गायत्रीमत्रार्थविवृतिः । स्मिन्मन्त्रेव्याहृतिसङ्गतिर्मुनिकृता समीचीनैव वरीवर्ति ॥ श्रीशङ्कराचा- यंवर्याणामपि संमतिरत्रार्थे जरीगृह्यते साच यथा ॥ तदित्यवाङ्मनो- गम्यं ध्येयं यत्सूर्यमण्डले सवितुः सकलोत्पत्तेः स्थितिसंहारकारिणः ॥ वरेण्यमाश्रयणीयं यदा धारमिदं जगत् । भर्गः स्वसाक्षात्कारेण ह्यविद्या- कार्यदाहकम् ॥ देवस्य ज्ञानरूपस्य स्वानन्दाक्रीडितस्य वा धीमह्यहं स एवेति तेनैवाभेदसिद्धये ॥ धियोन्तःकरणवृत्तीः सम्यक्प्रणवचारिणीः । यइत्यऽ- लिङ्गधर्म यत्सत्यज्ञानादिलक्षणम् ॥ नोसाकं बहुधाभ्यस्तभेदभिन्नदृशां तथा प्रचोदयात्प्रेरयतु प्रार्थने लिङ् विशिष्यते ॥ आपो ज्योती रस इति सोमोऽग्निस्तेज उच्यते । तदास्माकं जगत्सर्व रसतेजोद्वयात्मकम् ॥ अमृतं तदनाशिखाबृहलाब्रह्मचोच्यते । तद्भूर्भुवःस्वरित्युक्तं सोहमर्थमुदाहृतम् ।। यो देवः सवितास्माकं धियो धर्मादिगोचरान् । प्रेरयेत्तस्य तद्भर्गस्त- द्वरेण्यमुपास्महे ॥
पृष्ठम्:गायत्रीमन्त्रार्थविवृतिः.djvu/१८
दिखावट