सामग्री पर जाएँ

लघुयोगवासिष्ठः/प्रकरणम् ५ (उपशमप्रकरणम्)/सर्गः ९

विकिस्रोतः तः
← सर्गः ८ लघुयोगवासिष्ठः
सर्गः ९
[[लेखकः :|]]
सर्गः १० →

वीतहव्योपाख्यानम्।।
नवमः सर्गः।।

वसिष्ठ उवाच।।
एवं तौ कुशलप्रश्नं कृतवन्तौ परस्परम्।
कालेनासाद्य विमलं ज्ञानं मोक्षमवापतुः।।[5-9-1]
अतो वच्मि महाबाहो यथा ज्ञानेतरा गतिः।
नास्ति संसारतरणे सङ्गबद्धस्य चेतसः।।[5-9-2]
पूर्वं चित्तविश्रान्त्यभावे बहुविधः प्रयास इत्युक्तम्। इदानीं चित्तविश्रान्तिसिद्ध्यै सङ्गत्यागः प्राणनिरोधः समाध्यभ्यासश्च कर्तव्य इति वितहव्योपाख्यानेन निरूप्यते।।[5-9-1,2]
असक्तं निर्मलं चित्तं मुक्तं संसार्यपि स्फुटम्।
सक्तं तु दीर्घतपसा युक्तमप्यतिबन्धवत्।।[5-9-3]
तत्र सङ्गत्यागं प्रस्तौति-असक्तमिति।। सङ्गासङ्गौ वक्ष्यमाणलक्षणौ।।
अन्तःसंसक्तिनिर्मुक्तो जीवो मधुरवृत्तिमान्।
बहिः कुर्वन्नकुर्वन्वा कर्ता भोक्ता नहि क्वचित्।।[5-9-4]
राम उवाच।।
कीदृशो भगवन्सङ्ग कश्च बन्धाय वा नृणाम्।
कश्च मोक्षाय कथितः कथं चैष चिकित्स्यते।।[5-9-5]
अन्तरिति।। मधुरवृत्तिमान् मधु पुष्परसं राति आदत्त इति मधुरो मधुकरः तस्य वृत्तिमान्. स हि पुष्पेषु यथालाभं मधु गृह्णन् असक्त एव सुखं विहरति तद्वद्वृत्तिरित्यर्थः।।[5-9-4,5]
देहदेहिविभागैकपरित्यागेन भावनात्।
देहमात्रे तु विश्वासः सङ्गो बन्धार्ह उच्यते।।[5-9-6]
देहेति।। देहदेहिविभागैकपरित्यागेन को देहः को वा देहीति विवेकमेकं परित्यज्येत्यर्थः। देहमात्रे तु विश्वासः देह एवाहंममाभिमानः सङ्गः स च बन्धार्ह उच्यते।।
अनन्तस्यात्मत्त्वस्य सपर्यन्तत्वनिश्चये।
यः सुखार्थित्वमन्तः स सङ्गो बन्धार्ह उच्यते।।[5-9-7]
अनन्तस्य देशकालादिभिरपरिच्छिन्नस्य आत्मतत्त्वस्य सपर्यन्तत्वनिश्चये देहपरिमितत्वनिश्चये सति अन्तः अन्तःकरणे यत्सुखार्थित्वं वैषयिकसुखेच्छा सङ्गः स च बन्धार्हो बन्धहेतुरुच्यते।।
सर्वमात्मेदमखिलं किं गृह्णामि त्यजामि किम्।
इत्यसङ्गस्थितिं विद्धि जीवन्मुक्तत्वमुत्थिम्।।[5-9-8]
सर्वमिति।। इदं जगदहं च सर्वमात्मैव। तथा सति किं वाञ्छामि किं वा त्यजामि इत्येव हेयोपादयमुक्ततया स्थितिर्न सङ्गस्थितिः। सा च जीवन्मुक्तेषु तिष्टतीत्यर्थः।।
नाहमस्ति न चान्योऽस्ति मा भवन्तु भवन्तु वा।
सुखान्यसक्त इत्यन्तः कथ्यते मुक्तिभाङ्नरः।।[5-9-9]
नेति।। नाहमस्ति अहंशब्दवाच्यं वस्तु नास्ति आत्मनोऽपरिच्छिन्नत्वात्। अहन्तायाश्च परिच्छिन्नविषयत्वात्। नचान्योऽस्ति आत्मातिरिक्तस्य वस्तुनोऽसत्त्वात्। अतः कारणात् सुखानि मा भवन्तु भवन्तु वेत्येवमन्तरसक्तो मुक्तिभाक्कथ्यते।।
नाभिन्दति नैष्कर्म्यं न कर्मस्वनुरुध्यते।
सुसमो यः फलत्यागी सोऽसंसक्त इति स्मृतः।।[5-9-10]
नेति।। नैष्कर्म्यं कर्मत्यागम्। सुसमः सिद्ध्यसिद्ध्योः सुष्ठु समः। फलत्यागी कर्मफलनिःस्पृहः।।
सर्वकर्मफलादीनां मनसैव न कर्मणा।
निपुणो यः परित्यागः सोऽसंसक्त इति स्मृतः।।[5-9-11]
सर्वेति।। सर्वकर्मफलादीनां कर्माणि ज्योतिष्टोमादीनि फलानि स्वर्गादिनि। आदिशब्देनोपासनाफलानां यमाद्यष्टाङ्गावान्तरफलानां तत्संनिधौ वैरत्याग इत्यादीनां च ग्रहणम्। तेषां सर्वेषां कर्मफलादीनां मनसैव यो निपुणः परित्यागो न कर्मणा सः असक्त इति स्मृतः। परितस्त्यागो यस्येति व्युत्पत्त्या परित्यागशब्देन तद्वान्पुरुषोऽभिधीयते। अन्यथा असंसक्तशब्देन सामानाधिकरण्यासंभवात्। तत्र मनसा परित्यागो नाम फलाभिसन्धिराहित्यं। कर्मणामपि परित्यागस्तु फलसाधनभूतस्य कर्मणोऽननुष्ठानादिति द्रष्टव्यम्।।
असंसङ्गेन सकलाश्चेष्टा नानाविजृम्भिताः।
चिकित्सिता भवन्त्यङ्ग श्रेयः संपादयन्ति च।।[5-9-12]
असंसङ्गेनेति।। नानाविजृम्भिताः नानाप्रकारं विजृम्भितं विलासो यासां ताः सकलाश्चेष्टा असंसङ्गेन पूर्वोक्तेन चिकित्सिता भवन्ति श्रेयः कैवल्यं संपादयन्ति।।
कृमिकीटत्वमायान्ति जायमानाः पुनःपुनः।
यदिमा जनता जीर्णास्तत्संसक्तिविजृम्भितम्।।[5-9-13]
सङ्गस्य बन्धहेतुत्वमुदाहृत्य दर्शयति द्वाभ्याम्-कृमीति।। जनताः जनसमूहाः। संसक्तिः सङ्गः।।
भूतानि यदनन्तानि तरङ्गिणि तरङ्गवत्।
उत्पद्योत्पद्य लीयन्ते तत्संसक्तिविजृम्भणम्।।[5-9-14]
तरङ्गिणि समुद्रे। पूर्वं बन्धहेतुरेव सङ्गो निरूपितः।।
संसक्तिर्द्विविधा प्रोक्ता वन्ध्या वन्द्या च राघव।
वन्ध्या सर्वत्र मूढानां वन्द्या तत्त्वविदां निजा।।[5-9-15]
इदानीं मोक्षहेतुं सङ्गं निरूपयितुमाह-संसक्तिरिति।। वन्ध्या निष्फला। वन्द्या मुक्तिप्रदत्वात्स्तुत्या।।
आत्मतत्त्वावबोधेन हीना देहादिवस्तुजा।
भूयः संसारदा सक्तिर्दृढा वन्ध्येति कथ्यते।।[5-9-16]
तत्र पूर्वोक्तो बन्धार्हः सङ्ग एव वन्ध्या सक्तिरुच्यते। तस्याः स्वरूपं निरूपितमपि भङ्ग्यन्तरेणाह-आत्मेति।। दृढा चिरकालभाविता।।
आत्मतत्त्वावबोधेन सत्यभूता विवेकजा।
वन्द्या हि कथ्यते सक्तिर्भूयः संसारवर्जिता।।[5-9-17]
आत्मेति।। आत्मतत्त्वावबोधेन आत्मस्वरूपनिश्चयेन हेतुना। विवेकजा आत्मानात्मविवेके सति जाता। सत्यभूता सत्यमबाध्यमात्मतत्त्वं तद्भूता प्राप्ता तद्विषयेति यावत्। भू प्राप्तावित्यस्य स्वरूपम्। एवंविधा भूयः संसारवर्जिता सक्तिर्वन्द्येति कथ्यते।।
शङ्खचक्रगदाहस्तो देहो विविधयेहया।
वन्द्यसंसक्तिवशतः परिपाति जगत्रयम्।।[5-9-18]
देहारामता वन्ध्यासक्तिः। आत्मारामता तु वन्द्येति विवेकः। प्रत्यासत्त्या वन्द्यसंसक्तिं तावदुदाहरति-शङ्खेति।। शङ्खचक्रगदाहस्तो देहो नाम श्रीविष्णुमूर्तिः। विविधया ईहया मत्स्याद्यवतारप्रवर्तितया चेष्टया।।
विज्ञानगतयः सिद्धा लोकपालास्तथैव च।
वन्द्यसंसक्तिवशतस्तिष्ठन्ति जगतां गणे।।[5-9-19]
विज्ञानेति।। विज्ञानगतयः विज्ञानात्मकं ब्रह्मैव गतिर्निष्ठा विश्रान्तिपदं येषां ते। जगतां गणे तिष्ठन्तीत्यनेन सर्वेष्वपि जगत्स्वप्रतिहता गतिर्येषां ते।।
मनः पतति भोगेषु गृध्रो मांसलवेष्विव।
वन्ध्यसंसक्तिवशतो व्यर्थया रम्यशङ्कया।।[5-9-20]
अथ वन्ध्यसंसक्तिमुदाहरति-मन इति।। भोगेषु विषयेषु रम्यशङ्कया रम्या इत्युत्प्रेक्षया। रम्यत्वकल्पनयेति यावत्।।
वन्ध्यसक्तिमतामेता रम्यान्तःपुरभूमयः।
रचिता रौरवावीचिकालसूत्रादिनामिकाः।।[5-9-21]
वन्ध्येति।। रौरवं अवीचिः कालसूत्रमिति नरकभेदाः। देहारामाणां नरका एव विश्रान्तिभूमय इत्यर्थः।।
वन्ध्यसक्तिं जनं दुःखशुष्कमिन्धनसंचयम्।
ज्वलतां नरकाग्नीनां विद्धि तेन ज्वलन्ति ते।।[5-9-22]
वन्ध्येति।। वन्ध्यसक्तिं वन्ध्या सक्तिर्यस्य तं जनं नरकाग्नीनां इन्धनसंचयं विद्धि। यस्मात्ते नरकाग्नयः तेनेन्धनेन ज्वलन्ति।।
विद्यादृशि प्रोदयमागतेन क्षयं त्वविद्याविषये गतेन।
सर्वत्र संसक्तिविवर्जितेन स्वचेतसा तिष्ठति यः स मुक्तः।।[5-9-23]
विद्येति।। विद्यादृशि ब्रह्मविद्याविषये प्रोदयमागतेन प्रबुद्धेन अविद्याविषये प्रपञ्चे क्षयं गतेन अनुसन्धानरहितेन अतएव सर्वत्र दृश्यवस्तुनि संसक्तिविवर्जितेन स्वचेतसा इत्थंभूतो यस्तिष्ठति। तदुक्तं गीतासु-`या निशा सर्वभूतानां तस्यां जागर्ति संयमी। यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः'इति।।
वसिष्ठ उवाच।।
सर्वदा सर्वसंस्थेन सर्वेण सह तिष्ठता।
सर्वकर्मकरेणापि मनः कार्यं विजानता।।[5-9-24]
सर्वदेत्यष्टभिः श्लोकैर्वाक्यम्।। विजानता ज्ञानिना पुरुषेण सर्वसंस्थेन सर्वाः संस्थाः शयनाशनादयोऽवस्था यस्य तेन सर्वेण ज्ञानिना मूर्खेण वा सह तिष्ठता सर्वकर्मकरेणापि नित्यनैमित्तिकादिकं सर्वं कर्म कुर्वतापि सता मनः चेष्टादिषु विविधेषु विषयेषु सक्तं न कार्यं किंतु किंचिदीषच्चेत्यावलम्ब्यपि तन्मनः केवलं चिति चिन्मात्रे विश्रम्य सर्वत्र वस्तुनि नीरसं तत् आत्मरसं स्वरूपानन्दास्वादतृप्तं तिष्ठतु। यथैवं तिष्ठति तथा कार्यमित्यन्वयः।।
न सक्तमिह चेष्टासु न चिन्तासु न वस्तुषु।
नाकाशे नाप्यधो नोर्ध्वं न दिक्षु विततासु च।।[5-9-25]
तत्र न वस्तुष्वित्येतस्यैव विवरणं नाकाश इत्यादि।।
न बहिर्विपुलाभोगे न चैवेन्द्रियवृत्तिषु।
नाभ्यन्तरे न च प्राणे न मूर्धनि न तालुनि।।[5-9-26]
अभ्यन्तरं शरीराभ्यन्तरम्। तस्यैव प्रपञ्चो न च प्राण इत्यादिना।।
न भ्रूमध्ये न नासान्ते न मुखे न च तारके।
नान्धकारे न चाभासे न चास्मिन्हृदयाम्बरे।।[5-9-27]
तारके अक्षणि। तारका कनीनिका अस्यास्तीति `अर्शआदिभ्योच्' इत्यचि तारकशब्दोऽक्षिपर्यायाः। अन्यथा कनीनिकायां तारकशब्दस्य स्त्रीलिङ्गत्वात्तारके इति नोपपद्येत। आभासे चित्प्रतिबिम्बे।।
न जाग्रति न च स्वप्ने न सुप्ते न च निर्मले।
नास्तिते न च वा पीते रक्तादौ शबले न च।।[5-9-28]
न चले न स्थिरे नादौ न मध्ये नेतरत्र च।
न दूरे नान्तिके नाग्रे न पदार्थे न चात्मनि।।[5-9-29]
न शब्दस्पर्शरूपेषु न मोहमदवृत्तिषु।
न गमागमचेष्टासु न कालकलनासु च।।[5-9-30]
केवलं चिति विश्रम्य किंचिच्चेत्यावलम्ब्यपि।
सर्वत्र नीरसमिव तिष्ठत्वात्मरसं मनः।। [5-9-31]
निर्मले शुद्धे वस्तुनि।।[5-9-28,29,30,31]
तत्रस्थो विगतासङ्गो जीवोऽजीवत्वमागतः।
व्यवहारमिमं सर्वं न करोतु करोतु वा।।[5-9-32]
तत्रेति।। तत्रस्थ आत्मनिष्ठः। अजीवत्वं जीवन्मुक्ततामागतः व्यवहारं सर्वं मा करोतु करोतु वा। करणाकरणयोर्नास्ति विशेष इत्यर्थः।।
अकुर्वन्नपि कुर्वन्वा जीवः स्वत्मरतिः क्रियाः।
क्रियाफलैर्न संबन्धमायाति स्वमिवाम्बुदैः।।[5-9-33]
विशेषाभावमाह-अकुर्वन्निति।। क्रियाः विहितनिषिद्धरूपाः। क्रियाफलैः स्वर्गनरकादिभिः।।
अथवा तमपि त्यक्त्वा चेत्यांशं शान्तचिद्धनः।
जीवस्तिष्ठतु संशान्तो ज्वलन्मणिरिवात्मनि।।[5-9-34]
अथवेति।। तमापि चेत्यांशं किंचिच्चेत्यावलम्ब्यपीति। पूर्वमभ्युपगतमपि चेत्यसंबन्धमित्यर्थः। शान्तचिद्धनः निर्विकारचिद्रूपः।।
आत्मारामा महात्मानः प्रबुद्धाः परमोदयाः।
बहिः पिच्छाग्रतरला अन्तर्मेरुरिवाचलाः।।[5-9-35]
आत्मारामा इति।। आत्मन्येवारमन्ति विश्राम्यन्तीत्यात्मारामाः तादृशा महात्मानः। बहिः बाह्येन्द्रियव्यापारे पिच्छाग्रवत्तरला लक्ष्यन्ते। अन्तः अन्तःकरणे तु मेरुरिवाचलाः आत्मनिष्ठत्वात्।।
चित्ते चेत्यदशाहिने या स्थितिः क्षीणचेतसाम्।
सोच्यते शान्तकलना जाग्रत्येव सुषुप्तता।।[5-9-36]
चित्त इति।। चित्ते चेत्यदसाहीने चेत्यसंबन्धिनीभिर्वृत्तिभी रिक्ते सति क्षीणचेतसां क्षीणवृत्तीनां या स्थितिः शान्तकलना प्रशान्तवासना सैव स्थितिः जाग्रत्येव सुषुप्ततोच्यते।।
एषैव राम सौषुप्ती स्थितिरभ्यासयोगतः।
प्रौढा सती तुर्यमिति कथिता तत्त्वकोविदैः।।[5-9-37]
एषेति।। एषैव सौषुप्ती स्थितिः अभ्यासयोगात्प्रौढा सती तुरीयावस्थेति कथिता। जाग्रदादिविलक्षणत्वेन तत्रितयोपेक्षया तुर्यत्वात्।।
अस्यां तु तुर्यावस्थायां स्थितिं प्राप्याविनाशिनीम्।
आनन्दैकान्तशीलत्वादनानन्दपदं गतः।।[5-9-38]
अस्यामिति श्लोकद्वयं वाक्यम्। अस्यां पूर्वोक्तायां तुर्यावस्थायां अविनाशिनीं निरपायां स्थितिं प्राप्य आनन्दैकान्तशीलत्वात् आनन्दएव एकान्तं नियतं शीलं स्वभावो यस्य, आनन्दमेवैकान्तं शीलयति अभ्यस्यति वा यः तस्य भावात् निरन्तरमानन्दात्मकत्वात् अनानन्दपदं स्वस्वरूपानन्दरहितं पदं ब्रह्मभावं गतः सन्।।
अनानन्दमहानन्दकलातीतस्ततोऽपि हि।
मुक्त इत्युच्यते योगी तुर्यातीतपदं गतः।।[5-9-39]
ततोऽनन्तरं अनानन्दमहानन्दकलातीतः अनानन्दो ब्रह्मानन्दानुभवरहितः महानन्दः तद्वदुभयकक्षामतिक्रान्तः निर्विकल्पकतया ब्रह्मानन्दे समरसीभावात्। तस्मात्तादृशो योगी तुर्यातीतपदं गतो मुक्त इत्युच्यते। तुर्यातीतो मुक्त इत्युच्यत इत्यर्थः। तुर्यस्तुर्यातीत इति च सविकल्पकनिर्विकल्पकसमाधिभाजोर्जीवन्मुक्तयोर्नामनी। तत्र जाग्रदाद्यवस्थात्रयं तदभिमानिनश्च विश्वतैजसप्राज्ञरूपाञ्जीवान् स्वव्यतिरिक्ततया पश्यंस्तत्साक्षिणि चित्त्वमेवात्मस्वरूपमनुसंदधानस्तुर्य उच्यते। तद्विकल्परहितस्तु चिन्मात्ररूपस्तुर्यातीत इति।।
परिगलितसमस्तजन्मपाशः सकलविलीनतमोमयाभिमानः।
परमरसमयीं प्रयाति सत्तां जलगतसैन्धवखण्डवन्महात्मा।।[5-9-40]
परिगलित इति।। परिगलिताः समस्ता जन्महेतवः पाशाः मलकर्मादयो यस्मात्सकला विलीनास्तमोमया अज्ञानजनिता अभिमाना देहेन्द्रियादिष्वहंममाभिमाना यस्मिन्स महात्मा परमरसमयीं परमानन्दरूपां सत्तां प्रयाति जलगतसैन्धवखण्डवत्। स हि सैन्धवो लवणघनो जलस्यान्तर्निहितः सन्परमामुत्कृष्टां रसमयीं द्रवरूपां सत्तां स्वरूपसत्तां प्रयाति तद्वदिति।।
वसिष्ठ उवाच।।
जडाजडदृशोर्मध्ये यत्तत्त्वं पारमात्मिकम्।
तदेव बहुशः प्रोक्तं बृहदारण्यकादिषु।।[5-9-41]
जडेति।। जडाजडदृशोः इदभिति दृश्यविषया संवित् जडदृष्टिः। अहमिति द्रष्टृविषया संविदजडदृष्टिः। तयोर्मध्ये यत्तत्त्वमस्ति इदन्तया अहन्तया वा तदुभयानुवृत्तं यच्चिन्मात्ररूपं वस्तु प्रकाशते तदेव पारमात्मिकं परमात्मसंबन्धि तत्त्वं स्वरूपमिति बृहदारण्यकादिषूपनिषत्सु बहुशः प्रोक्तम्।।
दृश्यदर्शनसंबन्धे यत्सुखं पारमार्थिकम्।
अनुभूतिमयं तस्मात्सारं ब्रह्मेति कथ्यते।।[5-9-42]
दृश्येति।। दृश्यानां रम्यवस्तूनां दर्शनेन वृत्तिज्ञानेन संबन्धे सति यत्पारमार्थिकं परमार्थे स्वात्मनि संभूतमनुभूतिमयं अनुभवात्मकं स्वत एवानुभूयमानं सुखमस्ति तदेव सारं सुखं ब्रह्मेति कथ्यते। कुतः। तस्मात्पूर्वोक्ताद्धेतोः पूर्वमानन्दात्मकस्य चिन्मात्रस्यैव परमात्मस्वरूपत्वेनाभिधानादित्यर्थः।।
दृश्यदर्शनसंबन्धे सुखसंविदनुत्तमा।
दृश्यसंवलिता बन्धस्तन्मुक्ता मुक्तिरुच्यते।।[5-9-43]
तर्हि विषयसुखस्यापि स्वात्मरूपत्वे बन्धमोक्षविभागो न स्यादित्यत आह-दृश्येति।। दृशअयदर्शनसंबन्धे दृश्यदर्शनयोः संबन्धे या अनुत्तमा सुखसंवित्सा दृश्यसंवलिता चेत् दृश्योपहिता चेद्बन्ध इत्युच्यते। तन्मुक्ता दृश्यासंस्पृष्टा तत्सुखसंविन्मुक्तिरिति।।
दृश्यदर्शनसंबन्धे यानुभूतिरनामया।
तामवष्टभ्य तिष्ठ त्वं सौषुप्तीं भज ते स्थितिम्।।[5-9-44]
दृश्येति।। दृश्यदर्शनसंबन्धे अनामया निरुपद्रवा सुखमयानुभूतिः तामेवानुभूतिमवष्टभ्यावलम्ब्या तिष्ठ तस्यामेवानुभूतौ विश्रान्तो भव। सौषुप्तीं पूर्वोक्तां ते स्थितिं भज।।
सैव तुर्यत्वमायाति तस्यां दृष्टौ तु राघव।
नात्मा स्थूलो न चैवाणुर्न प्रत्यक्षो न चेतरः।।[5-9-45]
सैवेति श्लोकद्वयं वाक्यम्।। सैव सौषुप्ती स्थितिरेव तु यत्र तुर्यावस्थात्वमायाति तस्यां तुर्यात्मिकायां दृष्टौ तु। आत्मा स्थूलो न अमूर्तत्वात्, अणुश्च न परिपूर्णत्वात्, प्रत्यक्षो न इन्द्रियागम्यत्वात्, इतरः परोक्षश्च न अपरोक्षतया प्रकाशमानत्वात्।।
न चेतनो न च जडो न चैषोऽसन्न सन्मयः।
नाहं नान्यो न चैवैको न वानेकोऽपि राघव।।[5-9-46]
चेतनो न चैतन्याश्रयत्वात् स्वयमेव चैतन्यरूपत्वात्। चैतन्याश्रयो हि चेतन उच्यते शौक्ल्याश्रयः शुक्ल इतिवत्। नहि वेदान्तिनां मते चैतन्याद्भिन्नमात्मनः स्वरूपमस्ति। जडश्च न सर्वप्रकाशकत्वात्, असन्न सद्रूपत्वात्, सन्मयो न अस्तीति प्रतीत्यविषयत्वात्, अहंशब्दवाच्यो न देहेन्द्रियादिभिरपरिच्छिन्नत्वात्। संख्यायाश्च गुणरूपत्वात् अनेकश्च न।।
यदिदं दृश्यतां प्राप्तं मनःषष्ठेन्द्रियाश्रयम्।
सर्वातीतं पदं राम यन्न किंचिदिवेह तत्।।[5-9-47]
यदिति।। मनःषष्ठेन्द्रियाश्रयं मनः षष्ठं येषामिन्द्रियाणां चक्षुरादीनां तेषामाश्रयं विषयभूतं दृश्यतां प्राप्तं यदिदं जगत्तज्जगदतीतं अतिक्रान्तं तद्विलक्षणं यस्मात् तत्पदमात्मतत्त्वं तत्त्स्मात्कारणात्तदात्मतत्त्वं इह जगति किंचिदिव न भवति। केनापि नोपमीयत इत्यर्थः।।
न मोक्षो नभसः पृष्ठे न पाताले न भूतले।
सर्वाशासंक्षये चेतःक्षयो मोक्ष इतीष्यते।।[5-9-48]
नेति।। बन्धनिवृत्तिर्हि मोक्षो नाम। स च चेतसो बन्धरूपत्वात् तन्निवृत्तिरूपमेवेति भावः।।
मोक्षो मेऽस्त्विति चिन्तान्तर्जाता चेदुत्थितं मनः।
मननोत्थे मनस्युच्चैर्बन्धः संसारिको दृञः।।[5-9-49]
मोक्ष इति।। मोक्षो मेऽस्तु भूयादिति चिन्ता अन्तर्जाता चेन्मन उत्थितं स्यात्। मनसि च मननेन संकल्पेनोत्थिते सति संसारिकः संसारहेतुर्बन्धो दृढः स्यात्।।
आत्मन्यतीते सर्वस्मात्सर्वरूपेऽथवा तते।
को बन्धः कश्च वा मोक्षो निर्मूलं मननं कुरु।।[5-9-50]
आत्मनीति।। आत्मनि सर्वस्मादतीते विश्वविलक्षणे अथवा सर्वरूपे सर्वात्मके तते व्याप्ते वा सति को बन्धः कश्च मोक्षः। प्रपञ्चातीतत्वे प्रपञ्चात्मकत्वे वा बन्धमोक्षयोरभावात्। तस्मान्मननं संकल्पं निर्मूलं कुरु।।
अध्यात्ममतिराशान्तः पूर्णः पावनमानसः।
निर्मृष्टकामपङ्काङ्कश्छिन्नबन्दनिजभ्रमः।।[5-9-51]
मननस्य मूलनाशे सति तस्याङ्गं प्रस्तौति त्रिभिः श्लोकैः-अध्यात्मेति।। अध्यात्ममात्मनि रतिर्यस्य। आशान्तः प्रशान्तः। पूर्णः परिपूर्णदृष्टिः। पावनमानसः पावनमात्मज्ञाननिर्धूतपापत्वाद्विशुद्धं मानसं यस्य।।
द्वन्द्वदोषभयान्मुक्तस्तीर्मसंसारसागरः।
प्राप्तानुत्तमविश्रान्तिर्लब्धालभ्यपदस्य हि।।[5-9-52]
अनिवृत्तपदं प्राप्तः कर्मणा मनसा गिरा।
सर्वाप्तिवाञ्छितारम्भो न किंचिदभिवाञ्छति।।[5-9-53]
आत्मनि विश्रान्तिर्यस्य स तादृशो न किंचिदभिवाञ्छति।।[5-9-52,53]
आपत्करञ्जपरशुं पराया निर्वृतेः पदम्।
पुष्पगुच्छं शमतरोरालम्बस्व निराशताम्।।[5-9-54]
आपदिति।। पुष्पगुच्छं पुष्पस्तबकम्।।
गोः पदं पृथिवी मेरुः स्थाणुराशाः समुद्गिकाः।
तृणं त्रिभुवनं राम नैराश्यालंकृताकृतेः।।[5-9-55]
गोः पदमिति।। आशा दिशः। समुद्गिकाः संपुटिकाः।।
शरीराद्वयतिरिक्तं ज्ञं पश्यतः प्रविवेकिनः।
विकर्तिताङ्गकस्यापि न किंचित्प्रविकर्तितम्।।[5-9-56]
नैराश्येऽप्यात्मानुसंधानमेव हेतुरित्याह-शरीरादिति।। ज्ञं चेतनमात्मानं विकर्तिताङ्गकस्य विकृत्तावयवस्य शरीरातिरिक्ते सुखस्वरूपे स्वात्मनि विज्ञाते सति शरीरेऽपि किलानादरः किमुत बाह्यार्थेष्विति भावः।।
अनुभूतो गुडः स्वादुरपि दाहविकर्तनैः।
न शक्यतेऽन्यथा कर्तुं तत्त्वालोकस्तथात्मनः।।[5-9-57]
अनुभूत इति।। स्वादुर्गुडोऽनुभूतः सन्दाहविकर्तनैरपि देहसंतापनच्छेदनादिभिरपि दुःखसाधनैरन्यथा कर्तुं यथा न शक्यते अनुभूतस्य गुडस्य स्वादुतयैवानुसन्धीयमानत्वात् तथा आत्मनः स्वत्त्वावलोकोऽप्यनुभूतोऽन्यथा कर्तुं न शक्यते स्वरूपसुखस्य विस्मर्तुमशक्यत्वात्। अतिशयितस्य च सुखान्तरस्याभावात्। यदाह सर्वज्ञयोगी-`यत्सङ्गिसंगतिपरम्परयापि लोकः प्रेमास्पदीभवति सातिशयोपयोगात्। निर्हेतुकानतिशयानवधि स्वधाम किं वर्ण्यते मम निजं तदखण्डसौख्याम्' इति।।
परव्यसनिनी नारी व्याग्रापि गृहकर्मणि।
तदेवास्वादयत्यन्तर्नवसङ्गरसायनम्।।[5-9-58]
एतदेव दृष्टान्तं समुपपादयन्नाह-परेति श्लोकद्वयं वाक्यम्।। यथा हि परव्यसनिनीपरपुरुषासक्ता स्वैरिणी नारी गृहकर्मणि स्वीये गृहकार्ये व्यग्रपि व्यासक्तापि तदेव पूर्वानुभूतमेव नवसङ्गरसायनं नूतनसंभोगसौख्यं आस्वादयति अनुसंधत्ते।।
एवं तत्त्वे परे शुद्धे धीरो विश्रान्तिमागतः।
तदेवास्वादयत्यन्तर्बहिर्व्यवहरन्नपि।।[5-9-59]
एवं परे तत्त्वे विश्रान्तिमागतो धीरोऽपि बहिर्देहादौ व्यवहरन्नपि व्यवहारयुक्तोऽपि अन्तश्चित्ते तदेव परं तत्त्वमास्वादयति। तत्त्वनिष्ठस्य बहिर्व्यवहारो न समादिभङ्गायेति भावः।।
असंसर्गात्पदार्थानामन्तःशान्तिर्विमुक्तता।
सत्यसत्यपि देहे सा संभवत्यनघाकृतेः।।[5-9-60]
असंसर्गादिति।। पदार्थानामसंसर्गाद्धेतोः अन्तः शान्तिः चित्तस्यात्मनि लय एव मुक्तता। सा च देहे सत्यसत्यपि वा अनघाकृतेः निष्पापस्यैव संभवति।।
यो जीवति गतस्नेहः स जीवन्मुक्त उच्यते।
सस्नेहजीवितो बद्धो मुक्त एव तृतीयकः।।[5-9-61]
य इति।। यो गतस्नेहो बाह्यवस्तुन्यनासक्तः स्वात्मरतिरेव जीवति स जीवन्मुक्त उच्यते। सस्नेहजीवितो बाह्यवस्तुनिष्ठस्तु बद्ध उच्यते। तृतीयकः यो गतस्नेहजीवितो न भवति स स्नेहजीवितश्च न विगतस्नेहत्वाद्विदेहात्वाच्च। स तु मुक्त एव निरुपपदेनैव मुक्तशब्देनोच्यत इत्यर्थः।।
नापीक्षते भविष्यच्च वर्तमाने न तिष्ठति।
न संस्मरत्यतीतं च सर्वमेव करोति च।।[5-9-62]
अनुबन्धपरे जन्तावसंसक्तमनाः सदा।
भक्ते भक्तसमाचारः शठे शठ इव स्थितः।।[5-9-63]
बालो बालेषु वृद्धेषु वृद्धो धीरेषु धैर्यवान्।
युवा यौवनवृत्तेषु दुःखितेषु स दुःखधीः।।[5-9-64]
धीरधीरुदितानन्दः पेशलः पुण्यकीर्तनः।
प्राज्ञः प्रसन्नमधुरो दैन्यादपगताशयः।।[5-9-65]
अपि शीतरुचावर्के सुतप्तेऽपीन्दुमण्डले।
अप्यधः प्रसरत्यग्नौ जीवन्मुक्तो न विस्मयी।।[5-9-66]
नेति श्लोकषट्कमेकं वाक्यम्।। भाविभवद्भूतेषु अनासक्तो व्यवहरन् भक्तशठबालवृद्धादिषु तत्तच्चेष्टामनुकुर्वन्धैर्यादिगुणयुक्तो जीवन्मुक्तोऽर्भकादिषु विपरीतस्वभावेष्वपि विस्मयादिविकारं न प्राप्नोति।।[5-9-62,63,64,65,66]
चिदात्मन इमा इत्थं प्रसरन्तीह शक्तयः।
इत्यस्याश्चर्यजालेषु नाभ्युदेति कुतूहलम्।।[5-9-67]
कस्मात्कारणात् इमाश्चिदात्मनः शक्तय इत्थं बहुधा स्फुरन्तीति चिच्छक्तिविलासमनुसंदधतोऽस्य जीवन्मुक्तस्य आश्चर्यजालेषु कुतूहलं नाभ्युदेतीति संबन्धः।।
यथा जलपरिस्पन्दाद्वयतिरिक्त इवाम्भसः।
दृश्यते वर्तुलावर्तश्चित्तस्पन्दात्तथा जगत्।।[5-9-68]
यथेति।। जलस्य परिस्पन्दात्परितः चलनाद्धेतोर्वर्तुल आवर्तोऽम्भसो व्यतिरिक्त इव दृश्यते।।
यथा व्योम्नीक्षणस्पन्दात्पिच्छमौक्तिकमण्डलम्।
दृश्यते सदिवासत्यं चित्तस्पन्दात्तथा जगत्।।[5-9-69]
तथा चित्तस्य स्पन्दाच्चिदाकाशे जगदसत्यमपि सदिव दृश्यते।।
राम उवाच।।
येन प्रस्पन्दते चित्तं येन न स्पन्दतेऽथवा।
तद्ब्रह्मन्ब्रूहि मे येन चिकित्सेयं तदेव हि।][5-9-70]
येनेति।। चित्तं येन कारणेन स्पन्दते येन वा न स्पन्दते तत्स्पन्दकारणमस्पन्दकारणं च मे ब्रूहि। येन त्वदुक्तेन प्रकारेण तदेव चित्तं चिकित्सेययं स्पन्दरहितं विदध्याम्।।
वसिष्ठ उवाच।।
यथा शौक्ल्यं हिमे राम तिले तैललवो यथा।
दृष्टौ राघव संसृष्टौ चित्तस्पन्दौ तथैव हि।।[5-9-71]
चित्तस्पन्दनिवृत्त्युपायमुपदिदिक्षुः चित्तस्पन्दनिवृत्तिरेव चित्तनाश इति दर्शयितुं चित्तस्पन्दयोरभेदमाह-यथेति।। हिमशैक्ल्ययोरिव तिलतैलयोरिव च चित्तस्पन्दयोरपि विभागो न दृश्यत इत्यर्थः।।
वसिष्ठ उवाच।।
द्वौ क्रमौ चित्तनाशाय योगो ज्ञानं सम्यगवेक्षणम्।।[5-9-72]
द्वाविति।। क्रमादुपायौ तद्वृत्तिरोधश्चिवृत्तिनिरोधः। यथा च पातञ्जलं सूत्रम्-`योगश्चित्तवृत्तिनिरोधः'इति।।
चित्तं प्राणपरिस्पन्दमाहुरागमभूषणाः।
तस्मिन्संरोधिते नूनमुपशान्तं भवेन्मनः।।[5-9-73]
मनःस्पन्दोपशान्त्यायं संसारः प्रविलीयते।
सूर्यालोकपरिस्पन्दशान्तौ व्यवहृतिर्यथा।।[5-9-74]
चित्तमिति श्लोकद्वयं वाक्यम्।। प्राणपरिस्पन्दं प्राणेन परिस्पन्दो यस्य तत्। प्राणाधीनस्पन्दमित्यर्थः। तस्मिन् प्राणवायौ।।[5-9-73,74]
राम उवाच।।
अनिशं चरतां देहगेहे गहनगामिनाम्।
प्राणादीनां परिस्पन्दो वायुना रोध्यते कथम्।।[5-9-75]
अनिशमिति।। गहनगामिनां दुर्बोधगमनानाम्। ग्राणादीनामित्यादिशब्देन प्राणापानादिसंग्रहः।।
वसिष्ठ उवाच।।
शास्त्रसज्जनसंपर्कवैराग्याभ्यासयोगतः।
अनास्थायां कृतास्थायां पूर्वं संसारवृत्तिषु।।[5-9-76]
अथैकादशभिः श्लोकैः प्राणस्पन्दनिरोधप्रकारो निरूप्यते-शास्त्रेति श्लोकद्वयं वाक्यम्। शास्त्रं अध्यात्मशास्त्रम्। सज्जनसंपर्को ब्रह्मवित्सङ्गः। वैराग्यं विषयेष्वरतिः। अभ्यासः समाध्याभ्यासः त एव योगा उपायाः तेभ्यो हेतुभ्यः पूर्वं प्रथमं संसारवृत्तिषु सांसारिकव्यवहारेषु अनास्थायामनादरे कृतास्थायां दृढायां सत्याम्।।
यथाभिवाञ्छितध्यानाच्चिरमेकतयोदितात्।
एकतत्त्वघनाभ्यासात्प्राणस्पन्दो निरुध्यते।।[5-9-77]
चिरमेकतयोदितात् एकप्रकारतया उद्भूतात् यथाभिवाञ्छितध्यानात्। अभिवाञ्छितमभिवाञ्छा तामनतिक्रम्य ध्यानात्। यत्र यत्र सरसवाहिन्यभिवाञ्छा तस्य तस्य ध्यानाद्धेतोः य एकतत्त्वघनाभ्यासः एकस्यैव वस्तुस्वरूपस्य निरन्तरं पुनःपुनरनुसंधानं तस्मादुपायात्प्राणस्पन्दः प्राणवायोश्चञ्चल्यं निरुध्यते।।
पूरकाद्यनिलायामाद्दृढाभ्यासादखेदजात्।
एकान्तध्यानयोगाच्च प्राणस्पन्दो निरुध्यते।।[5-9-78]
पूरकेति।। दृढाभ्यासाद्दृढं यथातथा पुनःपुनः परिशीलनाद्धेतोः। अखेदतोऽप्रयासजन्यः केवलकुम्भकसिद्धिपर्यन्तो यः पूरकाद्यनिलायामः पूरककुम्भकरेचकप्रकारः प्राणायामः तस्माद्धेतोरेकान्तध्यानयोगाच्च विविक्तप्रवर्तितध्यानयोगाच्च प्राणस्पन्दो निरुध्यते। यथाच याज्ञवल्क्यः केवलं कुम्भकं प्रक्रम्याह-`एष प्राणजयऽपायः सर्वमृत्यूपघातकः' इति।।
ओंकारोच्चारणप्रान्तशब्दतत्त्वानुभावनात्।
सुषुप्ते संविदो जाते प्राणस्पन्दो निरुध्यते।।[5-9-79]
ओंकारस्येति।। प्रणवोच्चारणे सति प्रान्ते पर्यन्ते यच्छब्दत्त्वं तस्यानुभावनात् अनुसंधानाद्धेतोः संविदो बहिर्मुखायाश्चित्तवृत्तेः सुषुप्ते निलीने जाते सति प्राणस्पन्दो निरुध्यते। अत्र तु नादानुसंधानस्य मनोलयहेतुत्वात्तद्द्वारेण प्राणलयहेतुत्वमुक्तं हठप्रदीपिकायाम्-`नासनं सिद्धसदृशं न कुम्भः केवलोपमः। न खेचरीसमा मुद्रा न नादसदृशो लयः' इति। `काष्ठे प्रवर्तितो वह्निः काष्ठेन सह शाम्यति। नादे प्रवर्तितं चित्तं नादेन सह लीयते।। विस्मृत्य सकलं बाह्यं नादे प्रवर्तितं चित्तं नादेन सह लियते।। विस्मृत्य सकलं बाह्यं नादे दुग्धाम्बुवन्मनः। एकीभूयाथ सहसा चिदाकाशे विलीयते' इति।।
तालुमूलगतां यत्नाज्जिह्वयाक्रम्य घण्टिकाम्।
ऊर्ध्वरन्ध्रगते प्राणे प्राणस्पन्दो निरुध्यते।।[5-9-80]
तालुमूलेति।। जिह्वामूलस्योपरितनौ वक्त्रान्तर्भागौ तालुनी तयोर्मूलं मध्यभागः तद्गतां तत्र स्थितां घण्टिकां लम्बिकां सूक्ष्मजिह्वारूपेण लम्बमानं मांसखण्डं यत्नात्प्रयत्नविशेषात् जिह्वया साधनभूतया आक्रम्य प्राणे ऊर्ध्वरन्ध्रं गते ऊर्ध्वरन्ध्रं कपालकुहरं यद्धि सुषुम्नाया उपरितनं द्वारमुच्यते। यदाह श्रुतिः-`अन्तरेण तालुके य एष स्तन इवावलम्बते सेन्द्रयोनिः। यत्रासौ केशान्तो विवर्तते व्यपोह्य शीर्षकपाले' इति। तादृशमूर्ध्वरन्ध्रं गते सति प्राणस्पन्दो निरुध्यते। अनेन च लम्बिकायोगः प्रदर्शितः। यः खेचरीति नभोमुद्रेति चोच्यते। तदुक्तं विवेकमार्तण्डे-`कपालकुहरे जिह्वा प्रविष्टा विपरीतगा। भ्रुवोरन्तरगा दृष्टिर्मुद्रा भवति खेचरी' इति। अत्र च प्रयत्नादित्यनेन जिह्वाया दैर्घ्यसिद्धये चालनदोहनादिरूपो यत्नविशेष उक्तः। तदुक्तं हठप्रदीपिकायाम्-`छेदनचालनदोहैः कलां क्रमेण प्रवर्धयेत्तावत्। सा यावद्भूमध्यं स्पृशति तदानीं हि खेचरीसिद्धिः' इति। कला जिह्वा तस्याश्छेदनं नाम ऊर्ध्वगमनप्रतिबन्धकस्याधोभागस्थितस्य चर्मणश्छेदः। चालनं पुनरार्द्रवस्त्रखण्डवेष्टिताया जिह्वायाः पाणिभ्यां दृढं गृहीत्वा सव्यापसव्यं भ्रामणम्। दोहनं तु पाणिभ्यां पर्यायेण शनैःशनैराकर्षणम्।।
द्वादशाङ्गुलपर्यन्ते नासाग्रे विमलाम्बरे।
संविद्दृशि प्रशाम्यन्त्यां प्राणस्पन्दो निरुध्यते।।[5-9-81]
द्वादशेति।। नासाग्रे नासिकाया अग्रभागे द्वादशाङ्गुलपर्यन्ते नासाग्रमारभ्य द्वादशाङ्गुलपरिमिते विमलाम्बरे निर्मलनभोभागे दृशोर्लक्ष्यभूते संविद्दृशि वृत्तिज्ञाने प्रशाम्यन्त्यां लीलमानायां सत्यां प्राणस्पन्दो निरुध्यते। तथाच याज्ञवल्क्यः-`नासाग्रे धारणं गार्गि वायोर्विजयकारणम्'इति।।
अभ्यासादूर्ध्वरन्ध्रेण तालूर्ध्वद्वादशान्तगे।
प्राणे गलितसंवित्तौ प्राणस्पन्दो निरुध्यते।।[5-9-82]
अभ्यासादीति।। अभ्यासाद्योगशास्त्रेषु निरूपितात्पवननिरोधाभ्यासात् ऊर्ध्वरन्ध्रेण सुषुम्नामार्गेण प्राणे प्राणवायौ तालूर्ध्वं द्वादशान्तगे। तालुशब्देन षोडशारं विशुद्ध्याख्यं चक्रमुच्यते। ऊर्ध्वशब्देन ब्रह्मरन्ध्रम्। द्वादशान्तमित्यनाहताख्यं द्वादशारं चक्रम्। तथाच तालुगे ऊर्ध्वगे द्वादशान्तगे वा सति गलितसंवित्तौ विगलितबहिर्मुखसंविदि सति प्राणस्पन्दो निरुध्यते। तत्रच ऊर्ध्वरन्ध्रेण कपालकुहरेण प्राणे तालूर्ध्वद्वादशान्तगे तालुस्थानादूर्ध्वं द्वादशाङ्गुलपर्यन्तं ब्रह्मरन्ध्रं गते सतीति व्याख्यानम्। तालुमूलगतामित्यादिना पूर्वोक्तेन खेचरीयोगेन पुनरुक्तमित्युपेक्षितम्। अत्रच ताल्वादीनां प्राणमर्मस्थानत्वात्तद्गतस्य प्राणस्य तत्र लयो युज्यत इत्यनुसंधेयम्। यदाह याज्ञवल्क्यः-`पादाङ्गुष्ठौ च गुल्फौ च जङ्घामध्यौ तथैव च। स्फिजोर्मूले च जानू च मध्यावूरुद्वयस्य च।। पायुमूलं ततः पश्चान्मध्यौ देहस्य मेढ्रकम्। नाभिश्च हृदयं गार्गि कण्ठकूपं तथैव च।। तालुमूलं च नासाया मूलं चाक्ष्णोश्च मण्डले। भ्रुवोर्मध्यं ललाटं च मूर्धा च मुनिसत्तमे।। मर्मस्थानानि चैतानि'इति। अत्र चाभ्यासशब्देन जितेन्द्रियस्य विविक्तदेशवर्तिनो हितमितमेध्याशिनो गुरूपदिष्टमार्गेण धौतबस्तिप्रमुखैर्मूर्धाधःशोघनैः करणैर्विशुद्धदेहस्य आसनप्राणायामाभ्यां शोधितनाडिकस्य सुषुम्नायां प्राणसंचारहेतुर्महामुद्राद्यभ्यासो विवक्षितः। ताश्च महामुद्रादयो दश मुद्राः। तदुक्तं हठप्रदीपिकायाम्-`महामुद्रा महाबन्धो महावेधश्च खेचरी। उड्डियानं मूलबन्धो बन्धो जालन्धराभिधः।। करणी विपरीताख्या वज्रोली शक्तिचालनम्। मुद्राणां दशकं चेदं गोपनीयं प्रयत्नतः'इति। `खिलापि मध्यमानाडी दृढाभ्यासेन योगिनाम्। आसनप्राणसंयाममुद्राभिः सरला भवेत्'इति च। महामुद्रादिलक्षणं तु ग्रन्थविस्तरभयान्नेह लिखितं तद्ग्रन्थान्तराद्बोध्यम्।।
भ्रमध्ये तारकालोकशान्तावन्तमुपागते।
चेतने केतने बद्धे प्राणस्पन्दो निरुध्यते।।[5-9-83]
भ्रूमध्य इति।। भ्रुवोर्मध्ये द्व्यस्रं व्योमचक्रं तद्धि चिन्मयस्य ज्योतिष उपलब्धिस्थानम्। तदुक्तम्-`भ्रूयुगमध्यगतं सच्छिखिविद्युत्सूर्यवज्जगद्भाति। केषांचित्पुण्यदृशामुन्मीलति चिन्मयं ज्योतिः' इति।। तद्यदा लक्षणं विधीयते तदा तत्रैव तारकालोकशान्तौ। तारकाक्ष्णः कनीनिका। तारकयोरालोको दर्शनव्यापारः तस्य शान्तावुपरतौ सत्यां केतने केतनं संकेतः अस्य शब्दस्यायमर्थ इति पुरुषकल्पितो वाच्यवाचकनियमः तत्र बद्धं तदनुसारि यच्चेतनम्। विकल्पज्ञानमिति यावत्। तस्मिन्नन्तमुपागते सति प्राणस्पन्दो निरुध्यते। बुद्ध इति पाठे तु केतने शब्दार्थसंबन्धे प्रबुद्धं यच्चेतनं शब्दार्थसंबन्धाननुसंदधद्विकल्पकं विज्ञानं तस्मिन्नन्तमुपागते इति व्याख्येयम्।।
झटित्येव यदुद्भूतं ज्ञानं तस्मिन्दृढायिते।
असंस्पृष्टविकल्पांशे प्राणस्पन्दो निरुध्यते।।[5-9-84]
झटितीति।। अत्र ज्ञानं झटित्येव उद्भूतं असत्यामेव जिज्ञासायामकस्मादेव समुत्पन्नं वासनावशाद्विषयसंनिधानाद्वा तस्मिञ्ज्ञाने दृढायिते दृढीकृते, तथैव दृढं भाविते असंस्पृष्टविकल्पांशे विगलितविकल्पभागे सति प्राणस्पन्दो निरुध्यते। यदा समुत्पन्नं वृत्तिज्ञानमेव दृढं भाव्यमानं विगलितविषयांशं सन्मात्रं संपद्यते तदापि प्राणस्पन्दनिरोध इति भावः।।
चिरकालं हृदैकान्तव्योमसंवेदनान्मुनेः।
अवासनमनोध्यानात्प्राणस्पन्दो निरुध्यते।।[5-9-85]
चिरकालमिति।। चिरकालं मुनेर्मौनव्रतनिष्ठस्य योगिनो हृदा चित्तेन एकान्तव्योमसंवेदनात् एकान्तं नियतं यद्व्योमसंवेदनमाकाशभावनं तस्मात्संभूतं यदवासनमनोध्यानं विषयवासनाविनिर्मुक्तं चित्तनिर्वृत्तं यद्ध्यानं तस्मादपि प्राणस्पन्दो निरुध्यते। तत्र चहठं विना राजयोगो राजयोगं विना हठो न सिध्यति। `ततो युग्ममानिष्पतेः समभ्यसे'दिति न्यायात्। `मारुतस्य विधिं सम्यग्मनोयुक्तं समभ्यसेत्। इतरत्र न कर्तव्या मनोवॉत्तिर्मनीषिणा'इति वचनाच्च मनोनिरोधेन सहैव प्राणनिरोधोऽभ्यसनीय इति। तत्र तत्र सुषुप्ते संविदो जाते `संविद्दृशि प्रशाम्यन्त्याम्' इत्यादिना प्रतिपादितमित्यनुसंधेयम्।।
एभिः क्रमैस्तथान्यैश्च नानासंकल्पकल्पितैः।
नानादेशिकवक्त्रस्थैः प्रामस्पन्दो निरुध्यते।।[5-9-86]
एभिरिति।। एभिः पूर्वोक्तैः क्रमैरुपायैः तथा नानासंकल्पकल्पितैः नानादेशिकवक्त्रैर्नानाविधाचार्यप्रोक्तैरन्यैश्च क्रमैः प्राणस्पन्दो निरुध्यते। तत्र चान्यैरित्यनेन स्थानान्तरावलम्बिनो ये प्राणनिरोधोपायाः ये च चित्तलयोपायाः पूर्वाचार्यैः प्रदर्शिताः ते सर्वे संगृह्यन्ते। चित्तलयोपायानां च प्राणलयोपायत्वात्। तदुक्तं ह
ठप्रदीपिकायाम्-`पवनो बध्यते येन मनस्तेनैव बध्यते। मनश्च बध्यते येन पवनस्तेन बध्यते' इति। ते च चित्तलयोपाया आनन्त्यात्र प्रदर्शयितुं शक्यन्ते। तदुक्तं हठप्रदीपिकायाम्-`ते चादिनाथेन सपादकोटिलयप्रकाराः कथिताः सन्ती'ति।।
अभ्यासेन निराबाधमेतास्ता योगयुक्तयः।
उपायतामुपायान्ति भव्यस्य भवभेदने।।[5-9-87]
अभ्यासेनेति।। भव्यस्य भाग्यवतो योगिनः।।
अभ्यासेन परिस्पन्दे प्राणानां क्षयमागते।
मनः प्रशममायाति निर्वाणमवशिष्यते।।[5-9-88]
अभ्यासेनेति।। निर्वाणं कैवल्यरूपमात्मतत्त्वम्।।
राम उवाच।।
योगयुक्तस्य चित्तस्य शम एवं निरूपितः।
सम्यग्ज्ञानमिदानीं मे कथयानुग्रहात्प्रभो।।[5-9-89]
योगेति।। `द्वौ क्रमौ चित्तनाशस्य योगो ज्ञानं चे'त्युक्तयोर्योगज्ञानयोर्मध्ये योगलक्षणोपायवतः पुरुषस्य एवं पूर्वोक्तप्रकारेण चित्तस्य शमो नाशो दर्शित इत्यर्थः।।
वसिष्ठ उवाच।।
यथाभूतार्थदर्शित्वमेतावद्भुवनत्रये।
यदात्मैव जगत्सर्वमिति निश्चित्य पूर्णता।।[5-9-90]
अभ्यासाद्दृढतां यातो वैराग्यपरिलाञ्छितः।
यतावासनमायामः प्राणानां सफलः स्मृतः।।[5-9-91]
विकल्पसंक्षयाज्जन्तोः पदं तदवशिष्यते।
यतो वाचो निवर्तन्ते समग्रकलनान्विताः।।[5-9-92]
यथेति।। जगत्सर्वमात्मैवेति निश्चित्य पूर्णता परिपूर्णरूपत्वमिति यत् एतावदेव यथाभूतार्थदर्शित्वं परमार्थदर्शित्वम्।।[5-9-90,91,92]
इमा घटपटाकारपदार्थशतशक्तयः।
आत्मैव नान्यदस्तीति निश्चयः सम्यगीक्षणम्।।[5-9-93]
अनाद्यन्तावभासात्मा परमात्मेह विद्यते।
इत्येष निश्चयः स्फारः सम्यग्ज्ञानं विदुर्बुधाः।।[5-9-94]
इमा इति।। घटपटाकारपदार्थशतशक्तयः घटपटाद्याकाराणि यानि पदार्थशतानि याश्च तेषां शक्तयः तत्सर्वमात्मैव। अन्यद्वस्तु नास्तीति निश्चयः सम्यग्ज्ञानमित्यर्थः।।[5-9-93,94]
सर्वमात्मैव निर्दिष्टौ भावाभावौ क्व वा स्थितौ।
क्व बन्धमोक्षकलने किमन्यद्राम शोच्यते।।[5-9-95]
न चेत्यमन्यन्नो चित्तं ब्रह्मैवेदं विजृम्भते।
सर्वमेकं परं ब्रह्म को मोक्षः का च बन्धता।।[5-9-96]
सर्वमिति।। दृश्यं सर्वमात्मैव तत्र भावाभावौ कौ निर्दिष्टौ निरूपितौ। सर्वस्यात्मरूपत्वे अयं भावः अयमभावः इति च भेदो निरूपयितुमशक्य इत्यर्थः। क्व वा स्थितावित्यनेन भावाभावयोराश्रयोऽपि निरूपयितुमशक्य इत्याह। किमन्यद्राम शोच्यते। बन्धमोक्षयोरप्यभावान्न शोकावसर इत्यर्थः।।[5-9-95,96]
ब्रह्मेदं प्रहिताकारं बृहद्बृहदवस्थितम्।
दूरादस्तमितद्वित्वं भवात्मैव त्वमात्मना।।[5-9-97]
ब्रह्मेति।। बृहद्बृहदिति महीमहीधरादिरूपेण स्थूलं स्थूलतममवस्थितम्। अतः कारणात्त्वं आत्मनैव स्वयमेवात्मा भव परिपूर्णः परमात्मा भव।।
सम्यगालोकिते रूपे काष्ठपाषाणवाससाम्।
मनागपि न भेदोऽस्ति क्वासि संकल्पनोन्मुखः।।[5-9-98]
सम्यगिति।। काष्ठपाषाणवाससां रूपे स्वरूपे सम्यगालोकिते विचारिते सति मनागपि ईषदपि भेदो नास्ति दृश्यभेदस्य दृगायत्तत्वात् दृशः स्वरूपेणाभिन्नत्वात्। तस्मादात्मातिरिक्तस्य वस्तुनोऽभावात् क्व वा वस्तुनि संकल्पोन्मुखोऽसि।।
आदावन्ते च संशान्तं स्वरूपमविनाशि यत्।
वस्तूनामात्मनश्चैतत्तन्मयो भव राघव।।[5-9-99]
आदाविति।। आदावुत्पत्तेः पूर्वं अन्ते विनाशानन्तरं च वस्तूनामिदन्तया प्रतीयमानानां भावानामातामनश्च अहन्तास्पदस्य यदेतत्संशान्तं अविनाशि च स्वरूपं चिन्मात्रं त्वं तन्मयो भव।।
द्वैताद्वैतसमुद्भेदा जरामरणविभ्रमैः।
स्फुरत्यात्मभिरात्मैव चित्तैरब्धिवद्वीचिभिः।।[5-9-100]
द्वैतेति।। जरामरणविभ्रमैः जरामरणादिविलासैः ये द्वैताद्वैतसमुद्भेदाः भेदाभेदोन्मेषाः तैरुपलक्षितानि यानि चित्तानि तैरेवात्मभिः स्वरूपैः आत्मैव वीचिभिः अब्धिवद्बहुधास्फुरति।।
शुद्धमात्मानमालिङ्ग्य नित्यमन्तःस्थया धिया।
यः स्थितस्तं कमात्मेहं भोगो बन्धयितुं क्षमः।।[5-9-101]
कृतस्फारविचारस्य मनो भोगादयोऽरयः।
मनागपि न भिन्दन्ति शैलं मन्दानिला इव।।[5-9-102]
शुद्धमिति।। नित्यं सर्वदा अन्तःस्थया अन्तर्मुखया धिया शुद्धं निरुपाधिकं आत्मानमालिङ्ग्य तादात्म्यमापद्य यः स्थितः तमात्मेहं आत्मारामं कं नाम भोगो बन्धयितुं क्षमः। न कमपीत्यर्थः।।[5-9-101,102]
नानात्वमस्ति कलनासु न वस्तुनोऽन्तर्नानाविधासु सरसीषु जलादिवान्यत्।
इत्येकनिश्चयमयः पुरुषो विमुक्त इत्युच्यते समवलोकितसम्यगर्थः।।[5-9-103]
वसिष्ठ उवाच।।
अथेमामपरां राम श्रृणु दृष्टिं पदप्रदाम्।
मुनिना वीतहव्येन यथा स्थितमशङ्कितम्।।[5-9-104]
वीतहव्यो मुनिर्नाम विन्ध्यकाननकन्दरे।
उषित्वा सुचिरं कालं क्रियाकाण्डपरायणः।।[5-9-105]
आत्मक्रियाक्रमाद्धोरसंसारभ्रमदायिनः।
आधिव्याधिमयाकारात्कालेनोद्वेगमाययौ।।[5-9-106]
निर्विकल्पसमाध्यर्थं संत्यज्य सकलाः क्रियाः।
विवेश रम्भारचितं निजपर्णोटजान्तरम्।।[5-9-107]
नानात्वमिति।। कलनासु विकल्पबुद्धिषु अन्तरभ्यन्तरे वस्तुनो नानात्वं नास्ति। सरसीषु जलदिवेति एकनिश्चयमयः पुरुषो विमुक्त इत्युच्यते।।[5-9-103,104,105,106,107]
तत्रासने समे शुद्धे स्वास्तीर्णहरिणाजिने।
बद्धपद्मासनस्तस्थौ पार्ष्ण्योरधिकराङ्गुलिः।।[5-9-108]
तत्रेति।। पार्ष्ण्योः पादपश्चिमभागयोः पद्मासनवशात् अङ्कयोरुपरि वर्तमानयोः अधिकराङ्गुलिः उपरि स्थितोत्तानकराङ्गुलिः।।
संजहाराञ्जसा लोकं दिग्विकीर्णं मनः शनैः।
बाह्यानाभ्यन्तरांश्चैव स्पर्शान्परिहरन्क्रमात्।।[5-9-109]
ततः स्वमनसः स्थैर्यं वाञ्छमानस्तदा मुनिः।
इदमालोकयामास मनसा विगतैनसा।।[5-9-110]
वीतहव्य उवाच।।
अहो न चञ्चलमिदं प्रत्याहृतमपि क्षणात्।
मनः स्थैर्यं ततो नैति तरङ्गप्रौढपर्णवत्।।[5-9-111]
घटात्पटमुपायाति पटाच्छकटमुत्कटम्।
चित्तमर्थेषु चलति पादपेष्विव मर्कटः।
पञ्च द्वाराणि मनसश्चक्षुरादीन्यमून्यलम्।।[5-9-112]
संजहारेति।। स्पर्शान्विषयान् परिहरन् शनैर्दिग्विकीर्णं मनः संजहारेति संबन्धः। उपहरदिति पाठे मनसो विशेषणम्।।[5-9-109,110,111,112]
तेनात्मना बहुज्ञेन निर्ज्ञाताश्चक्षुरादयः।
मनागपि न संबद्धाः पातालद्युतलादिवत्।।[5-9-113]
तेनेति।। निर्ज्ञाताः। निःशब्दो बहिरर्थे वर्तते। आत्मनो बहिर्भावेन ज्ञाताश्चक्षुरादयस्तेनात्मना मनागपि न संबद्धा पातालद्युतलादिवत्। पातालं दिवस्तलं च यथा परस्परं न संबध्यते तद्विदित्यर्थः।।
चित्तचारण चार्वाक चतुर्दिक्कुक्षिभिक्षुक।
व्यर्थं खेदमनास्थाय नेदं विहर हे जगत्।।[5-9-114]
चित्तेति।। चारणदेशान्तरसंचरणशील। चार्वाक परलोकपराङ्भुख। चतुर्दिक्कुक्षिभिक्षुक चतसृणां दिशां कुक्षिष्वभ्यन्तरेषु भिक्षणशील हे चित्त, व्यर्थं खेदमनास्थाय इदं जगन्न विहर मा संचार।।
अहं चेतनमित्येवमसत्या तव वासना।
अत्यन्तभिन्नयोरैक्यं नास्ति चिन्मनसोः शठ।।[5-9-115]
अहमिति।। हे चित्त, अहमेव चेतनमिति या ते वासना सा असत्या। हे शठ, अत्यन्तभिन्नयोश्चिन्मनसोरैक्यं नास्ति। अत्यन्तं भेदश्च मनसो दृश्यत्वजडत्वादिनेति द्रष्टव्यम्।।
जीवः सोऽस्म्यहमित्येषा व्यर्थाहंकारदुर्मतिः।
अहंकारादयं सोऽस्मीत्येतां संरब्धतां त्यज।
मिथ्यैव जाता दुःखाय न सत्यासत्यवर्जिता।।[5-9-116]
जीव इति।। हे चित्त, जीवो ह्यहमिति अहंकारदुर्मतिर्व्यर्था। अहंकारत्सोऽस्मि अयमस्मीति या ते संरब्धता संभ्रमः तां त्यज।।
एतावदेव ते रूपं साधो यदविचारणम्।
विचारेमोपशान्तं त्वमालोकेन तमो यथा।।[5-9-117]
एतावदिति।। हे चित्त, अविचारणमिति यत्ते रूपं तदेतावदेव। अविद्यात्मकत्वाच्चित्तस्येति भावः। विचारेण पुनस्त्वमुपशान्तं भवसि। आलोकेन तमो यथा।।
नित्यं पूर्वमभूताय नास्तिरूपाय संप्रति।
भविष्यते च नोदर्के स्वमनः स्वस्ति ते स्थितिः।।[5-9-118]
नित्यमिति।। कालत्रयेऽप्यसद्रूपाय ते स्वस्ति। इतः परं मा बाधस्वेत्यर्थः। स्वमन इति संबोधनम्।।
परिनिर्वामि शान्तोऽस्मि दिष्ट्यास्मि विगतज्वरः।
स्वात्मन्येवातिष्ठेऽहं तुर्यरूपपदे स्थितः।।[5-9-119]
चिदात्मा भगवान्सर्वं साक्षित्वेन करोत्यजः।
हन्तेन्द्रियगणा यूयं किं निरर्थकमाकुलाः।।[5-9-120]
भीतः पान्थ इवाहिभ्यः पुक्कसेभ्य इव द्विजः।
दूरे तिष्ठति चिन्मात्रमिन्द्रियेभ्यो ह्यनामयम्।।[5-9-121]
संकल्पोन्मुखता सेयं दुःखदा संविदः स्मृतिः।
कलनारहिते देवे देहे मनसि वा जडे।
संवित्संवेद्यनिर्मुक्तासारस्तन्नाम नेतरत्।।[5-9-122]
वसिष्ठ उवाच।।
इति निर्णीय स मुनिर्वीतहव्यो विवासनः।
बलाच्चित्तं समाधाय तस्थावस्पन्दितेन्द्रियः।।[5-9-123]
अन्तरेव शशामास्य क्रमेण प्राणसंततिः।
ज्वालाजालपरिस्पन्दो दग्धेन्धन इवानलः।।[5-9-124]
परीति।। परिनिर्वामि परित उपरमामि।।[5-9-119,120,121,122,123,124]
घ्राणप्रान्तगताल्पाल्पसमालोक इवेक्षणे।
अर्धकुड्भलितैः पद्मैः श्रियमाययतुः समम्।।[5-9-125]
घ्राणेति।। भ्रूमध्ये योजितत्वात् घ्राणप्रान्तं गतः अल्पाल्पः समालोको ययोस्ते इव।।
समकायशिरोग्रीवस्थानकः स महामतिः।
आसीच्छैलादिवोत्कीर्णश्चित्रार्पित इवाथवा।।[5-9-126]
तथैव तिष्ठतस्तस्य संवत्सरशतत्रयम्।
कोटरे विन्ध्यकक्षस्य ययावर्धमुहूर्तवत्।।[5-9-127]
तत्र केनापि कालेन कायस्तस्य महामुनेः।
प्रावृडौघविनुन्नेन पङ्केनोर्वीतले कृतः।।[5-9-128]
वर्षत्रयशतेनैवं सोऽबुध्यत महाद्युतिः।
देहो नैव चचालस्य धराकेटरपीडितः।।[5-9-129]
संविदेवास्य तं देहं जग्राहोर्वीनिपीडितम्।
नतु प्राणमयस्पन्दः प्राणसंयमनं विना।
नाभूत्प्राणपरिस्पन्दः सर्वच्छिद्रावरोधतः।।[5-9-130]
समेति।। समकायशिरोग्रीवस्थानकः समं कायशिरोग्रीवं यस्मिन्स्थानके आसनबन्धे तादृशं स्थानकं यस्य।।[5-9-126,127,128,129,130]
उत्पत्तिप्रौढिमासाद्य कलना हृदयान्तरे।
स्वमनोरूपिणी यस्य हृद्येवानुबभूव सा।।[5-9-131]
कैलासकानने कान्ते कदम्बस्य तरोस्तले।
मुनित्वं शतमब्दानां जीवन्मुक्तात्म निर्मलम्।।[5-9-132]
विद्याधरत्वं वर्षाणां शतमाधिविवर्जितम्।
युगपञ्चकमिन्द्रत्वं प्रणतं सुरचारणैः।।[5-9-133]
कल्पमेकं गणत्वं स चन्द्रमौलेश्चकार ह।
प्रतिभासवशादेतद्वीतहव्योऽनुभूतवान्।।[5-9-134]
अनन्तरमनन्तात्म वीतहव्याभिधं मनः।
इच्छां कदाचित्सकलप्राग्जन्मालोकनेऽकरोत्।।[5-9-135]
अशेषान्स ददर्शाथ नष्टानष्टान्स्वदेहकान्।
अनष्टां तामपश्यन्नु वीतहव्याभिधां तनुम्।।[5-9-136]
तद्दिदृक्षयैवोद्धर्तुं मग्नदेहेऽभवन्मतिः।।[5-9-137]
उत्पत्तीति।। यस्य स्वमनोरूपिणी कलना कल्पना हृदयान्तरे हृत्पुण्डरीकमध्ये उत्पत्तिप्रौढिं उत्पत्तयो जन्मान्तराणि तद्विषयां प्रगल्भतामासाद्य हृद्येव तत्रैव हृदये अखिलं जन्मान्तरवृत्तान्तमन्वभूत्।।[5-9-131,132,133,134,135,136,137]
अथैवं चिन्तयामास कायोऽयं पङ्कपीडितः।
एतदुद्धरणायाहं प्रविशामि रविं प्रभुम्।।[5-9-138]
तदीयः पिङ्गलो देहमुद्धरिष्यति मे ततः।
इत्यसौ मुनिरादित्यं विवेशानिलरूपधृक्।
पुर्यष्टकवपुर्भूत्वा भस्त्रापिण्डमिवानिलः।।[5-9-139]
भगवान् रविरप्येनं हृद्गतं मुनिनायकम्।
दृष्ट्वा पिङ्गलमग्रस्थमादिदेशाशु कार्यवित्।।[5-9-140]
अथेति सार्धश्लोकद्वयं वाक्यम्।। तदीयः सूर्यस्य पार्श्ववर्ती परिजनः। `माठरः पिङ्गलो दण्डश्चण्डांशोः पारिपार्श्वकाः' इत्यभिधानादसौ मुनिः पुर्यष्टकवपुर्भूत्वा अहंकारकलायुक्तमित्यादिना पूर्वोक्तं सूक्ष्मदेहमालम्ब्य अनिलरूपधृक् प्राणवायौ सर्वेन्द्रियशक्तीरन्तर्भाव्य तद्रूपः सन् भस्त्रापिण्डमनिल इवादित्यं विवेशेत्यन्वयः।।[5-9-138,139,140]
भानुनाथाभ्यनुज्ञानं वीतहव्याभिधं मनः।
विवेश पिङ्गलाकारं विन्ध्यकन्दरगामिनम्।।[5-9-141]
पिङ्गलोऽसौ नभस्त्यक्त्वा कुञ्जकन्दरसुन्दरम्।
प्राप विन्ध्यवनं प्रावृम्नताभ्राम्बरभास्वरम्।।[5-9-142]
ददर्श मुनिदेहं तं तां गत्वा विन्ध्यकन्दराम्।
उद्दधार धराकोसान्नखनिष्कष्टभूतलः।।[5-9-143]
कलेवरं मुनेः कान्तं मृणालमिव सारसः।।[5-9-144]
भानुनेति।। अथ वीतहव्याभिधं मनः तीवहव्यपदे शान्तं पुर्यष्टकं वीतहव्यस्य पुर्यष्टकरूपेण प्रविष्टत्वात्तस्य च पुर्यष्टकस्य मनः प्रधानत्वात्तादृशं मनो गच्छेति भानुना अनुज्ञातं सत् विन्ध्यकन्दरगामिनं पिङ्गलं देहं विवेश।।[5-9-141,142,143,144]
मौनं पुर्यष्टकमथ स्वं विवेश कलेवरम्।
जगाम पिङ्गलो व्योम मुनिश्च विमलं सरः।।[5-9-145]
वीतहव्यो ममञ्जाशु सरस्युद्भिन्नपङ्कजे।
तत्र स्नात्वा जपं कृत्वा पूजयित्वा दिवाकरम्।।[5-9-146]
मनोभूषितया तन्वा पूर्ववत्पुनराबभौ।।[5-9-147]
मैत्र्या तया समतया परया च शक्त्या सत्प्रज्ञया मुदितया कृपया श्रिया च।
युक्तो मुनिः सकलसङ्गविमुक्तचेता विन्ध्ये सरित्तटगतो दिवसानि रेमे।।[5-9-148]
वसिष्ठ उवाच।।
कदाचिच्छममाधातुं पुनरेव मनो मुनिः।
चेतसा कलयामास दृष्टलोकपरावरः।।[5-9-149]
पूर्वमेवेन्द्रियगणो मया परिहृतः स्फुटम्।
इदानीं चिन्तया नार्थः पुनश्चिन्तितया मम।।[5-9-150]
मौनमिति।। मौनं मुनिसंबन्धि।।[5-9-145,146,147,148,149,150]
अस्तिनास्तीति कलनां भङ्क्त्वा मृद्वीं लतामिव।
शेषेऽनुबद्धसंधानस्तिष्ठाम्यचलशृङ्गवत्।।[5-9-151]
अस्तिनास्तीति।। सत्त्वासत्त्वोल्लेखिनीं कलनां भेददृष्टिं मृद्वीं लतामिव भङ्क्त्वा भग्नां कृत्वा शेषे अव्यपदेश्ये चिन्मात्रे अनुबद्धसंधानः अचलश्रृङ्गवत्तिष्ठामि।।
उदितोऽस्तं गत इव अस्तं गत इवोदितः।
समः समरसाभासस्तिष्ठामि स्वच्छतां गतः।।[5-9-152]
उदित इति।। उदितोऽस्तं गत इव प्रकाशमानत्वेऽपि निष्क्रियत्वात्। अस्तं गत उदित इव इन्द्रियागोचरत्वेऽपि सर्वसाक्षित्वात्। सम एकरूपः समरसाभासः इष्टानिष्टादिषु समरस एकप्रकारास्वाद आभासोऽवभासो यस्य तादृशः सन् स्वच्छतां गतो निष्कलङ्कस्तिष्ठामि।।
प्रबुद्धोऽपि सुषुप्तस्थः सुषुप्तस्थः प्रबुद्धवान्।
तुर्यमालम्ब्य कायान्तस्तिष्ठामि स्तस्मितस्थितिः।।[5-9-153]
इति संचिन्त्य संधाने पुनस्तस्थौ दिनानि षट्।
ततः प्रबोधमापन्नः क्षणं सुप्त इवाध्वगः।।[5-9-154]
ततः सिद्धः स भगवान्वीतहव्यो महातपाः।
विजहार चिरं कालं जीवन्मुक्ततया तया।।[5-9-155]
प्रबुद्ध इति।। प्रबुद्धोऽपीन्द्रियैरर्थानुपलभमानोऽपि सुषुप्तस्थो हर्षविषादादिरहितः सुषुप्तस्थः समाधिनिष्ठतया बहिरनुसंधानाभावात्सुषुप्तिदशापन्नः प्रबुद्धवान् स्वस्वरूपे नित्यजागरितवान्। तुर्यं अवस्थात्रयानुवृत्तिचिन्मात्रमालम्ब्य कायान्तर्हृदये स्तम्भितस्थितिर्नियमितचित्तवृत्तिस्तिष्ठामि।।[5-9-153,154,155]
हेयादेयसमासङ्गत्यागादानदृशोः क्षये।
वीतहव्यमुनेरासीदिच्छनिच्छातिगं मनः।।[5-9-156]
हेयेति।। हेयमादेयमिति यः समासङ्गोऽभिमानः तस्य त्यक्ष्यामि आदास्यामीति ये दृशौ तयोश्च क्षये सति वीतहव्यमनुनेर्मनः इच्छानिच्छातिगं इच्छानिच्छारहितं निर्विकल्पमासीत्।।[5-9-156]
विदेहकेवलीभावे सीमान्ते जन्मकर्मणाम्।
संसारसङ्गसंत्यागे वाञ्छामापाऽतिशायिनीम्।।[5-9-157]
एकदा स मुनीशानो विवेश गिरिकन्दरम्।
बद्धपद्मासनः स्थित्वा तत्रोवाचात्मनात्मनि।।[5-9-178]
विदेहेति।। जन्मकर्मणां सीमान्ते परमावधौ संसारसङ्गानां सम्यक्त्यागरूपे विदेहकैवल्ये अतिशायिनीं वाञ्छामाप प्राप्तवान्।।[5-9-157,158]
राग नीरागतां गच्छ द्वेष निर्द्वेषतां व्रज।
भवद्भ्यां सुचिरं कालमिह प्रक्रीडितं मया।।[5-9-159]
भोगा नमोऽस्तु युष्मभ्यं जन्मकोटिशतान्यहम्।
भवद्भिर्लालितो लोके लालकैरिव बालकः।।[5-9-160]
रागेत्यादिना श्लोकाष्टकेन रागादिन्पूर्वसंबन्धिनः सप्रार्थनमुद्वासयति। हे राग, त्वं नीरागतां गच्छ। मद्विषयं रागं मुञ्चेत्यर्थः। मोक्ष्यमाणं मां विसृजेति यावत्। हे द्वेष, त्वं निर्द्वेषतां निर्द्वेषत्वं व्रज। त्वां विसृज्य गच्छन्तं मांप्रति द्वेषं मा कार्षीरित्यर्थः।।[5-9-159,160]
इमामपि परां पुण्यां निर्वामपदवीमहम्।
येन विस्मारितस्तस्मै सुखायास्तु नमो नमः।।[5-9-161]
इमामिति।। येन विषयसुखेन अहं इमामपि निरतिशयानन्दरूपां परां निर्वाणपदवीं विस्मारितोऽस्मि तस्मै सुखाय नमोऽस्तु। नमस्कारावृत्तिर्वञ्चकत्वातिशयं द्योतयितुम्।।
त्वदुत्तप्तेन हे दुःख मयात्मान्विष्ट आदरात्।
तस्मात्त्वदुपदिष्टोऽयं मम मार्गो नमोऽस्तु ते।।[5-9-162]
त्वदिति।। हे दुःख, त्वदुत्तप्तेन मया दुःखशान्तये आत्माऽऽदरादन्विष्टः। `तरति शोकमात्मविदि'ति श्रुतेः। तत्कारणादयं मोक्षमार्गो मम त्वदुपदिष्टः त्वयैव वैराग्यहेतुना बोधितः अतस्ते गुरुतुल्याय नमोऽस्तु।।
कार्यमित्र मयाद्य त्वं त्यज्यसे चिरबान्धवः।
अधिगम्यात्मविज्ञानं स्वस्य नाशः कृतस्त्वया।।[5-9-163]
कार्यमित्रेति।। हे कार्यमित्र, धर्मादिसाधनत्वात् मया आत्मविज्ञानमधिगम्य अद्य त्यज्यसे। त्वयैव स्वस्य नाशः कृतः। मोक्षार्थमुद्यमं कुर्वता त्वयैवायमपराधः कृत इत्यर्थः।।
एकाकिन्या विशुष्यन्त्या प्रशान्ते मयि दीनया।
त्वयाः दुःखं न कर्तव्यं मातस्तृष्णे नमोऽस्तु ते।।[5-9-164]
क्षन्तव्याः काम भगवन् विपरीतापराधजाः।
दोषा उपशमैकान्तं व्रजाम्यादिश मङ्गलम्।।[5-9-165]
ेकाकिन्येति मातरीति।।[5-9-164,165]
नमः सुकृतदेवाय भवतेऽस्तु त्वया पुरा।
नवकेभ्यः समुत्तार्य स्वर्गेऽहमभियोजितः।।[5-9-166]
वियोगदुःखितां दुहितरमिवोपसान्त्वयन्नाह-नम इति।। हे सुकृत, भवते देवाय नमोऽस्तु।।
एते भवन्तः सहजाः प्राक्तनाः सुहृदो मया।
क्रमेणाद्योत्कृताः प्राणाः स्वस्ति वोऽस्तु व्रजाम्यहम्।।[5-9-167]
एत इति।। अद्य क्रमेण पर्यायेण उत्कृताः। उत्क्त्रान्ताः कृता इत्यर्थः।।
वसिष्ठ उवाच।।
एवं कलितवानन्तः प्रशान्तमननैषणः।
शनैरुच्चारयंस्तारं प्रणवं प्राप्तभूमिकः।।[5-9-168]
सबाह्याभ्यन्तरान्भावान्स्थूलान्सूक्ष्मतरानपि।
त्रैलोक्यसंभवांस्त्यक्त्वा संकल्पैकविकल्पितान्।।[5-9-169]
एवमिति श्लोकत्रयं वाक्यम्।। प्रशान्तानि मननानि संकल्पा एषणाः पुत्रैषणादयश्च यस्य। तारं उच्चतरं श्रुतिम्। प्राप्ता भूमिका योगभूमिका येन।।[5-9-168,169]
सह प्रणवपर्यन्तदीर्घनिःस्वनतन्तुना।
जहाविन्द्रियतन्मात्रजालं गन्धमिवानिलः।।[5-9-170]
प्रणवपर्यन्तदीर्घनिःस्वनतन्तुना सह इन्द्रियाणां तन्मात्राणां च शब्दादीनां जालं जहौ। प्रणवस्य पर्यन्तनादेन सहैव इन्द्रियविषयजालमुपररामेत्यर्थः।।
ततो जहौ तमोमात्रं प्रतिभातमिवाम्बरे।
उत्तिष्ठत्प्रस्फुरद्रूपं प्राज्ञः कोपलवं यथा।।[5-9-171]
तत इति।। तमोमात्रं गुणत्रयात्मिकाया अपि अविद्यायास्तामसं वृत्तिविशेषम्। अम्बरे चिदाकाशे।।
प्रतिभातं ततस्तेजो निमेषार्धं विचार्य सः।
जहौ बभूव च तदा न तमो न प्रकाशनम्।।[5-9-172]
प्रतिभातमिति।। तेजः सात्त्विकं वृत्तिविशेषं तमो न प्रकाशनं बभूवेति गुणत्रयातीतो बभूवेत्यर्थः।।
तामवस्थामथासाद्य मनसा तन्मनस्तृणम्।
मनागपि प्रस्फुरितं निमेषार्धादथापतत्।।[5-9-173]
तामिति।। तामवस्थां निस्त्रैगुण्यावस्थाम्।।
ततोऽङ्गसंविदं स्वच्छां प्रतिभासमुपागताम्।
सद्योजातशिशुज्ञानसमानकलनामलाम्।।[5-9-174]
तत इति।। अङ्गसंविदं स्वरूपचैतन्यम्। सद्योजातशिशुज्ञानसमानां निर्वासनामित्यर्थः।।
निमेषार्धार्धभागेन कालेन कलितां प्रभुः।
जहौ चितश्चेत्यदशां स्पन्दशक्तिमिवानिलः।।[5-9-175]
चेत्यदशां निर्विकल्पां चिन्मात्राम्।।
पश्यन्तीपदमासाद्य सत्तामात्रात्मकं ततः।
सुषुप्तपदमालम्ब्य तस्थौ गिरिरिवाचलः।।[5-9-176]
पश्यन्तीशब्दवाच्यं ततः परं सत्तामात्रात्मकं सुषुप्तपदमालम्ब्य गिरिरिवाचलस्तस्थौ।।
सुषुप्ते स्थैर्यमासाद्य तुर्यरूपमुपाययौ।
निरानन्दोऽपि सानन्दः सच्चासच्चापि तत्र सः।
अचिन्मयश्चिन्मयश्च नेतिनोति यदुच्यते।।[5-9-177]
सुषुप्त इति।। स सुषुप्ते निर्विकल्पसमाधौ स्थैर्यमासाद्य तुर्यरूपं अवस्थात्रयातीतं रूपमुपाययौ तस्यां दशायां स मुनिः निरानन्दः सानन्दश्च बभूव। अपिशब्दः समुच्चये। तत्र निरानन्दत्वं स्वरूपातिरिक्तस्यानन्दस्याभावात्। सानन्दत्वं चानन्दानुभवात्। तथा सद्रूपत्वात् सच्च बभूव। सर्वव्यवहारनिवृत्तेरसच्च बभूव।।
ततस्तत्संबभूवासौ यद्गिरामप्यगोचरम्।
यच्छून्वावादिनां शून्यं ब्रह्म ब्रह्वविदां तथा।।[5-9-178]
विज्ञानमात्रं विज्ञानविदां यदमलास्पदम्।
पुरुषः सांख्यदृष्टीनामीश्वरो योगवादिनाम्।।[5-9-179]
शिवः शैवमतस्थानां कालः कालैकवादिनाम्।
आत्मात्मकस्तद्विदुषां नैरात्म्यं तादृशात्मनाम्।।,5-9-180]
मध्यं माध्यमिकानां च सर्वं सुसमचेतसाम्।।[5-9-181]
तत इति सार्धश्लोकत्रयं वाक्यम्।। ततोऽनन्तरं असौ मुनिः यद्वस्तु गिरामगोचरं अभिधावृत्त्या प्रतिपादयितुं न शक्यते। अथच सर्वैरपि वादिभिः स्वस्वमतानुसारेण शून्यादिशब्दैर्व्यपदिश्यते तत्परमात्मस्वरूपं बभूवेत्यन्वयः।।[5-9-178,179,180,181]
यत्सर्वशास्त्रसिद्धान्तो यत्सर्वहृदयानुगम्।
यत्सर्वं सर्वगं सार्वं यत्तत्तत्सदसौ स्थितः।।[5-9-182]
यदिति।। यद्वस्तु सर्वेषां शास्त्राणां सिद्धान्तः तथा पूर्वं प्रतिपादितत्वात्। सर्वहृदयानुगं अन्तर्यामित्वात्। सर्वं सर्वात्मकं सर्वगं व्यापकत्वात्। सार्वं सर्वसंबन्धि अन्तर्यामित्वात्। यच्छब्दवाच्यं तत्तदृशं वस्तु भूत्वा असौ स्थितः।।
यदनुत्तमनिष्पान्दं दीपकं तेजसामपि।
स्वानुभूत्येकमानं च यत्तत्तत्सदसौ स्थितः।।[5-9-183]
यदिति।। यद्वस्तु अनुत्तमनिष्पन्दं अत्यन्तनिश्चलम्। तेजसां सूर्यादीनामपि दीपकम्। `ज्योतिषां ज्योति'रिति श्रुतेः। स्वानुभूतिरेवैकं मानं प्रमाणं यस्य।।
यदेकं चाप्यनेकं च साञ्जनं च निरञ्जनम्।
यत्सर्वं चाप्यसर्वं च यद्यत्तत्सदसौ स्थितः।।[5-9-184]
यदिति।। यद्वस्तु एकं च वस्तुतोऽद्वितीयत्वात्। अनेकं च मायावशात्। साञ्जनं च श्रुत्वा निश्चलं आचार्यवाक्यावगम्यत्वात्। निरञ्जनं स्वयंप्रकाशत्वात्। अञ्जनं व्यञ्जकं प्रकाशकमिति पर्यायः। सर्वं सर्वात्मकत्वात्। असर्वं सर्वप्रपञ्चातीतत्वात्।।
अजममरमनाद्यमेकं पदममलं सकलं च निष्कलं च।
स्थित इति स तदा नभःस्वरूपादपि विमलस्थितिरीश्वरो बभूव।।[5-9-185]
अजमिति।। स मुनिः अजममरमनाद्यमादिरहितं आद्यं आदौ भवं सकलं च निष्कलं च रूपद्वयेन वर्तमानं अमलं परं वस्तु भूत्वा स्थित इति हतोः नभःस्वरूपादपि विमलस्थितिरीश्वरो बभूवेत्यन्वयः।।
त्रिंशद्वर्षसहस्राणि स्फुरित्वा स यथासुखम्।
वीतहव्यः शशामैवमपुनर्मनसे मुनिः।।[5-9-186]
इति श्रीवाल्मीकीये मोक्षोपाय उपशमप्रकरणे वीतहव्योपाख्यानं नाम नवमः सर्गः।। 9 ।।
त्रिंशदिति।। अपुनर्मनसे पुनः मनःसत्त्वाभावाय। जन्मान्तराभावायेत्यर्थः।।
इति श्रीवासिष्ठविवरण उपशमप्रकरणे वितहव्योपाख्यानं नाम नवमः सर्गः।। 9 ।।