सामग्री पर जाएँ

भामती/चतुर्थः अध्यायः

विकिस्रोतः तः
← तृतीयः अध्यायः भामती
चतुर्थः अध्यायः
[[लेखकः :|]]

अथ चतुर्थोऽध्यायः


नाभ्यर्थ्या इह सन्तः स्वयं प्रवृत्ता न चेतरे शक्याः ।
मत्सरपित्तनिबन्धनमचिकित्स्यमरोचकं येषाम् ॥१॥



शङ्के संप्रति निर्विशङ्कमधुना स्वराज्यसौख्यं वहन्नेन्द्रः सान्द्रतपःस्थितेषु कथमप्युद्वेगमभ्येष्यति ।

यद्वाचस्पतिमिश्रनिर्मितमितव्याख्यानमात्रस्फुटद्वेदान्तार्थविवेकवञ्चिदभवाः स्वर्गेऽप्यमी निःस्पृहाः ॥२॥





____________________________________________________________________________________________


४,१.१.१


आवृत्तिरसकृदुपदेशात् । ब्रह्मसूत्र ४,१.१ ।
साधनानुष्ठानपूर्वकत्वात्फलसिद्धेर्विषयक्रमेण विषयिणोरपि तद्विचारयोः क्रममाहतृतीयेऽध्याय इति ।
मुक्तिलक्षणस्य फलस्यात्यन्तपरोक्षत्वात्तदर्थानि दर्शनश्रवणमनननिदिध्यासनानि चोद्यमानान्यदृष्टार्थानीति यावद्विधानमनुष्ठेयानि न तु ततोऽधिकमावर्तनीयानि प्रमाणाभावात् ।
यत्र पुनः सकृदुपदेश उपासीतेत्यादिषु तत्र सकृदेव प्रयोगः प्रयाजादिवदिति प्राप्त उच्यते ।
यद्यपि मुक्तिरदृष्टचरी तथापि सवासनाविद्योच्छेदेनात्मनः स्वरूपावस्थानलक्षणायास्तस्याः श्रुतिसिद्धत्वादविद्यायाश्च विद्योत्पादविरोधितया विद्योत्पादेन समुच्छेदस्याहिविभ्रमस्येव रज्जुतत्वसाक्षात्कारेण समुच्छेदस्योपपत्तिसिद्धत्वादन्वयव्यतिरेकाभ्यां च श्रवणमनननिदिध्यासनाभ्यासस्यैव स्वगोचरसाक्षात्कारफलत्वेन लोकसिद्धत्वासकलदुःखविनिर्मुक्तैकचैतन्यात्मकोऽहमित्यपरोक्षरूपानुभवस्यापि श्रवणाद्यभ्याससाधनत्वेनानुमानात्तदर्थानि श्रवणादीनि दृष्टार्थानि भवन्ति ।
न च दृष्टार्थत्वे सत्यदृष्टार्थत्वं युक्तम् ।
न चैतान्यनावृत्तानि सत्कारदीर्घकालनैरन्तर्येण साक्षात्कारवते तादृशानुभवाय कल्पन्ते ।
न चात्रासाक्षात्कारवद्विज्ञानं साक्षात्कारवतीमविद्यामुच्छेत्तुमर्हति ।
न खलु पित्तोपहृतेन्द्रियस्य गुडे तिक्ततासाक्षात्कारोऽन्तरेणमाधुर्यसाक्षात्कारं सहस्रेणाप्युपपत्तिभिर्निवर्तितुमर्हति ।
अतद्वतो नरान्तरवचांसिवोपपत्तिसहस्राणि वा परामृशतोऽपि थूत्कृत्य गुडत्यागात् ।
तदेवं दृष्टार्थत्वद्ध्यानोपासनयोश्चान्तनीर्तावृत्तिकत्वेन लोकतः प्रतीतेरावृत्तिरेवेति सिद्धम् ॥१॥




____________________________________________________________________________________________


४,१.१.२


लिङ्गाच्च । ब्रह्मसूत्र ४,१.२ ।
अधिकरणार्थमुक्त्वा निरुपाधिब्रह्मविषयत्वमस्याक्षिपतिअत्राह भवतु नामेति ।
साध्ये ह्यनुभवे प्रत्ययावृत्तिरर्थवती नासाध्ये ।
नहि ब्रह्मानुभवो ब्रह्मसाक्षात्कारो नित्यशुद्धस्वभावाद्ब्रह्मणोऽतिरिच्यते ।
तथाच नित्यस्य ब्रह्मणः स्वभावो नित्य एवेति कृतमत्र प्रत्ययावृत्या ।
तदिदमुक्तमात्मभूतमिति ।
आक्षेप्तारं प्रतिशङ्कते सकृच्छ्रुताविति ।
अयमभिसंधिःन च ब्रह्मात्मभूतस्तत्साक्षात्कारोऽविद्यामुच्छिनन्ति तया सहानुवृत्तेरविरोधात् ।
विरोधे वा तस्य नित्यत्वान्नाविद्योदीयेत कुत एव तु तेन सहानुवर्तेत ।
तस्मात्तन्निवृत्तये आगन्तुकस्तत्साक्षात्कार एषितव्यः ।
तथाच प्रत्ययानुवृत्तिरर्थवती ।
आक्षेप्ता सर्वपूर्वोक्ताक्षेपेण प्रत्यवतिष्ठते न आवृत्तावपीति ।
न खलु ज्योतिष्टोमवाक्यार्थप्रत्ययः शतशोऽप्यावर्तमानः साक्षात्कारप्रमाणं स्वविषये जनयति ।
उत्पन्नस्यापि तादृशो दृष्टव्यभिचारत्वेन प्रातिभत्वात् ।

ब्रह्मात्मत्वप्रतीतिंब्रह्मत्मसाक्षात्कारम् ।
पुनः शङ्कतेन केवलं वाक्यमिति ।
आक्षेप्तादूषयतितथाप्यावृत्यानर्थक्यमिति ।
वाक्यं चेद्युक्त्यपेक्षं साक्षात्काराय प्रभवति तथा सति कृतमावृत्या ।
सकृत्प्रवृत्तस्यैव तस्य सोपपत्तिकस्य यावत्कर्तव्यकरणादिति ।
पुनः शङ्कते अथापि स्यादिति ।
न युक्तिवाक्ये साक्षात्कारफले प्रत्यक्षस्यैव प्रमाणस्य तत्फलत्वात् ।
ते तु परोक्षार्थावगाहिनी सामान्यमात्रमभिनिविशते नतु विशेषं साक्षात्कुरुत इति तद्विशेषसाक्षात्कारायावृत्तिरुपास्यते ।
सा हि सत्कारदीर्घकालनैरन्तर्यसेविता सती दृढभूमिर्विशेषसाक्षात्काराय प्रभवति कामिनीभावनेव स्त्रैणस्य पुंस इति ।
आक्षेप्ताहन ।
असकृदपीति ।
स खल्वयं साक्षात्कारः शास्त्र युक्तियोनिर्वा स्याद्भावनामात्रयोनिर्वा ।
न तावत्परोक्षाभासविज्ञानफले शास्त्रयुक्ती साक्षात्कारलक्षणं प्रत्यक्षप्रमाणफलं प्रसोतुमर्हतः ।
न खलु कुटजबीजाद्वटाङ्कुरो जायते ।
नच भावनाप्रकर्षपर्यन्तजमपरोक्षावभासमपि ज्ञानं प्रमाणं व्यभिचारादित्युक्तम् ।
आक्षेप्ता स्वपक्षमुपसंहरतितस्माद्यदीति ।
आक्षेप्ताक्षेपान्तरमाहनच सकृत्प्रवृत्ते इति ।
कश्चित्खलु शुद्धसत्वोगर्भस्थ इव वामदेवः श्रुत्वा च मत्वा च क्षणमवधाय जीवात्मनो ब्रह्मात्मतमनुभवति ।
ततोऽप्यावृत्तिरनर्थिकेति ।
अतश्चावृत्तिरनर्थिका यन्निरंशस्य ग्रहणमद्ग्रहणं वा न तु व्यक्ताव्यक्तत्वे सामान्यवशेषवत्पद्मरागादिवदित्यत आहअपि चानेकांशेति ।
समाधत्तेअत्रोच्यतेभवेदावृत्यानर्थक्यमिति ।
अयमभिसन्धिःसत्यं न ब्रह्मसाक्षात्कारः साक्षादागमयुक्तिफलमपि तु युक्त्यागमार्थज्ञानाहितसंस्कारसचिवं चित्तमेव ब्रह्मणि साक्षात्कारवर्तीं बुद्धिवृत्तिं समाधत्ते ।
सा च नानुमानितवह्निसाक्षात्कारवत्प्रातिभत्वेनाप्रमाणं तदानीं वह्निस्वलक्षणस्यपरोक्षत्वात्सदातनं तु ब्रह्मस्वरूपस्योपाधिरूपितस्य जीवस्यापरोक्षत्वम् ।
नहि शुद्धबुद्धत्वादयो वस्तुतस्ततोऽतिरिच्यन्ते ।
जीव एव तु तत्तदुपाधिरहितः शुद्धादिस्वभावो ब्रह्मेति गम्यते ।
नच तत्तदुपाधिविरहोऽपि ततोऽतिरिच्यते ।
तस्माद्यथा गान्धर्वशास्त्रार्थज्ञानाभ्यासाहितसंस्कारः सचिवेन श्रोत्रेण षड्जादिस्वरग्राममूर्च्छनामेदमध्यक्षेणेक्षते एवं वेदान्तार्थज्ञानाहितसंस्कारो जीवस्य ब्रह्मस्वभावमन्तःकरणेनेति ।
यस्तत्त्वमसीति सकृदुक्तमेवेति ।
श्रुत्वा मत्वा क्षणमवधाय प्राग्भवीयाभ्यासजातसंस्कारादित्यर्थः ।
यस्तु न शक्नोतीति ।
प्राग्भवीयब्रह्माभ्यासरहित इत्यर्थः ।
नहि दृष्टोऽनुपपन्नं नामेति ।
यत्र परोक्षप्रतिभासिनि वाक्यार्थेऽपि व्यक्ताव्यक्तत्वतारतम्यं तत्र मननोत्तरकालमाध्यासनाभ्यासनिकर्षप्रकर्षक्रमजन्मनि प्रत्ययप्रवाहे साक्षात्कारावधौ व्यक्तितारतम्यं प्रति कैव कथेति भावः ।
तदेवं वाक्यमात्रस्यार्थेऽपि न द्रागित्येव प्रत्यय इत्युक्तम् ।
तत्त्वमसीति तु वाक्यमत्यन्तदुर्ग्रहपदार्थं न पदार्थज्ञानपूर्वके स्वार्थे ज्ञाने द्रागित्येव प्रवर्तते ।
किन्तु विलम्बिततमपदार्थज्ञानमतिविलम्बेनेत्याहअपिच तत्वमसीत्येतद्वाक्यं त्वंपदार्थस्येति ।
स्यादेतत्पदार्थसंसर्गात्मा वाक्यार्थः पदार्थज्ञानक्रमेण तदधीननिरूपणीयतया क्रमवत्प्रतीतिर्युज्यते ।
ब्रह्म तु निरंशत्वेनाससृष्टनानात्वपदार्थकमिति कस्यानुक्रमेम क्रमवती प्रतीतिरिति सकृदेव तद्गृह्येत न वा गृह्यतेत्युक्तमित्यत आहयद्यपि च प्रतिपत्तव्य आत्मा निरंश इति ।
निरंशोऽप्यहमपरोक्षोऽप्यात्मा तत्तद्देहाद्यारोपव्युदासाभ्यामंशवानिवात्यन्तपरोक्ष इव ।
ततश्च वाक्यार्थतया क्रमवत्प्रत्यय उपपद्यते ।
तत्किंमियमेव वाक्यजनिता प्रतीतिरात्मनि तथाच न साक्षात्प्रतीतिरात्मन्यनागतफलत्वादस्य इत्यत आहतत्तु पूर्वरूपमेवात्मप्रतिपत्तेः साक्षात्कारवत्याः ।

एतदुक्तं भवतिवाक्यार्थश्रवणमननोत्तरकाला विशेषणत्रयवती भावना ब्रह्म साक्षात्काराय कल्पत इति वाक्यार्थप्रतीतिः साक्षात्कारस्य पूर्वरूपमिति ।
शङ्कते सत्यमेवमिति ।
समारोप हि तत्वप्रत्ययेनापोद्यते न तत्वप्रत्ययः ।
दुःखित्वादिप्रत्ययश्चात्मनि सर्वेषां सर्वदोत्पद्यत इत्यबाधितत्वात्समीचीन इति बलवान्न शक्योऽपनेतुमित्यर्थः ।
निराकरोतिन ।
देहाद्यभिमानवदिति ।
नहि सर्वेषां सर्वदोत्पद्यत इत्येतावता तात्विकत्वम् ।
देहात्माभिमानस्यापि सत्यत्वप्रसङ्गात्सोऽपि सर्वेषां सर्वदोत्पद्यते ।
उक्तं चास्य तत्र तत्रोपपत्या बाधनमेवं दुःखित्वाद्यभिमानोऽपि तथा ।
नहि नित्यशुद्धबुद्धस्वभावस्यात्मना उपजनापायधर्माणो दुःखशोकादय आत्मानो भवितुमर्हन्ति ।
नापि धर्माः तेषां ततोऽत्यन्तभिन्नानां तद्धर्मत्वानुपपत्तेः, नहि गौरश्वस्य धर्मः संबन्धस्यापि व्यतिरेकाव्यतिरेकाभ्यां संबन्धासंबन्धाभ्यां च विचारासहत्वात् ।
भेदाभेदयोश्च परस्परविरोदेनैकत्रासंभवत्वात् ।
इति सर्वमेतदुपपादितं द्वितीयाध्याये ।
तदिदमुक्तंदेहादिवदेव चैतन्याद्बहिरुपलभ्यमानत्वादिति ।
इतश्च दुःखित्वादीनां न तादात्म्यमित्याहसुषुप्तादिषु चेति ।
स्यादेतत् ।
कस्मादनुभवार्थ एवावृत्यभ्युपगमो यावता द्रष्टव्यः श्रोतव्य इत्यादिभिस्तत्वमसिवाक्यविषयादन्यविषयैवावृत्तिर्विधास्यत इत्यत आहतत्रापि न तत्वमसिवाक्यार्थादिति ।
आत्मा वा अरे द्रष्टव्य इत्याद्यात्मविषयं दर्शनं विधीयते ।
न च तत्त्वमसीवाक्यविषयादन्यदात्मदर्शनमाम्नातं येनोपक्रम्यते येन चोपसंह्रियते स वाक्यार्थः ।
सदेव सोम्येदमिति चोपक्रम्य तत्त्वमसीत्युपसंहृत इति स एव वाक्यार्थः ।
तदितः प्राच्याव्यावृत्तिमन्यत्र विदधानः प्रधानमङ्गेन विहन्ति ।
वरो हि कर्मणाभिप्रेयमाणत्वात्संप्रदानं प्रधानम् ।
तमुद्वाहेन कर्मणाङ्गेन न विघ्नन्तीति ।
ननु विधिप्रधानत्वाद्वाक्यस्य न भूतार्थप्रधानत्वं भूतस्त्वर्थस्तदङ्गतया प्रत्याय्यते ।
यथाहुःऽचोदना हि भूतं भवन्तम्ऽइत्यादि शाबरं वाक्यं व्याचक्षाणाःऽकार्यमर्थमवगमयन्ती चोदना तच्छेषतया भूतादिकमवगमयतिऽइत्याशङ्क्याहनियुक्तस्य चास्मिन्नधिकृतोऽहमिति ।
यथा तावद्भूतार्थपर्यवसिता वेदान्ता न कार्यविधिनिष्टास्तथोपपादितंऽतत्तु समन्वयात्ऽ

इत्यत्र ।
प्रत्युत विधिनिष्ठत्वे मुक्तिविरुद्धप्रत्योत्पादान्मुक्तिविहन्तृत्वमेवास्येत्यभ्युच्चयमात्रमत्रोक्तमिति ॥२॥





____________________________________________________________________________________________


४,१.२.३


आत्मेति तूपगच्छन्ति ग्राहयन्ति च । ब्रह्मसूत्र ४,१.३ ।
यद्यपि तत्वमसीत्याद्याः श्रुतयः संसारिणः परमात्मभावं प्रतिपादयन्ति तथापि तयोरपहतपाप्मत्वानपहतपाप्मत्वादिलक्षणविरुद्धधर्मसंसग्रेण नानत्वस्य विनिश्चयाच्छ्रुतेश्च तत्वमसीत्यद्यायाऽमनो ब्रह्म,ऽआदित्यो ब्रह्म,ऽइत्यादिवत्प्रतीकोपदेशपरतयाप्युपपत्तेः प्रतीकोपदेश एवायम् ।
नच यथा समारोपितं सर्पत्वमनूद्य रज्जुत्वं पुरोवर्तिनो द्रव्यस्यविधीयत एवं प्रकाशात्मनो जीवभावमनूद्य परमात्मत्वं विधीयत इति युक्तम् ।
युक्तं हि पुरोवर्तिनि द्रव्ये द्राघीयसि सामान्यरूपेणालोचिते विशेषरूपेणागृहीते विशेषान्तरसमारोपणम् ।
इह तु प्रकाशात्मनो निर्विशेषसामान्यस्यापराधीनप्रकाशस्य नागृहीतमस्ति किञ्चिद्रुपमिति कस्य विशेषस्याग्रहे किं विशेषान्तरं समारोप्यताम् ।
तस्माद्ब्रह्मणो जीवभावारोपासंभवाज्जीवो जीवो ब्रह्म च ह्रह्मेति तत्त्वमसीति प्रतीकोपदेश एवेति प्राप्तम् ।
एवं प्राप्तेऽभिधीयतेश्वेतकेतोरात्मैव परमेश्वरःप्रतिपत्तव्यो न तु श्वेतकेतोर्व्यतिरिक्तः परमेश्वरः ।
भेदे हि गौणत्वापत्तिर्न च मुख्यसंभवे गौणत्वं युक्तम् ।
अपिच प्रतीकोपदेशे सकृद्वचनं तु प्रतीयते भेददर्शननिन्दा च(?) ।
अभ्यासे हि भूयस्त्वमर्थस्य भवति, नाल्पत्वमतिदवीय एवोपचरितत्वम् ।
तस्मात्पौर्वापर्यलोचनया श्रुतेस्तावज्जीवस्य परमात्मता वास्तवीत्येतत्परता लक्ष्यते ।
नच मानान्तरवीरोधादत्राप्रामाण्यं श्रुतेः ।
नच मानान्तरविरोध इत्यादि तु सर्वमुपादितं प्रथमाध्याये ।
निरंशस्यापि चानाद्यनिर्वाच्याविद्यातद्वासनासमारोपितविविधप्रपञ्चात्मनः सांशस्येव कस्यचिदंशस्याग्रहणाद्विभ्रम इव परमार्थस्तु न विभ्रमो नाम कश्चिन्न च संसारो नाम ।
किन्तु सर्वमेतत्सर्वानुपपत्तिभाजनत्वेनानिर्वचनीयमिति युक्तमुत्पश्यामः ।
तदनेनाभिसंधिनोक्तम्यद्येवं प्रतिबद्धोऽसि नास्ति कस्यचिदप्रतिबोध इति ।
अन्येऽप्याहुःऽयद्यद्वैते न तोषोऽस्ति मुक्त एवासि सर्वदाऽइति ।
अतिरेहितार्थमन्यदिति ॥३॥





____________________________________________________________________________________________


४,१.३.४


न प्रतीके न हि सः । ब्रह्मसूत्र ४,१.४ ।
यथा हि शास्त्रोक्तं शुद्धमुक्तस्वभावं ब्रह्मात्मत्वेनैव जीवेनोपास्यतेऽहं ब्रह्मास्मि तत्त्वमसि श्वेतकेतो इत्यादिषु त्कस्य हेतोर्जीवात्मनो ब्रह्मरूपेण तात्विकत्वादद्वितीयमिति श्रुतेश्च ।
जीवात्मानश्चाविद्यादर्पणा यथा ब्रह्मप्रतिबिम्बकास्तथा यत्र यत्र मनो ब्रह्मादित्यो ब्रह्मेत्यादिषु ब्रह्मदृष्टेरुपदेशस्तत्र सर्वत्राहं मन इत्यादि द्रष्टव्यं ब्रह्मणो मुख्यमात्मत्वमिति ।
उपपन्नं च मनःप्रभृतीनां ब्रह्मविकारत्वेन तादात्म्यम् ।
घटशरावोदञ्चनादीनामिव मृद्विकाराणां मृदात्मकत्वम् ।
तथाच तादृशानां प्रतीकोपदेशानां क्वचित्कस्यचिद्विकारस्य प्रविलयावगमाद्भेदप्रपञ्चप्रविलयपरत्वमेवेति प्राप्त उच्यतेन तावदहं ब्रह्मेत्यादिभिर्यथाहङ्कारास्पदस्य ब्रह्मात्मत्वमुपदिश्यते एवं मनो ब्रह्मेत्यादिभिरहङ्कारास्पदत्वं मनःप्रभृतीनां, किन्त्वेषां ब्रह्मत्वेनोपास्यत्वम् ।
अहङ्कारास्पदस्य ब्रह्मतया ब्रह्मत्वेनोपासनीयेषु मनःप्रभृतिष्वप्यहङ्कारास्पदत्वेनोपासनमिति चेत् ।
न ।
एवमादिष्वहमित्यश्रवणात् ।
ब्रह्मात्मतया त्वहङ्कारास्पदत्वकल्पने तत्प्रतिबिम्बस्येव तद्विकारान्तरस्याप्याकाशादेर्मनःप्रभृतिषूपासनप्रसङ्गः ।
तस्माद्यस्य यन्मात्रात्मतयोपासनं विहितं तस्य तन्मात्रात्मतयैव प्रतिपत्तव्यंऽयावद्वचनं वाचनिकम्ऽइति न्यायात् ।
नाधिकमध्याहर्तव्यमतिप्रसङ्गात् ।
नच सर्वस्य वाक्यजातस्य प्रपञ्चस्य विलयः प्रयोजनम् ।
तदर्थत्वे हि मन इति प्रतीकग्रहणमनर्थकं विश्वमिति वाच्यं यथा सर्वं खल्विदं ब्रह्मेति ।
नच सर्वोपलक्षणार्थं मनोग्रहणं युक्तम् ।
मुख्यार्थसंभवे लक्षणया अयोगात् ।
आदित्यो ब्रह्मेत्यादीनां चानर्थक्यापत्तेः ।
नह्युपासकः प्रतीकानीति ।
अनुभवाद्वा प्रतीकानां मनःप्रभृतीनामात्मत्वेनाकलनं श्रुतेर्वा, न त्वेतदुभयमस्तीत्यर्थः ।
प्रतीकाभावप्रसङ्गादिति ।
ननु यथावच्छिन्नस्याहङ्करास्पदस्यानवच्छिन्नब्रह्मात्मतया भवत्यभाव एवं प्रतीकानामपि भविष्यतीत्यत आहस्वरूपोपमर्दे च नामादीनामिति ।
इह हि प्रतीकान्यहङ्कारास्पदत्वेनोपास्यतया प्रधानत्वेन विधित्सितानि ।
नतु तत्वमसीत्यादावहङ्कारास्पदमुपास्यमवगम्यते ।
किन्तु सर्पत्वानुवादेन रज्जुतत्वश्ज्ञापन इवाहङ्कारास्पदस्यावच्छिन्नस्य प्रविलयोऽवगम्यते ।
किमतो यद्येवम् ।
एतदतो भवतिप्रधानीभूतानां न प्रतीकानामुच्छेदो युक्तो नच तदुच्छेदे विधेयस्याप्युपपत्तिरिति ।
अपिचनच ब्रह्मण आत्मत्वादिति ।
नह्युपासनविधानानि जीवात्मनो ब्रह्मस्वभावप्रतिपादनपरैस्तत्वमस्यादिसंदर्भैरेकवाक्यभावमापद्यन्ते येन तदेकवाक्यतया ब्रह्मदृष्ट्युपदेशेष्वात्मदृष्टिः कल्पेत भिन्नप्रकरणत्वात् ।
तथाच तत्र यथालोकप्रतीतिव्यवस्थितो जीवः कर्ता भोक्ता च संसारी न ब्रह्मेति कथं तस्य ब्रह्मात्मतयाब्रह्मदृष्ट्युपदेशेष्वात्मदृष्टिरुपदिश्यतेत्यर्थः ।

अतश्चोपासकस्य प्रतीकैः समत्वादिति ।
यद्यप्युपासको जीवात्मा न ब्रह्मविकारः, प्रतीकानि तु मनःप्रभृतीनिब्रह्मविकारस्तथाप्यवच्छिन्नतया जीवात्मनः प्रतीकैः साम्यं दृष्टव्यम् ॥४॥





____________________________________________________________________________________________


४,१.४.५


ब्रह्मदृष्टिरुत्कर्षात् । ब्रह्मसूत्र ४,१.५ ।
यद्यपि सामानाधिकरण्मुभयथापि घटते तथापि ब्रह्मणः सर्वाध्यक्षतया फलप्रसवसामर्थ्येन फलवत्वात्प्राधान्येन तदेवादित्यादिदृष्टिभिः संस्कर्तव्यमित्यादित्यादिदृष्टयो ब्रह्मण्येव कर्तव्या न तु ब्रह्मदृष्टिरादित्यादिषु ।
न चैवंविधेऽवधृते शास्त्रार्थे निकृष्टदृष्टिनोर्कृष्ट इति लौकिको न्यायोऽपवादाय प्रभवत्यागमविरोधेन तस्यैवापोदितत्वादिति पूर्वपक्षसंक्षेपः ।
सत्यं सर्वाध्यक्षतया फलदातृत्वेन ब्रह्मण एव सर्वत्र वास्तवं प्राधान्यं तथापि शब्दगत्यनुरोधेन क्वचित्कर्मण एव प्राधान्यमवसीयते ।
यथाऽदर्शपूर्णमासाभ्यां यजेत स्वर्गकामःऽ,ऽचित्रया यजेत पशुकामःऽइत्यादौ ।
अत्र हि सर्वत्र यागाद्याराधिता देवतैव फलं प्रयच्छतीति स्थापितं तथापि शब्दतः कर्मणः करणत्वावगमने फलवत्वप्रतीतेः प्राधान्यम् ।
क्वचिद्रव्यस्य यथा व्रीहीन्प्रोक्षतीत्यादौ ।
तदुक्तंऽयैस्तु द्रव्यं संचिकीर्ष्यते गुणस्तत्र प्रतीयतेऽइति ।
तदिह यद्यपि सर्वाध्यक्षतया वस्तुतो ब्रह्मैव फलं प्रयच्छति तथापि शास्त्रं ब्रह्मबुद्ध्याऽदित्यादौ प्रतीक उपास्यमाने ब्रह्म फलाय कल्पते इत्यभिवदति किंवादित्यादिबुद्ध्या ब्रह्मैव विषयीकृतं फलायेत्युभयथापि ब्रह्मणः सर्वाध्यक्षस्य फलदानोपपत्तेः शास्त्रार्थसंदेहे लोकानुसारतो निश्चीयते ।
तदिदमुक्तम्निर्धारिते शास्त्रार्थ एतदेवं स्यादिति ।
न केवलं लौकिको न्यायो निश्चये हेतुरपि तु आदित्यादिशब्दानां प्राथम्येन मुख्यार्थत्वमपीत्याहप्राथम्याच्चेति ।
इति परत्वमपि ब्रह्मशब्दस्यामुमेव न्यायमवगमयति ।
तथाहिस्वरप्रवृत्या आदित्यादिशब्दा यथा स्वार्थे वर्तन्ते तथा ब्रह्मशब्दोऽपि स्वार्थे वर्त्स्यति यदि स्वार्थोऽस्य विपक्षितःस्यात् ।
तथाचेतिपरत्वमनर्थकं तस्मादितीना स्वार्थात्प्रच्याव्य ब्रह्मपदं ज्ञानपरं स्वरूपपरं वा कर्तव्यम् ।
नच ब्रह्मपदमादित्यादिपदार्थ इति, प्रतीतिपर एवायमितिपरःशब्दो यथा गौरिति मे गवयोऽभवदिति ।
तथाच आदित्यादयो ब्रह्मेति प्रतिपत्तव्या इत्यर्थो भवतीत्याहैतिपरत्वादपि ब्रह्मशब्दस्येति ।
शेषमतिरोहितार्थम् ॥५॥





____________________________________________________________________________________________


४,१.५.६


आदित्यादिमतयश्चाङ्ग उपपत्तेः । ब्रह्मसूत्र ४,१.६ ।
अथवा नियमेनोद्गीथादिमतय आदित्यादिष्वध्यस्येरन्निति ।
सत्स्वपि आदित्यादिषु फलानुत्पादादुत्पत्तिमतः कर्मण एव फलदर्शनात्कर्मैव फलवत् ।
तथा चादित्यादिमतिभिर्यद्युद्गीथादिकर्माणि विषयीक्रियेरंस्तत आदित्यादिदृष्टिभिः कर्मरूपाण्यभिभूयेरन् ॥
एवञ्च कर्मरूपेष्वसत्कल्पेषु कुतः फलमुत्पद्येत ।
आदित्यादिषु पुनरुद्गीथादिदृष्टावुद्गीथादिबुद्योपास्यमाना आदित्यादयः कर्मात्मकःसन्तः फलाय कल्पिष्यन्त इति ।
अत एव च पृथ्व्यग्न्योरृक्सामशब्दप्रयोग उपपन्नो यतः पृथ्व्यामृग्दृष्टिरध्यस्ताग्नौ च सामदृष्टिः ।
साम्नि पुनरग्निदृष्टौ ऋचि च पृथ्वीदृष्टौ विपरीतं भवेत् ।
तस्मादप्येतदेव युक्तमित्याहतथाचेयमेवेति ।
उपपत्त्यन्तरमाहअपिच लोकेष्विति ।
एवं खल्वधिकरणनिर्देशो विषयत्वप्रतिपादनपर उपपद्यते यदि लोकेषु सामदृष्टिरध्यस्येत नान्यथेति ।
पूर्वाधिकरणराद्धान्तोपपत्तिमत्रैवार्थे ब्रूतेप्रथमनिर्दिष्टेषु चेति ।
सिद्धान्तमत्र प्रक्रमतेआदित्यादिमतय एवेति ।
यद्युद्गीथादिमतय आदित्यादिषुक्षिप्येरंस्तत आदित्यादीनांस्वयमकार्यत्वादुद्गीथादिमतेस्तत्र वैयर्थ्यं प्रसज्येत ।
नह्यादित्यादिभिः किञ्चित्क्रियते यद्विद्यया वीर्यवत्तरं भवेदादित्यादिमत्या विद्ययोद्गीथादिकर्मसु कार्येषु यदेव विद्यय करोति तदेव वीर्यवत्तरं भवतीत्यादित्यमतीनामुपपद्यते उद्गीथादिषु संस्कारकत्वेनोपयोगः ।
चोदयतिभवतु कर्मसमृद्धिफलेष्वेवमिति ।
यत्र हि कर्मणः फलं तत्रैवं भवतु यत्र तु गुणातफलं तत्र गुणस्य सिद्धत्वेनाकार्यत्वात्करोतीत्येव नास्तीत्यत्र विद्यायाः क्व उपयोग इत्यर्थः ।
परिहरतितेष्वपीति ।
न तावद्गुणः सिद्धस्वभावः कार्याय फलाय पर्याप्तः, मा भूत्प्रकृतकर्मानिवेशिनो यत्किञ्चित्फलोत्पादः, तस्मात्प्रकृतापूर्वसंनिवेशिनः फलोत्पाद इति तस्य क्रियमाणत्वेन विद्यया वीर्यवत्तरत्वोपपत्तिरिति ।
फलात्मकत्वाच्चादित्यादीनामिति ।
यद्यपि ब्रह्मविकारत्वेनादित्योद्गीथयोरविशेषस्तथापि फलात्मकत्वेनादित्यादीनामस्त्युद्गीथादिभ्यो विशेष इत्यर्थः ।
द्वितीयनिर्देशादप्युद्गीथादीनां प्राधान्यमित्याहअपि चोमितीति ।
स्वयमेवोपासनस्य कर्मत्वात्फलवत्वोपपत्तेः ।
ननूक्तं सिद्धरूपैरादित्यादिभिरध्यस्तैः साध्यभूतत्वमभिभूतङ्कर्मणामित्यत आहआदित्यादिभावेनापि च दृश्यमानानामिति ।
भवेदेतवं यद्यद्यासेन क्रमरूपमभिभूयेत ।
अपि तु माणवक इवाग्निदृष्टिः केनचित्तीव्रत्वादिना गुणेन गौण्यनभिभूतमाणवकत्वात्तथेहापि ।
नहीयं शुक्तिकायां रजतधीरिव वह्निधीर्येन माणवकत्त्वमभिभवेत् ।
किन्तु गौणी ।
तथेयमप्युद्गीथादावादित्यदृष्टिर्गौणीति भावः ।
तदेतस्यामृच्यध्यूढंसामेति त्विति ।
अन्यथापि लक्षणोपपत्तौ न ऋक्सामेत्यध्यासकल्पना पृथ्व्यग्नयोरित्यर्थः ।
अक्षरन्यासालोचनया तु विपरीतमेवेत्याहैयमेवर्गिति ।
ऽलोकेषुपञ्चविधं सामोपासीतऽइति द्वितीयानिर्देशात्साम्नामुपास्यत्वमवगम्यते ।
तत्र यदि सामधीरध्यस्येत ततो न सामान्युपास्येरनपि तु लोकाः पृथिव्यादयः ।
तथा च द्वितीयार्थं परित्यज्य तृतीयार्थः परिकल्पयेत साम्नेति ।
लोकेष्विति सप्तमी द्वितीयार्थे कथञ्चिन्नीयते ।
अकारे गावो वास्यन्तां प्रावारे कुसुमानीतिवत् तेनोक्तन्यायानुरोधेन सप्तम्याश्चोभयथाप्यवश्यं कल्पनीयार्थत्वाद्वरं यथाश्रुतद्वितीयार्थानुरोधाय तृतीयार्थे सप्तमी व्याख्यातव्या ।
लोकपृथिव्यादिबुद्ध्या पञ्चविधं हिङ्कारप्रस्तावोङ्कारोद्गीथप्रतिहारोपद्रवनिधनप्रकारं सामोपासीतेति, तत्र को विनिगमनायां हेतुरित्यत आहतत्रापीति ।
तत्रापि समस्तस्य सप्तविधस्य साम्न उपासनमिति साम्न उपास्यत्वश्रुतेः साध्विति पञ्चविधस्य ।
साधुत्वं चास्य धर्मत्वम् ।
तथाच श्रुतिःऽसाधुकारी साधुर्भवतिऽइति ।
हिङ्कारानुवादेन पृथिवीदृष्टिविधाने हिङ्कारः पृथिवीति प्राप्ते विपरीतनिर्देशः पृथिवी हिङ्कारः ॥६॥





____________________________________________________________________________________________


४,१.६.७


आसीनः संभवात् । ब्रह्मसूत्र ४,१.७ ।
कर्माङ्गसंमन्धिषु यत्र हि तिष्ठतः कर्म चोदितं तत्र तत्संबद्धोपासानापि तिष्ठतैव कर्तव्या ।
यत्र त्वासीनस्य तत्रपासनाप्यासीनेनैवेति ।
नापि सम्यग्दर्शने वस्तुतन्त्रत्वात्प्रमाणतन्त्रत्वात्र्च्च ।
प्रमाणतन्त्रा च वस्तुव्यवस्था प्रमाणं च .....नापेक्षत इति तत्राप्यनियमः(?) ।
यन्महता प्रयत्नेन विनोपासितुमशक्यं यथा प्रतीकादि, यथा वा सम्यग्दर्शनमपि तत्वमस्यादि, तत्रैषा चिन्ता ।
तत्र चोदकशास्त्राभावादनियमे प्राप्ते यथा शक्यत इत्युपभन्धादासीनस्यैव सिद्धम् ।
ननु यस्यामवस्थायां ध्यायतिरुपचर्यते प्रयुज्यते किमसौ तदा तिष्ठतो न भवति न भवतीत्याह ।
आसीनश्चाविद्यमानायासो भवतीति ।
अतिरोहितार्थमितरत् ॥७॥




____________________________________________________________________________________________


४,१.६.८१०


ध्यानाच्च । ब्रह्मसूत्र ४,१.८ ।
अचलत्वं चापेक्ष्य । ब्रह्मसूत्र ४,१.९ ।
स्मरन्ति च । ब्रह्मसूत्र ४,१.१० ।





____________________________________________________________________________________________


४,१.७.११


यत्रैकाग्रता तत्राविशेषात् । ब्रह्मसूत्र ४,१.११ ।
समे शुचौ शर्करावह्निवालुकाविवर्जित इत्यादिवचनान्नियमे सिद्धे दिग्देशादिनियममवाचनिकमपि प्राचीनप्रवणे वैश्वदेवेन यजेतेतिवद्वैदिकारम्भसामान्यात्क्वचित्कश्चितदाशङ्कते ।
तमनुग्रहीतुमाचार्यः सुहृद्भावेनैव तदाह स्म ।
यत्रैकाग्रता मनस्तत्रैव भावनं प्रयोजयत् ।
ओविशेषात् ।
नह्यत्रास्ति वैश्वदेवादिवद्वचनं विशेषेकं तस्मादिति ॥११॥





____________________________________________________________________________________________


४,१.८.१२


आ प्रयाणात्तत्रापि हि दृष्टम् । ब्रह्मसूत्र ४,१.१२ ।
अधिकरणविषयं विवेचयतितत्र यानि तावदिति ।
अविद्यमाननियोज्या या ब्रह्मात्मप्रतिपत्तिस्तस्याः ।
शास्त्रं हि नियोज्यस्य कार्यरूपनियोगसंबन्धमवबोधयति तस्यैव कर्मण्यैश्वर्यलक्षणमधिकारं तच्चैतदुभयमतीन्द्रियत्वाद्भवति शास्त्रलक्षणं प्रमाणान्तराप्राप्ये शास्त्रस्यार्थवत्त्वाद्ब्रह्मात्वप्रतीतेस्तु जीवन्मुक्तेन दृष्टत्वान्नास्तीह तिरोहितमिव किञ्चनेति किमत्र शास्त्रं करिष्यति ।
नन्वेवमप्यभ्युदयफलान्युपासनानि तत्र नियोज्यनियोगलक्षणस्य च कर्मणि स्वामितालक्षणस्य च संबन्धस्यातीन्द्रियत्वात्तत्र सकृत्कारणादेव शास्त्रार्थसमाप्तौप्राप्तायामुपासनपदवेदनीयावृत्तिमात्रमेव कृतवत उपरमः प्राप्तस्तावतैव कृतशास्त्रार्थत्वादिति प्राप्तेऽभिधीयतेसविज्ञानो भवतीत्यादिश्रुतेर्यत्र स्वर्गादिफलानामपि कर्मणां प्रायणकाले स्वर्गादिविज्ञानापेक्षकत्वं तत्र कैव कथातीन्द्रियफलानामुपासनानाम् ।
तानि खलु आप्रायणं तत्तदुपास्यगोचरबुद्धिप्रवाहवाहितया दृष्टेनैव रूपेण प्रायणसमये तद्बुद्दिं भावयिष्यन्ति ।
किमत्र फलवत्प्रायणसमये बुद्ध्याक्षेपेण नहि दृष्टे संभवत्यदृष्टकल्पना युक्ता ।
तस्मादाप्रायणं प्रवृत्ता वृत्तिरिति ।
तदिदमुक्तम्प्रत्ययास्त्वेत इति ।
तथा च श्रुतिः सर्वादीन्द्रियविषयऽस यथाक्रतुरस्माल्लोकात्प्रैति तात्क्रतुर्हामुं लोकं प्रेत्यभिसंभवतिऽइति ।
क्रतुः संकल्पविशेषः ।
स्मृतयश्चोदाहृता इति ॥१२॥





____________________________________________________________________________________________


४,१.९.१३


तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात् । ब्रह्मसूत्र ४,१.१३ ।
गतस्तृतीयशेषः साधनगोचरो विचारः ।
इदानीमेतदध्यायगतफलविषया चिन्ता प्रतन्यते ।
तत्र तावत्प्रथममिदं विचार्यते किं ब्रह्माधिगमे ब्रह्मज्ञाने सति ब्रह्मज्ञानफलान्मोक्षाद्विपरीतफलं दुरितं बन्धनफलं क्षीयते न क्षीयत इति संशयः ।
किं तावत्प्राप्तं, शास्त्रेण हि फलाय यद्विहितं प्रतिषिद्धं चानर्थपरिहारायाश्वमेधादि ब्रह्महत्यादि चापूर्वान्तरव्यापारं किं तदपूर्वमुपरतेऽपि कर्मण्यत्र सुखदुःखोपभोगात्प्राङ्गाविरन्तुमर्हति ।
स हि तस्य विनाशहेतुस्तदभावे कथं विनश्येदिति ।
तस्याकस्मिकत्वप्रसङ्गात्शास्त्रव्याकोपाच्चेति ।
अदत्तफलं चेत्कर्मापूर्वं विनश्यति कर्मण एव फलप्रसवसामर्थ्यबोधकशास्त्रमप्रमाणं भवेत् ।
नच प्रायश्चित्तमिव ब्रह्मज्ञानमदत्तफलान्यपि कर्मपूर्वाणि क्षिणोतीति साम्प्रतम् ।
प्रायश्चित्तानामपि तदप्रक्षयहेतुत्वात्तद्विधानस्य चैनस्विनराधिकारिप्राप्तिमात्रेणोपपत्तावुपात्तदुरितनिर्बहणफलाक्षेपकत्वायोगात् ।
अत एव स्मरन्ति नाभुक्तं क्षीयते कर्मेति ।
यदि पुनरपेक्षितोपायतात्मा प्रायश्चित्तविधिर्न नियोज्यविशेषप्रतिलम्भमात्रेण निर्वृणोतीत्यपेक्षिताकाङ्क्षायां दोषसंयोगेन श्रवणात्तन्निबर्हणफलः कल्पेत ।
तथापि ब्रह्मज्ञानस्य तत्संयोगेनाश्रवणान्नदुरितनिबर्हणसामर्थ्ये प्रमाणमस्ति मोक्षवात् ।
तस्यापि स्वर्गादिफलवद्देशकालनिमित्तापेक्षयोपपत्तेः ।
शास्त्रप्रामाण्यात्संभविष्यत्यसाववस्था यस्यामुपभोगेन समस्तकर्मक्षये ब्रह्मज्ञानं मोक्षं प्रसोष्यति ।
योगाध्द्यैर्व वा दिवि भुव्यन्तरीक्षे बहूनि शरीरेन्द्रियाणि निर्माय फलान्युपभुज्यर्द्धेन योगसामर्थ्येन योगी कर्माणि क्षपयित्वा मोक्षी संपत्स्यते ।
स्थिते चैतस्मिन्नर्थे न्यायबलाद्यथा पुष्करपलाश इत्यादिव्यपदेशो ब्रह्मविद्यास्तुतिमात्रपरतया व्याख्येय इति प्राप्त उच्यतेव्याख्यायेतैवं व्यपदेशो यदि कर्मविधिविरोधः स्यान्न त्वयमस्ति ।
शास्त्रं हि फलोत्पादनसामर्थ्यमात्रं कर्मणामवगमयति न तु कुतश्चिदागन्तुकान्निमित्ततः प्रायश्चित्तादेस्तदप्रतिबन्धमपि ।
तस्य तत्रौदासीन्यात् ।
यदि शास्त्रबोधितफलप्रसवसामर्थ्यमप्रतिबद्धमागन्तुकेन केनचित्कर्मणा ततस्तत्फलं प्रसूत एवेति न शास्त्रव्याघातः ।
नाभुक्तं कर्म क्षीयतैति च स्मरणप्रतिबद्धसामर्थ्यकर्माभिप्रायम् ।
दोषक्षयोद्धेशेन चापरविद्यानामस्ति प्रायश्चित्तवद्विधानमैश्वर्यभलानामप्युभयसंयोगाविशेषात् ।
यत्रापि निर्गुणायां परविद्यायां दोषोद्धेशो नास्ति तत्रापि तत्स्वभावालोचनादेव तत्प्रक्षयप्रसवसामर्थ्यमवसीयते ।
नहि तत्त्वमसिवाक्यार्थपरिभावनाभुवा प्रसंख्यानेन निर्मृष्टनिखिलकर्तृभोक्तृत्वादिविभ्रमो जीवः फलोपभोगोन युज्यते ।
नहि रज्जवां भुजङ्कसमारोपनिबन्धना भयकम्पादयः सति रज्जुतत्वसाक्षात्कारे प्रभवन्ति, किन्तु संस्कारशेषात्किञ्चित्कालमनुवृत्ता अपि निवर्तन्त एव ।
अमुमेवार्थमनुवदन्तो यथा पुष्करपलाश इत्यादयो व्यपदेशाः समवेतार्थाः सन्तो न स्तुतिमात्रतया कथञ्चिद्व्याख्यानमर्हन्ति ।
ननूक्तं संभविष्यन्ति सावस्था जीवात्मनो यस्यां पर्यायेणोपभोगाद्वा योगर्द्धेः प्रभावतो युगपन्नैकविधकायनिर्माणेनापर्यायेणोपभोगाद्वा जन्तुः कर्माणि क्षपयित्वा मोक्षी संपत्स्यत इत्यत आहएवमेव च मोक्ष उपपद्यत इति ।
अनादिकालप्रवृत्ता हि कर्माशया अनियतकालविपाकाः क्रमवता तावद्भोगेन क्षेतुमशक्याः ।
भुञ्जानः खल्वयमपरानपि संचिनोति कर्माशयानिति ।
नाप्यपर्यायमुपभोगेनासक्तः कर्मान्तराण्यसंचिन्वानः क्षेष्यतीति साम्प्रतम् ।
कल्पशतानि क्रमकालभोग्यानां सम्प्रति भोक्तुमसामर्थ्यात् ।
दीर्घकालफलानि च कर्माणि कथमेकपदे क्षेष्यन्ति ।
तस्मान्नान्यथा मोक्षसंभवः ।
ननु सत्स्वपि कर्माशयान्तरेषु सुखदुःखफलेषु मोक्षफलात्कर्मणः समुदाचरतो ब्रह्मभावमनुभूयाथ लब्धविपाकानां कर्मान्तराणां फलानि भोक्ष्यन्त इत्याहनच देशकालनिमित्तापेक्षा इति ।
नहि कार्यः सन्मोक्षो मोक्षो भवितुमर्हति ब्रह्मभावो हि सः ।
नच ब्रह्म क्रियते नित्यत्वादित्यर्थः ।
परोक्षत्वानुपत्तेश्च ज्ञानफलस्य ।
ज्ञानफलं खलु मोक्षोऽभ्युपेयते ।
ज्ञानस्य चानन्तरभाविनीज्ञेयाभिव्यक्तिः फलं, सैवाविद्योच्छेदमादधती ब्रह्मस्वभावस्वरूपावस्थानलक्षणाय मोक्षाय कल्पते ।
एवं हि दृष्टार्थता ज्ञानस्य स्यात् ।
अपूर्वाधानपरम्परया ज्ञानस्य मोक्षफले कल्प्यमाने ज्ञानस्य परोक्षफलत्वमदृष्टार्थत्वं भवेत् ।
नच दृष्टे संभवत्यदृष्टकल्पना युक्तेत्यर्थः ।
तस्माद्ब्रह्माधिगमे ब्रह्मज्ञानेसत्यद्वैतसिद्धौ दुरितक्षय इति सिद्धम् ॥१३॥





____________________________________________________________________________________________


४,१.१०.१४


इतरस्याप्येवमसंश्लेषः पाते तु । ब्रह्मसूत्र ४,१.१४ ।
अधर्मस्य स्वाभाविकत्वेन रागादिनिबन्धनत्वेन शास्त्रीयेण ब्रह्मज्ञानेन प्रतिबन्धो युक्तः ।
धर्मज्ञानयोस्तु शास्त्रीयत्वेन, ज्योतिष्टोमदर्शपौर्णमासविरोधान्नोच्छेद्योच्छेत्तृभावो युज्यते ।
पाप्नमनश्च विशेषतो ब्रह्मज्ञानोच्छेद्यत्वश्रुतेर्धर्मस्यन तदुच्छेद्यत्वम् ।
विशेषविधानस्य शेषप्रतिषेधनान्तरीयकत्वेन लोकतः सिद्धेः ।
यथा देवदत्तो दक्षिणेनाक्ष्णा पश्यतीत्युक्ते न वामेन पश्यतीति गम्यते ।
उभे ह्येवैष एते तरतीति च यथासंभवं, ब्रह्मज्ञानेन दुष्कृतं भोगेन सुकृतमिति ।
ऽक्षीयन्ते चास्य कर्माणिऽइति च सामान्यवचनंऽसर्वे पाप्मानःऽइति विशेषश्रवणात्पापकर्माणीति विशेषे उपसंहरणीयम् ।
तस्माद्ब्रह्मज्ञानाद्दुष्कृतस्यैव क्षयो न सुकृतस्येति प्राप्ते पूर्वाधिकरणराद्धान्तेऽतिदिश्यते ।
नो खलु ब्रह्मविद्या केनचिददृष्टेन द्वारेण दुष्कृतमपनयत्यपि तु दृष्टेनैव भोक्तृभोक्तव्यभोगादिप्रविलयद्वारेण तच्चैतत्तुल्यं सुकृतेपीति कथमेतदपि नोच्छिन्द्यात् ।
एवं च सति न शास्त्रीयत्वसाम्यमात्रमविरोधहेतुर्नहि प्रत्यक्षत्वसामान्यमात्रादविरोधो जलानलादीनाम् ।
नच सुकृतशास्त्रमनर्थकमब्रह्मविदं प्रति तद्विधेरर्थवत्वात् ।
एवमवस्थिते च पाप्मश्रुत्या पुण्यमपि ग्रहीतव्यम् ।
ब्रह्मज्ञानमपेक्ष्य पुण्यस्य निकृष्टफलत्वात्तत्फलं हि क्षयातिशयवत् ।
नह्येवं मोक्षो निरतिशयत्वान्नित्यत्वाच्च ।
दृष्टप्रयोगश्चायं पाप्मशब्दो वेदे पुण्यपापयोः ।
तद्यथा पुण्यपापे अनुक्रम्य सर्वे पाप्मानोऽतो निवर्तन्त इत्यत्र ।
तस्मादविशेषेण पुण्यपापयोरश्लेषविनाशाविति सिद्धम् ॥१४॥





____________________________________________________________________________________________


४,१.११.१५


अनारब्धकार्य एव तु पूर्वे तदवधेः । ब्रह्मसूत्र ४,१.१५ ।
यद्यद्वैतज्ञानस्वभावालोचनयोत्तरपूर्वसुकृतदुष्कृतयोरश्लेषविनाशौ हन्त आरब्धानारब्धकार्ययोश्चाविशेषेणैव विनाशः स्यात् ।
कर्तृकर्मादिप्रविलयस्योभयत्राविशेषात् ।
तन्निबन्धनत्वाच्च विनाशस्य ।
नच संस्कारशेषात्कुलालचक्रभ्रमणवदनुवृत्तिः ।
वस्तुनः खल्वनुवृत्तिः ।
मायावादिनश्च पुण्यपापयोश्चमायामात्रविनिर्मितत्वेन मायानिवृत्तौ न पुण्यापुण्ये न तत्संस्कारो वस्तुसन्तीति कस्यानुवृत्तिः ।
नच रज्जौ सर्पादिविभ्रमजनिता भयकम्पादयो निवृत्तेऽपि विभ्रमे यथानुवर्तन्ते तथेहापीति युक्तम् ।
तत्रापि सर्पासत्त्वेऽपि तज्ज्ञानस्य सत्त्वे तज्जनितभयकम्पादीनां तत्संस्काराणां च वस्तुसत्त्वेन निवृत्तेऽपि विभ्रमेऽनिवृत्तेः ।
अत्र तु न माया न तज्जः संस्कारो न तद्गोचर इति तुच्छत्वात्किमनुवर्तेत ।
न संस्कारशेषो न कर्मेत्यविशेषेणारब्धकार्याणामनारब्धकार्याणां च निवृत्तिः ।
नच तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ संपत्स्य इति श्रुतेर्देहपातप्रतीक्षारब्धकार्याणां युक्ता ।
नह्येषा श्रुतिरवधिभेदविधायिन्यपि तु क्षिप्रतापरा ।
यथा लोक एतावन्मे चिरं यत्स्नातो भुञ्जानश्चेति ।
नहि तत्र स्नानभोजने अवधित्वेन विधीयते कितु क्षपीयस्ता प्रतिपाद्यते उभयविधाने हि वाक्यं भिद्येतावधिभेदः चिरताचेति प्राप्तेऽभिधीयतेयद्यप्यद्वैतब्रह्मतत्त्वसाक्षात्कारोऽनाद्यविद्यपदर्शितप्रुञ्चमात्रविरोधितया तन्मध्यपतितसकलकर्मविरेधी ।
तथाप्यनारब्धविपाकं कर्मजातं द्रागित्येव समुच्छिनत्ति न त्वारब्धविपाकं संपादितजात्यायुर्विततपूर्वापरीभूतसुखदुःखोपभोगप्रवाहं कर्मजातम् ।
तद्धि समुदाचारद्वृत्तितयेतरेभ्यःप्रसुप्तवृत्तिभ्यो बलवत् ।
अन्यथा देवर्षीणां हिरण्यगर्भमनूद्दालकप्रभृतीनांविगलितनिखिलक्लेशजालावरणतया परितः प्रद्योतमानबुद्धिसत्वानां न ज्योग्जीविता भवेत् ।
श्रूयते चैषां श्रुतिस्मृतीतिहासपुराणेषु तत्त्वज्ञता च महाकल्पकल्पमन्वन्तरादिजीविता च ।
न चैते महाधियो न ब्रह्मविदो ब्रह्मचिदश्चाल्पपुण्यमेधसो मनुष्या इति श्रद्धेयम् ।
तस्मादागमानुसारतोऽस्ति प्रारब्धविभागानां कर्मणां प्रक्षयाय तदीयसमस्तफलोपभोगप्रतीक्षा सत्यपि तत्त्वसाक्षात्कारे ।
तावदेव चिरमिति न चिरता विधीयते ।

अपि तु श्रुत्यन्तरसिद्धां चिरतामनूद्य देहपातावधिमात्रविधानं तदेतदभिसंधायौचित्यमात्रतयाह स्म भगवान् भाष्याकारःन तावदनाश्रित्यारब्धकार्यं कर्माशयमिति ।
न चेदं न जातु दृष्टं यद्विरोधिसमवाये विरोद्ध्यन्तरमनुवर्तत इत्याहअकर्त्रात्मबोधोऽपीति ।
यदा लोकेऽपि विरोधिनोः किञ्चित्कालं सहानुवृत्तिरुपलब्धा तदेहगमबलाद्दीर्घकालमपि भवतीति न शक्या निवारयितुम् ।
प्रमाणसिद्धस्य नियोगपर्यनुयोगानुपपत्तेः ।
तदेवं मध्यस्थान्प्रतिपाद्य ये भाष्यकारमाप्तं मन्यन्ते तान् प्रत्याहअपिच नैवात्र विवदितव्यमिति ।
स्थितप्रज्ञश्च न साधकस्तस्योत्तरोत्तरध्यानोत्कर्षेण पूर्वप्रत्ययानवस्थितत्वात् ।
निरतिशयस्तु स्थितप्रज्ञः ।
स च सिद्ध एव ।
नच ज्ञानकार्या भयकम्पादयः, ज्ञानमात्रादनुत्पादात् ।
सर्पावच्छेदोहि तस्य भयकम्पादिहेतुः ।
स चासन्न निर्वचनीय इति कुतो वस्तुसतः कर्योत्पादः ।
नच कार्यमपि भयकम्पादि वस्तुसत् ।
तस्यापि विचारासहत्वेनानिर्वाच्यत्वात् ।

अनिर्वाच्याच्चानिर्वाच्योत्पत्तौ नानुपपत्तिः ।
यादृशो हि यक्षस्तादृशो बलिरिति सर्वमवदातम् ॥१५॥




____________________________________________________________________________________________


४,१.१२.१६



अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् । ब्रह्मसूत्र ४,१.१६ ।
यदि पुण्यस्याप्यश्लेषविनाशौ हन्त नित्यमप्यग्निहोत्रादि न कर्तव्यं योगमारूरुक्षुणा ।
तस्यापीतरपुण्यवद्विद्यया विनाशात् ।
ऽप्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरऽमिति न्यायात् ।
नच विविदिषन्ति यज्ञेन दानेति मोक्षलक्षणैककार्यतया विद्याकर्मणोरविरोधः ।
सहासंभवेनैककार्यत्वासंभवात् ।
नह्येतमात्मानं विदुषो विगलिताखिलकर्तृभोक्तृत्वादिप्रपञ्चविभ्रमस्य पूर्वोत्तरे नित्ये क्रियाजन्ये पुण्ये संभवतः ।
तस्माद्विविदिषन्ति यज्ञेनेति वर्तमानापदेशो ब्रह्मज्ञानस्य यज्ञादीनां वा स्तुतिमात्रं न तु मोक्षमाणस्य मुक्तिसाधनं यज्ञादिविधिरिति प्राप्त उच्यते ।
सत्यं न विद्ययैककार्यत्वं कर्मणां परस्परविरोधेन सहासंभवात् ।
विद्योत्पादकतया तु कर्मणामारादुपकारकाणामस्तु मोक्षोपयोगः ।
नच कर्मणां विद्यया विरुध्यमानानां न विद्याकारणत्वं, स्वकारणविरोधिनां कार्याणां बहुलमुपलब्धेः ।
तथाच विद्यालक्षणकार्योपायतया कार्यविनाश्यानामपि कर्मणामुपादानमर्थवत् ।
तदभावे तत्कार्यस्यानुत्पादेन मोक्षस्यासंभवात् ।
एवञ्च विविदिषन्ति यज्ञेनेति यज्ञसाधनत्वं विद्याय अपूर्वमर्थं प्रापयतः पञ्चमलकारस्य नात्यन्तपरोक्षवृत्तितया ज्ञानस्तुत्यर्थतया कथञ्चिद्व्याख्यानं भविष्यति ।
तदनेनाभिसमधिनोक्तंज्ञानस्येव हि प्रापकं सत्कर्म प्रणड्या मोक्षकारणमित्युपचर्यते ।
यत एव न विद्योदयसमये कर्मास्ति नापि परस्तादपि तु प्रागेव विद्यायाः, अत एव चातिक्रान्तविषयमेतत्कार्यैकत्वाभिधानम् ।
एतदेव स्फोरयतिनहि ब्रह्मविद इति ॥१६॥




____________________________________________________________________________________________


४,१.१२.१७



सूत्रान्तरमवतारयितुं पृच्छतिकिंविषयं पुनरिदमिति ।
अस्योत्तरं सूत्रम्
अतोऽन्यापि ह्येकेषामुभयोः । ब्रह्मसूत्र ४,१.१७ ।
काम्यकर्मविषयमश्लेषविनाशवचनं शाखान्तरीयवचनं च तस्य पुत्रा दायमुपयन्तीति ॥१७॥





____________________________________________________________________________________________


४,१.१३.१८


यदेव विद्ययेति हि । ब्रह्मसूत्र ४,१.१८ ।
अस्ति विद्यासंयुक्तं यज्ञादि य एवं विद्वान्यजेतेत्यादिकम् ।
अस्ति च केवलम् ।
तत्र यथा ब्राह्मणाय हिरण्यं दद्यादियुक्ते विदुषे ब्राह्मणाय दद्यान्न ब्राह्मणब्रुवाय मूर्खायेति विशेषप्रतिलम्भः तत्कस्य हेतोस्तस्यातिशयवत्वात् ।
एवं विद्यारहिताद्यज्ञादेर्विद्यासहितमतिशयवदिति तस्यैव परविद्यासाधनत्वमुपात्तदुरितक्षयद्वारा नेतरस्य ।
तस्माद्विविदिषन्ति यज्ञेनेत्यविशेषश्रुतमपि विद्यासहिते यज्ञादावुपसंहर्तव्यमिति प्राप्तेऽभिधीयतेयदेव विद्यया करोति तदेवास्य वीर्यवत्तरमिति तरबर्थश्रुतेर्विद्यारहितस्य वीर्यवत्तामात्रमवगम्यते ।
नच सर्वथाकिञ्चित्करस्य तदुपपद्यते ।
तस्मादस्त्यस्यापि कयापि मात्रया परविद्योत्पादोपयोग इति विद्यारहितमपि यज्ञादि परविद्यार्थिनानुष्ठेयमिति सिद्धम् ॥१८॥





____________________________________________________________________________________________


४,१.१४.१९


भोगेन त्वितरे क्षपयित्वाथ संपद्यते । ब्रह्मसूत्र ४,१.१९ ।
अनारब्धकार्य इत्यस्य नञः फलं भोगेन निवृत्तिं दर्शयत्यनेन सूत्रेण ।
अस्य तूपपादनं पुरस्तादपकृष्य कृतमिति नेह क्रियते पुनरुक्तिभयात् ॥१९॥



इति श्रीवाचस्पतिमिश्रविरचिते शारीरकभगवत्पादभाष्यविभागे भामत्यां चतुर्थस्याध्यायस्य प्रथमः पादः समाप्तः ॥



____________________________________________________________________________________________
____________________________________________________________________________________________



चतुर्थेऽध्याये द्वितीयः पादः ।





____________________________________________________________________________________________


४,२.१.१


वाङ्मनसि दर्शनाच्छब्दाच्च । ब्रह्मसूत्र ४,२.१ ।
अथास्मिन् फलविचारलक्षणे वाङ्मनसि संपद्यत इत्यादिविचारोऽसंगत इत्यत आह
अथापरासु विद्यासु फलप्राप्तय इति ।
अपरविद्याफलप्राप्त्यर्थदेवयानमार्गार्थत्वादुत्क्रान्तेस्तद्गतो विचारः पारम्पर्येण भवति फलविचार इति नासंगत इत्यर्थः ।
नन्वयमुत्क्रान्तिक्रमो विदुषो नोपपद्यतेऽन तस्य प्राणा उत्क्रामन्त्यत्रैव समवनीयन्तेऽइति श्रवणात्तत्कथमस्य विद्याधिकार इत्यत आह
समाना हि विद्वदविदुषोरिति ।
विषयमाह
अस्तीति ।
विमृशति
किमिहेति ।
विशयः संशयः ।
पूर्वपक्षमाह
तत्र वागेवेति ।
श्रतिलक्षणाविशये संशये ।
सिद्धान्तसूत्रं पूरयित्वा पठति
वाग्वृत्तिर्मनसि संपद्यते इति ।

वृत्त्यध्याहारप्रयोजनं प्रश्नपूर्वकमाह कथमिति ।
उत्तराधिकरणपर्यालोचनेनैवं पूरितमित्यर्थः ।
तत्त्वस्य धर्मिणो वाचः प्रलयविवक्षायां त्विह सर्वत्रैव परत्रेह चाविभागसाम्यात्किं परत्रैव विशिंष्यादविभाग इति न त्वत्रापि ।
तस्मादिहाविभागेनाविंशिषतोऽत्र वृत्त्युपसंहारमात्रविवक्षा सूत्रकारस्येति गम्यते ।
सिद्धान्तहेतुं प्रश्नपूर्वकमाह
कस्मादिति ।
सत्यामेव मनोवृत्तौ वाग्वृत्तेरुपसंहारदर्शनात् ।
वाचस्तूपसंहारमदृष्टं नागमोऽपि गमयितुमर्हति ।
आगमप्रभवयुक्तिविरोधाश्च ।
आगमो हि दृष्टानुसारतः प्रकृतौ विकाराणां लयमाह ।
न च वाचः प्रकृतिर्मनो येनास्मिन्नियं लीयेत ।
तस्मात्वृत्तिवृत्तिमतोरभेदविवक्षया वाक्पदं तद्वृत्तौ व्याख्येयम् ।
संभवति च वाग्वृत्तेर्वागप्रकृतावपि मनसि लयः ।
तथा तत्र तत्र दर्शनादित्याह
वृत्त्युद्भवाभिभवाविति ॥१॥




____________________________________________________________________________________________


४,२.१.२


अत एव च सर्वाण्यनु । ब्रह्मसूत्र ४,२.२ ।
यत एव प्रकृतिविकारभावाभावन्मनसि न स्वरूपलयो वाचोऽपि तु वृत्तिलयः, अत एव च सर्वेषां चक्षुरादीनामिद्रियाणां सत्येव सवृत्तिके मनसि वृत्तेरनुगतिर्लयो न स्वरूपलयः ।
वाचस्तु पृथक्ग्रहणं पूर्वसूत्रे उदाहरणापेक्षं न तु तदेवेह विवक्षितमित्यर्थः ॥२॥




____________________________________________________________________________________________


४,२.२.३


तन्मनः प्राण उत्तरात् । ब्रह्मसूत्र ४,२.३ ।
यदि स्वप्रकृतौ विकारस्य लयस्ततो मनः प्राणे संपद्यते इत्यत्र मनःस्वरूपस्यैव प्राणे संपत्त्या भवितव्यम् ।
तथा हि मनः इति नोपचारतो व्याख्यानं भविष्यति ।
संभवति हि प्रकृतिविकारभावः प्राणमनसोः ।
अन्नमयं हि सोम्य मन इत्यन्नात्मतामाह मनसः श्रुतिरापोमयः प्राण इति च प्राणस्याबात्मताम् ।
प्रकृतिविकारयोस्तादात्म्यात् ।
तथा च प्राणो मनसः प्रकृतिरिति मनसो वृत्तिमतः प्राणे लय इति प्राप्तेऽभिधीयतेसत्यम्, आपोऽन्नमसृजन्त इति श्रुतेरबन्नयोः प्रकृतिविकारभावोऽवगम्यते ।
न तु तद्विकारयोः प्राणमनसोः ।
स्वयोनिप्राणाडिकया तु मिथो विकारयोः प्रकृतिविकारभावाभ्युपगमे संकरादतिप्रसङ्गः स्यात् ।
तस्माद्यो यस्य साक्षाद्विकारस्तस्य तत्र लय इत्यन्नस्याप्सु लयो न त्वब्विकारे प्राणेऽन्नविकारस्य मनसः ।
तथा चात्रापि मनोवृत्तेर्वृत्तिमति प्राणे लयो न तु वृत्तिमतो मनस इति सिद्धम् ॥३॥





____________________________________________________________________________________________


४,२.३.४


सोऽध्यक्षे तदुपगमादिभ्यः । ब्रह्मसूत्र ४,२.४ ।
प्राणस्तेजसीति तेजःशब्दस्य भूतविशेषवचनत्वाद्विज्ञानात्मनि चाप्रसिद्धेः प्राणस्य जीवात्मन्युपगमानुगमावस्थानश्रुतीनां च तेजोद्धारेणाप्युपपत्तेः ।
तेजसि समापन्नवृत्तिः खलु प्राणः ।
तेजस्तु जीवात्मनि समापन्नवृत्ति ।
तद्वारा जीवात्मसमापन्नवृत्तिः प्राण इत्युपपद्यते ।
तस्मात्तेजस्येव प्राणवृत्तिप्रविलय इति प्राप्तेऽभिधीयतेस प्रकृतःप्राणोऽध्यक्षे विज्ञानात्मन्यवतिष्ठते तत्तन्त्रवृत्तिर्भवति ।
कुतःुपगमानुगमावस्थानेभ्यो हेतुभ्यः ।
तत्रोपगमश्रुतिमाह
एवमेवेममात्मानमिति ।
अनुगमनश्रुतिमाह
तमुत्क्रामन्तमिति ।
अवस्थानश्रुतिमाह
सविज्ञानो भवतीति चेति ।
विज्ञायतेऽनेनेति विज्ञानं पञ्चवृत्तिप्राणसहित इन्द्रियग्रामस्तेन सहावतिष्ठत इति सविज्ञानः ।
चोदयति
ननु प्रामस्तेजसीति श्रूयत इति ।
अधिकावापोऽशब्दार्थव्याख्यानम् ।
परिहरति
नैष दोष इति ।
यद्यपि प्राणस्तेजसीत्यतस्तेजसि प्राणवृत्तिलयः प्रतीयते, तथापि सर्वशाखाप्रत्ययत्वेन विद्यानां श्रुत्यन्तरालोचनया विज्ञानात्मनि लयोऽवगम्यते ।
न च तेजसस्तत्रापि लय इति साम्प्रतम् ।
तस्यानिलाकाशक्रमेण परमात्मनि तत्त्वलयावगमात् ।
तस्मात्तेजोग्रहणेनोपलक्ष्यते तेजः सहचरितदेहबीजभूतपञ्चभूतसूक्ष्मपरिचाराध्यक्षो जीवात्मा तस्मिन् प्राणवृत्तिरप्येतीति ।
चोदयति
ननु चेयं श्रुतिरिति ।
तेजःसहचरितानि भूतान्युपलक्ष्यन्तां तेजःशब्देनाध्यक्षे तु किमायातं तस्य तदसाहचर्यादित्यर्थः ।
परिहरति
सोऽध्यक्ष इत्यध्यक्षस्यापीति ।
यदा ह्ययं प्राणोऽन्तरालेऽध्यक्षं प्राप्याध्यक्षसंपर्कवशादेव तेजःप्रभृतीनि भूतसूक्ष्माणि प्राप्नोति तदोपपद्यते प्राणस्तेजसीति ।
अत्रैव दृष्टान्तमाह
योऽपि स्रुघ्नादिति ॥४ ॥


____________________________________________________________________________________________


४,२.३.५


भूतेषु तच्छ्रुतेः । ब्रह्मसूत्र ४,२.५ ।



____________________________________________________________________________________________


४,२.३.६

सूत्रान्तरमवतारयितुं पृच्छति
कथं तेजःसहचरितेष्विति ।


नैकस्मिन् दर्शयतो हि । ब्रह्मसूत्र ४,२.६ ।
अत्र भाष्यकारोऽनुमानदर्शनमाह
कार्यस्य शरीरस्येति ।
स्थूलशरीरानुरूपमनुमेयं सूक्ष्ममपि शरीरं पञ्चात्मकमित्यर्थः ।
दर्शयत इति सूत्रावयवं व्याचष्टे
दर्शयतश्चैतमर्थमिति ।
प्रश्नप्रतिवचनाभिप्रायं द्विवचनं श्रुतिस्मृत्यभिप्रायं वा ।
अण्व्यो मात्राः सूक्ष्मा दशार्धानां पञ्चभूतानामिति ।
श्रुत्यन्तरविरोधं चोदयति
ननु चोपसंहृतेषु वागादिष्विति ।

कर्माश्रयतेति प्रतीयते न भूताश्रयतेत्यर्थः ।
परिहरति
अत्रोच्यत इति ।
ग्रहा इन्द्रियाणि अतिग्रहास्तद्विषयाः ।
कर्मणां प्रयोजकत्वेनाश्रयत्वं भूतानां तूपादानत्वेनेत्यविरोधः ।
प्रशंसाशब्दोऽपि

कर्मणां प्रयोजकतया प्रकृष्टमाश्रयत्वं ब्रूते सति निकृष्ट आश्रयान्तरे तदुपपत्तेरित्याह
प्रशंसाशब्दादपि तत्रेति ॥६॥





____________________________________________________________________________________________


४,२.४.७


समाना चासृत्युपक्रमादमृतत्वं चानुपोष्य । ब्रह्मसूत्र ४,२.७ ।
अत्रामृतत्वप्राप्तिश्रुतेः परविद्यावन्तं प्रत्येतदिति मन्वानस्य पूर्वः पक्षः ।
विशयानानांसंदिहानानां पुंसाम् ।
चोदयति
ननु विद्याप्रकरण इति ।
परिहरति
न स्वापादिवदिति ।
परविद्ययैवामृतत्वप्राप्त्यवस्थामाख्यातुं तत्सधर्माश्च तद्विधर्माश्चान्या अप्यवस्थास्तदनुगुणतयाख्यायन्ते ।
साधर्म्यवैधर्म्याभ्यां हि स्फुटतरः प्रतिपिपादयिषिते वस्तुनि प्रत्ययो भवतीति ।
न तु विदुषः सकाशाद्विशेषवन्तोऽविद्वांसो विधीयन्ते येन विद्याप्रकरणव्याख्यातो भवेदपि तु विद्यां प्रतिपादयितुं लोकसिद्धानां तदनुगुणतया तेषामनुवाद इति ।
एवं प्राप्तेऽभिधीयते
समाना चैषोत्क्रान्तिर्वाङ्मनसीत्याद्या विद्वदविदुषोः ।
कुतः
आसृत्युपकृमात् ।
सृतिः सरणं देवयानेन पथा कार्यब्रह्मलोकप्राप्तिरासृतेराकार्यब्रह्मलोकप्राप्तेः ।
अयं विद्योपक्रम आरम्भः प्रयत्न इति यावत् ।
तस्मादेतदुक्तं भवतिनेयं परा विद्या यतो नाडीद्वारमाश्रयते ।
अपि त्वपरविद्येयम् ।
न चास्यामात्यन्तिकः क्लेशप्रदाहो यतो न तत्रोत्क्रान्तिर्भवेत् ।
तस्मादपरविद्यासामर्थ्यादापेक्षिकभाभूतसंप्लवस्थानममृतत्वं प्रेप्सते पुरुषार्थाय संभवत्येष उत्क्रान्तिभेदवान् सृत्युपक्रमोपदेशः ।
उपपूर्वादुष दाह इत्यस्मादुपोष्येति प्रयोगः ॥७॥





____________________________________________________________________________________________


४,२.५.८


तदापीतेः संसारव्यपदेशात् । ब्रह्मसूत्र ४,२.८ ।
सिद्धां कृत्वा बीजभावावशेषं परमात्मसंपत्तिं विद्वदविदुषोरुत्क्रान्तिः समर्थिता ।
सैव संप्रति चिन्त्यते ।
किमात्मनि तेजःप्रभृतीनां भूतसूक्ष्माणां तत्वप्रविलय एव संपत्तिराहोस्विद्बीजभावावशेषेति ।
यदि पूर्वः पक्षः, नोत्क्रान्तिः ।
अथोत्तरः ततः सेति ।
तत्राप्रकृतौ न विकारतत्त्वप्रविलयो यथा मनसि न वागादीनाम् ।
सर्वस्य च जनिमतः प्रकृतिः परा देवतेति तत्त्वप्रलय एवात्यन्तिकः स्यात्तेजःप्रभृतीनामिति प्राप्तेऽभिधीयतेऽयोनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः ।
स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम् ॥
ऽइत्यविद्यावतः संसारमुपदिशति श्रुतिः सेयमात्यन्तिके तत्त्वलये नोपपद्यते ।
न च प्रायणस्यैवैष महिमा विद्वासमविद्वांसं वा प्रतीति सांप्रतमित्याह
अन्यथा हि सर्वः प्रायणसमय एवेति ।
विधिशास्त्रं ज्योतिष्टोमादिविषयमनर्थकं प्रायणादेवात्यन्तिकप्रलये पुनर्भवाभावात् ।
मोक्षशास्त्रं चाप्रयत्नलभ्यात्प्रायणादेव जन्तुमात्रस्य मोक्षप्राप्तेः ।
न केवलं शास्त्रानर्थक्यमयुक्तश्च प्रायणमात्रान्मोक्ष इत्याह
मिथ्याज्ञानेति ।
नासति निदानप्रशमे प्रशमस्तद्वतो युज्यत इत्यर्थः ॥८॥


____________________________________________________________________________________________


४,२.५.९

अथेतरभूतसहितं तेजो जीवस्याश्रयभूतमुत्क्रमद्देहाद्देहान्तरं वा संचरत्कस्मादस्माभिर्न निरीक्ष्यते ।
तद्धि महत्त्वाद्वानेकद्रव्यत्वाद्वा रूपवदुपलब्दव्यम् ।
कस्मान्न मूर्तान्तरैः प्रतिबध्यत इति शङ्कामपाकर्तुमिदं सूत्रम्
सूक्ष्मं प्रमाणतश्च तथोपलब्धेः । ब्रह्मसूत्र ४,२.९ ।
चकारो भिन्नक्रमः ।
न केवलमापीतेस्तदवतिष्ठते ।
तच्च सूक्ष्मं स्वरूपतः परिमाणतश्च स्वरूपमेव हि तस्य तादृशमदृश्यम् ।
यथा चाक्षुषस्य तेजसो महतोऽपि अदृष्टवशादनुद्भूतरूपस्पर्शं हि तत् ।
परिमाणतः सौक्ष्म्यं यतो नोपलभ्यते यथा त्रसरेणवो जालसूर्यमरीचिभ्योऽन्यत्र प्रमाणतस्तथोपलब्धिरिति व्याचष्टे
तथाहि नाडीनिष्क्रमण इति ।
आदिग्रहणेन चक्षुष्टो वा मूर्धो वा अन्येभ्यो वा शरीरदेशेभ्य इति संगृहीतम् ।
अप्रतिघाते हेतुमाह
स्वच्छत्वाच्चेति ।
एतदपि हि सूक्ष्मत्वेनैव संगृहीतम् ।
यथा हि काचाभ्रपटलं स्वच्छस्वभावस्य न तेजसः प्रतिधातम् ।
एवं सर्वमेव वस्तुजातमस्येति ॥९॥



____________________________________________________________________________________________


४,२.५.१०


नोपमर्देनातः । ब्रह्मसूत्र ४,२.१० ।
अत एव च स्वच्छतालक्षणात्सौक्ष्म्यादसक्तत्वापरनाम्नः ॥१०॥




____________________________________________________________________________________________


४,२.५.११


अस्यैव चोपपत्तेरेष ऊष्मा । ब्रह्मसूत्र ४,२.११ ।
उपपत्तिः प्राप्तिः ।
एतदुक्तं भवतिदृष्टश्रुताभ्यामूष्मणोऽन्वयव्यतिरेकाभ्यामस्ति स्थूलाद्देहादतिरिक्तं किञ्चिच्चदामात्सूक्ष्मं शरीरमिति ॥११॥





____________________________________________________________________________________________


४,२.६.१२


प्रतिषेधादिति चेन्न शारीरात् । ब्रह्मसूत्र ४,२.१२ ।
अधिकरणतात्पर्यमाह
अमृतत्वं चानुपोष्येत्यतो विशेषणादिति ।
विषयमाह
अथाकामयमान इति ।
सिद्धान्तिमतमाशङ्क्य तन्निराकरणेन पूर्वपक्षी स्वमतमवस्थापयति
अतः परविद्याविषयात्प्रतिषेधादिति ।
यदि हि प्राणोपलक्षितस्य सूक्ष्मशरीरस्य जीवात्मनः स्थूलशरीरादुत्क्रान्तिं प्रतिषेधच्छ्रुतिः तत एतदुपपद्यते ।
न त्वेतदस्ति ।
न तस्मात्प्राण उत्क्रामन्तीति हि तदा सर्वनाम्ना प्रधानावमर्शिनाभ्युदयनिःश्रेयसाधिकृतो देहि प्रधानं परामृश्यते ।
तथा च तस्माद्देहिनो न प्राणः सूक्ष्मं शरीरमुत्क्रामन्त्यपि तु तत्सहितः क्षेत्रज्ञ एवोत्क्रामतीति गम्यते ।
स पुनरतिक्रम्य ब्रह्मनाड्य संसारमण्डलं हिरण्यगर्भपर्यन्तं सलिङ्गो जीवः परस्मिन्ब्रह्मणि लीयते तस्मात्परामपि देवतां विदुष उत्क्रान्तिरत एव मार्गश्रुतयः, स्मृतिश्च मुमुक्षोः शुकस्यादित्यमण्डलप्रस्थानं दर्शयतीति प्राप्तम् ॥१२॥




____________________________________________________________________________________________


४,२.६.१३


एवं प्राप्ते प्रत्युच्यते

स्पष्टो ह्येकेषाम् । ब्रह्मसूत्र ४,२.१३ ।

नायं देह्यपादानस्य प्रतिषेधः ।
अपि तु देहापादानस्य ।
तथा हिआर्तभागप्रश्नोत्तरे ह्येकस्मिन्पक्षे संसारिण एव जीवात्मनोऽनुत्क्रान्तिं परिगृह्य न तर्ह्येष भृतः प्राणानामनुत्क्रान्तेरिति स्वयमाशङ्क्य प्राणानां प्रविलयं प्रतिज्ञाय तत्सिद्ध्यर्थमुत्क्रान्त्यवधेरुच्छ्वयनाध्माने ब्रुवन्यस्योच्छ्वयनाध्माने तस्य तदवधित्वमाह ।
शरीरस्य च ते इतिशरीरमेव तदपादानं गम्यते ।
नन्वेवमप्यस्त्वविदुषः संसारिणो विदुषस्तु किमायातमित्यत आह
तत्सामान्यादिति ।
ननु तदा सर्वनाम्ना प्रधानतया देहि परामृष्टः तत्कथमत्र देहावगतिरित्यत आह
अभेदोपचारेण ।
देहदेहिनोर्देहिपरामर्शिना सर्वनाम्ना देह एव परामृष्ट इति पञ्चमीपाठे व्याख्येयम् ।
षष्ठीपाठे तु नोपचार इत्याह
येषां तु षष्ठीति ।
अपि च प्राप्तिपूर्वः प्रतिषेधो भवति नाप्राप्ते ।
अविदुषो हि देहादुत्क्रामणं दृष्टमिति विदुषोऽपि तत्सामान्याद्देहादुत्क्रमणे प्राप्ते प्रतिषेध उपपद्यते न तु प्राणानां जीवावधिकं क्वचिदुत्क्रमणं दृष्टं येन तन्निषिध्यते ।
अपिचाद्वैतपरिभावनाभुवा प्रसंख्यानेन निर्मृष्टनिखिलप्रपञ्चावभासजातस्य गन्तव्याभावादेव नास्ति गतिरित्याह
नच ब्रह्मविद इति ।
अपदस्य हि ब्रह्मविदो मार्गे पदैषिणोऽपि देवा इति योजना ।
चोदयति
ननु गतिरपीति ।
परिहरति
सशरीरस्यैवायं योगबलेन ।
अपरविद्याबलेनेति ॥१३॥




____________________________________________________________________________________________


४,२.६.१४


स्मर्यते च । ब्रह्मसूत्र ४,२.१४ ।





____________________________________________________________________________________________


४,२.७.१५


तानि परे तथा ह्याह । ब्रह्मसूत्र ४,२.१५ ।
प्रतिष्ठाविलयनश्रुत्योर्विप्रतिपत्तेर्विमर्शस्तमपनेतुमयमारम्भः ।
तानि पुनः प्राणशब्दोदितानीन्द्रियाण्येकादश सूक्ष्माणि च भूतानि पञ्च ।
ब्रह्मविदस्तस्मिन्नेव परस्मिन्नात्मनीति ।

आरम्भबीजं विमर्शमाह
ननु गताःकला इति ।
घ्राणमनसोरेकप्रकृतित्वं विवक्षित्वा पञ्चदशत्वमुक्तम् ।
अत्र श्रुत्योर्विषयव्यवस्थया विप्रतिपत्त्यभावमाह
सा खल्विति ।
व्यवहारो लौकिकः सांव्यवहारिकप्रमाणापेक्षेयं श्रुतिः ।
न तात्त्विकप्रमाणापेक्षा ।
इतरा तु एवमेवास्य परिदृष्टुः इत्यादिका विद्वत्प्रतिपत्त्यपेक्षा तात्त्विकप्रमाणापेक्षा ।
तस्माद्विषयभेदादविप्रतिपत्तिः श्रुत्योरिति ॥१५॥



____________________________________________________________________________________________


४,२.८.१६


अविभागो वचनात् । ब्रह्मसूत्र ४,२.१६ ।
निमित्तापाये नैमित्तिकस्यात्यन्तिकापायः ।
अविद्यानिमित्तश्च विभागो नाविद्यायां विद्यया समूलघातमपहतायां सावशेषो भवितुमर्हति ।
तथापि प्रविलयसामान्यात्सावशेषताशङ्कामतिमन्दामपनेतुमिदं सूत्रम् ॥१६॥




____________________________________________________________________________________________


४,२.९.१७


तदोकोग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीताः शताधिकया । ब्रह्मसूत्र ४,२.१७ ।
अपरविद्याविदोऽविदुषश्चोत्क्रान्तिरुक्ता ।
तत्र किं विद्वानविद्वांश्चाविशेषेण मूर्धादिभ्य उत्क्रामत्याहो विद्वान्मूर्धस्थानादेव, अपरे तु स्थानान्तरेभ्य इति ।
अत्र विद्यासामर्थ्यमपश्यतः पूर्वपक्षः ।
तस्योपसंहृतवागादिकलापस्योच्चिक्रमिषतो विज्ञानात्मना ओक आयतनं हृदयं तस्याग्रं तस्य ज्वलनं यत्तत्प्रकाशितद्वारो विनिष्क्रमद्वारो विद्वान्मूर्धस्थानादेव निष्क्रामति नान्येभ्यश्चक्षुरादिस्थानेभ्यः ।
कुतःविद्यासामर्थाथार्दविद्यासामर्थ्यात् ।
उत्कृष्टस्थानप्रतिलम्भाय हि हार्दविद्योपदेशः ।
मूर्धस्थानादनिष्क्रमणे च नोत्कृष्टदेशप्राप्तिः ।
अथ स्थानान्तरेभ्योऽप्युत्क्रामन्कस्माल्लोकमुत्कृष्टं न प्राप्नोतीत्यत आह
तच्छेषगत्यनुस्मृतियोगाच्च ।
हार्दविद्याशेषभूता हि मूर्धन्या नाडी गत्यै उपदिष्टा ।
तदनुशीलनेन खल्वयं जीवो हार्देन सूपासितेन ब्रह्मणानुगृहीतस्तस्यानुस्मरंस्तद्भावमापन्नो मूर्धन्ययैव शताधिकया नाड्या निष्क्रामति ।
हृदयादुद्गता हि ब्रह्मनाडी भास्वरा तालुमूलं भित्त्वा मूर्धानमेत्य रश्मिभिरेकीभूता आदित्यमण्डलमनुप्रविष्टा तामनुशीलयतस्तयैवान्तकाले निर्गमनं भवतीति ॥१७॥





____________________________________________________________________________________________


४,२.१०.१८


रश्म्यनुसारी । ब्रह्मसूत्र ४,२.१८ ।
रात्रावहनि चाविशेषेण रश्म्यनुसारी सन्नादित्यमण्डलं प्राप्नोतीति सिद्धान्तपक्षप्रतिज्ञा ॥१८॥



____________________________________________________________________________________________


४,२.१०.१९


पूर्वपक्षमाशङ्कते सूत्रावयवेन

निशि नेति चेन् । ब्रह्मसूत्र ४,२.१९ ।
सूत्रावयवान्तरेण निराकरोति
न सम्बन्धस्य यावद्देहभावित्वाद्दर्शयति च । ब्रह्मसूत्र ४,२.१९ ।
यावद्देहभावि हि शिराकिरणसंपर्कः प्रमाणान्तरात्प्रतीयते ।
दर्शयति चैतमर्थं श्रुतिरप्यशेषेण ।
अमुष्मादादित्यात्प्रतायन्ते रश्मयस्त आसु नाडीषु सृप्ता भवन्ति य आभ्यो नाडीभ्यः प्रतायन्ते अविस्तार्यन्ते ते रश्मयोऽमुष्मिन्नादित्ये सृप्ताः ।
प्रतापादिकार्यदर्शनादिति ।
आदिग्रहणेन चन्द्रापः संगृह्यन्ते ।
चन्द्रमसा खल्वम्मयेन संबध्यमानानां सूरीणां भासां चन्द्रिकात्वम् ।
तस्मादप्यस्ति निशि सौर्यरश्मिप्रचार इति ।
ये त्याहुःस यावत्क्षिप्येन्मनस्तावदादित्यं गच्छेदिति निरपेक्षश्रवणाद्रात्रौ प्रेते नास्ति रश्म्यपेक्षेति ।
तान्प्रत्याह
यदि च रात्रौ प्रेत इति ।
नह्येतद्विशिष्याधीयतेऽध्येतारः ।
ये तु मन्यन्ते विद्वानपि रात्रिप्रायणापराधेन नोर्ध्वमाक्रमत इति तान्प्रत्याह
अथ तु विद्वानपीति ।
नित्यवत्फलसंबन्धेन विहिता विद्या न पाक्षिकफला युक्तेति ।
ये तु रात्रौ प्रेतस्य विदुषोऽहरपेक्षां सूर्यमण्डलप्राप्तिराचक्षते तन्मतमाशङ्क्याह
अथापि रात्राविति ।
यावत्तावदुपबन्धेनानपेक्षा गतिः श्रुता ।
न चापेक्षा शक्यावगमा उपबन्धविरोधादिति ॥१९॥





____________________________________________________________________________________________


४,२.११.२०


अतश्चायनेऽपि दक्षिणे । ब्रह्मसूत्र ४,२.२० ।
अत एवेत्युक्तहेतुपरामर्श इत्याह
अत एव चोदीक्षानुपपत्तेरिति ।
पूर्वपक्षबीजमाह
उत्तरायणमरणप्राशस्त्य इति ।
अपनोदमाह
प्राशस्त्यप्रसिद्धिरिति ।
अतःपदपरामृष्टहेतुबलादविदुषो मरणं प्रशस्तमुत्तरायणे विदुषस्तूभयत्राप्यविशेषो विद्यासामर्थ्यादिति ।
विदुषोऽपि च भीष्मस्योत्तरायणप्रतीक्षणमविदुष आचारं ग्राहयतिऽयद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनःऽइति न्यायात् ।
आपूर्यमाणपक्षादित्याद्या च श्रुतिर्न कालविशेषप्रतिपत्त्यर्था, अपि त्वातिवाहिकीर्देवताः प्रतिपादयतीति वक्ष्यति ।
तस्मादविरोधः ॥२०॥




____________________________________________________________________________________________


४,२.११.२१



सूत्रान्तरावतरणाय चोदयति
ननु च यत्र काले त्विति ।
काल एवात्र प्राधान्येनोच्यते न त्वातिवाहिकी देवतेत्यर्थः ।

योगिनः प्रति च स्मर्येते स्मार्ते चैते । ब्रह्मसूत्र ४,२.२१ ।

स्मार्तीमुपासनां प्रत्ययं स्मार्तः कालभेदविनियोगः प्रत्यासत्तेः न तु श्रौतीं प्रतीत्यर्थः ।
अत्र यदि स्मृतौ कालभेदविधिः श्रुतौ चाग्निज्योतिरादिविधिस्तत्राग्न्यादीनामातिवाहिकतया विषयव्यवस्थया विरोधाभाव उक्तः ।
अथ तु प्रत्यभिज्ञानं तथापि यत्र काल इत्यत्रापि कालाभिधानद्वारेणातिवाहिक्य एव देवता उक्ता इत्यविरोध एवेति ॥२१॥



इति श्रीवाचस्पतिमिश्रविरचिते शारीरकभाष्यविभागे भामत्यां चतुर्थस्याध्यायस्य द्वितीयः पादः ॥२ ॥ ॥



____________________________________________________________________________________________
____________________________________________________________________________________________




चतुर्थेऽध्याये तृतीयः पादः




____________________________________________________________________________________________


४,३.१.१


अर्चिरादिना तत्प्रथितेः । ब्रह्मसूत्र ४,३.१ ।

भिन्नप्रकरणस्थत्वाद्भिन्नोपासनयोगतः ।
अनपेक्षा मिथो मार्गस्त्वरातोऽवधृतेरपि ॥
गन्तव्यमेकं नगरं प्रति वक्रेणाध्वना गतिमपेक्ष्य ऋजुनाध्वना गतिस्त्वरावती कल्प्यते ।
एकमार्गत्वे तु कमपरमपेक्ष्य त्वरा स्यात् ।
अथ तैरेव रश्मिभिरित्यवधारणं नोपपद्यते पथ्यन्तरस्य निवर्तनीयस्याभावात्तस्मात्परानपेक्षा एवैते पन्थान एकब्रह्मलोकप्राप्त्युपाया व्रीहियवाविव विकल्पेरन्निति प्राप्ते प्रत्युच्यतेएकत्वेऽपि पथोऽनेकपर्वसंगमसंभवात् ।
गौरवान्नैव नानात्वं प्रत्यभिज्ञानलिङ्गतः ॥
सपर्वा हि पन्था नगरादिकमेकं गन्तव्यं प्रापयति नाभागः ।
तत्र किमेते रश्म्यहर्वायुसूर्यादयोऽध्वनः पर्वाणः सन्तोऽध्वनैकेन युज्यन्ते, आहो यथायथमध्वानमपि भिन्दन्तीति संदेहेऽभेदेऽप्यध्वनो भागभेदोपपत्तेर्न भागिभेदकल्पनोचिता, गौरवप्रसङ्गात् ।
एकदेशप्रत्यभिज्ञानाच्च विशेषणविशेष्यभावोपपत्तेर्नानेकाध्वकल्पना ।
अथैतैरेव रश्मिभिरित्यवधारणं न तावदर्थान्तरनिवृत्त्यर्थं तत्प्रापकैरेव वाक्यान्तरैर्विरोधात्, तस्मादन्यानपेक्षामस्यावधारयतीति वक्तव्यम् ।
न चैकं वाक्यमप्राप्तमध्वानं प्रापयति तस्य चानपेक्षतां प्रतिपादयतीत्यर्थद्वयाय पर्याप्तं, तस्माद्विधिसामर्थ्यप्राप्तमयोगव्यवच्छेदमेवकारोऽनुवदतीति युक्तम् ।
त्वरावचनं चेति ।
न खल्वेकस्मिन्नेव गन्तव्ये पथिभेदमपेक्ष्य त्वरावकल्प्यते किन्तु गन्तव्यभेदादपि तदुपपत्तिः ।
यथा कश्मीरेभ्यो मथुरां क्षिप्रं याति चैत्र इति तथेहाप्यन्यतः कुतश्चिद्गन्तव्यादनेनोपायेन ब्रह्मलोकं क्षिप्रं प्रयातीति ।
भूयांस्यर्चिरादिश्रुतौ मार्गपर्वाणीति ।
अयमर्थःेकत्वात्प्राप्तव्यस्य ब्रह्मलोकस्याल्पपर्वणा मार्गेण तत्प्राप्तौ संभवन्त्यां बहुमार्गोपदेशो व्यर्थः प्रसज्यते ।
तत्र चेतनस्याप्रवृत्तेः ।
तस्माद्भूयसां पर्वणामविरोधेनाल्पानां तदनुप्रवेश एव युक्त इति ॥१॥





____________________________________________________________________________________________


४,३.२.२


वायुमब्दादविशेषविशेषाभ्याम् । ब्रह्मसूत्र ४,३.२ ।
ऽश्रुत्याद्यभावे पाठस्य क्रमं प्रति नियन्तृता ।
ऊर्ध्वाक्रमणमात्रे च श्रुता वायोर्निमित्तता ॥
ऽऽस वायुमागच्छति तस्मै स तत्र विजिहीते यथा रथचक्रस्य खं तेन स ऊर्ध्वमाक्रमतेऽइति हि वायुनिमित्तमूर्ध्वाक्रमणं श्रुतं न तु वायुनिमित्तमादित्यगमनंऽस आदित्यं गच्छतिऽइत्यादित्यगमनमात्रप्रतीतेः ।
नच तेनेत्यनन्तरश्रुतोर्ध्वीक्रमणक्रियासंबन्धि निराकाङ्क्षमादित्यगमनक्रिययापि संबन्द्धुमर्हति ।
न चादित्यागमनस्य तेनेति विना काचिदनुपपत्तिर्येनान्यसंबद्धमप्यनुषज्यते ।
तत्राग्निलोकमागच्छति स वायुलोकमित्यादिसंदर्भगतस्य पाठस्य क्वचिन्नियामकत्वेन कॢप्तसामर्थ्यादग्निवायुवरुणक्रमनियामकश्रुत्याद्यभावादिति प्राप्ते प्रत्युच्यतेऊर्ध्वशब्दो न लोकस्य कस्यचित्प्रतिपादकः ।
तद्भेदापेक्षया युक्तमादित्येन विशेषणम् ॥
भवेदेतदेवं यद्यूर्ध्वशब्दात्कश्चिल्लोकभेदः प्रतीयेत स तूपरिदेशमात्रवाची लोकभेदाद्विनापर्यवस्यंल्लोकभेदवाचिनादित्यपदेनादित्ये व्यवस्थाप्यते ।
तथा चादित्यलोकगमनमेव वायुनिमित्तमिति श्रौतक्रमनियमे, पाठः पदार्थमात्रप्रदर्शनार्थो न तु क्रमाय प्रभवति श्रुतिविरोधादिति सिद्धम् ।
वाजसनेयिनां संवत्सरलोको न पठ्यते छान्दोग्यानां देवलोको न पठ्यते तत्रोभयानुरोधादुभयपाठे माससंबन्धात्संवत्सरः पूर्वः पश्चिमो देवलोकः ।
नहि मासो देवलोकेन संबध्यते किन्तु संवत्सरेण ।
तस्मात्तयोः परस्परसंबन्धान्मासारभ्यत्वाच्च संवत्सरस्य मासानन्तर्ये स्थिते देवलोकः संवत्सरस्य परस्ताद्भवति ।
तत्रादित्यानन्तर्याय वायोः संवत्सरादित्यस्य स्थाने देवलोकाद्वायुमिति पठितव्यम् ।
वायुमब्दादिति तु सूत्रमत्रापि वाचकमेव ।
तथापि संवत्सरात्पराञ्चमादित्यादर्वाञ्चं वायुमभिसंभवन्तीति छान्दोग्यपाठमात्रापेक्षयोक्तं, तदिदमाहवायुमब्दादिति त्विति ॥२॥





____________________________________________________________________________________________


४,३.३.३


तडितोऽधि वरुणः संबन्धात् । ब्रह्मसूत्र ४,३.३ ।
तडिदन्तेऽर्चिराद्येऽध्वन्यप्पतिस्तडितः परः ।
तत्संबन्धात्तथेन्द्रादिरप्पतेः पर ईष्यते ॥
आगन्तूनां निवेशोऽन्ते स्थानाभावात्प्रसाधितः ।
तथा चेन्द्रादिरागन्तुः पठ्यते चाप्पतेः परः ॥३॥





____________________________________________________________________________________________


४,३.४.४


आतिवाहिकास्तल्लिङ्गात् । ब्रह्मसूत्र ४,३.४ ।
मार्गचिह्नसरूपत्वाच्चिह्नान्येवार्चिरादयः ।
भर्तृभोगभुवो वा स्युर्लोकत्वान्नातिवाहिकाः ॥
अर्चिरादिशब्दा हि ज्वलनादावचेतनेषु निरूढवृत्तयो लोके ।
न चैषां त्वावधिकानामिव नियमवती संवहनस्वरूपा स्वतनन्त्रक्रिया बुद्धिपूर्वा संभवत्यचेतनानाम् ।
तस्माल्लोकशब्दवाच्यत्वाद्भर्तुर्जीवात्मनो भोगभूमय एवेति मन्यामहे ।
अपि चार्चिष इत्यस्मादपादानां प्रतीयते ।
न हेतुर्नागुणे हेतौ पञ्चमी दृश्यते क्वचित् ॥
जाड्याद्बद्ध इत्यादिषु गुणवचनेषु जाड्यादिषु हेतुपञ्चमी दृष्टा ।
न चार्चिरादिशब्दा गुणवाचिनो येन पञ्चम्या तेषां वहनं प्रति हेतुत्वमुच्यते ।
अपादानत्वं चाचेतनेष्वप्यस्तीति नातिवाहिकाः ।
न चामानवस्य पुरुषस्य विद्युदादिषु वोढृत्वदर्शनादर्चिरादीनामपि वोढृत्वमुन्नेयम् ।
यावद्वचनं हि वाचनिकं न तदवाच्ये संचारयितुमुचितम् ।
अपि चार्चिरादीनां वोढृत्वे विद्युदादीनामपि वोढृत्वान्नामानवः पुरुषो वोढा श्रूयेत ।
यतः श्रूयते ततोऽवगच्छामो विद्युदादिवन्नार्चिरादीनां वोढृत्वमिति ।
तस्माद्भोगभूमय एवार्चिरादयो नातिवाहिका इति प्राप्ते प्रत्युच्यतेसंपिण्डकरणानां हि सूक्ष्मदेहवतां गतौ ।
न स्वातन्त्र्यं न चाग्न्याद्या नेतारोऽचेतनास्तु ते ॥
ईदृशी हि नियमवती गतिः स्वयं वा प्रेक्षावतोऽप्रेक्षावतो वा प्रेक्षावत्प्रयुक्तस्य ।
न तावद्विगलितस्थूलकलेवराः सूक्ष्मदेहवन्तः संपिण्डितकरणग्रामा उत्क्रान्तिमन्तो जीवात्मानो मत्तमूर्च्छिचवत्स्वयं प्रेक्षावन्तो यदेवं स्वातन्त्र्येण गच्छेयुस्तद्यद्यर्चिरादयोऽपि मार्गचिह्नानि वा शमीकारस्करादिवद्भोगभूमयो वा सुमेरुशैलेलावृत्तादिवदुभयथाप्यचेतनतया न नयनं प्रत्येषामस्ति स्वातन्त्र्यम् ।
न चैतेभ्योऽन्यस्य चेतनस्य नेतुः कल्पना सति श्रुतानां चैतन्यसंभवे ।
नच परमेश्वर एवास्तु नेतेति युक्तम् ।
तस्यात्यन्तसाधारणतया लोकपालग्रहादीनामकिञ्चित्करत्वात् ।
तस्माद्व्यवस्थित एव परमेश्वरस्य सर्वाध्यक्षत्वे यथा यथात्वं लोकपालादीनां स्वातन्त्र्यमेवमिहाप्यर्चिरादीनामातिवाहिकत्वमेव दर्शनानुसाराच्छब्दार्थ इति युक्तम् ।
इममेवार्थममानवपुरुषातिवाहनलक्षणं लिङ्गमुपोद्वलयतीत्युक्तम् ।
अनवस्थितत्वादर्चिरादीनामिति ।
अवस्थितं हि मार्गचिह्नं भवत्यव्यभिचारान्नानवस्थितं व्यभिचारादिति ।
अर्चिष इति च हेतौ पञ्चमी नापादाने ।
गुणत्वं चाश्रिततया ।
नच वैशेषिकपरिभाषया नियम आस्थेयो लोकविरोधात् ।
अपिच तेऽर्चिरभिसंभवन्तीति संबन्धमात्रमुक्तमिति ।
सामान्यवचने शब्दे विशेषाकाङ्क्षिणि स्फुटम् ।
यद्विशेषपदं तेन तत्सामान्यं नियम्यते ॥
यथा ब्राह्मणमानय भोजयितव्य इति तद्विशेषापेक्षायां यदा तत्संनिधावुपनिपतति पदं कण्ठादि(?) तदा तेनैतन्नियम्यते एवमिहापीति ॥४ ॥




____________________________________________________________________________________________


४,३.४.५


उभयव्यामोहात्तत्सिद्धेः । ब्रह्मसूत्र ४,३.५ ।




____________________________________________________________________________________________


४,३.४.६


वैद्युतेनैव ततस्तच्छ्रुतेः । ब्रह्मसूत्र ४,३.६ ।
विद्युल्लोकमागतोऽमानवः पुरुषो वैद्युतस्तेनैव न तु वरुणादिना स्वयमुह्यते ।
तच्छ्रुतेस्तस्यैव स्वयं वोढृत्वश्रुतेः ।
वरुणादयस्तु तत्साहायके वर्तमाना वोढारो भवन्तीति च वैषम्यं न वोढृत्वे इति सर्वमवदातम् ॥६॥

पाठक्रमादर्थक्रमो बलवानितियथार्थक्रमं पठ्यन्ते सूत्राणिपरं जैमिनिर्मुख्यत्वात् ।
स एतान् ब्रह्म गमयतीति विचिकित्स्यते ।
किं परं ब्रह्म गमयत्याहोस्विदपरं कार्यं ब्रह्मेति ।
मुख्यत्वादमृतप्राप्तेः परप्रकरणादपि ।
गन्तव्यं जैमिनिर्मेने परमेवार्चिरादिना ॥
ब्रह्म गमयतीत्यत्र हि नपुंसकं ब्रह्मपदं परस्मिन्नेव ब्रह्मणि निरूढत्वादनपेक्षतया मुख्यमिति सति संभवे न कार्ये ब्रह्मणि गुणकल्पनया व्याख्यातुमुचितम् ।
अपि चामृतत्वफलावर्तिर्न कार्यब्रह्मप्राप्तौ युज्यते ।
तस्य कार्यत्वेन मरणधर्मवत्त्वात् ।
किञ्च तत्र तत्र परमेव ब्रह्म प्रकृत्य प्रजापतिसद्मप्रतिपत्त्यादय उच्यमाना नापरब्रह्मविषया भवितुमर्हन्ति प्रकरणविरोधात् ।
न च परस्मिन्त्सर्वगते गतिर्नोपपद्यते प्राप्तत्वादिति युक्तम् ।
प्राप्तेपि हि प्राप्तिफला गतिर्दृश्यते ।
यथैकस्मिन्न्यग्रोधपादपे मूलादग्रमग्राच्च मूलं गच्छतः शाखामृगस्यैकेनैव न्यग्रोधपादपेन निरन्तरं संयोगविभागा भवन्ति ।
न चैते तदवयवविषयी न तु न्यग्रोधविषया इति साम्प्रतं तथा सति न शाखामृगो न्यग्रोधेन युज्यते ।
न्यग्रोधावयवस्य तदवयवयोगात् ।
एवं दृश्यमानानामपि तदवयवानां न योगस्तदवयवयोगात्तदन्तेन क्रमेण तदवयवेषु परमाणुषु व्यवतिष्ठते ।
ते चातीन्द्रिया इति कस्मिन्नु नामायमनुभवपद्धतिमध्यास्तां संयोगतपस्वी ।
तस्मादकामेनाप्यनुभवानुरोधेन प्राप्त एव प्राप्तिफलत्वावगतिरेषितव्या ।
तद्ब्रह्म प्राप्तमपि प्राप्तिफलायावगतेगोचरो भविष्यति ।
ब्रह्मलोकेष्विति च बहुवचनमेकस्मिन्नपि प्रयोगसाधुतामात्रेण गमयितव्यम् ।
लोकशब्दश्चालोकने प्रकाशे वर्तयितव्यो न तु सन्निवेशवति देशविशेषे ।
तस्मात्परब्रह्मप्राप्त्यर्थं गत्युपदेशसामर्थ्यादयमर्थो भवति ।
यथा विद्याकर्मवशादर्चिरादिना गतस्य सत्यलोकमतिक्रम्य परं जगत्कारणं ब्रह्म लोकमालोकं स्वयं प्रकाशकमिति यावत् ।
प्राप्तस्य तत्रैव लिङ्गं प्रलीयते न तु गतिमेवंभूतां विना लिङ्गप्रविलय इति ।
अत एव श्रुतिः पुरुषमाणाः पुरुषं प्राप्यास्तं गच्छन्ति ।
तदनेनाभिसन्धिना परं ब्रह्म गमयत्यमानव इति मेने जैमिनिराचार्यः ।




____________________________________________________________________________________________


४,३.५.७


कार्यं बादरिरस्य गत्युपपत्तेः । ब्रह्मसूत्र ४,३.७ ।

तत्त्वदर्शीं बादरिर्ददर्श कार्यमप्राप्तपूर्वत्वादप्राप्तप्रापणी गतिः ।
प्रापयेद्ब्रह्म न परं प्राप्तत्वाज्जगदात्मकम् ॥
तत्त्वमसिवाक्यार्थसाक्षात्कारात्प्राक्किल जीवात्माविद्याकर्मवासनाद्युपाध्यवच्छेदाद्वस्तुतोऽनवच्छिन्नोऽवच्छिन्नमिवाभिन्नोऽपि लोकेभ्यो भिन्नमिवात्मानमभिमन्यमानः स्वरूपादन्यानप्राप्तानर्चिरादींल्लोकान्गत्याप्नोतीति युज्यते ।
अद्वैतब्रह्मतत्त्वसाक्षात्कारवतस्तु विगलितनिखिलप्रपञ्चावभासविभ्रमस्य न गन्तव्यं न गतिर्न गमयितार इति किं केन संगतम् ।
तस्मादनिदर्शनं न्यग्रोधसंयोगविभागा न्ययग्रोधवानरतद्गतितत्संयोगविभागानां मिथो भेदात् ।
नच तत्रापि प्राप्तप्राप्तिः कर्मजेन हि विभागेन निरुद्धायां पूर्वप्राप्तावप्राप्तस्यैवोत्तरप्राप्तेरुत्पत्तेः ।
एतदपि वस्तुतो विचारसहतया सर्वमनिर्वचनीयं विजृम्भितमविद्यायाः समुत्पन्नाद्वैततत्त्वसाक्षात्कारो न विद्वानभिमन्यते ।
विदुषोऽपि देहपातात्पूर्वं स्थितप्रज्ञस्य यथाभासमात्रेण सांसारिकधर्मानुवृत्तिरभ्युपेयते एवमालिङ्गशरीरपाताद्विदुषस्तद्धर्मानुवृत्तिः ।

तथाचाप्राप्तप्राप्तेर्गत्युपपत्तिस्तद्देशप्राप्तौ च लिङ्गदेहनिवृत्तेर्मुक्तिः श्रुतिप्रामाण्यादिति चेत् ।
न ।
परविद्यावत उत्क्रान्तिप्रतिषेधात्ऽब्रह्मैव सन्ब्रह्माप्येति न तस्मात्प्राणा उत्क्रामन्ति अत्रैव समवनीयन्तेऽइति ।
यथा विद्याब्रह्मप्राप्त्योः समानकालता श्रूयतेऽब्रह्म वेद ब्रह्मैव भवतिऽऽआनन्दं ब्रह्मणो विद्वान्न बिभेतिऽऽतदात्मानमेव वेदाहं ब्रह्मास्मीति तत्सर्वमभवत्ऽऽतत्र को मोहः कः शोक एकत्वमनुपश्यतःऽइति पौर्वापर्याश्रवणात्परविद्यावतो मुक्तिं प्रति नोपायान्तरापेक्षेति लक्ष्यतेऽभिसंधिः श्रुतेः ।
उपपन्नं चैतत् ।
न खलु ब्रह्मैवेदं विश्वमहं ब्रह्मास्मीति परिभावनाभुवा जीवात्मनो ब्रह्मभावसाक्षात्कारेणोन्मूलितायामनवयवेनाविद्यायामस्ति गन्तव्यगन्तृविभागो विदुषस्तदभावे कथमयमर्चिरादिमार्गे प्रवर्तेत ।
नच छायामात्रेणापि सांसारिकधर्मानुवृत्तिस्तत्र प्रवृत्त्यङ्गं यादृच्छिकप्रवृत्तेः ।
श्रद्धाविहीनस्य दृष्टार्थानि कर्माणि फलन्ति न फलन्ति च ।
अदृष्टार्थानां तु फले का कथेत्युक्तं प्रथमसूत्रे ।
न चार्चिरादिमार्गभावनायाः परब्रह्मप्राप्त्यर्थमविदुषः प्रत्युपदेशस्तथा च कर्मान्तरेष्विव नित्यादिषु तत्रापि स्यात्तस्य प्रवृत्तिरपि साम्प्रतम् ।
विकल्पासहत्वात् ।
किमियं परविद्यानपेक्षा परब्रह्मप्राप्तिसाधनं तदपेक्षा वा ।
न तावदनपेक्षाऽतमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यतेऽयनायऽइति परब्रह्मविज्ञानादन्यस्याध्वनः साक्षात्प्रतिषेधात् ।
परविद्यापेक्षत्वे तु मार्गभावनायाः किमियं विद्याकार्ये मार्गभावना साहायकमाचरत्यथ विद्योत्पादे ।
न तावद्विद्याकार्ये तया सह तस्या द्वैताद्वैतगोचरतया मिथो विरोधेन सहासंभवात् ।
नापि यज्ञादिवद्विद्योत्पादे साक्षात्ब्रह्मप्राप्त्युपायत्वश्रवणादेतान्ब्रह्म गमयतीति ।
यज्ञादेस्तु विविदिषासंयोगेन श्रवणाद्विद्योत्पादाङ्गत्वम् ।
तस्मादुपन्यस्तबहुश्रुत्यनुरोधादुपपत्तेश्च ब्रह्मशब्दोऽसंभवन्मुख्यवृत्तिर्ब्रह्मसामीप्यादपरब्रह्मणि लक्षणया नेतव्यः ।
तथाच लोकेष्विति बहुवचनोपपत्तेः कार्यब्रह्मलोकस्य ।
परस्य त्वनवयवतया तद्द्वारेणाप्यनुपपत्तेः ।
लोकत्वं चेलावृत्तादिवत्सन्निवेशविशेषवति भोगभूमौ निरूढं न कथञ्चिद्योगेन प्रकाशे व्याख्यातं भवति ।
तस्मात्साधुदर्शी स भगवान्बादरिरसाधुदर्शी जैमिनिरिति सिद्धम् ।
अप्रामाणिकानां बहुप्रलापाः सर्वगतस्य द्रव्यस्य गुणाः सर्वगता एव चैतन्यानन्दादयश्च गुणिनः परमात्मनो भेदाभेदवन्तो गुणा इत्यादयो दूषणायानुभाष्यमाणा अप्यप्रामाणिकत्वमावहन्त्यस्माकमित्युपेक्षिताः ।
ग्रन्थयोजना तुप्रत्यगात्मत्वाच्च गन्तॄणां प्रतिप्रति अञ्चति गच्छतीति प्रत्यक्प्रतिभाववृत्ति ब्रह्म तदात्मत्वाद्गन्तॄणां जीवात्मनामिति ।
गौणी त्वन्यत्रेति ।
यौगिक्यपि हि योगगुणापेक्षया गौण्येव ।
विशुद्धोपाधिसंबन्धमिति ।
मनोमयत्वादयः कल्पनाः कार्याः ।
कार्यत्वादविशुद्धा अपि श्रेयोहेतुत्वाद्विशुद्धाः ।
प्रतिसंचरो महाप्रलयः प्रतिपत्त्यभिसंधिः प्रतिपत्तिर्गतिः पदेर्गत्यर्थत्वात् ।
अभिसंधिस्तात्पर्यम् ।
यस्य ब्रह्मणो नामाभिधानं यश इति ।
पूर्ववाक्यविच्छेदेनेति ।
श्रुतिवाक्ये बलीयसी प्रकरणात् ।
सगुणेऽपि च ब्रह्मणीति ।
प्रशंसार्थमित्यर्थः ।
चोदयतिननु गतस्यापि पारमार्थिकी गन्तव्यता देशान्तरविशिष्टस्येति ।
न्यग्रोधवानरदृष्टान्त उपपादितः ।
परिहरतिन ।
प्रतिषिद्धसर्वविशेषत्वाद्ब्रह्मण इति ।
अयमभिसंधिःयथातथा न्यग्रोधावयवी परिणामवानुपजनापायधर्मभिः कर्मजैः संयोगविभागैः संयुज्यतामयं पुनः परमात्मा निरस्तनिखिलभेदप्रपञ्चः कूटस्थनित्यो न न्यग्रोधवत्संयोगविभागभाग्भवितुमर्हति ।
काल्पनिकसंयोगविभागस्तु काल्पनिकस्यैव कार्यब्रह्मलोकस्योपपद्यते न परस्य ।
शङ्कतेजगदुत्पत्तिस्थितिप्रलयहेतुत्वश्रुतेरिति ।
नह्युत्पत्त्यादिहेतुभावोऽपरिणामिनः संभवति तस्मात्परिणामीति ।
तथा च भाविकमस्योपपद्यते गन्तव्यत्वमित्यर्थः ।
निराकरोतिन ।
विशेषनिराकरणश्रुतिनामिति ।
विशेषनिराकरणं समस्तशोकादिदुःखशमनतया पुरुषार्थफलवत् ।
अफलं तूत्पत्त्यादिविधानम् ।
तस्मात्फलवतः संनिधावाम्नायमानं तदर्थमेवोच्यत इत्युपपत्तिः ।
तद्विजिज्ञासस्वेति च श्रुतिः ।
तस्माच्छ्रुत्युपपत्तिभ्यां निरस्तसमस्तविशेषब्रह्मप्रतिपादनपरोऽयमाम्नायो न तूत्पत्त्यादिप्रतिपादनपरः ।
तस्मान्न गतिस्तात्त्विकी ।
अपि चेयं गतिर्न विचारं सहत इत्याहगतिकल्पनायां चेति ।
अन्यानन्यत्वीश्रयाववयवविकारपक्षौ ।
अन्यो वात्यन्तम् ।
अथ कस्मादात्यन्तिकमनन्यत्वं न कल्प्यत इत्यत आहअत्यन्ततादात्म्य इति ।
मृदात्मतया हि स्वभावेन घटादयो भावास्तद्विकारा व्याप्ताः, तदभावे न भवन्ति शिंशपेव वृक्षत्वाभाव इति ।
विकारावयवपक्षयोश्च तद्वतः सह विकारावयवैःस्थिरत्वादचलत्वाद्ब्रह्मणः संसारलक्षणं गमनं विकारावयवयेरनुपपन्नम् ।
नहि स्थिरात्मकमस्थिरं भवति ।
अन्यानन्यत्वे अपि चैकस्य विरोधादसंभवन्ती इति भावः ।
अथान्य एव जीवो ब्रह्मणः ।
तथाच ब्रह्मण्यसंसरत्यपि जीवस्य संसारः कल्प्यत इति ।
एतद्विकल्प्य दूषयतिसोऽणुरिति ।
मध्यमपरिमाणत्व इति ।
मध्यमपरिमाणानां घटादीनामनित्यत्वदर्शनात् ।
न ।
मुख्यैकत्वेति ।
भेदाभेदयोर्विरोधिनोरेकत्रासंभवाद्बुद्धिव्यपदेशभेदादर्थभेदः ।
अयुतसिद्धतयोपचारेणाभिन्नमुच्यत इत्यमुख्यमस्यैकत्वमित्यर्थः ।
अपिच जीवानां ब्रह्मावयवत्वपरिणामात्यन्तभेदपक्षेषु तात्त्विकी संसारितेति मुक्तौ स्वभावहानाज्जीवानां विनाशप्रसङ्गः ।
ब्रह्मविवर्तत्वे तु ब्रह्मैवैषां स्वभावः प्रतिबिम्बानामिव बिम्बं तच्चाविनाशीति न जीवविनाश इत्याहसर्वेष्वेतेष्विति ।
मतान्तरमुपन्यस्यति दूषयितुम्यत्तु कैश्चिज्जल्प्यते विनैव ब्रह्मज्ञानंनित्यनैमित्तिकानीति ।
यथा हि कफनिमित्तो ज्वर उपात्तस्य कफस्य विशेषणादिभिः प्रक्षये कफान्तरोत्पत्तिनिमित्तदध्यादिवर्जने प्रशान्तोऽपि न पुनर्भवति ।
एवं कर्मनिमित्तो बन्ध उपात्तानां कर्मणामुपभोगात्प्रक्षये प्रशाम्यति ।
कर्मान्तरामणां च बन्धहेतूनामननुष्ठानात्कारणाभावे कार्यानुपपत्तेर्बन्धाभावात्स्वभावसिद्धो मोक्ष आरोग्यमिव ।
उपात्तदुरितनिबर्हणाय च नित्यनैमित्तिककर्मानुष्ठानाद्दुरितनिमित्तप्रत्यवायो न भवति ।
प्रत्यवायानुत्पत्तौ च स्वस्थस्वान्तो न निषिद्धान्याचरेदिति ।
तदेतद्दूषयतितदसत् ।
प्रमाणाभावादिति ।
शास्त्रं खल्वस्मिन्प्रमाणं तच्च मोक्षमाणस्यात्मज्ञानमेवोपदिशति नतूक्तमाचारम् ।
न चात्रोपपत्तिः प्रभवति संसारस्यानादितया कर्माशयस्याप्यसंख्येयस्यानियतविपाककालस्य भोगेनोच्छेत्तुमशक्यत्वादित्याहन चैतत्तर्कयितुमपीति ।
चोदयतिस्यादेतदिति ।
नित्येति ।
परिहरतितन्न विरोधाभावादिति ।
यदि हि नित्यनैमित्तिकानि कर्माणि सुकृतमपि दुष्कृतमिव निर्वहेयुस्ततः काम्यकर्मोपदेशा दत्तजलाञ्जलयः प्रसज्येरन् ।
नह्यस्ति कश्चिच्चातुर्वर्ण्ये चातुराश्रम्ये वा यो न नित्यनैमित्तिकानि कर्माणि करोति ।
तस्मान्नैषां सुकृतविरोधितेति ।
अभ्युच्चयमात्रमाहनच नित्यनैमित्तिकानुष्ठानादिति ।
न चासति सम्यग्दर्शने इति ।
सम्यग्दर्शी हि विरक्तः काम्यनिषिद्धे वर्जयन्नपि प्रमादादुपनिपतिते तेनैवसम्यग्दर्शनेन क्षपयति ।
ज्ञानपरिपाके च न करोत्येव अज्ञस्तु निपुणोऽपि प्रमादात्करोति ।
कृते च न क्षपयितुं क्षमत इति विशेषः ।
न चानभ्युपगम्यमाने ज्ञानगम्ये ब्रह्मात्मत्व इति ।
कर्तृत्वभोक्तृत्वे समाक्षिप्तक्रियाभोगे ते चेदात्मनः स्वभावावधारिते न त्वारोपिते ततो न शक्यावपनेतुम् ।
नहि स्वभावाद्भावोऽवरोपयितुं शक्यो भावस्य विनाशप्रसङ्गात् ।
न च भोगोऽपि सत्स्वभावः शक्योऽसत्कर्तुं, नो खलु नीलमनीलं शक्यं शक्रेणापि कर्तुं तदिदमुक्तंस्वभावस्यापरिहार्यत्वादिति ।
समारोपितस्य त्वनिर्वचनीयस्य तत्स्वभावस्य शक्यस्तत्त्वज्ञानेनावरोपः कर्तुं सर्पस्येव रज्जुतत्त्वज्ञानेनेति भावः ।
भावमिममविद्वान्परिचोदयतिस्यादेतत् ।
कर्तृत्वभोक्तृत्वकार्यमिति ।
अप्रकाशितभावो यथोक्तमेव समाधत्तेतच्च नेति ।
कर्तृत्वभोक्तृत्वयोर्निमित्तसंबन्धस्य च शक्तिद्वारेण नित्यत्वाद्भविष्यति कदाचिदेषां समुदाचारो यतः सुखदुःखे भोज्येते इति संभावनातः कुतः कैवल्यनिश्चय इत्यर्थः ।
भूयोनिरस्तमपि मतिद्रढिम्ने पुनरुपन्यस्य दूषयतिपरस्मादनन्यत्वेऽपीति ।
शेषमतिरोहितार्थम् ॥७ ॥



____________________________________________________________________________________________


४,३.५.८१४


विशेषितत्वाच्च । ब्रह्मसूत्र ४,३.८ ।
सामीप्यात्तु तद्व्यपदेशः । ब्रह्मसूत्र ४,३.९ ।
कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् । ब्रह्मसूत्र ४,३.१० ।
स्मृतेश्च । ब्रह्मसूत्र ४,३.११ ।
परं जैमिनिर्मुख्यत्वात् । ब्रह्मसूत्र ४,३.१२ ।
दर्शनाच्च । ब्रह्मसूत्र ४,३.१३ ।
न च कार्ये प्रतिपत्त्यभिसंधिः । ब्रह्मसूत्र ४,३.१४ ।




____________________________________________________________________________________________


४,३.६.१५


अप्रतीकालम्बनान्नयतीति बादरायण उभयथा च दोषात्तत्क्रतुश्च । ब्रह्मसूत्र ४,३.१५ ।

अब्रह्मक्रतवो यान्ति यथा पञ्चाग्निविद्यया ।
ब्रह्मलोकं प्रयास्यन्ति प्रतीकोपासकास्तथा ॥
सन्ति हि मनो ब्रह्मेत्युपासीतेत्याद्याः प्रतीकविषया विद्याः ।
तद्वन्तोऽप्यर्चिरादिमार्गेण कार्यब्रह्मोपासका इव गन्तुमर्हन्तिऽअनियमः सर्वासाम्ऽइत्यविशेषेण विद्यान्तरेष्वपि गतेरवधारणात् ।
न चैषां परब्रह्मविदामिव गत्यसंभव इति ।
नच ब्रह्मक्रतव एव ब्रह्मलोकभाजो नातत्क्रतव इत्यप्येकान्तः ।
अतत्क्रतूनामपि पञ्चाग्निविदां तत्प्राप्तेः ।
न चैते न ब्रह्मक्रतवो मनो ब्रह्मेत्युपासीतेत्यादौ सर्वत्र ब्रह्मानुगमेन तत्क्रतुत्वस्यापि संभवात् ।
फलविशेषस्य ब्रह्मलोकप्राप्तावप्युपपत्तेः, तस्य सावयवतयोत्कर्षनिकर्षसंभवादिति प्राप्ते प्रत्युच्यते उत्तरोत्तरभूयस्त्वादब्रह्मक्रतुभावतः ।
प्रतीकोपासकान् ब्रह्मलोकं नामानवो नयेत् ॥
भवतु पञ्चाग्निविद्यायामब्रह्मक्रतूनामपि ब्रह्मलोकनयनं, वचनात् ।
किमिव हि वचनं न कुर्यात्नास्ति वचनस्यातिभार इह तु तदभावात् ।
ऽतं यथायथोपासते तदेव भवतिऽइति श्रुतेरौत्सर्गिक्यान्नासति विशेषवचनेऽपवादो युज्यते ।
नच प्रतीकोपासको ब्रह्मोपास्ते सत्यपि ब्रह्मेत्यनुगमे ।
किन्तु नामादिविशेषं ब्रह्मरूपतया ।
तथा खल्वयं नामादितन्त्रो न ब्रह्मतन्त्रः ।
आश्रयान्तरप्रत्ययस्याश्रयान्तरे प्रक्षेपः प्रतीक इति हि वृद्धाः ।
ब्रह्माश्रयश्च प्रत्ययो नामादिषु प्रक्षिप्त इति नामतन्त्रः ।
तस्मान्न तदुपासको ब्रह्मक्रतुः किन्तुनामादिक्रतुः ।
न च ब्रह्मक्रतुत्वे नामाद्युपासकानामविशेषादुत्तरोत्तरोत्कर्षः संभवी ।
नच ब्रह्मक्रतुस्तदवयवक्रतुर्येन तदवयवापेक्षयोत्कर्षो वर्ण्येत ।
तस्मात्प्रतीकालम्बनान्विदुषो वर्जयित्वा सर्वानन्यान्विकारालम्बनान्नयत्यमानवो ब्रह्मलोकम् ।
न ह्येवमुभयथाभाव उभयथार्थत्वे कांश्चित्प्रतीकालम्बनान्न नयति विकारलम्बनान्विदुषस्तु नयतीत्यभ्युपगमे कश्चिद्दोषोऽस्तिऽअनियमः सर्वासाम्ऽइत्यस्य न्यायस्येति सर्वमवदातम् ॥१५॥



____________________________________________________________________________________________


४,३.६.१६


विशेषं च दर्शयति । ब्रह्मसूत्र ४,३.१६ ।


इति श्रीवाचस्पतिमिश्रविरचिते भगवत्पादभाष्यविभागे भामत्यां चतुर्थस्याध्यायस्य तृतीयः पादः ॥३॥



____________________________________________________________________________________________
____________________________________________________________________________________________



चतुर्थेऽध्याये चतुर्थः पादः ।




____________________________________________________________________________________________


४,४.१.१


संपद्याविर्भावः स्वेन शब्दात् । ब्रह्मसूत्र ४,४.१ ।
प्रागभूतस्य निष्पत्तौ कर्तृत्वं न सतो यतः ।
फलत्वेन प्रसिद्धेश्च मुक्ते रूपान्तरोद्भवः ।
अभूतस्य घटादेर्भवनं निष्पत्तिर्न पुनरत्यन्तसतोऽसतो वा ।
न जातु गगनतत्कुसुमे निष्पद्येते ।
स्वरूपावस्थानं चेदात्मनो मुक्तिर्न सा निष्पद्येत, तस्य गगनवदत्यन्तसतः प्रागसत्त्वाभावात् ।
न चास्य बन्धाभावो निष्पद्यते, तस्य तुच्छस्वभावस्य कार्यत्वेनातुच्छत्वप्रसङ्गात् ।
फलत्वप्रसिद्धेश्च मोक्षस्याकार्यस्य फलत्वानवकल्पनादागन्तुना रूपेण केनचिदुत्पत्तौ स्वेनेति प्राप्तमनूद्यत इति प्राप्तेऽभिधीयतेसंभवत्यर्थवत्त्वे हि नानर्थक्यमुपेयते ।
बन्धस्य सदसत्त्वाभ्यां रूपमेकं विशिष्यते ॥
अनधिगतावबोधनं हि प्रमाणं शाब्दमगत्या कथञ्चिदनुवादतया वर्ण्यते ।
सकलसांसारिकधर्मापेतं तु प्रसन्नमात्मरूपमप्रसन्नात्तस्मादेव रूपाद्व्यावृत्तमनधिगतमवबोधयन्नानुवादो युज्यते ।
न चास्य निष्पत्त्यसंभवः, सत इव घटादेः सांव्यवहारिकेण प्रमाणेन बन्धविगमस्यापि निष्पत्तेर्लोकसिद्धत्वात् ।
विचारासहतया त्वसिद्धिरुभयत्रापि तुल्या ।
न ह्यसदुत्पत्तुमर्हतीत्यसकृदावेदितम् ।
अन्धो भवतीति स्वप्नावस्था दर्शिता बाह्येन्द्रियव्यापाराभावात् ।
रोदितीव जाग्रदवस्था दुःखशोकाद्यात्मकत्वात् ।
विनाशमेवापीत इति सुषुप्तिः ।
एवकारश्चेवार्थेऽनवधारणे ॥१ ॥



____________________________________________________________________________________________


४,४.१.२


मुक्तः प्रतिज्ञानात् । ब्रह्मसूत्र ४,४.२ ।




____________________________________________________________________________________________


४,४.१.३


आत्मा प्रकरणात् । ब्रह्मसूत्र ४,४.३ ।
ननु ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यत इति पौर्वापर्यश्रवणात्स्वरूपनिष्पत्तेरन्या ज्योतिरुपसंपत्तिः तथाच भौतिकत्वेऽपि न मोक्षव्याघातः ।
भवेदेतदेवं यदि ज्योतिरुपसंपद्य तत् परित्यजेदिति श्रूयेत ।
तदध्याहारेऽपि तत्प्रतिपादनवैयर्थ्यं तदपरित्यागे च ज्योतिषैव स्वेन रूपेणेति गम्यते ।
तस्य च भूतत्वे विकारत्वान्मरणधर्मकत्वप्रसिद्धेरमुक्तित्वमिति प्राप्ते प्रत्युच्यतेज्योतिष्पदस्य मुख्यत्वं भौतिके यद्यपि स्थितम् ।
तथापि प्रक्रमाद्वाक्यादात्मन्येवात्र युज्यते ॥
परं ज्योतिरिति हि परपदसमभिव्याहारात्परत्वस्य चानपेक्षस्य ब्रह्मण्येव प्रवृत्तेज्योतिषि चापरे किञ्चिदपेक्ष्य परत्वात्परं ज्योतिरिति वाक्यादात्मैवात्र गम्यते ।
प्रकरणं चोक्तम् ।
यत्संपद्य निष्पद्यत इति तन्मुखं व्यादाय स्वपितीतिवत् ।
तस्माज्ज्योतिरुपसंपन्नो मुक्त इति सूक्तम् ॥३॥




____________________________________________________________________________________________


४,४.२.४


अविभागेन दृष्टत्वात् । ब्रह्मसूत्र ४,४.४ ।
यद्यपि जीवात्मा ब्रह्मणो न भिन्न इति तत्र तत्रोपपादितं तथापि स तत्र पर्येतीत्याधाराधेयभावव्यपदेशस्य संपत्तृसंपत्तव्यभावव्यपदेशस्य च समाधानार्थमाह ॥४॥




____________________________________________________________________________________________


४,४.३.५


ब्राह्मेण जैमिनिरुपन्यासादिभ्यः । ब्रह्मसूत्र ४,४.५ ।
उपन्यास उद्देशो ज्ञातस्य यथा य आत्मापहतपाप्मेत्यादिः ।
तथाज्ञातज्ञापनं विधिः ।
यथा स तत्र पर्येति जक्षद्रममाण इति, तस्य सर्वेषु लोकेषु कामचारो भवतीत्येतदज्ञातज्ञापनं विधिः ।
सर्वज्ञः सर्वेश्वर इति व्यपदेशः ।
नायमुद्देशो विधेयान्तराभावात् ।
नापि विधिरप्रतिपाद्यत्वात् ।
सिद्धवद्व्यपदेशात् ।
तन्निर्वचनसामर्थ्यादयमर्थः प्रतीयतेत एते उपन्यासादयः ।
एतेभ्यो हेतुभ्यः ।
भावाभावात्मकै रूपैर्भाविकैः परमेश्वरः ।
मुक्तः संपद्यते स्वैरित्याह स्म किल जैमिनिः ॥
न च चित्स्वभावस्यात्मनोऽभावात्मानोऽपहतपाप्मत्वादयो भावात्मनश्च सर्वज्ञत्वादयो धर्मा अद्वैतं घ्नन्ति ।
नो खलु धर्मिणो धर्मा भिद्यन्ते, मा भूद्गवाश्ववद्धर्मिधर्मभावाभाव इति जैमिनिराचार्य उवाच ॥५॥



____________________________________________________________________________________________


४,४.३.६


चितितन्मात्रेण तदात्मकत्वादित्यौडुलोमिः । ब्रह्मसूत्र ४,४.६ ।
अनेकाकारतैकस्य नैकत्वान्नैकता भवेत् ।
परस्परविरोधेन न भेदाभेदसंभवः ॥
न ह्येकस्यात्मनः पारमार्थिकानेकधर्मसंभवः ।
ते चेदात्मनो भिद्यन्ते द्वैतापत्तेरद्वैतश्रुतयो व्यावर्तेरम् ।
अथ न भिद्यन्ते तत एकस्मादात्मनोऽभेदान्मिथोऽपि न भिद्येरन् ।
आत्मरूपवत् ।
आत्मरूपं वा भिद्येत ।
भिन्नेभ्योऽनन्यत्वान्नीलपीतरूपवत् ।
नच धर्मिण आत्मनो न भिद्यन्ते मिथस्तु भिद्यन्त इति साम्प्रतम् ।
धर्म्यभेदेन तदनन्यत्वेन तेषामप्यभेदप्रसङ्गात् ।
भेदे वा धर्मिणोऽपि भेदप्रसङ्गादित्युक्तम् ।
भेदाभेदौ च परस्परविरोधादेकत्राभावान्न संभवत इत्युपपादितं प्रथमे सूत्रे ।
अभावरूपाणामद्वैताविहन्तृत्वेऽपि तस्य पाप्मादेः काल्पनिकतया तदधीननिरूपणतया तेषामपि काल्पनिकत्वमिति न तात्त्विकी तद्धर्मता श्लिष्यते ।
एतेन सत्यकामसर्वज्ञसर्वेश्वरत्वादयोऽप्यौपाधिका व्याख्याताः ।
तस्मान्निरस्ताशेषप्रपञ्चेनाव्यपदेश्येन चैतन्यमात्रात्मनाभिनिष्पद्यमानस्य मुक्तावात्मनोर्ऽथशून्यैरेवापहतपाप्मसत्यकामादिशब्दैर्व्यपदेश इत्यौडुलोमिर्मेने ।
तदिदमुक्तंशब्दविकल्पजा एवैते अपहतपाप्मत्वादयो न तु सांव्यवहारिका अपीति ॥६॥



____________________________________________________________________________________________


४,४.३.७


एवमप्युपन्यासात्पूर्वभावादविरोधं बादरायणः । ब्रह्मसूत्र ४,४.७ ।
तदेतदतिशौण्डीर्यमौडुलोमेर्न मृष्यते ।
बादरायण आचार्यो मृष्यन्नपि हि तन्मतम् ॥
एवमपीत्यौडुलोमिमतमनुजानाति ।
शौण्डीर्यं तु न सहत इत्याहव्यवहारापेक्षयेति ।
एतदुक्तं भवतिसत्यं तात्त्विकानन्दचैतन्यमात्र एवात्मा, अपहतपाप्मसत्यकामत्वादयस्त्वौपाधिकतयातात्त्विका अपि व्यावहारिकप्रमाणोपनीततया लोकसिद्धा नात्यन्तासन्तो येन तच्छब्दा राहोः शिर इतिवदवास्तवा इत्यर्थः ॥७॥


____________________________________________________________________________________________


४,४.४.८


संकल्पादेव तु तच्छ्रुतेः । ब्रह्मसूत्र ४,४.८ ।
यत्नानपेक्षः संकल्पो लोके वस्तुप्रसाधनः ।
न दृष्टः सोऽत्र यत्नस्य लाघवादवधारितः ॥
लोके हि कञ्चिदर्थं चिकीर्षुः प्रयतते प्रयतमानः समीहते समीहानस्तमर्थमाप्नोतीति क्रमो दृष्टः ।
न त्विच्छानन्तरमेवास्येष्यमाणमुपतिष्ठते ।
तेन श्रुत्यापि लोकवृत्तमनुरुध्यमानया विदुषस्तादृश एव क्रमोऽनुमन्तव्यः ।
अवधारणं तु संकल्पादेवेति लौकिकं यत्नगौरवमपेक्ष्य विद्याप्रभावतो विदुषो यत्नलाघवात् ।
यल्लघु तदसत्कल्पमिति ।
स्यादेतत् ।
यथा मनोरथमात्रोपस्थापिता स्त्री स्त्रैणानां चरमधातुविसर्गहेतुरेवं पित्रादयोऽप्यस्य संकल्पोपस्थापिताः कल्पिष्यन्ते स्वकार्यायेत्यत आहनच संकल्पमात्रसमुत्थापना इति ।
सन्ति हि खलु कानिचिद्वस्तुस्वरूपसाध्यानि कार्याणि यथा स्त्रीवस्तुसाध्यानि दन्तक्षतमणिमालादीनि ।
कानिचित्तु ज्ञानसाध्यानि यथोक्तचरमधातुविसर्गरोमहर्षादीनि ।
तत्र मनोरथमात्रोपनीते पित्रादौ भवन्तु तज्ज्ञानमात्रसाध्यानि कार्याणि नतु तत्साध्यानि भवितुमर्हन्ति ।
नहि स्त्रैणस्य रोमहर्षादिवद्भवन्ति स्त्रीवस्तुसाध्या मणिमालादयस्तदिदमुक्तंपुष्कलं भोगमिति प्राप्तेऽभिधीयते पित्रादीनां समुत्थानं संकल्पादेव तच्छ्रुतेः ।
न चानुमानबाधोऽत्र श्रुत्या तस्यैव बाधनात् ॥
प्रमाणान्तरानपेक्षा हि श्रुतिः स्वार्थं गोचरयन्ती न प्रमाणान्तरेण शक्या बाधितुम् ।
अनुमानमेव तु स्वोत्पादाय पक्षधर्मत्वादिवन्मानान्तराबाधितविषयत्वं स्वसामग्रीमध्यपातेनापेक्षमाणं सामग्रीखण्डनेन तद्विरुद्धया श्रुत्या बाध्यते ।
अत एव नरशिरःकपालादिशौचानुमानमागमबाधितविषयतया नोपपद्यते ।
तस्माद्विद्याप्रभावाद्विदुषां संकल्पमात्रादेव पित्राद्युपस्थानमिति सांप्रतम् ।
तथाहुरागमिनःको हि योगप्रभावादृतेऽगस्त्य इव समुद्रं पिबति स इव दण्डकारण्यं सृजति ।
तस्मात्सर्वमवदातम् ॥८ ॥



____________________________________________________________________________________________


४,४.४.९


अत एव चानन्याधिपतिः । ब्रह्मसूत्र ४,४.९ ।



____________________________________________________________________________________________


४,४.५.१०


अभावं बादरिराह ह्येवम् । ब्रह्मसूत्र ४,४.१० ।
अन्ययोगव्यच्छित्त्या मनसेति विशेषणात् ।
देहेन्द्रियवियोगः स्याद्विदुषो बादरेर्मतम् ॥
अनेकधाभावश्चर्द्धिप्रभावभुवो मनोभेदाद्वा स्तुतिमात्रं वा कथञ्चिद्भूमविद्यायां निर्गुणायां तदसंभवादसतापि हि गुणेन स्तुतिर्भवत्येवेति ॥१०॥




____________________________________________________________________________________________


४,४.५.११


भावं जैमिनिर्विकल्पामननात् । ब्रह्मसूत्र ४,४.११ ।
शरीरेन्द्रियभेदे हि नानाभावः समञ्जसः ।
न चार्थसंभवे युक्तं स्तुतिमात्रमनर्थकम् ॥
नहि मनोमात्रभेदे स्फुटतरोऽनेकधाभावो यथा शरीरेन्द्रियभेदे ।
अत एव सौभरेरभिविनिर्मितविविधदेहस्यापर्यायेण मान्धातृकन्याभिः पञ्चाशता विहारः पैराणिकैः स्मर्यते ।
न चार्थसंभवे स्तुतिमात्रमनर्थकमवकल्पते ।
संभवति चास्यार्थवत्त्वम् ।
यद्यपि निर्गुणायमिदं भौमविद्यायां पठ्यते तथापि तस्याः पुरस्तादनेन सगुणावस्थागतेनैश्वर्येण निर्गुणैव विद्या स्तूयते ।
न चान्ययोगव्यवच्छेदेनैव विशेषणम् ।
यथा चैत्रो धनुर्धरः ।
तस्मान्मनः शरीरेन्द्रिययोग ऐश्वर्यशालिनां नियमेनेति मेने जैमिनिः ॥११॥



____________________________________________________________________________________________


४,४.५.१२


द्वादशाहवदुभयविधं बादरायणोऽतः । ब्रह्मसूत्र ४,४.१२ ।
मनसेति केवलमनोविषयां च स एकधा भवति त्रिधा भवतीति शरीरेन्द्रियभेदविषयां च श्रुतिमुपलभ्यानियमवादी खलु बादरायणो नियमवादौ पूर्वयोर्न सहते ।
द्विविधश्रुत्यनुरोधात् ।
न चायोगव्यवच्छेदेनैवंविधेषु विशेषणमवकल्प्यते ।
कामेषु हि रमणं समनस्केन्द्रियेण शरीरेण पुरुषाणां सिद्धमेवेति नास्ति शङ्का मनोयोगस्येति तद्व्यवच्छेदो व्यर्थः ।
सिद्धस्य तु मनोयोगस्य तदन्यपरिसंख्यानेनार्थवत्त्वमवकल्पते ।
तस्माद्वामेनाक्ष्णा पश्यतीतिवदत्रान्ययोगव्यवच्छेद इति सांप्रतम् ।

द्वादशाहवदिति ।
द्वादशाहस्य सत्रत्वमासनोपायिचोदने ।
अहीनत्वं च यजतिचोदने सति गम्यते ॥
द्वादशाहमृद्धिकामा उपेयुरित्युपायिचोदनेन य एवं विद्वांसः सत्रमुपयन्तीति च द्वादशाहस्य सत्रत्वं बहुकर्तृकस्य गम्यते ।
एवं तस्यैव द्वादशाहेन प्रजाकामं याजयेदिति यजतिचोदनेन नियतकर्तृपरिमाणत्वेन द्विरात्रेण यजतेत्यादिवदहीनत्वमपि गम्यत इति ।
संप्रति शरीरेन्द्रियाभावेन मनोमात्रेण विदुषः स्वप्नवत्सूक्ष्मो भोगो भवति ।
कुतःुपपत्तेः ।
मनसैतानिति श्रुतेः ।
यदि पुनः सुषुप्तवदभोगो भवेत्नैषा श्रुतिरुपपद्येत ।
नच सशरीरवदुपभोगः शरीराद्युपादानवैयर्थ्यात् ।
सशरीरस्य तु पुष्कलो भोगः ।
इहाप्युपपत्तेरित्यनुषञ्जनीयम् ।

तदिदमुक्तं सूत्राभ्याम्तन्वभावे संध्यवदुपपत्तेः ।
भावे जाग्रद्वत् ।
इति ॥१२ ॥



____________________________________________________________________________________________


४,४.५.१३१४


तन्वभावे सन्ध्यवदुपपत्तेः । ब्रह्मसूत्र ४,४.१३ ।
भावे जाग्रद्वत् । ब्रह्मसूत्र ४,४.१४ ।




____________________________________________________________________________________________


४,४.६.१५


प्रदीपवदावेशस्तथा हि दर्शयति । ब्रह्मसूत्र ४,४.१५ ।
वस्तुतः परमात्मनोऽभिन्नोऽप्ययं विज्ञानात्मानाद्यविद्याकल्पितप्रादेशिकान्तःकरणावच्छेदेनानादिजीवभावमापन्नः प्रादेशिकः सन्न देहान्तराणि स्वभावनिर्मितान्यपि नानाप्रदेशवर्तीनि सान्तःकरणो युगपदावेष्टुमर्हति ।
न वात्मान्तरं स्रष्टुमपि ।
सृज्यमानस्य स्रष्ट्रतिरेकेऽनात्मत्वादात्मत्वे वा कर्तृकर्मभावाभावाद्भेदाश्रयत्वादयस्य ।
नाप्यन्तःकरणान्तरं तत्र सृजति सृज्यमानस्य तदुपाधित्वाभावात् ।
अनादिना खल्वन्तःकरणेनौत्पत्तिकेनायमवरुद्धो नेदानीन्तनेनान्तःकरणेनोपाधितया संबद्धुमर्हति ।
तस्माद्यथा दारुयन्त्रं तत्प्रयोक्त्रा चेतनेनाधिष्ठितं सत्तदिच्छामनुरुध्यते ।
एवं निर्माणशरीराण्यपि सेन्द्रियाणीति प्राप्ते प्रत्यभिधीयतेशरीरत्वं न जातु स्याद्भोगाधिष्ठानतां विना ।
स त्रिधेति शरीरत्वमुक्तं युक्तं च तद्विभौ ॥
स त्रिधा भवति पञ्चधा सप्तधा नवधेत्यादिका श्रुतिर्विदुषो नानाभावमाचक्षाणा भिन्नशरीरेन्द्रियोपाधिसंबन्धेऽवकल्पते नादेहहेतु(भूत)भेदे ।
नहि यन्त्राणि भिन्नानि निर्माय वाहयन्यन्त्रवाहो नानात्वेनापदिश्यते ।
भोगाधिष्ठानत्वं च शरीरत्वं नाभोगाधिष्ठानेषु यन्त्रेष्विव युज्यते ।
तस्माद्देहान्तराणि सृजति ।
न वानेनाधिष्ठितानि देहपक्षे वर्तन्ते ।
नच सर्वगतस्य वस्तुतो विगलितप्रायाविद्यस्य विदुषः पृथग्जनस्येवौत्पत्तिकान्तःकरणवश्यता येन तदौत्पत्तिकमन्तःकरणमागन्तुकान्तःकरणान्तरसंबन्धमस्य वारयेत् ।
तस्माद्विद्वान् सर्वस्य वशी सर्वेश्वरः सत्यसंकल्पः सेन्द्रियमनांसि शरीराणि निर्माय तानि चैकपदे प्रविश्य तत्तदिन्द्रियमन्तःकरणैस्तेषु लोकेषु मुक्तो विहरतीति सांप्रतम् ।
प्रदीपवदिति तु निदर्शनं प्रदीपैक्यं प्रदीपव्यक्तिषूपचर्यते भिन्नवर्तिवर्तिनीनां भिन्नव्यक्तीनां भेदात् ।
एवं विद्वाञ्जीवात्मा देहभेदेऽप्येक इति परामर्शार्थः ।
एकमनोनुवर्तीनित्येकाभिप्रायवर्तीनीत्यर्थः ॥१५॥

संपन्नः केवलो मुक्त इत्युच्यते ।
न चैतस्येत्थंभावसंभवः श्रुतिविरोधादित्युक्तमर्थजातमाक्षिपतिकथं पुनर्मुक्तस्येति ।
सलिल इति ।
सलिलमिव सलिलः सलिलप्रातिपदिकात्सर्वप्रातिपदिकेभ्य इत्युपमानादाचारे क्विपि कृते पचाद्यचि च कृते रूपम् ।
एतदुक्तं भवतियथा सलिलमम्भोनिधौ प्रक्षिप्तं तदेकीभावमुपयाति ।



एवं द्रष्टापि ब्रह्मणेति ।



____________________________________________________________________________________________


४,४.६.१६


अत्रोत्तरं सूत्रम्
स्वाप्ययसंपत्त्योरन्यतरापेक्षमाविष्कृतं हि । ब्रह्मसूत्र ४,४.१६ ।
आसु काश्चिच्छ्रुतयः सुषुप्तिमपेक्ष्य काश्चित्तु संपत्तिं तदधिकारात् ।
ऐश्वर्यश्रुतयस्तु सगुणविद्याविपाकावस्थापेक्षा मुक्त्यभिसंधानं तु तदवस्थासत्तेर्यथारुणदर्शने संध्यायां दिवसाभिधानम् ॥१६॥



____________________________________________________________________________________________


४,४.७.१७

जगद्व्यापारवर्जं प्रकरणादसंनिहितत्वाच्च । ब्रह्मसूत्र ४,४.१७ ।
स्वाराज्यकामचारादिश्रुतिभ्यः स्यान्निरङ्कुशः ।
स्वकार्य ईश्वराधीनसिद्धिरप्यत्र साधकः ॥
ऽआप्नोति स्वाराज्यंऽऽसर्वेऽस्मै देवा बलिमावहन्तिऽऽसर्वेषु लोकेषु कामचारो भवतिऽइत्यादिश्रुतिभ्यो विदुषः परब्रह्मण इवान्यानधीनत्वमैश्वर्यमवगम्यते ।
नन्वस्य ब्रह्मोपासनालब्धमैश्वर्यं कथं ब्रह्माधीनं न तु स्वभावः ।
नहि कारणाधीनजन्मानो भावाः स्वकार्ये स्वकारणमपेक्षन्ते ।
किं त्वत्र ते स्वतन्त्रा एव ।
यथाहुःमृत्पिण्डदण्डचक्रादि घटो जन्मन्यपेक्षते ।
उदकाहरणे त्वस्य तदपेक्षा न विद्यते ॥
न च विदुषां परमेश्वराधीनैश्वर्यसिद्धित्वात्तद्गतमैश्वर्यं येन लौकिका इव राजानो महाराजाधीनः स्वव्यापारे विद्वांसः परमेश्वराधीना भवेयुः ।
न खलु यदधीनोत्पादं यस्य रूपं तत्तद्रूपादूनं भवतीति कश्चिन्नियमः ।
तत्समानां तदधिकानां च दर्शनात्तथा ह्यन्तेवासी गुर्वधीनविधः तत्समस्तदधिको वा दृश्यते ।
दुष्टसामन्ताश्च पार्थिवाधीनैश्वर्याः पार्थिवान्स्पर्धमानास्तान्विजयमाना वा दृश्यन्ते ।
तदिह निरतिशयैश्वर्यत्वात्परमेश्वरस्य मा नाम भूवन्विद्वांसस्ततोऽधिकास्तत्समास्तु भविष्यन्ति ।
तथाच न तदधीनाः ।
नहि समप्रधानभावानामस्ति मिथोऽपेक्षा ।
तदेते स्वतन्त्राः सन्तस्तद्व्यापारे जगत्सर्जनेऽपि प्रवर्तेरन्निति प्राप्ते प्रत्यभिधीयतेनित्यत्वादनपेक्षत्वात्श्रुतेस्तत्प्रक्रमादपि ।
एक्यमत्याच्च विदुषां परमेश्वरतन्त्रता ॥
जगत्सर्गलक्षणं हि कार्यं कारणैकस्वभावस्यैव हि भवतु आहो कार्यकारणस्वभावस्य ।
तत्रोभयस्वभावस्य स्वोत्पत्तौ मूलकारणापेक्षस्य पूर्वसिद्धः परमेश्वर एव कारणमभ्युपेतव्य इति स एवैकोऽस्तु जगत्कारणम् ।
तस्यैव नित्यत्वेन स्वकारणानपेक्षस्य कॢप्तसामर्थ्यात् ।
कल्प्यसामर्थ्यास्तु जगत्सर्जनं प्रति विद्वांसः ।
न च जगत्स्रष्टृत्वमेषां श्रूयते ।
श्रूयते त्वत्रभवतः परमेश्वरस्यैव ।
तमेव प्रकृत्य सर्वासां तच्छ्रुतीनां प्रवृत्तेः ।
अपिच समप्रधानानां हि न नियमवदैकमत्यं दृष्टमिति यदैकः सिसृक्षति तदैवेतरः संजिहीर्षतीत्यपर्यायेण सृष्टिसंहारौ स्याताम् ।
न चोभयोरपीश्वरत्वं व्याघातम् ।
एकस्य तु तदाधिपत्ये तदभिप्रायानुरोधिनां सर्वेषामैकमत्योपपत्तेरदोषः ।
तत्रागन्तुकानां कारणाधीनजन्मैश्वर्याणां गृह्यमाणविशेषतयासमत्वान्नित्यैश्वर्यशालिनः स एव तेषामधीश इति तत्तन्त्रा विद्वांस इति परमेश्वरव्यापारस्य सर्गसंहारस्य नेशते ॥१७॥




____________________________________________________________________________________________


४,४.७.१८



पूर्वपक्षिणोऽनुशयबीजमाशङ्क्य निराकरोति

प्रत्यक्षोपदेशादिति चेन्नाधिकारिकमण्डलस्थोक्तेः । ब्रह्मसूत्र ४,४.१८ ।

प्रत्यक्षोपदेशादिति चेन्नाधिकारिकमण्डलस्थोक्तेः ।
यतः परमेश्वराधीनमैश्वर्यं तस्मात्ततो न्यूनमणिमादिमात्रं स्वाराज्यं न तु जदत्स्रष्टृत्वम् ।
उक्तान्न्यायात् ॥१८॥



____________________________________________________________________________________________


४,४.७.१९


विकारवर्ति च तथा हि स्थितिमाह । ब्रह्मसूत्र ४,४.१९ ।
एतावानस्य महिमेति विकारवर्ति रूपमुक्तम् ।
ततो ज्यायांश्चेति निर्विकारं रूपम् ।
तथा पादोऽस्य विश्वा भूतानीति विकारवर्ति रूपं त्रिपादस्यामृतं दिवीति निर्विकारमाह रूपम् ॥१९॥



____________________________________________________________________________________________


४,४.७.२०


दर्शयतश्चैवं प्रत्यक्षानुमाने । ब्रह्मसूत्र ४,४.२० ।
दर्शयतश्चापरे श्रुतिस्मृती निर्विकारमेव रूपं भगवतस्ते च पठिते ।
एतदुक्तं भवतियदि ब्रूषे सगुणे ब्रह्मण्युपास्यमाने यथा तद्गुणस्य निरवग्रहत्वमपि वस्तुतोऽस्तीति निरवग्रहत्वे विदुषा प्राप्तव्यमिति तदनेन व्यभिचारयते ।
यथा सविकारे ब्रह्मण्युपास्यमाने वस्तुतः स्थितमपि निर्विकाररूपं न प्राप्यते तत्कस्य हेतोः, अतत्क्रतुत्वादुपासकस्य ।
तथा तद्गुणोपासनया वस्तुतः स्थितमपि निरवग्रहत्वं नाप्यते ।
तत्त्वोपासनासु पुरुषक्रतुत्वात् ।
उपासकस्य तदक्रतुत्वं च निरवग्रहत्वस्योपासनविध्यगोचरत्वाद्विध्यधीनत्वाच्चोपासनासु पुरुषस्वातन्त्र्याभावात्स्वातन्त्र्ये वा प्रातिभत्वप्रसङ्गादिति ॥२०॥



____________________________________________________________________________________________


४,४.७.२१


भोगमात्रसाम्यलिङ्गाच्च । ब्रह्मसूत्र ४,४.२१ ।
न केवलं स्वाराज्यस्येश्वराधीनतयाजगत्सर्जनम्, साक्षाद्भोगमात्रेण तेन परमेश्वरेण साम्याभिधानादपि व्यपदेशलिङ्गादिति ।
भूतान्यवन्ति प्रीणयन्तीति भोजयन्तीति यावत् ।
सूत्रान्तरावतारणाय शङ्कतेनन्वेवं सति सातिशयत्वादिति ।
सह परमेश्वरस्यातिशयेन वर्तत इति विदुष ऐश्वर्यं सातिशयम् ।
यच्च कार्यं सातिशयं तच्च यथा लौकिकमैश्वर्यम् ।
तदनेन कार्यत्वमुक्तम् ।
तथाच कार्यत्वादन्तवत्प्राप्तमिति तच्च न युक्तमानन्त्येन तद्विदुषां तत्र प्रवृत्तेरिति ॥२१॥



____________________________________________________________________________________________


४,४.७.२२


अत उत्तरं पठति
अनावृत्तिः शब्दादनावृत्तिः शब्दात् । ब्रह्मसूत्र ४,४.२२ ।
किमर्चिरादिमार्गेण ब्रह्मलोकप्राप्तानामैश्वर्यस्यान्तवत्त्वं त्वया साध्यते ।
आहोस्विच्चन्द्रलोकादिव ब्रह्मलोकादेतल्लोकप्राप्तिर्मुक्तेरन्तवत्त्वम् ।
तत्र पूर्वस्मिन् कल्पे सिद्धसाधनम् ।
उत्तरत्र तु श्रुतिस्मृतिविरोधः ।
तद्विधानां च क्रममुक्तिप्रतिपादनादिति ।
तत्त्वमसिवाक्यार्थैकोपासनापरान् प्रत्याह
सम्यग्दर्शनविध्वस्ततमसामिति ।
द्विधाविद्या तमः ।

निरुपाधिब्रह्मसाक्षात्कारस्तत्त्वदर्शनम् ।
न चैतन्निर्वाणं स्वरूपावस्थानलक्षणं कार्यं येनानित्यं स्यादित्याहनित्यसिद्धेति ॥२२॥


भङ्क्त्वा वाद्यसुरेन्द्रवृन्दमखिलाविद्योपधानातिगं येनाम्नायपयोनिधेर्नयपथा ब्रह्मामृतं प्राप्यते ।
सोऽयं शाङ्करभाष्यजातविषयो वाचस्पतेः सादरं संदर्भः परिभाव्यतां सुमतयः स्वार्थेषु को मत्सरः ॥१॥

अज्ञानसागरं तीर्त्वा ब्रह्मतत्त्वमभीप्सताम् ।
नीतिनौकर्णधारेण मयापूरि मनोरथः ॥२॥

यन्न्यायकणिकातत्त्वसमीक्षातत्त्वबिन्दुभिः ।
यन्न्यायसांख्ययोगानां वेदान्तानां निबन्धनैः ॥३॥

समचैषं महत्पुण्यं तत्फलं पुष्कलं मया ।
समर्पितमथैतेन प्रीयतां परमेश्वरः ॥४॥

नृपान्तराणां मनसाप्यगम्यां भ्रूक्षेपमात्रेण चकार कीर्तिम् ।
कार्तस्वरासारसुपूरितार्थसार्थः स्वयं शास्त्रविचक्षणश्च ॥५॥

नरेश्वरा यच्चरितानुकारमिच्छन्ति कर्तुं नच पारयन्ति ।
तस्मिन्महीपे महनीयकीर्तौ श्रीमन्नृगेऽकारि मया निबन्धः ॥६॥



इति श्रीवाचस्पतिमिश्रविरचिते शङ्करभगवत्पादभाष्यविभागे भामत्यां चतुर्थस्याध्यायस्य चतुर्थः पादः समाप्तः ।