चित्रिण्यधिकरणम् ] तृतीयोऽध्यायः । २०३ किञ्च तृतीयाश्रुत्या वाक्येन च परिव्याणस्य यूपधर्मता, न तु पशुधर्मता । यूपश्च त्रयाणां पशूनां तन्त्रम्, इति (१)वश्यते । तस्मात् सर्वेषु पशुष्वेते धर्माः स्युः । इति दशमं रशनाधर्मसाधारण्याधिकरणम् ॥ १० ॥ अथैकादशमंश्वदाभ्याधिकरणम् ॥ ११ ॥ एकादशाधिकरणमारचयति- ग्रहधर्मा अनारभ्योक्तांश्वदाभ्यद्वयेन हि । विद्यन्ते वा प्रकरणादाद्यो वाक्यादिहान्तिमः ॥ २० ॥ अनारभ्य द्वौ ग्रहौ श्रुतौ-"अंशुं गृह्णाति” इति, "अदाभ्यं गृह्णाति" इति च । तयोः सादनसम्मार्गादयो ग्रहधर्मा न विद्यन्ते । कुतः ? आरभ्याधीतेष्वेन्द्रवायवा- दिष्वेव प्रकरणेन व्यवस्थापितत्वात् इति चेत्- मैवम् ; "ग्रहाः साद्यन्ते” इत्यादिवाक्येन ग्रहधर्मत्वावगमे तयोरपि ग्रहयोरनि- वार्यत्वात् । न चैन्द्रवायवादयः प्रकरणिनः । ज्योतिष्टोमो हि प्रकरणी । तस्मात्सन्ति j तयोर्धर्माः ॥ इत्येकादशमंश्वदाभ्याधिकरणम् ॥ ११ ॥ अथ द्वादशं चित्रिण्यधिकरणम् ॥ १२॥ द्वादशाधिकरणमारचयति- अखण्डादीष्टकाधर्माश्चित्रिण्यादिषु नोचिताः । सन्ति वा वाक्यमप्यत्रानारभ्योक्तं ततो न ते ॥ २१ ॥ प्रकृतापूर्वसम्बन्धात्तादृशादपि वाक्यतः । अखण्डत्वादयोऽग्न्यर्थचित्रिण्यादिषु सन्ति ते ॥ २२ ॥ अनारभ्य श्रूयते-(२)“चित्रिणीरुपदधाति' इति । (३)अग्निप्रकरणे चेष्टकानां १. एकादशाध्यायस्य तृतीयपादे तृतीयाधिकरणे । २. चित्रिणीशब्द इष्टकावाचकः, "तद्वानासामुपधानो मन्त्र इतीष्टकासु लुक् च मतोः" (पा. सू . ४.४.१२५) इति सूत्रेण निष्पन्नः । चित्रपदघटितमन्त्रोपधेया इष्टकाश्चित्रिण्यः ॥ ३. अग्निशब्दोऽत्र चयनवाची। स च यद्यपि मुख्य या वृत्या ज्वलनवाची आहव नीयाद्यग्निवाची वा, तथाऽप्यत्र लक्षणया तदाधारभूतस्थण्डिलवाची ।
पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/२०४
दिखावट