सामग्री पर जाएँ

संस्कृतम्

विकिस्रोतः तः

प्राचीनकाले संस्कृतशिक्षा प्रकृतेः सुरम्यवातावरणे गुरुकुलेषु आश्रमेषु च दीयते स्म । अन्तेवासिनः गुरुगृहे निवासं कुर्वन्ति स्म । तत्र अन्तेवासीनां कृते केषाञ्चित् नियमानां पालनं करणीयमासीत् । विद्यार्थी स्वगुरोराज्ञाया : पालनं सर्वदा करोति स्म सः गुरोः यत्किमपि सेवायामस्ति तद् विदधाति स्म । विद्यार्थिनः मनसा वाचा कर्मणा सदैव गुरोः हितचिन्तनं कुर्वन्ति स्म । तस्मिन् काले इन्द्र - वरुण - अग्नि - उषा - वायु - मेघादीनाम् उपासनायाः कृते वैदिकमन्त्राणां रचनाकृताऽऽसीत् । यज्ञानां महत्त्वमपि विशिष्टम् आसीत् । अध्ययनस्य मूलविषयः श्रुतेरभ्यास एवासीत् । श्रुतिः कथं संरक्षणीया ? प्रयासेऽस्मिन् आचार्यै : शिष्यैश्च मन्त्राणां शुद्धोच्चारणपूर्वकं कण्ठस्थीकरणं क्रियते श्रुतिपरम्परया एव वेदाः संरक्षिताः आसन् । तत्कालिकशिक्षायाः सम्पूर्णस्वरूपं सामाजिकचिन्तने आधारितम् आसीत् । अन्तेवासीनां कृते तादृशी शिक्षा दीयते स्म यादृशी शिक्षा समाजेन सम्बद्धा आसीत् । तस्मिन् समये कर्गदस्य मुद्रणस्य न आविष्काराभाववशात् कण्ठस्थीकरणे बलम् आसीत् शिक्षणं मौखिकविधिना प्रचलति स्म । भूर्जपत्रेषु ताम्रपत्रेषु च ग्रन्थानां लेखनस्य संग्रहात्परमपि मौखिकपद्धति प्रचलने आसीत् । अनेन सिद्धं भवति यत् कस्यापि विषयस्य शिक्षणपद्धत्यामुपरि भौगोलिक प्राकृतिक - सामाजिक - वैज्ञानिक मनोवैज्ञानिकपरिस्थितिनाञ्च प्रभावो पतति । संस्कृतशिक्षणे विभिन्नविधानां शिक्षणं विविध - विधिभिः प्रविधिभिश्च क्रियते येषामुल्लेखं प्रतिविधया सम्बद्धपाठे पृथक् - पृथक् रूपेण प्रदत्तमस्ति । संस्कृतशिक्षणं • केन केन विधिना प्राचीनकाले प्रदीयते स्म ? आधुनिककाले शिक्षणमिदं कथं प्रचलति ? कथं प्रचाल्येत , एतेषां प्रश्नानां समाधानाय संस्कृतशिक्षणस्य विधयः त्रिषु भागेषु विभक्तुं शक्यते--- १-प्राचीनविधिः २-नवीनविधिः ३-नवीननतमविधिः

          सूचनासम्प्रेषणस्य आवश्यकता

नवीननतमविधौः भाषाप्रयोगशालायां सङ्गणक : एका नवीनोपलब्धिरस्ति । अस्य प्रयोगः अनेकेषु क्षेत्रेषु क्रियमाणोऽस्ति । अयम् अस्माकं जीवनस्य अभिन्नाङ्गमिव अनुभूयमानं प्रतीयते । इदं यन्त्रं यान्त्रिकानुवादे , कृत्रिमवाग्संश्लेषणे , पाठविश्लेषणे , कोशनिर्माणे , विज्ञानाद्यनेकक्षेत्रेषु सार्थकरूपेण उपयोगि विद्यते । भाषाशिक्षणेऽपि अस्य विशिष्टा भूमिका विद्यते । नवीनभाषाशिक्षणेच्छुका : छात्राः अस्य सहायतया प्रभविष्णुतया तथा अल्पसमये एव भाषां शिक्षितुं शक्नुवन्ति , यतः अनेन सूचनानां प्रतिपुष्टिः शीघ्रतया भवति । अनेन त्रुटीनां ज्ञानं सम्भवमस्ति । छात्राणां कृते भाषादक्षतासम्बद्धासूचनोपलब्धा भवितुं शक्नोति । तथा सम्प्रति आसां सूचनानाम् आधारेण छात्रविशेषेण आवश्यकतानुसारं पाठनिर्देशा : पाठाभ्यास : च प्राप्यन्ते । विभिन्नशोधकार्यैः इदं सिद्धं यत् संस्कृतभाषा सङ्गणकाय सर्वाधिका उपयुक्ता भाषा अस्ति , अत : संस्कृतशिक्षणाय अस्य प्रतिमानस्य प्रयोग : करणीयः , यतः अस्मिन् शिक्षणस्य निदानस्य च क्रिया : युगपदेव चलन्ति । अनेन कारणेन सङ्गणकमाध्यमेन एव शिक्षक : छात्राणां निदानं कर्तुं शक्नोति । तेषां कृते पृथक् निदानात्मक परीक्षणपत्रस्य आवश्यकता नास्ति । सङ्गणके संग्रहकरणस्य अद्वितीया क्षमता भवति । समस्तरस्य नैकच्छात्राणां सामान्यत्रुटीनां संग्रहः शिक्षणेन सह स्वतः एव सङ्गणके भवति । तेषां सङ्कलितत्रुटीनाम् आधारेण शिक्षक सङ्गणके उपचारात्मककार्यक्रमं प्रस्तुतीकर्तुं शक्नोति , तथा अनेन प्रकारेण उपचारात्मकानुदेशनं कुर्वन् छात्राणां शङ्कानां समाधानं कर्तुं शक्नोति । साम्प्रतं सङ्गणके मौखिकाभिव्यक्तेः क्षमता अपि अस्ति , अतः अद्य सङ्गणकीययुगे अयं संस्कृतशिक्षणाय अधिकरुचिकर : नवीनतम उपागमोऽस्ति । अस्मिन् छात्रा : स्वतः सङ्गणकपटले ( Screen ) स्वत्रुटिं दृष्ट्वा श्रुत्वा च अवगन्तुं शक्नुवन्ति । अतः उपचारात्मकानुदेशनस्य प्रभावः छात्रेषु अधिकः पतति । संस्कृत शिक्षकैः अपेक्ष्यते यत् यदि तेषां विद्यालयेषु सङ्गणकानां व्यवस्था भवेत् तर्हि तेषां प्रयोगे ते तत्पराः स्युः ।


सम्प्रेषणाधारितशिक्षणम् - सम्प्रेषणाधारितशिक्षणेन छात्रेषु सम्भाषणकौशलस्य योग्यता उत्पत्स्यते । अस्य शिक्षणस्य कृते सम्प्रेषणविधिः उपयुक्तो भवति । सम्प्रेषणविधिः विभिन्नासु सामाजिक परिस्थितिषु उपयुक्तां भाषां प्रयोक्तुम् आवश्यकनियमानां शिक्षणस्य विधिरस्ति । विधिरयं निर्दिष्टवाक्यरचनायै अपेक्षितानां व्याकरणनियमानां प्राधान्यं गौणीकृत्य भाषा शिक्षणीयेति सिद्धान्तं स्वीकरोति , भाषाध्येतृषु सम्प्रेषणशक्तेः विकास : एव अस्य विधेः प्रमखं लक्ष्यमस्ति । सम्प्रेषणशक्ते : विकासे संस्कृतसम्भाषणस्य विशिष्टं महत्त्वमस्ति । भाषायाः चतुर्षु कौशलेषु भाषणकौशलं सर्वप्रधानम् । श्रवणपठन लेखनकौशलं दधानोऽपि कश्चित् भाषणकौशलयुक्तो भवेदेव इति आवश्यक : नास्ति , परं यस्मिन् भाषणकौशलं भवति तस्मिन् अन्यानि त्रीणि कौशलानि स्वभावतो भवन्ति एव ।

"https://sa.wikisource.org/w/index.php?title=संस्कृतम्&oldid=337671" इत्यस्माद् प्रतिप्राप्तम्