोचस्य तनुतायामीशसदाशिवानाश्रितरूपता ।
समाधिप्रयत्नोपार्जिते तु चित्प्रधानत्वे शुद्धाध्वप्रमातृता क्रमात्
क्रमं प्रकर्षवती । संकोचप्राधान्ये तु शून्यादिप्रमातृता । एवम्
अवस्थिते सति चितिरेव संकुचितग्राहकरूपा चेतनपदातवरूढा
अर्थग्रहणोन्मुखी सती चेत्येन नीलसुखादिना संकोचिनी
उभयसंकोचसंकुचितैव
चित्तम् । तथा च=२०


स्वाङ्गरूपेषु भावेषु पत्युर्ज्ञानं क्रिया च या ।
माया तृतीये ते एव पशोः सत्त्वं रजस्तमः [५] ॥ इत्यादिना


स्वातन्त्र्यात्मा चितिशक्तिरेव ज्ञानक्रियामायाशक्तिरूपा पशुदशायां
संकोचप्रकर्षात्सत्त्वरजस्तमःस्वभावचित्तात्मतया स्फुरतीति
श्रीप्रत्यभिज्ञायामुक्तम् । अत एव श्रीतत्त्वगर्भस्तोत्रे विकल्पदशायाम्
अपि तात्त्विकस्वरूपसद्भावात्तदनुसरणाभिप्रायेणोक्तम्


अत एव तु ये केचित्परमार्थानुसारिणः ।
तेषां तत्र स्वरूपस्य स्वज्योतिष्ट्वं न लुप्यते ॥ इति ॥



चित्तमेव तु मायाप्रमातुः स्वरूपमित्याह
तन्मयो मायाप्रमाता ॥ ६ ॥


देहप्राणपदं तावत्चित्तप्रधानमेव । शून्यभूमिरपि
चित्तसंस्कारवत्येव । अन्यथा ततो व्युत्थितस्य
स्वकर्तव्यानुधावनाभावः स्यादिति चित्तमय एव मायीयः प्रमाता ।
अमुनैव आशयेन शिवसूत्रेषु वस्तुवृत्तानुसारेण "चैतन्यमात्मा" [६]
इत्यभिधाय मायाप्रमातृलक्षणावसरे पुनः "चित्तमात्मा" [७] इत्युक्त=
म्
अस्यैव सम्यक्स्वरूपज्ञानात्यतो मुक्तिः असम्यक्तु संसारः ततः
तिलश एतत्स्वरूपं निर्भङ्क्तुमाह
स चैको द्विरूपस्त्रिमयश्चतुरात्मा
सप्तपञ्चकस्वभावः ॥ ७ ॥


निर्णीतदृशा चिदात्मा शिवभट्टारक एव एक आत्मा न तु अन्यः कश्चित्
प्रकाशस्य देशकालादिभिः भेदायोगात् । जडस्य तु ग्राहकत्वानुपपत्तेः
। प्रकाश एव यतः स्वातन्त्र्यात्गृहीतप्राणादिसंकोचः
संकुचितार्थग्राहकतामश्नुते ततोऽसौ
प्रकाशरूपत्वसंकोचावभासवत्त्वाभ्यां द्विरूपः ।
आणवमायीयकार्ममलावृतत्वात्त्रिमयः ।
शून्यप्राणपुर्यष्टकशरीरस्वभावत्वात्चतुरात्मा । सप्तपञ्चकानि
शिवादिपृथिव्यन्तानि पञ्चत्रिंशत्तत्त्वानि तत्स्वभावः ।
तथा शिवादिसकलान्तप्रमातृसप्तकस्वरूपः ।
चिदानन्देच्छाज्ञानक्रियाशक्तिरूपत्वेऽपि अख्यातिवशात्
कलाविद्यारागकालनियतिकञ्चुकवलितत्वात्पञ्चकस्वरूपः । एवं च
शिवैकरूपत्वेन पञ्चत्रिंशत्तत्त्वमयत्वेन प्रमातृसप्तकस्वभावत्वेन्=
चिदादिशक्तिपञ्चकात्मकत्वेन च अयं प्रत्यभिज्ञायमानो मुक्तिः । अन्यथा
तु संसारहेतुः ॥


एवं च
तद्भूमिकाः सर्वदर्शनस्थितयः ॥ ८ ॥


सर्वेषां चार्वाकादिदर्शनानां स्थितयः सिद्धान्ताः तस्य एतस्य आत्मनो
नटस्येव स्वेच्छावगृहीताः कृत्रिमा भूमिकाः । तथा च
चैतन्यविशिष्टं शरीरमात्मा इति चार्वाकाः । नैयायिकादयो
ज्ञानादिगुणगणाश्रयं बुद्धितत्त्वप्रायमेव आत्मानं संसृतौ
मन्यन्ते । अपवर्गे तु तदुच्छेदे शून्यप्रायम् ।
अहंप्रतीतिप्रत्येयः सुखदुःखाद्युपाधिभिः तिरस्कृतात्मा मन्वाना
मीमांसकाऽपि बुद्धावेव निविष्टा । ज्ञानसन्तान एव तत्त्वमिति सौगत्=
बुद्धिवृत्तिष्वेव पर्यवसिताः । प्राण एवात्मेति केचित्श्रुत्यन्तविदः =
असदेव इदमासीदित्यभावब्रह्मवादिनः शून्यभुवमवगाह्य स्थिताः =
माध्यमिकापि एवमेव ।
परा प्रकृतिर्भगवान् वासुदेवः तद्विस्फुलिङ्गप्राया एव जीवा इति
पाञ्चरात्राः परस्याः प्रकृतेः परिणामाभ्युपगमातव्यक्त
एवाभिनिविष्टाः । सांख्यादयस्तु विज्ञानकलप्रायां भूमिमवलम्बन्ते
सदेव इदमग्र आसीदिति ईश्वरतत्त्वपदमाश्रिता अपरे श्रुत्यन्तविद.=
ह्
।=२०
शब्दब्रह्ममयं पश्यन्तीरूपमात्मतत्त्वमिति वैयाकरणाः
श्रीसदाशिवपदमध्यासिताः ।
एवमन्यदपि अनुमन्तव्यम् । एतच्च आगमेषु


बुद्धितत्त्वे स्थिता बौद्धा गुणेष्वेवार्हताः स्थिताः ।
स्थिता वेदविदः पुंसि अव्यक्ते पाञ्चरात्रिकाः ॥


इत्यादिना निरूपितम् ।
विश्वोत्तीर्णमात्मतत्त्वमिति तान्त्रिकाः । विश्वमयमिति
कुलाद्याम्नायनिविष्टाः । विश्वोत्तीर्णं विश्वमयं च इति
त्रिकादिदर्शनविदः । एवमेकस्यैव चिदात्मनो भगवतः
स्वातन्त्र्यावभासिताः सर्वा इमा भूमिकाः
स्वातन्त्र्यप्रच्छादनोन्मीलनतारतम्यभेदिताः । अत एक एव
एतावद्व्याप्तिकात्मा । मितदृष्टयस्तु अंशांशिकासु तदिच्छयैव
अभिमानं ग्राहिताः येन देहादिषु भूमिषु
पूर्वपूर्वप्रमातृव्याप्तिसारताप्रथायामपि उक्तरूपां
महाव्यप्तिं परशक्तिपातं विना न लभन्ते ।
यथोक्तं=२०


वैष्णवाद्यास्तु ये केचित्विद्यारागेण रञ्जिताः ।
न विदन्ति परं देवं सर्वज्ञं ज्ञानशालिनम् ॥ इति ।


तथा=२०


भ्रमयत्येव तान्माया ह्यमोक्षे मोक्षलिप्सया [८] । इति ।
त आत्मोपासकाः शैवं न गच्छन्ति परं पदम् [९] । इति च ।


अपि च सर्वेषां दर्शनानां समस्तानां नीलसुखादिज्ञानानां याः
स्थितयः अन्तर्मुखरूपा विश्रान्तयः ताः तद्भूमिकाः
चिदानन्दघनस्वात्मस्वरूपाभिव्यक्त्युपायाः ।
तथा हि यदा यदा बहिर्मुखं रूपं स्वरूपे विश्राम्यति
तदा तदा बाह्यवस्तूपसंहारः अन्तःप्रशान्तपदावस्थितिः
तत्तदुदेष्यत्संवित्सन्तत्यासूत्रणमिति सृष्टिस्थितिसंहारमेलनरूप्=
इयं तुरीया संविद्भट्टारिका तत्तत्सृष्ट्यादिभेदानुद्वमन्ती
संहरन्ती च सदा पूर्णा च कृशा च उभयरूपा च अनुभयात्मा च अक्रम=
म्
एव स्फुरन्ती स्थिता । उक्तं च श्रीप्रत्यभिज्ञाटीकायां


तावदर्थावलेहेन उत्तिष्ठति पूर्णा च भवति । इति ।


एषा च भट्टारिका क्रमात्क्रममधिकमनुशील्यमाना स्वात्मसात्करोत्य्
एव भक्तजनम् ॥



यदि एवंभूतस्य आत्मनो विभूतिः तत्कथमयं मलावृतोऽणुः
कलादिवलितः संसारी अभिधीयते इत्याह
चिद्वत्तच्छक्तिसंकोचात्मलावृतः संसारी ॥ ९ ॥


यदा चिदात्मा परमेश्वरः स्वस्वातन्त्र्यातभेदव्याप्तिं निमज्ज्य
भेदव्याप्तिमवलम्बते तदा तदीया इच्छादिशक्तयः असंकुचिता अपि
संकोचवत्यो भान्ति । तदानीमेव अयं मलावृतः संसारी भवति ।
तथा च अप्रतिहतस्वातन्त्र्यरूपा इच्छाशक्तिः संकुचिता सती
अपूर्णमन्यतारूपं [१०] आणवं मलम् । ज्ञानशक्तिः क्रमेण संकोचात्
भेदे सर्वज्ञत्वस्य किंचिज्ज्ञत्वाप्तेः
अन्तःकरणबुद्धीन्द्रियतापत्तिपूर्वमत्यन्तसंकोचग्रहणेन [११]
भिन्नवेद्यप्रथारूपं मायीयं मलम् ।
क्रियाशक्तिः क्रमेण भेदे सर्वकर्तृत्वस्य किंचित्कर्तृत्वाप्तेः
कर्मेन्द्रियरूपसंकोचग्रहणपूर्वमत्यन्तपरिमिततां [१२] प्राप्ता
शुभाशुभानुष्टानमयं कार्मं मलम् ।
तथा सर्वकर्तृत्वसर्वज्ञत्वपूर्णत्वनित्यत्वव्यापकत्वशक्तयः
संकोचं गृह्णाना यथाक्रमं कलाविद्यारागकालनियतिरूपतया भान्ति ।
तथाविधश्च अयं शक्तिदरिद्रः संसारी उच्यते । स्वशक्तिविकासे तु
शिव एव ॥



ननु संसार्यवस्थायामस्य किंचित्शिवतोचितमभिज्ञानमस्ति येन
शिव एव तथावस्थित इत्युद्घोष्यते अस्तीत्याह
तथापि तद्वत्पञ्चकृत्यानि करोति ॥ १० ॥


इह ईश्वराद्वयदर्शनस्य ब्रह्मवादिभ्यः अयमेव विशेषः ।
यत्=२०


सृष्टिसंहारकर्तारं विलयस्थितिकारकम् ।
अनुग्रहकरं देवं प्रणतार्तिविनाशनम् [१३] ॥ इति


श्रिमत्स्वच्छन्दादिशासनोक्तनीत्या सदा पञ्चविधकृत्यकारित्वं चिदात्मनो
भगवतः । यथा च भगवान् शुद्धेतराध्वस्फारणक्रमेण
स्वरूपविकासरूपाणि सृष्ट्यादीनि करोति तथा संकुचितचिच्छक्त्या
संसारभूमिकायामपि पञ्चकृत्यानि
विधत्ते । तथा हि


तदेवं व्यवहारेऽपि प्रभुर्देहादिमाविशन् ।
भान्तमेवान्तरर्थौघमिच्छया भासयेद्बहिः [१४] ॥


इति प्रत्यभिज्ञाकारिकोक्तार्थदृष्ट्या देहप्राणादिपदमाविशन् चिद्रूपो
महेश्वरो बहिर्मुखीभावावसरे नीलादिकमर्थं नियतदेशकालादितया
यदा आभासयति तदा नियतदेशकालाद्याभासांशे अस्य स्रष्टृता ।
अन्यदेशकालाद्याभासांशे अस्य संहर्तृता ।
नीलाद्याभासांशे स्थापकता । भेदेन आभासांशे विलयकारिता ।
प्रकाशैक्येन प्रकाशने अनुग्रहीतृता । यथा च सदा
पञ्चविधकृत्यकारित्वं भगवतः तथा मया वितत्य स्पन्दसन्दोहे
निर्नीतम् । एवमिदं पञ्चविधकृत्यकारित्वमात्मीयं सदा
दृढप्रतिपत्त्या परिशील्यमानं माहेश्वर्यमुन्मीलयत्येव
भक्तिभाजाम् । अत एव ये सदा एतत्परिशीलयन्ति ते स्वरूपविकासमयं
विश्वं जानाना जीवन्मुक्ता इत्याम्नाताः । ये तु न तथा ते सर्वतो
विभिन्नं मेयजातं पश्यन्तो बद्धात्मनः ॥



न च अयमेव प्रकारः पञ्चविधकृत्यकारित्वे यावदन्योऽपि कश्चित्
रहस्यरूपोऽस्तीत्याह
आभासनरक्तिविमर्शनबीजावस्थापनविलापनतस्
तानि ॥ ११ ॥


पञ्चविधकृत्यानि करोति इति पूर्वतः संबध्यते ।
श्रीमन्महार्थदृष्ट्या दृगादिदेवीप्रसरणक्रमेण यद्यदाभाति तत्
तत्सृज्यते । तथा सृष्टे पदे तत्र यदा प्रशान्तनिमेषं कंचित्
कालं रज्यति तदा स्थितिदेव्या तत्स्थप्यते ।
चमत्कारापरपर्यायविमर्शनसमये तु संह्रियते । यथोक्तं श्रीरामेन


समाधिवज्रेणाप्यन्यैरभेद्यो भेदभूधरः ।
परामृष्टश्च नष्टश्च त्वद्भक्तिबलशालिभिः ॥ इति ।


यदा तु संह्रियमाणमपि एततन्तः विचित्राशङ्कादिसंस्कारमाधत्ते
तदा तत्पुनरुद्भविष्यत्संसारबीजभावमापन्नं
विलयपदमध्यारोपितम् । यदा पुनः तत्तथान्तःस्थापितमन्यद्
वानुभूयमानमेव हठपाकक्रमेणालंग्रासयुक्त्या चिदग्निसाद्भावम्
आपद्यते तदा पूर्णतापादनेन अनुगृह्यत एव । ईदृशं च
पञ्चविधकृत्यकारित्वं सर्वस्य सदा सन्निहितमपि सद्गुरूपदेशं विन्=
न प्रकाशत इति सद्गुरुसपर्यैव एतत्प्रथार्थमनुसर्तव्या ॥
यस्य पुनः सद्गुरूपदेशं विना एतत्परिज्ञानं नास्ति
तस्यावच्छादितस्वस्वरूपाभिः निजाभिः शक्तिभिः व्यामोहितत्वं
भवतीत्याह
तदपरिज्ञाने स्वशक्तिभिर्व्यामोहितता
संसारित्वम् ॥ १२ ॥


तस्यैतस्य सदा संभवतः पञ्चविधकृत्यकारित्वस्य अपरिज्ञाने
शक्तिपातहेतुकस्वबलोन्मीलनाभावातप्रकाशने स्वभिः शक्तिभिः
व्यामोहितत्वं विविधलौकिकशास्त्रीयशङ्काशङ्कुकीलितत्वं यतिदमेव्=
संसारित्वम् । तदुक्तं श्रीसर्ववीरभट्टारके


अज्ञानाच्छङ्कते लोकस्ततः सृष्टिश्च संहृतिः । इति ।
मन्त्रा वर्णात्मकाः सर्वे सर्वे वर्णाः शिवात्मकाः । इति च ।


तथा हि चित्प्रकाशातव्यतिरिक्ता नित्योदितमहामन्त्ररूपा
पूर्णाहंविमर्शमयी येयं परावाक्छक्तिः
आदिक्षान्तरूपाशेषशक्तिचक्रगर्भिणी सा तावत्
पश्यन्तीमध्यमादिक्रमेण ग्राहकभूमिकां भासयति ।
तत्र च परारूपत्वेन स्वरूपमप्रथयन्ती मायाप्रमातुः
अस्फुटासाधारणार्थावभासरूपां प्रतिक्षणं नवनवां विकल्पक्रिया.=
म्
उल्लासयति । शुद्धामपि च अविकल्पभूमिं तदाच्छादितामेव दर्शयति ।
तत्र च ब्राह्म्यादिदेवताधिष्ठितककारादिविचित्रशक्तिभिः व्यामोहितो
देहप्राणादिमेव परिमितमवशमात्मानं मन्यते मूढजनः ।
ब्राह्म्यादिदेव्यः पशुदशायां भेदविषये सृष्टिस्थिती अभेदविषये च्=
संहारं प्रथयन्त्यः परिमितविकल्पपात्रतामेव संपादयन्ति ।
पतिदशायां तु भेदे संहारमभेदे च सर्गस्थिती प्रकटयन्त्यः
क्रमात्क्रमं विकल्पनिर्ह्रासनेन श्रीमद्भैरवमुद्रानुप्रवेशमयीं
महतीमविकल्पभूमिमेव उन्मीलयन्ति ।


सर्वो ममायं विभव इत्येवं परिजानतः ।
विश्वात्मनो विकल्पानां प्रसरेऽपि महेशता [१५] ॥


इत्यादिरूपां चिदानन्दावेशमग्नां शुद्धविकल्पशक्तिमुल्लासयन्ति ।
ततः उक्तनीत्या स्वशक्तिव्यामोहिततैव संसारित्वम् ।
किं च चितिशक्तिरेव भगवती विश्ववमनात्संसारवामाचारत्वाच्च
वामेश्वर्याख्या सती खेचरीगोचरीदिक्चरीभूचरीरूपैः अशेषैः
प्रमात्रन्तःकरणबहिष्करणभावस्वभावैः परिस्फुरन्ती
पशुभूमिकायां शून्यपदविश्रान्ता
किंचित्कर्तृत्वाद्यात्मककलादिशक्त्यात्मना खेचरीचक्रेण
गोपितपारमार्थिकचिद्गगनचरीत्वस्वरूपेण चकस्ति ।
भेदनिश्चयाभिमानविकल्पनप्रधानान्तःकरणदेवीरूपेण गोचरीचक्रेन
गोपिताभेदनिश्चयाद्यात्मकपारमार्थिकस्वरूपेण प्रकाशते ।
भेदालोचनादिप्रधानबहिष्करणदेवतात्मना च दिक्चरीचक्रेण
गोपिताभेदप्रथात्मकपारमार्थिकस्वरूपेण स्फुरति । सर्वतो
व्यवच्छिन्नाभासस्वभावप्रमेयात्मना च भूचरीचक्रेण
गोपितसार्वात्म्यस्वरूपेण पशुहृदयव्यामोहिना
भाति । पतिभूमिकायां तु सर्वकर्तृत्वादिशक्त्यात्मकचिद्गगनचरीत्वेन
अभेदनिश्चयाद्यात्मना गोचरीत्वेन अभेदालोचनाद्यात्मना दिक्चरीत्वेन
स्वाङ्गकल्पाद्वयप्रथासारप्रमेयात्मना च भूचरीत्वेन पतिहृदयविकासिना
स्फुरति । तथा चोक्तं सहजचमत्कारपरिजनिताकृतकादरेण
भट्टदामोदरेण विमुक्तकेषु


पूर्णावच्छिन्नमात्रान्तर्बहिष्करणभावगाः ।
वामेशाद्याः परिज्ञानाज्ञानात्स्युर्मुक्तिबन्धदाः ॥ इति ।


एवं च निजशक्तिव्यामोहिततैव संसरित्वम् । अपि च चिदात्मनः
परमेश्वरस्य स्वा अनपायिनी एकैव स्फुरत्तासारकर्तृतात्मा
ऐश्वर्यशक्तिः । सा यदा स्वरूपं गोपयित्वा पाशवे पदे
प्राणापानसमानशक्तिदशाभिः जाग्रत्स्वप्नसुषुप्तभूमिभिः
देहप्राणपुर्यष्टककलाभिश्च व्यामोहयति तदा तद्व्यामोहितता
संसारित्वम् । यदा तु मध्यधामोल्लासामुदानशक्तिं विश्वव्याप्तिसारां
च व्यानशक्तिं तुर्यदशारूपां तुर्यातीतदशारूपां च चिदानन्दघनां
उन्मीलयति तदा देहाद्यवस्थायामपि पतिदशात्मा जीवन्मुक्तिर्भवति ।
एवं त्रिधा स्वशक्तिव्यामोहितता व्याख्याता ।
चिद्वतिति सूत्रे [१६] चित्प्रकाशो गृहीतसंकोचः संसारी इत्युक्तम् । इह्=
तु स्वशक्तिव्यामोहितत्वेन अस्य संसारित्वं भवति इति भङ्ग्यन्तरेण
उक्तम् । एवं संकुचितशक्तिः प्राणादिमानपि यदा स्वशक्तिव्यामोहितो न
भवति तदा अयं शरीरी परमेश्वरः इत्याम्नायस्थित्या
शिवभट्टारक एव इति भङ्ग्या निरूपितं भवति ।
यदागमः=२०


मनुष्यदेहमास्थाय छन्नास्ते परमेश्वराः । इति ।


उक्तं च प्रत्यभिज्ञाटीकायां "शरीरमेव घटाद्यपि वा ये
षट्त्रिंशत्तत्त्वमयं शिवरूपतयापश्यन्ति तेऽपि सिध्यन्ति" इति ॥


उक्तसूत्रार्थप्रातिपक्ष्येण तत्त्वदृष्टिं दर्शयितुमाह
तत्परिज्ञाने चित्तमेव अन्तर्मुखीभावेन
चेतनपदाध्यारोहात्चितिः ॥ १३ ॥


पूर्वसूत्रव्याख्याप्रसङ्गेन प्रमेयदृष्ट्या वितत्य व्याख्यातप्रायमेतत्
सूत्रम् । शब्दसंगत्या तु अधुना व्याख्यायते । तस्यात्मीयस्य
पञ्चकृत्यकारित्वस्य परिज्ञाने सति अपरिज्ञानलक्षणकारणापगमात्
स्वशक्तिव्यामोहिततानिवृत्तौ स्वातन्त्र्यलभात्प्राक्व्याख्यातं यत्चित्तं
तदेव संकोचिनीं बहिर्मुखतां जहतन्तर्मुखीभावेन
चेतनपदाध्यारोहात्ग्राहकभूमिकाक्रमणक्रमेण संकोचकलाया अपि
विगलनेन स्वरूपापत्त्या चितिर्भवति । स्वां चिन्मयीं परां भूमिम्
आविशतीत्यर्थः ॥



ननु यदि पारमार्थिकं चिच्छक्तिपदं सकलभेदकवलनस्वभावं [१७]
तदस्य मायापदेऽपि तथारूपेण भवितव्यं यथा जलदाच्छादितस्यापि
भानोः भावावभासकत्वमित्याशङ्क्याह
चितिवह्निररोहपदे छन्नोऽपि मात्रया
मेयेन्धनं प्लुष्यति ॥ १४ ॥


चितिरेव विश्वग्रसनशीलत्वात्वह्निः । असौ एव अवरोहपदे
मायाप्रमातृतायां छन्नोऽपि स्वातन्त्र्याताच्छादितस्वभावोऽपि
भूरिभूतिछन्नाग्निवत्मात्रया अंशेन नीलपीतादिप्रमेयेन्धनं प्लुष्यति
स्वात्मसात्करोति । मात्रापदस्येदमाकूतं यत्कवलयन्नपि सार्वात्म्येन न
ग्रसते अपि तु अंशेन संस्कारात्मना उत्थापयति ।
ग्रासकत्वं च सर्वप्रमातॄणां स्वानुभवत एव सिद्धम् । यदुक्तं
श्रीमदुत्पलदेवपादैः निजस्तोत्रेषु


वर्तन्ते जन्तवोऽशेषा अपि ब्रह्मेन्द्रविष्णवः ।
ग्रसमानास्ततो वन्दे देव विश्वं भवन्मयम् [१८] ॥ इति ॥



यदा पुनः करणेश्वरीप्रसरसंकोचं संपाद्य
सर्गसंहारक्रमपरिशीलनयुक्तिमाविशति तदा
बललाभे विश्वमात्मसात्करोति ॥ १५ ॥


चितिरेव देहप्राणाद्याच्छादननिमज्जनेन स्वरूपमुन्मग्नत्वेन
स्फारयन्ती बलम् । यथोक्तम्


तदाक्रम्य बलं मन्त्राः ... ... [१९] । इति ।


एवं च बललाभे उन्मग्नस्वरूपाश्रयणे क्षित्यादिसदाशिवान्तं विश्वं
आत्मसात्करोति स्वस्वरूपाभेदेन निर्भासयति ।
तदुक्तं पूर्वगुरुभिः स्वभाषामयेषु क्रमसूत्रेषु


यथा वह्निरुद्बोधितो दाह्यं दहति तथा विषयपाशान् भक्षयेत् । इति =


न चैवं वक्तव्यम् =अद्विश्वात्मसात्काररूपा समावेशभूः कादाचित्की ।
कथमुपादेया इयं स्यादिति यतो देहाद्युन्मज्जननिमज्जनवशेन इयं
अस्याः कादाचित्कत्वमिव आभाति । वस्तुतस्तु
चितिस्वातन्त्र्यावभासितदेहाद्युन्मज्जनादेव कादाचित्कत्वम् ।
एषा तु सदैव प्रकाशमाना । अन्यथा तद्देहाद्यपि न प्रकाशेत ।
अत एव देहादिप्रमातृताभिमाननिमज्जनाय अभ्यासः । न तु
सदाप्रथमानतासारप्रमातृताप्राप्त्यर्थमिति श्रीप्रत्यभिज्ञाकाराः ॥



एवं च
चिदानन्दलाभे देहादिषु चेत्यमानेष्वपि
चिदैकात्म्यप्रतिपत्तिदार्ढ्यं जीवन्मुक्तिः ॥ १६ ॥


विश्वात्मसात्कारात्मनि समावेशरूपे चिदानन्दे लब्धे व्युत्थानदशायां
दलकल्पतया देहप्राणनीलसुखादिषु आभासमानेष्वपि यत्
समावेशसंस्कारबलात्प्रतिपादयिष्यमाणयुक्तिक्रमोपबृंहितात्
चिदैकात्म्यप्रतिपत्तिदार्ढ्यम् ।
अविचला चिदेकत्वप्रथा सैव जीवन्मुक्तिः जीवतः प्राणानपि धारयतो
मुक्तिः प्रत्यभिज्ञातनिजस्वरूपविद्राविताशेषपाशराशित्वात् ।
यथोक्तं स्पन्दशास्त्रे


इति वा यस्य संवित्तिः क्रीडात्वेनाखिलं जगत् ।
स पश्यन् सततं युक्तो जीवन्मुक्तो न संशयः [२०] ॥ इति ॥



अथ कथं चिदानन्दलाभो भवति इत्याह
मध्यविकासाच्चिदानन्दलाभः ॥ १७ ॥


सर्वान्तरतमत्वेन वर्तमानत्वात्तद्भित्तिलग्नतां विना च कस्यचिदपि
स्वरूपानुपपत्तेः संविदेव भगवती मध्यम् । सा तु मायादशायां
तथाभूतापि स्वरूपं गूहयित्वा "प्राक्संवित्प्राणे परिणता " इति नीत्या
प्राणशक्तिभूमिं स्वीकृत्य अवरोहक्रमेण बुद्धिदेहादिभुवं
अधिशयाना नाडीसहस्रसरणिमनुसृता ।
तत्रापि च पलाशपर्णमध्यशाखान्यायेन आब्रह्मरन्ध्रात्
अधोवक्त्रपर्यन्तं प्राणशक्तिब्रह्माश्रयमध्यमनाडीरूपतया
प्राधान्येन स्थिता । तत एव सर्ववृत्तीनामुदयात्तत्रैव च विश्रामात् ।
एवंभूताप्येषा पशूनां निमीलितस्वरूपैव स्थिता ।
यदा तु उक्तयुक्तिक्रमेण सर्वान्तरतमत्वे [२१] मध्यभूता संविद्
भगवती विकसति यदि वा वक्ष्यमाणक्रमेण मध्यभूता ब्रह्मनाडी
विकसति तदा तद्विकासाच्चिदानन्दस्य उक्तरूपस्य लाभः प्राप्तिः भवति =
ततश्च प्रागुक्ता जीवन्मुक्तिः ॥
मध्यविकासे युक्तिमाह
विकल्पक्षयशक्तिसंकोचविकासवाहच्छेदाद्यन्तकोटिनिभालनादय
इह उपायाः ॥ १८ ॥


इह मध्यशक्तिविकासे विकल्पक्षयादय उपायाः ।
प्रागुपदिष्टपञ्चविधकृत्यकारित्वाद्यनुसरणेन सर्वमध्यभूतायाः
संविदो विकासो जायत इत्यभिहितप्रायम् । उपायान्तरमपि तु उच्यते
प्राणायाममुद्राबन्धादिसमस्तयन्त्रणातन्त्रत्रोटनेन सुखोपायमेव
हृदये निहितचित्तः उक्तयुक्त्या स्वस्थितिप्रतिबन्धकं विकल्पं
अकिंचिच्चिन्तकत्वेन प्रशमयनविकल्पपरामर्शेन
देहाद्यकलुषस्वचित्प्रमातृतानिभालनप्रवणः अचिरादेव
उन्मिषद्विकासां तुर्यतुर्यातीतसमावेशदशामासादयति ।
यथोक्तम्=२०


विकल्पहानेनैकाग्र्यात्क्रमेणेश्वरतापदम् [२२] ।


इति श्रीप्रत्यभिज्ञायाम् ।


श्रीस्पन्देऽपि=२०


यदा क्षोभः प्रलीयेत तदा स्यात्परमं पदम् [२३] । इति ।


श्रीज्ञानगर्भेऽपि
विहाय सकलाः क्रिया जननि मानसीः सर्वतो
विमुक्तकरणक्रियानुसृतिपारतन्त्र्योज्ज्वलम् ।
स्थितैस्त्वदनुभावतः सपदि वेद्यते सा परा
दशा नृभिरतन्द्रितासमसुखामृतस्यन्दिनी ॥ इति ।


अयं च उपायो मूर्धन्यत्वात्प्रत्यभिज्ञायां [२४] प्रतिपादितत्वातादाव्
उक्तः । शक्तिसंकोचादयस्तु यद्यपि प्रत्यभिज्ञायां न प्रतिपादिताः
तथापि आम्नायिकत्वातस्माभिः प्रसङ्गात्प्रदर्श्यन्ते । बहुषु हि
प्रदर्शितेषु कश्चित्केनचित्प्रवेक्ष्यतीति । शक्तेः संकोच
इन्द्रियद्वारेण प्रसरन्त्या एवाकुञ्चनक्रमेण उन्मुखीकरणम् । यथोक्तं
आथर्वणिकोपनिषत्सु कठवल्ल्यां चतुर्थवल्लीप्रथममन्त्रे


पराञ्चि खानि व्यतृणत्स्वयंभूः
तस्मात्पराङ्पश्यति नान्तरात्मन् ।
कश्चिद्धीरः प्रत्यगात्मानमैक्षद्
आवृत्तचक्षुरमृतत्वमश्नन् [२५] ॥ इति ।


प्रसृताया अपि वा कूर्माङ्गसंकोचवत्त्राससमये हृत्प्रवेशवच्च
सर्वतो निवर्तनम् । यथोक्तं "तदपोद्धृते नित्योदितस्थितिः" इति ।
शक्तेर्विकासः अन्तर्निगूढाया अक्रममेव सकलकरणचक्रविस्फारणेन्=
"अन्तर्लक्ष्यो बहिर्दृष्टिः निमेषोन्मेषवर्जितः " इति ।
भैरवीयमुद्रानुप्रवेशयुक्त्या बहिः प्रसरणम् । यथोक्तं
कक्ष्यस्तोत्रे=२०


सर्वाः शक्तीः चेतसा दर्शनाद्याः
स्वे स्वे वेद्ये यौगपद्येन विष्वक् ।
क्षिप्त्वा मध्ये हाटकस्तम्भभूतः
तिष्टन् विश्वाधार एकोऽवभासि ॥ इति ।


श्रीभट्टकल्लटेनापि उक्तम् "रूपादिषु परिणामात्तत्सिद्धिः " इति ।
शक्तेश्च संकोचविकासौ
नासापुटस्पन्दनक्रमोन्मिषत्सूक्ष्मप्राणशक्त्या भ्रूभेदनेन
क्रमासादितोर्ध्वकुण्डलिनीपदे प्रसरविश्रान्तिदशापरिशीलनम् ।
अधःकुण्डलिन्यां च षष्टवक्त्ररूपायां प्रगुणीकृत्य शक्तिं
तन्मूलतदग्रतन्मध्यभूमिस्पर्शावेशः । यथोक्तं विज्ञानभट्टारके


वह्नेर्विषस्य मध्ये तु चित्तं सुखमयं क्षिपेत् ।
केवलं वायुपूर्णं वा स्मरानन्देन युज्यते [२६] ॥ इति ।


अत्र वह्निः अनुप्रवेशक्रमेण संकोचभूः । विषस्थानं प्रसरयुक्त्य्=
विकासपदं=२०
"विषॢ व्याप्तौ" इत्यर्थानुगमात् । वाहयोः वामदक्षिणगतयोः
प्राणापानयोः छेदो हृदयविश्रान्तिपुरःसरं
अन्तःककारहकारादिप्रायानच्कवर्णोच्चारेण विच्छेदनम् ।
यथोक्तं ज्ञानगर्भे


अनच्कककृतायतिप्रसृतपार्श्वनाडीद्वयच्छिदो
विधृतचेतसो हृदयपङ्कजस्योदरे ।
उदेति तव दारितान्धतमसः स विद्याङ्कुरो
य एष परमेशतां जनयितुं पशोरपि अलम् ॥ इति ।


आदिकोटिः हृदयम् । अन्तकोटिः द्वादशान्तः । तयोः
प्राणोल्लासविश्रान्त्यवसरे निभालनं चित्तनिवेशनेन परिशीलनम् ।
यथोक्तं विज्ञानभैरवे


हृद्याकाशे निलीनाक्षः पद्मसंपुटमध्यगः ।
अनन्यचेताः सुभगे परं सौभाग्यमाप्नुयात्[२७] ॥ इति ।


तथा=२०


यथा तथा यत्र तत्र द्वादशान्ते मनः क्षिपेत् ।
प्रतिक्षणं क्षीणवृत्तेः वैलक्षण्यं दिनैर्भवेत्[२८] ॥ इति ।


आदिपदातुन्मेषदशानिषेवणम् । यथोक्तं


उन्मेषः स तु विज्ञेयः स्वयं तमुपलक्षयेत्[२९] ।


इति स्पन्दे ।
तथा रमणीयविषयचर्वणादयश्च संगृहीताः ।
यथोक्तं श्रीविज्ञानभैरव एव


जग्धिपानकृतोल्लासरसानन्दविजृम्भणात् ।
भावयेद्भरितावस्थां महानन्दमयो भवेत् ॥
गीतादिविषयास्वादासमसौख्यैकतात्मनः ।
योगिनस्तन्मयत्वेन मनोरूढेस्तदात्मता ॥
यत्र यत्र मनस्तुष्टिर्मनस्तत्रैव धारयेत् ।
तत्र तत्र परानन्दस्वरूपं संप्रकाशते [३०] ॥ इति ।


एवमन्यदपि आनन्दपूर्णस्वात्मभावनादिकमनुमन्तव्यम् । इत्य्
एवमादयः अत्र मध्यविकासे उपायाः ॥
मध्यविकासाच्चिदानन्दलाभः । स एव च परमयोगिनः
समावेशसमपत्त्यादिपर्यायः समाधिः । तस्य नित्योदितत्वे युक्तिमाह
समाधिसंस्कारवति व्युत्थाने भूयो भूयः
चिदैक्यामर्शान्नित्योदितसमाधिलाभः ॥ १९ ॥


आसादितसमावेशो योगिवरो व्युत्थानेऽपि समाधिरससंस्कारेण क्षीब इव
सानन्दं घूर्णमानो भावराशिं शरदभ्रलवमिव चिद्गगन एव
लीयमानं पश्यन् भूयो भूयः अन्तर्मुखतामेव समवलम्बमानो
निमीलनसमाधिक्रमेण चिदैक्यमेव विमृशन् व्युत्थानाभिमतावसरेऽपि
समाध्येकरस एव भवति । यथोक्तं क्रमसूत्रेषु


"क्रममुद्रया अन्तःस्वरूपया बहिर्मुखः [३१] समाविष्टो भवति
साधकः ।
तत्रादौ बाह्यातन्तःप्रवेशः आभ्यन्तरात्बाह्यस्वरूपे प्रवेशः
आवेशवशात्जायते इति सबाह्याभ्यन्तरोऽयं मुद्राक्रमः " इति ।


अत्रायमर्थः सृष्टिस्थितिसंहृतिसंविच्चक्रात्मकं क्रमं मुद्रयत्=
स्वाधिष्ठितमात्मसात्करोति येयं तुरीया चितिशक्तिः तया क्रममुद्रया
अन्तरिति पूर्णाहन्तास्वरूपया [३२] बहिर्मुख इति विषयेषु व्यापृतोऽपि
समाविष्टः साक्षात्कृतपरशक्तिस्फारः साधकः परमयोगी भवति ।
तत्र च बाह्यात्ग्रस्यमानात्विषयग्रामातन्तः परस्यां चितिभूमौ
ग्रसनक्रमेणैव प्रवेशः समावेशो भवति । आभ्यन्तरात्
चितिशक्तिस्वरूपात्च साक्षात्कृतातावेशवशात्समावेशसामर्थ्यादेव
बाह्यस्वरूपे इदन्तानिर्भासे विषयग्रामे वमनयुक्त्या प्रवेशः
चिद्रसाश्यानताप्रथनात्मा समावेशो जायते इति
सबाह्याभ्यन्तरोऽयं नित्योदितसमावेशात्मा मुदो हर्षस्य वितरणात्
परमानन्दस्वरूपत्वात्पाशद्रावणात्विश्वस्य अन्तःतुरीयसत्तायां
मुद्रणात्च मुद्रात्मा क्रमोऽपि सृष्ट्यादिक्रमाभासकत्वात्
तत्क्रमाभासरूपत्वात्च क्रम इति अभिधीयत इति ॥


इदानीमस्य समाधिलाभस्य फलमाह
तदा प्रकाशानन्दसारमहामन्त्रवीर्यात्मकपूर्णाहन्तावेशात्सदा
सर्वसर्गसंहारकारिनिजसंविद्देवताचक्रेश्वरताप्रप्तिर्
भवतीति शिवम् ॥ २० ॥


नित्योदिते समाधौ लब्धे सति प्रकाशानन्दसारा चिदाह्लादैकघना [३३]
महती मन्त्रवीर्यात्मिका सर्वमन्त्रजीवितभूता पूर्णा पराभट्टारिकारूपा
येयमहन्ता अकृत्रिमः स्वात्मचमत्कारः तत्र आवेशात्सदा कालाग्न्यादेः
चरमकलापर्यन्तस्य विश्वस्य यौ सर्गसंहारौ विचित्रौ सृष्टिप्रलय=
तत्कारि यत्निजं संविद्देवताचक्रं तदैश्वर्यस्य प्राप्तिः आसादनं
भवति । प्राकरणिकस्य परमयोगिन इत्यर्थः ।
इति एतत्सर्वं शिवस्वरूपमेवेत्युपसंहार इति संगतिः ।
तत्र यावतिदं किंचित्संवेद्यते तस्य संवेदनमेव स्वरूपम् ।
तस्यापि अन्तर्मुखविमर्शमयाः प्रमातारः तत्त्वम् । तेषामपि
विगलितदेहाद्युपाधिसंकोचाभिमाना अशेषशरीरा सदाशिवेश्वरतैव
सारम् । अस्या अपि प्रकाशैकसद्भावापादिताशेषविश्वचमत्कारमयः
श्रीमान्महेश्वर एव परमार्थः । न हि पारमार्थिकप्रकाशावेशं विना
कस्यापि प्रकाशमानता घटते । स च परमेश्वरः स्वातन्त्र्यसारत्वात्
आदिक्षान्तामायीयशब्दराशिपरामर्शमयत्वेनैव
एतत्स्वीकृतसमस्तवाच्यवाचकमयाशेषजगदानन्दसद्भावापादनात्परं
परिपूर्णत्वात्सर्वाकाङ्क्षाशून्यतया आनन्दप्रसरनिर्भरः ।
अत एव अनुत्तराकुलस्वरूपातकारातारभ्य शक्तिस्फाररूपहकलापर्यन्त.=
म्
यत्विश्वं प्रभृतं क्षकारस्य प्रसरशमनरूपत्वात्तत्
अकारहकाराभ्यामेव संपुटीकारयुक्त्या प्रत्याहारन्यायेन अन्तःस्वीकृतं
सतविभागवेदनात्मकबिन्दुरूपतया स्फुरितमनुत्तर एव विश्राम्यति ।
इति शब्दराशिस्वरूप एव अयमकृतको विमर्शः ।
यथोक्तम्=२०


प्रकाशस्यात्मविश्रान्तिरहंभावो हि कीर्तितः ।
उक्ता च सैव विश्रान्तिः सर्वापेक्षानिरोधतः ॥
स्वातन्त्र्यमथ कर्तृत्वं मुख्यमीश्वरतापि च [३४] । इति ।


एषैव च अहन्ता सर्वमन्त्राणामुदयविश्रान्तिस्थानत्वातेतद्बलेनैव च्=
तत्तदर्थक्रियाकारित्वात्महती वीर्यभूमिः । तदुक्तम्


तदाक्रम्य बलं मन्त्रा ..... । इत्यादि
..... त एते शिवधर्मिणः [३५] । इत्यन्तं श्रीस्पन्दे ।


शिवसूत्रेष्वपि=२०


महाह्रादानुसंधानान्मन्त्रवीर्यानुभवः [३६] । इति ।


तदत्र महामन्त्रवीर्यात्मकायां पूर्णाहन्तायामावेशो
देहप्राणादिनिमज्जनात्तत्पदावाप्त्यवष्टम्भेन देहादीनां नीलादीनामपि
तद्रसाप्लावनेन तन्मयीकरणम् । तथा हि देहसुखनीलादि यत्किंचित्
प्रथते अध्यवसीयते स्मर्यते संकल्प्यते वा तत्र सर्वत्रैव भगवती
चितिशक्तिमयी प्रथा भित्तिभूतैव स्फुरति । "तदस्फुरणे कस्यापि
अस्फुरणात्" इति उक्तत्वात्केवलं तथा स्फुरन्त्यपि सा तन्मायाशक्त्या
अवभासितदेहनीलाद्युपरागदत्ताभिमानवशात्भिन्नभिन्नस्वभावा इव
भान्ती ज्ञानसंकल्पाध्यवसायादिरूपतया मायाप्रमातृभिः अभिमन्यते ।
वस्तुतस्तु एकैव असौ चितिशक्तिः । यथोक्तम्


या चैषा प्रतिभा तत्तत्पदार्थक्रमरूषिता ।
अक्रमानन्तचिद्रूपः प्रमाता स महेश्वरः [३७] ॥ इति ।


तथा=२०


मायाशक्त्या विभोः सैव भिन्नसंवेद्यगोचरा ।
कथिता ज्ञानसंकल्पाध्यवसायादिनामभिः [३८] ॥ इति ।


एवमेषा सर्वदशासु एकैव चितिशक्तिः विजृम्भमाणा यदि
तदनुप्रवेशतदवष्टम्भयुक्त्या समासाद्यते तत्तदावेशात्
पूर्वोक्तयुक्त्या करणोन्मीलननिमीलनक्रमेण सर्वस्य सर्वमयत्वात्
तत्तत्संहारादौ अपि सदा सर्वसर्गसंहारकारि यत्
सहजसंवित्तिदेवताचक्रममायीयान्तर्बहिष्करणमरीचिपुञ्जः तत्र
ईश्वरतासाम्रज्यं परभैरवात्मता तत्प्राप्तिः भवति
परमयोगिनः । यथोक्तम्


यदा त्वेकत्र संरूढस्तदा तस्य लयोद्भवौ ।
नियच्छन् भोक्तृतामेति ततश्चक्रेश्वरो भवेत्[३९] ॥ इति ।


अत्र एकत्र इति "एकत्रारोपयेत्सर्वं" [४०] इति चित्सामान्यस्पन्दभूः
उन्मेषात्मा व्याख्यातव्या ।
तस्य इति अनेन "पुर्यष्टकेन संरुद्ध" [४१] इति । उपक्रान्तं
पुर्यष्टकमेव पराम्रष्टव्यं न तु यथा विवरणकृतः एकत्र
सूक्ष्मे स्थूले शरीरे वा इति व्याकृतवन्तः । स्तुतं च मया


स्वतन्त्रश्चितिचक्राणां चक्रवर्ती महेश्वरः ।
संवित्तिदेवताचक्रजुष्टः कोऽपि जयत्यसौ ॥ इति ।


इतिशब्द उपसंहारे । यतेतावतुक्तप्रकरणशरीरं तत्सर्वं
शिवं शिवप्राप्तिहेतुत्वात्शिवात्प्रसृतत्वात्शिवस्वरूपाभिन्नत्वाच्च
शिवमयमेव इति शिवम् ।


देहप्राणसुखादिभिः प्रतिकलं संरुध्यमानो जनः
पूर्णानन्दघनामिमां न चिनुते माहेश्वरीं स्वां चितिम् ।
मध्येबोधसुधाब्धि विश्वमभितस्तत्फेनपिण्डोपमं
यः पश्येदुपदेशतस्तु कथितः साक्षात्स एकः शिवः ॥
येषां वृत्तः शाङ्करः शक्तिपातो
येऽनभ्यासात्तीक्ष्णयुक्तिष्वयोग्याः ।
शक्ता ज्ञातुं नेश्वरप्रत्यभिज्ञाम्
उक्तस्तेषामेष तत्त्वोपदेशः ॥
________


समाप्तमिदं प्रत्यभिज्ञाहृदयं कृतिस्
तत्रभवन्महामाहेश्वराचार्यवर्यश्रीमदभिनवगुप्तपादपद्मोपजीविनः
श्रीमतो राजानकक्षेमराजाचर्यस्य
________
शुभमस्तु

एतान् अपि पश्यतु

[सम्पाद्यताम्]
"https://sa.wikisource.org/w/index.php?title=प्रत्यभिज्ञाहृदयम्&oldid=397805" इत्यस्माद् प्रतिप्राप्तम्