सामग्री पर जाएँ

भामती/तृतीयः अध्यायः

विकिस्रोतः तः
← द्वितीयः अध्यायः भामती
तृतीयः अध्यायः
[[लेखकः :|]]
चतुर्थः अध्यायः →

अथ तृतीयोऽध्यायः ।

____________________________________________________________________________________________


३,१.१.१

तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाभ्याम् । ब्रह्मसूत्र ३,१.१ ।
द्वितीयतृतीयाध्याययोर्हेतुमद्भावलक्षणं संबन्धं दर्शयन् सुखावबोधार्थमर्थसंक्षेपमाहद्वितीयेऽध्याय इति ।
स्मृतिन्यायश्रुतिविरोधपरिहारेण हि अनध्यवसायलक्षणमप्रामाण्यं परिहृतं तथाच प्रामाण्ये निश्चलीकृते तार्तीयो विचारो भवत्यन्यथा तु निर्बीजतया न सिध्येदिति ।
अवान्तरसंगतिं दर्शयितुन्तत्र च जीवव्यतिरिक्तानि तत्त्वानि जीवोपकरणानिचेत्युक्तम् ।
अध्यायार्थसंक्षेपमुक्त्वा पादार्थसंक्षेपमाहतत्र प्रथमे तावत्पाद इति ।
तस्य प्रयोजनमाहवैराग्य इति ।
पूर्वापरपरिशोधनाय भूमिकामारचयतिजीवो मुख्यप्राणसचिव इति ।
करणोपादानवद्भूतोपादानस्याश्रुतत्वादिति ।
अत्र च करणोपादानश्रुत्यैव भौतिकत्वात्करणानां भूतोपादानसिद्धेरिन्द्रियोपादानातिरिक्तभूतविवक्षयाधिकरणारम्भः ।
यदि भूतान्यादायागमिष्यत्तदा तदपि करणोपादानवदेवश्रोष्यत् ।
नच श्रूयते तस्मान्न भूतपरिष्वक्तो रंहत्यपि तु करणमात्रपरिष्वक्तः ।
नह्यागमैकगम्येर्ऽथे तदभावः प्रमेयाभावं न परिच्छेत्तुमर्हति ।
नच देहान्तरारम्भान्यथानुपपत्त्या भूतपरिष्वक्तस्य रंहणकल्पनेति युक्तमित्याहसुलभाश्च सर्वत्र भूतमात्रा इति ।
द्युपर्जन्य इति ।
इह हि कायारम्भणामग्निहोत्रापूर्वपरिणामलक्षणं श्रद्धादित्वेन पञ्चधा प्रविभज्य द्युप्रभृतिष्वग्निषु होतव्यत्वेनोपासनमुत्तरमार्गप्रतिपत्तिसाधनं विवक्षन्त्याह श्रुतिःऽअसौ वाव लोको गौतमाग्निःऽइत्यादि ।
अत्र सायंप्रातरग्निहोत्राहुतो, हुते पयःादिसाधने श्रद्धापूर्वमाहवनीयाग्निसमिद्धूमार्चिरङ्गारविस्फुलिङ्गभाविते कर्त्रादिकारकभाविते चान्तरिक्षं क्रमेणोत्क्राम्य द्युलोकं प्रविशन्त्यौ सूक्ष्मभूते द्रवद्रव्यपयःप्रभृत्यप्संबन्धादप्शब्दवाच्ये, श्रद्धाहेतुकत्वाच्च श्रद्धाशब्दवाच्ये ।
तयोराहुत्योरधिकरणमग्निरन्ये च समिद्धूमार्चिरङ्गारविस्फुलिङ्गा रूपकत्वेन निर्दिश्यन्ते ।
असौ वाव द्युलोको गौतमाग्निः ।
यथाग्निहोत्राधिकरणमाहवनीय एवं श्रद्धाशब्दवाच्याग्निहोत्राहुतिपरिणामावस्थारूपाः सूक्ष्मा या आपः श्रद्धाभावितास्तदधिकरणं द्युलोकः ।
अस्यादित्य एव समित् ।
तेन हीद्धोऽसौ द्युलोको दीप्यतेऽतः समिन्धनात्समित्तस्यादित्यस्य रश्मयो धूमा इन्धनादिवादित्याद्रश्मीनां समुत्थानात् ।
अहरर्थिः ।
प्रकाशसामान्यादादित्यकार्यत्वाच्च ।
चन्द्रमा अङ्गारः ।
अर्चिषः प्रशमेऽभिव्यक्तेः ।
नक्षत्राप्यस्य विस्फुलिङ्गः चन्द्रमसोऽङ्गारस्यावयवा इव विप्रकीर्णतासामान्याद्विस्फुलिङ्गः ।
तदेतस्मिन्नग्नौ देवा यजमानप्राणा अग्न्यादिरूपा अधिदेवम् ।
श्रद्धां जुह्वति श्रद्धा चोक्ता ।
पर्जन्यो वाव गौतमाग्निः पर्जन्यो नाम वृष्ट्युपकरणाभिमानी देवताविशेषः ।
तस्य वायुरेव समित् ।
वायुना हि पर्जन्योऽग्निः समिध्यते, पुरोवातादिप्राबल्ये वृष्टिदर्शनात् ।
अभ्रं धूमः ।
धूकार्यत्वात्धूमसादृश्याच्च ।
विद्युदर्चिः ।
प्रकाशसामान्यात् ।
अशनिरङ्गाराः काठिन्याद्विद्युत्संबन्धाच्च ।
गर्जितं मोघानां विस्फुलिङ्गाः विप्रकीर्णतासामान्यात् ।
तस्मिन्देवा यजमानप्राणा अग्निरूपाः सोमं राजानं जुह्वति तस्य सोमस्याहुतेर्वर्षं भवति ।
एतदुक्तं भवतिश्रद्धाख्या आपो द्युलोकमाहुतित्वेन प्रविश्य चन्द्राकारेण परिणताः सत्यो द्वितीये पर्याये पर्जन्याग्नौ हुता वृष्टित्वेन परिणमन्त इति ।
ऽपृथिवी वाव गौतमाग्निःऽतस्य पृथिव्याख्यस्याग्नैः संवत्सर एव समित् ।
संवत्सरेण कालेन हि समिद्धा भूमिर्व्रीह्यादिनिष्पत्तये कल्पते ।
आकाशो धूमः पृथिव्यग्नेरुत्थित इवाकाशो दृश्यते ।
रात्रिरर्चिः पृथिव्या श्यामाया अनुरूपा श्यामतया रात्रिरग्नेरिवानुरुपमर्चिः ।
दिशोङ्गाराः प्रगे रात्रिरूपार्चिःशमने उपशान्तानां प्रसन्नानां दिशां दर्शनात् ।
अवान्तरदिशो विस्फुलिङ्गाः क्षुद्रत्वसाम्यात् ।
तस्मिन्नग्नौ श्रद्धासोमपरिणामक्रमेणागता अपो वृष्टिरूपेण परिणता देवा जुह्वति तस्या आहुतेरन्नं व्रीहियवादि भवति ।
पुरुषो वाव गौतमाग्निस्तस्य वागेव समित् ।
वाचा खल्वयं ताल्वाद्यष्टस्थानस्थितया वर्णपदवाक्याभिव्यक्तिक्रमेणार्थजातं प्रकाशयन् समिध्यते ।
प्राणो धूमः ।
धूमवन्मुखान्निर्गमनात् ।
जिह्वार्चिः लोहितत्वसाम्यात् ।
चक्षुरङ्गाराः प्रभाश्रयत्वात् ।
श्रोत्रं विस्फुलिङ्गाः विप्रकीर्णत्वात् ।
ता एवापः श्रद्धादिपरिणामक्रमेणागताः व्रीह्यादिरूपेः परिणता सत्यः पुरुषेऽग्नौ हुतास्तासां परिणामो रेतः संभवति ।
योषा वाव गौतमाग्निः तस्या उपस्थ एव समित् ।
तेन हि सा पुत्राद्युत्पादनाय समिध्यते यदुपमन्त्रयते स धूमः ।
स्त्रीसंभवादुपमन्त्रणस्य लोमानि वा धूमः योनिरर्चिः लोहितत्वात् ।
यदन्तः करोति मैथुनं तेऽङ्गाराः ।
अभिनन्दाः सुखलवा विस्फुलिङ्गाः, क्षुद्रत्वात् ।
तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति तस्या आहुतेर्गर्भः संभवति ।
एवं श्रद्धासोमवर्षान्नरेतोहवनक्रमेण योषाग्निं प्राप्यापो गर्भाख्या भवन्ति ।
तत्राप्समवायित्वादापः पुरुषवचसो भवन्ति पञ्चम्यामाहुताविति ।
यतः पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति तस्मादद्भिः परिवेष्टितो जीवो रहतीति गम्यते ।
एतदुक्तं भवतिश्रद्धाशब्दवाच्या आप इत्यग्रे वक्ष्यति तासां त्रिवृत्कततया तेजोऽन्नाविनाभावेनाब्ग्रहणेन तेजोन्नयोरपि संग्रह इत्येतदपि वक्ष्यते ।
यद्यप्येतावतापि भूतवेष्टितस्य जीवस्य रंहणं नावगम्यते तेजोवन्नानां पञ्चम्यामाहुतौ पुरुषवचस्त्वमात्रश्रवणात्, तथापीष्टादिकारिणां धूमादिना पितृयाणेन पथा चन्द्रलोकप्राप्तिकथनपरयाऽआकाशाच्चन्द्रमसमेष सोमो राट्ऽइति श्रुत्या सहऽश्रद्धां जुह्वति तस्या आहुतेः सोमो राजा संभवतिऽइत्यस्याः श्रुतेः मानत्वाद्गम्यते भूतपरिष्वक्तो रंहतीति ।
तथाहिया एवापो हुता द्वितीयस्यामाहुतौ सोमभावं गतास्ताभिरेष परिष्वक्तो जीव इष्टादिकारी चन्द्रभूयं गतश्चन्द्रलोकं प्राप्त इति ।
ननु स्वतन्त्रा आपः श्रद्धादिक्रमेण सोमभावमाप्नुवन्तु ताभिरपरिष्वक्त एव तु जीवः सेन्द्रियमात्रो गत्वा सोमभावमनुभवतु ।
को दोषः ।
अयं दोषः ।
यतः श्रुतिसामान्यातिक्रम इति ।
एवं हि श्रुतिसामान्यं कल्पेत यदि येन रूपेण येन च क्रमेणापां सोमभावस्तेनैव जीवस्यापि सोमभावो भवेत् ।
अन्यथा तु न श्रुतिसामान्यं स्यात् ।
तस्मात्परिष्वक्तापरिष्वक्तरंहणविशये श्रुतिसामान्यानुरोधेन परिष्वक्तरंहणं निश्चीयते ।
अतो दधिपयःप्रभृतयो द्रवभूयस्त्वादापो हुताः सूक्ष्मीभूता इष्टादिकारिणमाश्रिता नेन्धनेन विधिना देहे हूयमाने हुताः सत्य आहुतिमय्य इष्टादिकारिणं परिवेष्ट्य स्वर्गं लोकं नयन्तीति ।
चोदयतिनन्वन्या श्रुतिरिति ।
अयमर्थःेवं हि सूक्ष्मदेहपरिष्वक्तो रंहेत्यद्यस्य स्थूलं शरीरं रंहतो न भवेत् ।
अस्ति त्वस्य वर्तमानस्थूलशरीरयोग आदेहान्तरप्राप्तेस्तृणजलायुकानिदर्शनेन, तस्मान्निदर्शनश्रुतिविरोधान्न सूक्ष्मदेहपरिष्वक्तो रंहतीति ।
परिहरतितत्रापीति ।
न तावत्परमात्मनः संसरणसंभवः, तस्य नित्यशुद्धबुद्धमुक्तस्वभावत्वात् ।
किन्तु जीवानाम् ।
परमात्मैव चोपाधिकल्पितावच्छेदो जीव इत्याख्यायते, तस्य च देहेन्द्रियादेरुपाधेः प्रादेशिकत्वान्न तत्र सन् देहान्तरं गन्तुमर्हति ।
तस्मात्सूक्ष्मदेहपरिष्वक्तो रंहतिकर्मोपस्थापितः प्रतिपत्तव्यः प्राप्तव्यो यो देहस्तद्विषयाया भावनाया उत्पादनाया दीर्घीभावमात्रं जलूकयोपमीयते ।
सांख्यानां कल्पनामाहव्यापिनां करणानामिति ।

आहङ्कारिकत्वात्करणानामहङ्कारस्य च जगन्मण्डलव्यापित्वात्करणानामपि व्यापितेत्यर्थः ।
बौद्धानां कल्पनामाहकेवलस्यैवात्मन इति ।
आलयविज्ञानसंतान आत्मा तस्य वृत्तिः षट्प्रवृत्तिविज्ञानानि ।
पञ्चेन्द्रियाणि तु चक्षुरादीनि अभिनवानि जायन्ते ।
कणभुक्क्ल्पनामाहमन एव चेति ।
भोगस्थानं भोगायतनं शरीरमभिनवमिति यावत् ।
दिगम्बरकल्पनामाहजीव एवोत्प्लुत्येति ।
आदिग्रहणेन लोकायतिकानां कल्पनां संगृह्णाति ।
ते हि शरीरात्मवादिनो भस्मीभावमात्मन आहुर्न कस्यचिद्गमनमिति ॥१॥



____________________________________________________________________________________________


३,१.१.२

चोदयति
ननूदाहृताभ्यामिति ।
अत्र सूत्रेणोत्तरमाह

त्र्यात्मकत्वात्तु भूयस्त्वात् । ब्रह्मसूत्र ३,१.२ ।

तेजसः कार्यमशितपीताहारपरिपाकः ।
अपां कार्यं स्नेहस्वेदादि ।
पृथिव्याः कार्यं गन्धादि ।
यस्तु गन्धस्वेदपाकप्राणावकाशदानदर्शनाद्देहस्य पाञ्चभौतिकत्वं पश्यंस्तेजोबन्नात्मकत्वेन त्र्यात्मकत्वे न परितुष्यति, तं प्रत्याहपुनश्च त्र्यात्मक इति ।
वातपित्तश्लेष्मभिस्त्रिभिर्धातुभिः शरीरधारणात्मकैस्त्रिधातुत्वात् ।
अतो न स देहो भूतान्तराणि प्रत्याख्याय केवलाभिरद्भिरारब्धुं शक्यते ।
अब्ग्रहणनियमस्तर्हि कस्मादित्यत आहतस्माद्भूयस्त्वापेक्ष इति ।
पृथिवीधातुवर्जमितरतेजःाद्यपेक्षया कार्यस्य शरीरस्य लोहितादिद्रवभूयस्त्वात्तत्करणयोश्चोपादाननिमित्तयोर्द्रवभूयस्त्वादपां पुरुषवचस्त्वोक्तिर्न पुनर्भूतान्तरनिरासार्था ॥२॥



____________________________________________________________________________________________


३,१.१.३

प्राणगतेश्च । ब्रह्मसूत्र ३,१.३ ।
प्राणानां जीवद्देहे साश्रयत्वमवगतं गच्छति जीवद्देहे तदनुविधायिनः प्राणा अपि गच्छन्तीति दृष्टम् ।
अतः षाट्कौशिका देहादुत्क्रामन्तः कस्मिंश्चिदुत्क्रामत्युत्क्रामन्ति ।
स चैषामनुविधेयः सूक्ष्मो देहो भूतेन्द्रियमय इति गम्यते ।
नहीन्द्रियमात्राश्रयत्वमेषां दृष्टं यतस्तन्मात्राश्रयाणां गतिरुपपद्येतेति ॥३॥



____________________________________________________________________________________________


३,१.१.४

अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात् । ब्रह्मसूत्र ३,१.४ ।
श्रावितेऽपि स्पष्टे जीवस्य प्राणैः सह गमनेऽग्न्यादिगतिशङ्का श्रुतिविरोधोत्थापनार्था ।
अत्र हि लोमकेशयोरोषधिवनस्पतिगमनं दृष्टविरोधाद्भाक्तं तावदभ्युपेयम् ।
एवं च तन्मध्यपतितत्वेन तेषामपि श्रुतिविरोधाद्भाक्तत्वमेवोचितमिति ।
भक्तिश्चोपकारनिवृत्तिरुक्ता ॥४॥



____________________________________________________________________________________________


३,१.१.५

प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्तेः । ब्रह्मसूत्र ३,१.५ ।
पञ्चम्यामाहुतावपां पुरुषवचस्त्वप्रकारे पृष्टे प्रथमायामाहुतौ अनपां श्रद्धाया होतव्यताभिधानसंभद्धमनुपपन्नं च ।
नहि यथा पश्वादिभ्यो हृदयादयोऽवयवा अवदाय निष्कृष्य हूयन्ते, एवं श्रद्धा बुद्धिप्रसादलक्षणा निष्क्रष्टुं वा होतुं वा शक्यते ।
न चाप्येवमौत्सर्गिकी कारणानुरूपता कार्यस्य युज्यते ।
तस्माद्भक्त्यायामप्सु श्रद्धाशब्दः प्रयुक्त इति ।
अतःेव श्रुतिःऽआपो हात्मैऽइति ॥५॥



____________________________________________________________________________________________


३,१.१.६

अश्रुतत्वादिति चेन्नेष्टादिकारिणां प्रतीतेः । ब्रह्मसूत्र ३,१.६ ।
अस्यार्थः पूर्वमेवोक्तः ।
अग्निहोत्रे षट्सूत्क्रान्तिगतिप्रतिष्ठातृप्तिपुनरावृत्तिलोकप्रत्युत्थायिष्वग्निसमिद्धूमार्चिरङ्गारविस्फुलिङ्गेषु प्रश्नाः षट्, तेषां यः समाहारः षण्णां सा षट्प्रश्नी, तस्या निरूपणं प्रतिवचनम् ॥६॥



____________________________________________________________________________________________


३,१.१.७

सूत्रान्तरमवतारयितुं शङ्कतेकथं पुनरिति ।
सोमं राजानमाप्यायस्वापक्षीयस्वेत्येवमेनांस्तत्र भक्षयन्तीति ।
क्रियासमभिहारेणाप्यायनापक्षयौ यथा सोमस्य तथा भक्षयन्ति सोममयांल्लोकानित्यर्थः ।
अत उत्तरं पठति

भाक्तं वानात्मविस्त्त्वात्तथाहि दर्शयति । ब्रह्मसूत्र ३,१.७ ।

कर्मजनितफलोपभोगकर्ता ह्यधिकारी न पुनरुपभोग्यस्तस्माच्चन्द्रसालोक्यमुपगतानां देवादिभक्ष्यत्वेऽस्वर्गकामो यजेतऽइति यागभावनायः कर्त्रपेक्षितोपायतारूपविधिश्रुतिविरोधादन्नशब्दो भोक्तृणामेव सतां देवोपजीवितामात्रेण भाक्तो गमयितव्यो न तु चर्वणनिगरणाभ्यां मुख्य इति ।
अत्रैवार्थे श्रुत्यन्तरं संगच्छत इत्याहतथाहि दर्शयति ।
श्रुतिरनात्मविगामनात्मवित्त्वादेव पशुवद्देवोपभोग्यतां न तु चर्वणीयतया ।
यथा हि बलीवर्दादयो भुञ्जाना अपि स्वफलं स्वामिनो हलादिवहनेनोपकुर्वाणा भोग्याः, एवं परमतत्त्वमविद्वांस इष्टादिकारिण इह दधिपयःपुरोडाशादिनामुष्मिंश्च लोके परिचारकतया देवानामुपभोग्या इति श्रुत्यर्थः ।
अथवाअनात्मवित्त्वात्तथाहि दर्शयतिइत्यस्यान्या व्याख्या ।
आत्मवित्पञ्चाग्निविद्यावित्न आत्मवितनात्मवित् ।
यो हि पञ्चाग्निविद्यां न वेद तं देवा भक्षयन्तीति निन्द्यते पञ्चाग्निविद्यां स्तोतुं तस्या एव प्रकृतत्वात् ।
तदनेनोपचारस्य प्रयोजनमुक्तम् ।
उपचारनिमित्तमनुपपत्तिमाहतथाहि दर्शयति ।
श्रुतिर्भोक्तृत्वम् ।
स सोमलोके विभूतिमनुभूयेति ।
शेषमतिरोहितार्थम् ॥७॥



____________________________________________________________________________________________


३,१.२.८

कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्यां यथेतमनेवं च । ब्रह्मसूत्र ३,१.८ ।
यावत्संपातमुषित्वेति ।
यावदुपबन्धात् ।
यत्किञ्चेह करोत्ययमिति ।
च यत्किञ्चेह कर्म कृतं तस्यान्तं प्राप्येति श्रवणात्, प्रायणस्य चैकप्रघट्टकेन सकलकर्माभिव्यञ्जकत्वात् ।
न खल्वभिव्यक्तिनिमित्तस्य साधारण्येऽभिव्यक्तिनियमो युक्तः ।
फलदानाभिमुखीकरणं चाभिव्यक्तिस्तस्मात्समस्तमेव कर्म फलमुपभोजितवत् ।
स्वफलविरोधि च कर्म ।
तस्माच्छ्रुतेरुपपत्तेश्चं निरनुशयानामेव चरणादाचारादवरोहो न कर्मणः ।
आचारकर्मणी च श्रुतेः प्रसिद्धभेदे ।
यथाकारी यथाचारी तथा भवतीति ।
तथाच रमणीयचरणाः कपूयचरणा इत्याचारमेव योनिनिमित्तमुपदिशति न तु कर्म ।
स्तां वा कर्मशीले द्वे अप्यविशेषेणानुशयस्तथापि यद्यप्ययमिष्टापूर्तकारी स्वयं निरनुशयो भुक्तभोगत्वात्तथापि पित्रादिगतानुशयवशात्तद्विपाकान् जात्यायुर्भोगांश्चन्द्रलोकादवरुह्यानुभविष्यति ।
स्मर्यते ह्यन्यस्य सुकृतदुष्कृताभ्यामन्यस्य तत्संबन्धिनस्तत्फलभागिताऽपतत्यर्धशरीरेण यस्य भार्या सुरां पिबेत्ऽइत्यादि ।
तथा श्राद्धवैश्वानरीयेष्ट्यादेः पितापुत्रादिगामिफलश्रुतिः ।
तस्माद्यावत्संपातमित्युपक्रमानुरोधात्ऽयत्किञ्चेह करोतिऽइति च श्रुत्यन्तरानुसाराद्रमणीयचरणत्वं संबन्ध्यन्तरगतमिष्टापूर्तकारिणि भाक्तं गमयितव्यम् ।
तथाच निरनुशयानामेव भुक्तभोगानामवरोह इति प्राप्त उच्यतेयेन कर्मकलापेन फलमुपभोजितं तस्मिन्नतीतेऽपि सानुशया एव चन्द्रमण्डलादवरोहन्ति ।
कुतःदृष्टस्मृतिभ्याम् ।
प्रत्यक्षदृष्टा श्रुतिर्दृष्टशब्दवाच्या ।
स्मृतिश्चोपन्यस्ता ।
अथवा दृष्टशब्देनोच्चावचरूपो भोग उच्यते ।
अयमभिसंधिःकपूयचरणा रमणीयचरणा इत्यवरोहितामेतद्विशेषणम् ।
नच सति मुख्यार्थसंभवे संबन्धिमात्रेणोपचरितार्थत्वं न्याय्यम् ।
न चोपक्रमविरोधाच्छ्रुत्यन्तरविरोधाच्च मुख्यार्थसंभव इति सांप्रतम् ।
दत्तफलेष्टापूर्तकर्मापेक्षयापि यावत्पदस्य यत्किञ्चेतिपदस्य चोपपत्तेः ।
नहिऽयावज्जीवमग्निहोत्रं जुहुयात्ऽइति यावज्जीवमाहारविहारादिसमयेऽपि होमं विधत्ते नापि मध्याह्नादावपि तु सायंप्रातःकालापेक्षया ।
सायंप्रातःकालविधानसामर्थ्यात्, कालस्य चानुपादेयतयानङ्गस्यापि निमित्तानुप्रवेशात्तत्रैवमिति चेत् ।
न ।
इहापि रमणीयचरणा इत्यादेर्मुख्यार्थत्वानुरोधात्तदुपपत्तेः ।
तत्किमिदानीमुपसंहारानुरोधेनोपक्रमः संकोचयितव्यः ।
नेत्युच्यते ।
नह्यसावुपसंहारानुरोधेऽप्यसंकुचद्वृत्तिरुपपत्तुमर्हति ।
नहि यावन्तः संपाता यावतां वा पुंसां संपातास्ते सर्वे तत्रेष्टादिकारिणा भोगेन क्षयं नीयन्ते ।
पुरुषान्तराश्रयाणां कर्माशयानां तद्भोगेन क्षयेऽतिप्रसङ्गात् ।
चिरोपभुक्तानां च कर्माशयानामसतां चन्द्रमण्डलोपभोगेनापनयनात् ।
तथाच स्वयं संकुचन्ती यावच्छ्रुतिरुपसंहारानुरोधप्राप्तमपि संकोचनमनुमन्यते ।
एतेनऽयत्किञ्चेह करोतिऽइत्यपि व्याख्यातम् ।
अपि चेष्टापूर्तकारीह जन्मनि केवलं न तन्मात्रमकार्षीदपि तु गोदोहनेनापः प्रणयन् पशुफलमप्यपूर्वं समचैषीत् ।
एवमहर्निशं च वाङ्मनः शरीरचेष्टाभिः पुण्यापुण्यमिहामुत्रोपभोग्यं संचितवतो न मर्त्यलोकादिभोग्यं चन्द्रलोके भोग्यं भवितुमर्हति ।
नच स्वफलविरोधिनोऽनुशयस्य ऋते प्रायश्चित्तादात्मज्ञानाद्वादत्तफलस्य ध्वंसः संभवति ।
तस्मात्तेनानुशयेनायमनुशयवान् परावर्तत इति श्लिष्टम् ।
न चैकभविकः कर्माशय इत्यग्रे भाष्यकृद्वक्ष्यति ।
अन्ये तु सकलकर्मक्षये परावृत्तिशङ्का निर्बीजेति मन्यमाना अन्यथाधिकरणं वर्णयाञ्चक्रुरित्याहकेचित्तावदाहुरिति ।
अनुशयोऽत्र दत्तफलस्य कर्मणः शेष उच्यते ।
तत्रेदमिह विचार्यतेकिं दत्तफलानामिष्टापूर्तकर्मणामवशेषादिहावर्तन्ते उत तान्युपभोगेन निरवशेषं क्षपयित्वानुपभुक्तकर्मशादिहावर्तन्त इति ।
तत्रेष्टादीनां भोगेन समूलकाषं कषितत्वान्निरनुशया एवानुपभुक्तकर्मवशादावर्तन्त इति प्राप्त उच्यतेसानुशया एवावर्तन्त इति ।
कुतःदृष्टानुसारात् ।
यथा भाण्डस्थे मधुनि सर्पिषि वा क्षालितेऽपि भाण्डलेपकं तच्छेषं मधु वा सर्पिर्वा न क्षालयितुं शक्यमिति दृष्टमेवं तदनुसारादेतदपि प्रतिपत्तव्यम् ।
न चावशेषमात्राच्चन्द्रमण्डले तिष्ठासन्नपि स्थातुं पारयति ।
यथा सेवको हास्तिकाश्वीयपदातिव्रातपरिवृतो महाराजं सेवमानः कालवशाच्छत्रपादुकावशेषो न सेवितुमर्हतीति दृष्टं तन्मूला च लौकिकी स्मृतिरिति दृष्टस्मृतिभ्यां सानुशया एवावर्तन्त इति ।
तदेदद्दूषयतिन चैतदिति ।
एवकारे प्रयोक्तव्ये इवकारो गुडजिह्विकया प्रयुक्तः ।
शब्दैकगम्येर्ऽथे न सामान्यतोदृष्टानुमानावसर इत्यर्थः ।
शेषमतिरोहितार्थम् ।
पूर्वपक्षहेतुमनुभाषतेयदप्युक्तं प्रायणमिति ।
दूषयतितदप्यनुशयसद्भावेति ।
रमणीयचरणा कपूयचरणा इत्यादिकयानुशयप्रतिपादनपरया श्रुत्या विरुद्धमित्यर्थः ।
अपिचेत्यादि ।
इह जन्मनि हि पर्यायेण सुखदुःखे भुज्यमाने दृश्येते ।
युगपच्चेदेकप्रघट्टकेन प्रायणेन सुखदुःखफलानि कर्माणि व्यज्येरन् ।
युगपदेव तत्फलानि भुज्येरन् ।
तस्मादुपभोगपर्यायदर्शनाद्बलीयसा दुर्बलस्याभिभवः कल्पनीयः ।
एवं विरुद्धजातिनिमित्तोपभोगफलेष्वपि कर्मसु द्रष्टव्यम् ।
न चाभिव्यक्तं च कर्म फलं न दत्त इति च संभवति ।
फलोपजनाभिमुख्यं हि कर्मणामभिव्यक्तिः ।
अपिच प्राणस्याभिव्यञ्जकत्वे स्वर्गनरकततिर्यग्योनिगतानां जन्तूनां तस्मिञ्जन्मनि कर्मस्वनधिकारान्नापूर्वकर्मोपजनः पूर्वकृतस्य क्रमाश्यस्य प्रायणाभिव्यक्ततया फलोपभोगेन प्रक्षयान्नास्ति तेषां कर्माश्य इति न ते संसरेयुः ।
नच मुच्येरन्नात्मज्ञानाभावादिति कष्टां बतालिष्टा दशाम् ।
किञ्च स्वसमवेतमेव प्रायणेनाभिव्यज्यतेऽपूर्वं न परसमवेतं, येन पित्रादिगतेन कर्मणा वर्तेरन्निति ।
शेषं सुगमम् ॥८॥



____________________________________________________________________________________________


३,१.२.९

चरणादिति चेन्नोपलक्षणार्थेति कार्ष्णाजिनिः । ब्रह्मसूत्र ३,१.९ ।
अनेन निरनुशया एवावरोहन्तीति पूर्वपक्षबीजं निगूढमुद्धाट्य निरस्यति ।
यद्यपिऽअक्रोधः सर्वभूतेषु कर्मणा मनसा गिरा ।
अनुग्रहश्च ज्ञानं च शीलमेताद्विदुर्बुधाः ॥
ऽइति स्मृतेः शीलमाचारोऽनुशयाद्भिन्नस्तथाप्यानुशयाङ्गतयानुशयोपलक्षणत्वं कार्ष्णाजिनिराचार्यो मेने ।
तथाच रमणीयचरणाः कपूयचरणा इत्यनेनानुशयोपलक्षणात्सिद्धं सानुशयानामेवावरोहणमिति ॥९॥



____________________________________________________________________________________________


३,१.२.१०

आनर्थक्यमिति चेन्न तदपेक्षत्वात् । ब्रह्मसूत्र ३,१.१० ।
ऽआचारहीनं न पुनन्ति वेदाःऽइति हि स्मृत्या वेदपदेन वेदार्थमुपलक्षयन्त्या वेदार्थानुष्ठानशेषत्वमाचारस्योक्तं न तु स्वतन्त्र आचारः फलस्य साधनं, तेन वेदार्थानुष्ठानोपकारकतयाचारस्य नानर्थक्यं क्रत्वर्थस्य ।
तदनेन समिदादिवदाचारस्य क्रत्वर्थत्वमुक्तम् ।
संप्रति स्नानादिवत्पुरुषार्थत्वे पुरुषसंस्कारत्वेऽप्यदोष इत्याहपुरुषार्थत्वेऽप्याचारस्येति ।
तदेवं चरणशब्देनाचारवाचिना सर्वोऽनुशयो लक्षित इत्युक्तम् ॥१०॥



____________________________________________________________________________________________


३,१.२.११

बादरिस्तु मुख्य एव चरणशब्दः कर्मणीत्याह

सुकृतदुष्कृते एवेति तु बादरिः । ब्रह्मसूत्र ३,१.११ ।

ब्रह्मणपरिव्राजकन्यायो गोबलीवर्दन्यायः ।
शेषमतिरोहितार्थम् ॥११॥



____________________________________________________________________________________________


३,१.३.१२

अनिष्टादिकारिणामपि च श्रुतम् । ब्रह्मसूत्र ३,१.१२ ।
ऽये वै के चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्तिऽइति कौषीतकिनां समाम्नानात्, देहारम्भस्य च चन्द्रलोकगमनमन्तरेणानुपपत्तेः पञ्चम्यामाहुतावित्याहितिसंख्यानियमात् ।
तथाहिद्युसोमवृष्ट्यन्नरेतःपरिणामक्रमेण ता एवापो योषिदग्नौ हुताः पुरुषवचसो भवन्तीत्यविशेषेण श्रुतम् ।
न चैतन्मनुष्याभिप्रायं, कपूयचरणाः स्वयोनिमित्यमनुष्यस्यापि श्रवणात् ।
गमनागमनाय च देवयानपितृयाणयोरेव मार्गयोराम्नानात्, पथ्यन्तरस्याश्रुतेः,ऽजायस्व म्रियस्वेति तृतीयं स्थानम्ऽइति च स्थानत्वमात्रेणावगमात्पथित्वेनाप्रतीतेश्चन्द्रलोकादवतीर्णानामपि च तत्स्थानत्वसंभवादसंपूरणेन प्रतिवचनोपपत्तेः, अनन्यमार्गतया च तद्भोगविरहिणामपि ग्रामं गच्छन् वृक्षमूलान्युपसर्पतीतिवत्संयमनादिषु यमवश्यतायै चन्द्रलोकगमनोपपत्तेः,ऽन कतरेणचनऽइत्यस्यासंपूरणप्रतिपादनपरतया मार्गद्वयनिषेधपरत्वाभावात्, अनिष्टादिकारिणामपि चन्द्रलोकगमने प्राप्तेऽभिधीयतेसत्यं स्थानतयावगतस्य न मार्गत्वं तथापि वेत्थ यथासौ मार्गो न संपूर्यते इत्यस्य प्रतिवचनावसरे
मार्गद्वयनिषेधपूर्वं तृतीयं स्थानमभिवदन्नसंपूरणाय तत्प्रतिपक्षमाचक्षीत ।
यदि पुनस्तेनैव मार्गेणागत्य जन्ममरणप्रबन्धवत्स्थानमध्यासीत नैतत्तृतीयं स्थानं भवेत् ।
नहीष्टादिकारिणश्चन्द्रमण्डलादवरुह्य रमणीयां निन्दितां वा योनिं प्रतिपद्यमानास्तृतीयं स्थानं प्रतिपद्यन्ते ।
तत्कस्य हेतोः ।
पितृयाणेन पथावरोहात् ।
तद्यदि क्षुद्रजन्तवोऽप्यनेनैव पथावरोहेयुः, नैतदेषां जन्ममरणप्रबन्धवत्तृतीयं स्थानं भवेत् ।
ततोऽवगच्छामः संयमनं सप्त च यातनाभूमीर्यमवशतया प्रतिपद्यमाना अनिष्टादिकारिणो न चन्द्रमण्डलादवरोहन्तीति ।
तस्मात्ऽये वै के चऽइतीष्टादिकारिविषयं न सर्वविषयम् ।
पञ्चम्यामाहुताविति च स्वार्थविधानपरं न पुनरपञ्चम्याहुतिप्रतिषेधपरमपि, वाक्यभेदप्रसङ्गात् ।
संयमने त्वनुभूयेति सूत्रेणावरोहापादानतया संयमनस्योपादानाच्चन्द्रमण्डलापादाननिषेध आञ्जसः ।
तथाच सिद्धान्तसूत्रमेव ।
पूर्वपक्षसूत्रत्वे तु शङ्कान्तराध्याहारेण कथञ्चिद्गमयितव्यम् ।
जीवजञ्जरायुजम् ।
संशोकजंसंस्वेदजम् ॥१२॥



____________________________________________________________________________________________


३,१.३.१३

संयमने त्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनात् । ब्रह्मसूत्र ३,१.१३ ।
॥ १३ ॥


____________________________________________________________________________________________


३,१.३.१४

स्मरन्ति च । ब्रह्मसूत्र ३,१.१४ ।
॥ १४ ॥


____________________________________________________________________________________________


३,१.३.१५

अपि च सप्त । ब्रह्मसूत्र ३,१.१५ ।
॥ १५ ॥


____________________________________________________________________________________________


३,१.३.१६

तत्रापि च तद्व्यापारादविरोधः । ब्रह्मसूत्र ३,१.१६ ।
॥ १६ ॥


____________________________________________________________________________________________


३,१.३.१७

विद्याकर्मणोरिति तु प्रकृतत्वात् । ब्रह्मसूत्र ३,१.१७ ।
॥ १७ ॥


____________________________________________________________________________________________


३,१.३.१८

न तृतीये तथोपलब्धेः । ब्रह्मसूत्र ३,१.१८ ।
॥ १८ ॥


____________________________________________________________________________________________


३,१.३.१९

स्मर्यतेऽपि च लोके । ब्रह्मसूत्र ३,१.१९ ।
॥ १९ ॥


____________________________________________________________________________________________


३,१.३.२०

दर्शनाच्च । ब्रह्मसूत्र ३,१.२० ।
॥ २० ॥


____________________________________________________________________________________________


३,१.३.२१

तृतीयशब्दावरोधः संशोकजस्य । ब्रह्मसूत्र ३,१.२१ ।
॥ २१ ॥


____________________________________________________________________________________________


३,१.४.२२

साभाव्यापत्तिरुपपत्तेः । ब्रह्मसूत्र ३,१.२२ ।
यद्यपि यथेतमाकाशमाकाशाद्वायुमित्यतो न तादात्म्यं स्फुटमवगम्यते तथापि वायुर्भूत्वेत्यादेः स्फुटतरं तादात्म्यावगमाद्यथेतमाकाशमित्येतदपि तादात्म्य एवावतिष्ठते ।
न चान्यस्यान्यभावानुपपत्तिः ।
मनुष्यशरीरस्य नन्दिकेश्वरस्य देवदेहरूपपरिणामस्मरणाद्देवदेहस्य च नहुषस्य तिर्यक्त्वस्मरणात् ।
तस्मान्मुख्यार्थपरित्यागेन न गौणी वृत्तिराश्रयणीया ।
गौण्यां च वृत्तौ लक्षणाशब्दः प्रयुक्तो गुणे लक्षणायाः संभवात् ।
यथाहुःऽलक्ष्यमाणगुणैर्योगाद्वृत्तेरिष्टा तु गौणताऽइति ।
एवं प्राप्ते ब्रूमःसाभाव्यापत्तिः ।
समानो भावो रूपं येषां ते सभावास्तेषां भावः साभाव्यं सारूप्यं सादृश्यमिति यावत् ।
कुतःुपपत्तेः ।
एतदेव व्यतिरेकमुखेन व्याचष्टेनह्यन्यस्यान्यभावो मुख्य उपपद्यते ।
युक्तमेतद्यद्देवशरीरमजगरभावेन परिणमते, देवदेहसमयेऽजगरशरीरस्याभावात् ।
यदि तु देवाजगशरीरे समसमये स्यातां न देवशरीरमजगरशरीरं शिल्पिशतेनापि क्रियते ।
नहि दधिपयसी समसमये परस्परात्मनी शक्ये संपादयितुं, तथेहापि सूक्ष्मशरीराकाशयोर्युगपद्भावान्न परस्परात्मत्वं भवितुमर्हति ।
एवं वाय्वादिष्वपि योज्यम् ।
तथाच तद्भावस्तत्सादृश्येनौपचारिको व्याख्येयः ।
नन्वाकाशभावेन संयोगमात्रं लक्ष्यतां किं सादृश्येनेत्यत आहविभुत्वाच्चाकाशेनेति ॥२२॥



____________________________________________________________________________________________

३,१.५.२३

नातिचिरेण विशेषात् । ब्रह्मसूत्र ३,१.२३ ।
ऽदुर्निष्प्रपतरम्ऽइति दुःखेन निःसरणं ब्रूते न तु विलम्बेनेति मन्यते पूर्वपक्षी ।
विना स्थूलशरीरं न सूक्ष्मशरीरे दुःखभागीति दुर्निष्प्रपतरं विलम्बं लक्षयतीति राद्धान्तः ॥२३॥



____________________________________________________________________________________________


३,१.६.२४

अन्याधिष्ठितेषु पूर्ववदभिलापात् । ब्रह्मसूत्र ३,१.२४ ।
आकाशसारूप्यं वायुधूमादिसंपर्कोऽनुशयिनामुक्त इहेदानीं व्रीहियवा ओषाधिवनस्पतयस्तिलभाषा इति जायन्त इति श्रूयते ।
तत्र संशयःकिमनुशयिनां भोगाधिष्ठानं व्रीहियवादयः स्थावरा भवन्ति, आहोस्वित्क्षेत्रज्ञान्तराधिष्ठितेष्वेषु संसर्गमात्रमनुभवन्तीति ।
तत्र मनुष्यो जायते देवो जायत इत्यादौ प्रयोगे जनेः शरीरपरिग्रहे प्रसिद्धत्वादत्रापि व्रीह्यादिशरीरपरिग्रह एव जनिर्मुख्यार्थ इति व्रीह्यादिशरीरा एवानुशयिन इति युक्तम् ।
नच रमणीयचरणाः कपूयचरणा इतिवत्कर्मविशेषासंकीर्तनामात्तदभावे व्रीह्यादीनां शरीरभावाभावात्क्षेत्रज्ञानन्तराधिष्ठितानामेव यत्संपर्कमात्रमिति सांप्रतम् ।
इष्टादिकारिणामिष्टादिकर्मसंकीर्तनादिष्टादेश्च हिंसादोषदूषितात्वेन सावद्यफलतया चन्द्रलोकभोगानान्तरं स्थावरशरीरभोग्यदुःखफलत्वस्याप्युपपत्तेः ।
नचऽन हिंस्यात्सर्वा भूतानिऽइति सामान्यशास्त्रस्याग्नीषोमीयपशुहिंसाविषयविशेषशास्त्रेण बाधनं, सामान्यशास्त्रस्य हिंसामान्यद्वारेण विशेषोपसर्पणं विलम्बेनेति साक्षाद्विशेषस्पृशः शास्त्रच्छीघ्रतरप्रवृत्ताद्दुर्बलत्वादिति सांप्रतम् ।
नहि बलवदित्येव दुर्बलं बाधते किन्तु सति विरोधे ।
न चेहास्ति विरोधः, भिन्नगोचरचारित्वात् ।
ऽअग्नीषोमीयं पशुमालभेत्ऽइति हि क्रतुप्रकरणे समाम्नातं क्रत्वर्थतामस्य गमयति न त्वपनयति निषेधापादितामस्य पुरुषं प्रत्यनर्थहेतुताम् ।
तेनास्तु निषेधादस्य पुरुषं प्रत्यनर्थहेतुता विधेश्छ क्रत्वर्थता को विरोधः ।
यथाहुःऽयो नाम क्रतुमध्यस्थः कलञ्जादीनि भक्षयेत् ।
न क्रतोस्तत्र वैगुण्यं यथा चोदितसिद्धितःऽइति ।
तस्माज्जनेर्मुख्यार्थत्वाद्व्रीह्यादिशरीरा अनुशयिनो जायन्त इति प्राप्तेऽभिधीयतेभवेदेतदेवं यदि रमणीयचरणाः कपूयचरणा इतिवद्व्रीह्यादिष्वनुशयवतां कर्मविशेषः कीर्त्येत न चैतदस्ति ।
न चेष्टादेः कर्मणः स्थावरशरीरोपभोग्यदुःखफलप्रसवहेतुभावः संभवति, तस्य धर्मत्वेन सुखैकहेतुत्वात् ।
नच तद्गतायाः पशुहिंसायाऽन हिंस्यात्ऽइति निषेधात्क्रत्वर्थाया अपि दुःखफलवत्संभवः ।

पुरुषार्थाया एव न हिंस्यादिति प्रतिषेधात् ।
तथाहिन हिंस्यादिति निषेधस्य निषेध्याधीननिरूपणतया यदर्थं निषेध्यं तदर्थ एव निषेधो विज्ञायते ।
न चैतत्ऽनानृतं वदेत्ऽऽन तौ पशौ करोतिऽइतिवत्कस्यचित्प्रकरणे समाम्नातं येनानृततवदनवदस्य निषेधस्य क्रत्वर्थते निषेधोऽपि क्रत्वर्थः स्यात् ।
पशौ निषिद्धयोराज्यभागयोः क्रत्वर्थत्वेन निषेधस्यापि क्रत्वर्थत्वं भवेत् ।
एवं हि सत्याज्यभागरहितैरप्यङ्गान्तरैराज्यभागसाध्यः क्रतूपकारो विज्ञायते ।
तस्मादनारभ्याधीतेन न हिंस्यादित्यनेनाभिहितस्य विध्युपहितस्य पुरुषव्यापारस्य विधिविभक्तिविरोधात्प्रकृत्यर्थहिंसाकर्मभाव्यत्परित्यागेन पुरुषार्थ एव भाव्योऽवतिष्ठते ।
आख्यातानभिहितस्यापि पुरुषस्य कर्तृव्यापाराभिधानद्वारेणोपस्थापितत्वात् ।
केवलं तस्य रागतः प्राप्तत्वात्तदनुवादेन नञर्थं विधिरुपसंक्रामति, तेन पुरुषार्थो निषेध्य इति तदधीननिरूपणो निषेधोऽपि पुरुषार्थो भवति ।
तथा चायमर्थः संपद्यतेयत्पुरुषार्थं हननं तन्न कुर्यादिति ।
क्रत्वर्थस्यापि च निषेधे हिंसायाः क्रतूपकारकत्वमपि कल्प्यते ।
नच दृष्टे पुरुषोकारकत्वे प्रत्यर्थिनि सति तत्कल्पनास्पदम् ।
नच स्वातन्त्र्यपारतन्त्र्ये सति संयोगपृथक्त्वे खादिरतादिवदेकत्र संभवतः ।
तस्मात्पुरुषार्थप्रतिषेधो न क्रत्वर्थमप्यास्कन्दतीति शुद्धसुखफलत्वमेवेष्टादीनां न स्थावरशरीरोपभोग्यदुःखफलत्वमपीति ।
आकाशादिष्विव कर्मव्यापारमन्तरेणाभिलापात् ।
अनुशयिनां व्रीह्यादिसंयोगमात्रं न तु देहत्वमिति ।
अयमेवार्थ उत्सर्गापवादकथनेनोपलक्षितः ।
अपिच मुख्येऽनुशयिनां व्रीह्यादिजन्मनीति ।
व्रीह्यादिभावमापन्नाः खल्वनुशयिनः पुरुषैरुपभुक्ता रेतः सिग्भावमनुभवन्ती श्रूयते ।
तदेतद्व्रीह्यादिदेहत्वेऽनुशयिनां नोपपद्यते ।
व्रीह्यादिदेहत्वे हि व्रीह्यादिषु लूनेष्ववहन्तिना फलीकृतेषु च व्रीह्यादिदेहविनाशादनुशयिनः प्रवसेयुरिति कथमनुशयिनां रेतःसिग्भावः संसर्गमात्रे तु संसर्गिषु व्रीह्यादिषु नष्टेष्वपि न संसर्गिणोऽनुशयिनः प्रवसेयुरिति रेतःसिग्भाव उपपद्यते ।
शेषमुक्तम् ॥२४॥



____________________________________________________________________________________________


३,१.६.२५

अशुद्धमिति चेन्न शब्दात् । ब्रह्मसूत्र ३,१.२५ ।
॥ २५ ॥


____________________________________________________________________________________________


३,१.६.२६

रेतःसिग्योगोऽथ । ब्रह्मसूत्र ३,१.२६ ।
सद्यो जातो हि बालो न रेतः सिग्भवत्यपि तु चिरजातः प्रौढयौवनः, तस्मादपि संसर्गमात्रमिति गम्यते ॥२६॥



____________________________________________________________________________________________


३,१.६.२७

तत्किमिदानीं सर्वत्रैवानुशयिनां संसर्गमात्रं तथाच रमणीयचरणा इत्यादिषु तथाभाव आपद्येतेति नेत्याह
योनेः शरीरम् । ब्रह्मसूत्र ३,१.२७ ।
सुगमम् ॥२७॥



इति श्रीवाचस्पतिमिश्रविरचिते शारीरकमीमांसाभाष्यविभागे भामत्यां तृतीयस्याध्यायस्य प्रथमः पादः ॥


॥ इति तृतीयाध्यायस्य गत्यागतिचिन्तया वैराग्यनिरूपणाख्यः प्रथमः पादः ॥




____________________________________________________________________________________________
____________________________________________________________________________________________



तृतीयाध्याये द्वितीयः पादः ॥



____________________________________________________________________________________________


३,२.१.१

संध्ये सृष्टिराह हि । ब्रह्मसूत्र ३,२.१ ।

इदानीं तु तस्यैव जीवस्यावस्थाभेदः स्वयञ्ज्योतिष्ट्वसिद्ध्यर्थ प्रपञ्चयतेकिं प्रबोध इव स्वप्नेऽपि पारमार्थिकी सृष्टिराहोस्विन्मायामयीति ।
यद्यपि ब्रह्मणोऽन्यस्यानिर्वाच्यतया जाग्रत्स्वप्नावस्थागतयोरुभयोरपि सर्गयोर्मायमयत्वं तथापि यथा जाग्रत्सृष्टिर्ब्रह्मात्मभावसाक्षात्कारात्प्रागनुवर्तते ।
ब्रह्मात्मभावसाक्षात्कारात्तु निवर्तते ।
एवं किं स्वप्नसृष्टिराहोस्वित्प्रतिदिनमेव निवर्तत इति विमर्शार्थः ॥
द्वयोः इहलोकपरलोकस्थानयोः ।
संधौ भवं संध्यम् ।
ऐहलौकिकचक्षुराद्यव्यापाराद्रूपादिसाक्षात्कारोपजननादनैहलौकिकं पारलौकिकेन्द्रियादिव्यापारस्य च भविष्यतोऽप्रत्युत्पन्नत्वेन न पारलौकिकम् ।
नच न रूपादिसाक्षात्कारोऽस्ति स्वप्नदृशः ।

तस्मादुभयोर्लोकयोरस्यान्तरालत्वमिति ब्रह्मात्मभावसाक्षात्कारात्प्राक्तथ्यरूपैव सृष्टिर्भवितुमर्हति ।
अयमभिसंधिःिह हि सर्वाण्येव मिथ्याज्ञानान्युदाहरणं तेषां सत्यत्वं प्रतिज्ञायते ।
प्रकृतोपयोगितया तु स्वप्नज्ञानमुदाहृतम् ।
ज्ञानं यमर्थमवबोधयति स तथैवेति युक्तम् ।
तथाभावस्य ज्ञानारोहात् ।
अतथात्वस्य त्वप्रतीयमानस्य तथाभावप्रमेयविरोधेन कल्पनास्पदत्वात्बाधकप्रत्ययादतथात्वमिति चेत् ।
न ।
तस्य बाधकत्वासिद्धेः ।
समानगोचरे हि विरुद्धार्थोपसंहारिणी ज्ञाने विरुध्यते ।
बलवदबलवत्त्वानिश्चयाच्च बाध्यबाधकभावं प्रतिपद्येते ।
न चेह समानविषयत्वं, कालभेदेन व्यवस्थोपपत्तेः ।
यथाहि क्षीरं दृष्टं कालान्तरे दधि भवति, एवं रजतं दृष्टं कालान्तरे शुक्तिर्भवेत् ।
नानारूपं वा तद्वस्तु ।
यद्यस्य तीव्रातपक्लान्तिसहितं चक्षुः स तस्य रजतरूपतां गृह्णाति ।
यस्य तु केवलमालोकमात्रोपकृतं, स तस्यैव शुक्तिरूपतां गृह्णाति ।
एवमुत्पलमपि नीललोहितं दिवा सौरीभिर्भाभिरभिव्यक्तं नीलतया गृह्यते ।
प्रदीपाभिव्यक्तं तु नक्तं लोहिततया ।
एवमसत्यां निद्रायां सतोऽपि रथादीन्न गृह्णाति निद्राणस्तु गृह्णातीति सामग्रीभेदाद्वा कालभेदाद्वा विरोधाभावः ।
नापि पूर्वोत्तरयोर्बलवदबलवत्त्वनिर्णयः ।
द्वयोरपि स्वगोचरचारितया समानत्वेन विनिगमनाहेतोरभावात् ।
तस्मादप्यवश्यमविरोधो व्यवस्थापनीयः ।
तत्सिद्धमेतत् ।
विवादास्पदं प्रत्ययाः, सम्यञ्चः, प्रत्ययत्वात्, जाग्रत्स्तम्भादिप्रत्ययवदिति ।
इममर्थं श्रुतिरपि दर्शयतिऽअथ रथान् रथयोगान् पथः सृजतेऽइति ।
नचऽन तत्र रथा न रथयोगा न पन्थानो भवन्तिऽइति विरोधादुपचरितार्थां सृजत इति श्रुतिर्व्याख्येया ।
सृजत इति हि श्रुतेर्बहुश्रुतिसंवादात्प्रमाणान्तरसंवादाच्च बलीयस्त्वेन तदनुगुणतया न तत्र रथा इत्यस्या भाक्तत्वेन व्याख्यानात् ।
जाग्रदवस्थादर्शनयोग्या न सन्ति न तु रथा न सन्तीति ।
अत एव कर्तृश्रुतिः शाखान्तरश्रुतिरुदाहृता ।
प्राज्ञकर्तृकत्वाच्चास्य पारमार्थिकत्वं वियदादिसर्गवत् ।
नच जीवकर्तृकत्वान्न प्राज्ञकर्तृकत्वमिति सांप्रतम् ।
ऽअन्यत्र धर्मादन्यत्राधर्मात्ऽइति प्राज्ञस्यैव प्रकृतत्वात् ।
जीवकर्तृकत्वेऽपि च प्राज्ञदभेदेन जीवस्य प्राज्ञत्वात् ।
अपिच जाग्रत्प्रत्ययसंवादवन्तोऽपि स्वप्नप्रत्ययाः केचिद्दृश्यन्ते ।
तद्यथा स्वप्ने शुक्लाम्बरधरः शुक्लमाल्यानुलेपनो ब्राह्मणायनः प्रियव्रतं प्रत्याहप्रियव्रत, पञ्चमेऽहनि प्रातरेवोर्वराप्रायभूमिदानेन नरपतिस्त्वां मानयिष्यतीति ।
स च जाग्रत्तथात्मनो मानमनुभूय स्वप्नप्रत्ययं सत्यमभिमन्यते ।
तस्मात्संध्ये पारमार्थिकी सृष्टिः ॥१॥


____________________________________________________________________________________________


३,२.१.२

निर्मातारं चैके पुत्रादयश्च । ब्रह्मसूत्र ३,२.२ ।
॥ २ ॥


____________________________________________________________________________________________


३,२.१.३

इति प्राप्ते उच्यते

मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् । ब्रह्मसूत्र ३,२.३ ।

इदमत्राकूतम् ।
न तावत्क्षीरस्येव दधि रजतस्य परिणामः शुक्तिः संभवति ।
नहि जात्वीश्वरगृहे चिरस्थितान्यपि रजतभाजनानि शुक्तिभावमनुभवन्ति दृश्यन्ते ।
न चेतरस्य रजतानुभवसमयेऽन्योऽनाकुलेन्द्रियो न तस्य शुक्तिभावमनुभवति प्रत्येति च ।
न चोभयरूपं वस्तु ।
सामग्रीभेदात्तु कदाचिदस्य तोयभावोऽनुभूयते कदाचिन्मरीचितेति सांप्रतम् ।
पारमार्थिके ह्यास्य तोयभावे तत्साध्यामुदान्योपशमलक्षणार्थक्रियां कुर्यान्मरीचिसाध्यामपि रूपप्रकाशलक्षणाम् ।
न मरीचिभिः कस्यचित्तृष्णज उदन्योपशाम्यति ।
नच तोयमेव द्विविधमुदन्योपशमनमतदुपशमनमिति युक्तम् ।
तदर्थक्रियाकारित्वव्याप्तं तोयत्वं मात्रयापि तामकुर्वत्तोयमेव न स्यात् ।
अपिच तोयप्रत्ययसमीचीनत्वायास्य द्वैविध्यमभ्युपेयते तच्चाभ्युपगमेऽपि न सेद्धुमर्हति ।
तथाहिअसमर्थविधापाति तोयमेतदिति मन्वानो न तृष्णयापि मरीचितोयमभिधावेत्यथा मरीचीननुभवन् ।
अथाशक्तमभिमन्यमानोऽभिधावति ।
किमपराद्धं मरीचिषु तोयविपर्यासेन सर्वजनीनेन यत्तमतिलङ्घ्य विपर्यासान्तरं कल्प्यते ।
नच क्षीरदधिप्रत्ययवदाचार्यमातुलब्राह्मणप्रत्ययवद्वा तोयमरीचिविज्ञाने समुच्चितावगाहिनी स्वानुभवात्परस्परविरुद्धयोर्बाध्यबाधकभावावभासनात् ।
तत्रापि रजतज्ञानं पूर्वमुत्पन्नं बाध्यमुत्तरं तु बाधकं शुक्तिज्ञानं प्राप्तिपूर्वकत्वात्प्रतिषेधस्य ।
रजतज्ञानात्प्राक्प्रापकाभावेन शुक्तेरप्राप्तायाः प्रतिषेधसंभवात्पूर्वज्ञानप्राप्तं तु रजतं शुक्तिज्ञानमपबाधितुमर्हति ।
तदपबाधात्मकं च स्वानुभवादवसीयते ।
यथाहुःऽआगामित्वादबाधित्वा परं पूर्वं हि जायते ।
पूर्वं पुनरबाधित्वा परं नोत्पद्यते क्वचित्ऽ ।
नच वर्तमानरजतावभासि ज्ञानं भविष्यत्तामस्यागोचरयन्न भविष्यता स्वसमयवर्तिनीं शुक्तिं गोचरयता प्रत्ययेन बाध्यते, कालभेदेन विरोधाभावादिति युक्तम् ।
मा नामास्य ज्ञासीत्प्रत्यक्षं भविष्यत्तां तत्पृष्ठभावि त्वनुमानमुपकारभावहेतुमिवासति विनाशप्रत्ययोपनिपाते स्थेमानमाकलयति ।
असति विनाशप्रत्ययोपनिपाते रजतमिदं स्थिरं रजतत्वादनुभूतप्रत्यभिज्ञातरजतवत् ।
तथाच रजतगोचरं प्रत्यक्षं वस्तुतः स्थिरमेव रजतं गोचरयेत् ।
तथाच भविष्यच्छुक्तिकाज्ञानकालं, रजतं व्याप्नुयादिति विरोधाच्छुक्तिज्ञानेन बाध्यते ।
यथाहुःऽरजतं गृह्यमाणं हि चिरस्थायीति गृह्यते ।
भविष्यच्छुक्तिकाज्ञानकालं व्याप्नोति तेन तत्ऽ ॥
इति ।
प्रत्यक्षेण चिरस्थायीति गृह्यत इति केचिद्व्याचक्षते ।
तदयुक्तम् ।
यदि चिरस्थायित्वं योग्यता न सा प्रत्यक्षगोचरः शक्तेरतीन्द्रियत्वात् ।
अथ कालान्तरव्यापित्वं, तदप्ययुक्तं, कालान्तरेण भविष्यतेन्द्रियस्य संयोगायोगात्तदुपहितसीम्नो व्यापित्वस्यातीन्द्रियत्वात् ।
नच प्रत्यभिज्ञाप्रत्ययवदत्रास्ति संस्कारः सहकारी येनावर्तमानमप्याकलयेत् ।
तस्मादत्यन्ताभ्यासवशेन प्रत्यक्षानन्तरं शीघ्रतरोत्पन्नविनश्यदवस्थानुमानसहितप्रत्यक्षाभिप्रायमेव चिरस्थायीति गृह्यत इति मन्तव्यम् ।
अत एवैतत्सूक्ष्मतरं कालव्यवधानमविवेचयन्तः सौगताः प्राहुः, द्विविधो हि विषयः प्रत्यक्षस्य ग्राह्यश्चाध्यवसेयश्च ।
ग्राह्यक्षण एकः स्वलक्षणोऽध्यवसेयश्च ।
संतान इति ।
एतेन स्वप्नप्रत्ययो मिथ्यात्वेन व्याख्यातः ।
यत्तु सत्यं स्वप्नदर्शनमुक्तं तत्राप्याख्यात्रा ब्राह्मणायनेनाख्याते संवादाभावात् ।
प्रियव्रतस्याख्यातसंवादस्तु काकतालीयो न स्वप्नज्ञानं प्रमाणयितुमर्हति ।
तादृशस्यैव बहुलं विसंवाददर्शनात् ।
दर्शितश्च विसंवादो भाष्यकृता कार्त्स्न्येनानभिव्यक्तिं विवृण्वता ।
रजन्यां सुप्त इति ।
रजनीसमयेऽपि हि भारताद्वर्षान्तरे केतुमालादौ वासरो भवतीति भारते वर्ष इत्युक्तम् ॥३॥



____________________________________________________________________________________________


३,२.१.४

सूचकश्च हि श्रुतेराचक्षते च तद्विदः । ब्रह्मसूत्र ३,२.४ ।
दर्शनं सूचकं तच्च स्वरूपेण सत् ।
असत्तु दृश्यम् ।
अत एव स्त्रीदर्शनस्वरूपसाध्याश्चरमधातुविसर्गादयो जाग्रदवस्थायामनुवर्तन्ते ।
स्त्रीसाध्यास्तु माल्यविलेपनदन्तक्षतादयो नानुवर्तन्ते ।
न चास्माभिः स्वप्नेऽपि प्राज्ञव्यापार इति ।
प्राज्ञव्यापारत्वेन पारमार्थिकत्वानुमानं प्रत्यक्षेण बाधकप्रत्ययेन विरुध्यमानं नात्मानं लभत इति भावः ।
बन्धमोक्षयोरान्तरालिकं तृतीयमैश्वर्यमिति ॥४॥


____________________________________________________________________________________________


३,२.१.५

पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ । ब्रह्मसूत्र ३,२.५ ।
देहयोगाद्वा सोऽपिइति सूत्रद्वयं कृतोपपादनमस्माभिः प्रथमसूत्रे ।
निगदव्याख्यातं चैतयोर्भाष्यमिति ॥५॥



____________________________________________________________________________________________


३,२.१.६

देहयोगाद्वा सोऽपि । ब्रह्मसूत्र ३,२.६ ।
॥ ६ ॥


____________________________________________________________________________________________


३,२.२.७

तदभावो नाडीषु तच्छ्रुतेरात्मनि च । ब्रह्मसूत्र ३,२.७ ।
इह हि नाडीपुरितत्परमात्मानो जीवस्य सुषुप्तावस्थायां स्थानत्वेन श्रूयन्ते ।
तत्र किमेषां स्थानानां विकल्प आहोस्वित्समुच्चयः ।
किमतो यद्येवम् ।
एतदतो भवति ।
यदा नाड्यो वा पुरीतद्वा सुषुप्तस्थानं तदा विपरीतग्रहणनिवृत्तावपि न जीवस्य परमात्मभाव इति ।
अविद्यानिवृत्तावपि जीवस्य परमात्मभावाय कारणान्तरमपेक्षितव्यं तच्च कर्मैव न तु तत्तज्ञानं विपरीतज्ञाननिवृत्तिमात्रेण तस्योपयोगात्, विपरीतज्ञाननिवृत्तेश्च विनापि तत्त्वज्ञानं सुषुप्तावपि संभवात् ।
ततश्च कर्मणैवापवर्गो न ज्ञानेन ।
यथाहुःऽकर्मणैव तु संसिद्धिमास्थिता जनकादयःऽइति ।
अत तु परमात्मैव नाडीपुरीतस्मृतिद्वारा सुषुप्तिस्थानं ततो विपरीतज्ञाननिवृत्तेरस्ति मात्रया परमात्मभाव उपयोगः ।
तया हि तावदेष जीवस्तदवस्थानो भवति केवलम् ।
तत्त्वज्ञानाभावेन समूलकाषमविद्याया अकाषाज्जाग्रत्स्वप्नलक्षणं जीवस्य व्युत्थानं भवति ।
तस्मात्प्रयोजनवत्येषा विचारणेति ।
किं तावप्राप्तं, नाडीपुरीतत्परमात्मसु स्थानेषु सुषुप्तस्य जीवस्य निलयं प्रति विकल्पः ।
यथा बहुषु प्रासादेष्वेको नरेन्द्रः कदाचित्क्वचिन्निलीयते कदाचित्क्वचिदेवमेको जीवः कदाचिन्नाडीषु कदाचित्पुरीतति कदाचिद्ब्रह्मणीति ।
यथा निरपेक्षा व्रीहियवाः क्रतुसाधनीभूतपुरोडाशप्रकृतितया श्रुता एकार्था विकल्प्यन्ते, एवं सप्तमीश्रुत्या वायतनश्रुत्या वेकनिलयनार्थाः परस्परानपेक्षा नाड्यदयोऽपि विकल्पमर्हन्ति ।
यत्रापि नाडीभिः प्रत्यवसृप्य पुरीतति शेत इति नाडीपुरीततोः समुच्चयश्रवणम्ऽतथा तासु तदा भवति यदा सुप्तः स्वप्नं न कञ्चन पश्यति ।
अथास्मिन् प्राण एवैकधा भवतिऽइति नाडीब्रह्मणोराधारयोः समुच्चयश्रवणम् ।
प्राणशब्दं च ब्रह्मऽअथास्मिन् प्राणे ब्रह्मणि स जीव एकधा भवतिऽन्निरपेक्षयोरवेधारत्वम् ।
इयांस्तु विशेषः ।
कदाचिन्नाड्य एवाधारः कदाचिन्नाडीभिः संचरमाणस्य पुरीतदेव ।
एवं ताभिरेव संचरमाणस्य कदाचिद्ब्रह्मैवाधार इति सिद्धमाधारत्वे नाडीपुरीतत्परमात्मनामनपेक्षत्वम् ।
तथाच विकल्पो व्रीहियववद्बृहद्रथन्तरवद्वेति प्राप्तम् ।
प्राप्तेऽभिधीयतेजीवः समुच्चयेनैवैतानि नाड्यादीनि स्वापायोपैति न विकल्पेन ।
अयमभिसंधिःनित्यवदाम्नातानां यत्पाक्षिकत्वं नाम तद्गत्यन्तराभावे कल्प्यते ।
यथाहुःऽएवमेषोऽष्टदोषोऽपि यद्व्रीहियववाक्ययोः ।
विकल्प आश्रितस्तत्र गतिरन्या न विद्यतेऽइति ।
प्रकृतक्रतुसाधनीभूतपुरोडाशद्रव्यप्रकृतितया हि परस्परानपेक्षौ व्रीहियवौ विहितौशक्रुतश्चैतौ प्रत्येकं पुरोडाशमभिनिर्वर्तयितुम् ।
तत्र यदि मिश्राभ्यां पुरोडाशोऽभिनिर्वर्त्येत परस्परानपेक्षव्रीहियवविधातृणी उभे अपि शास्त्रे बाध्येयाताम् ।
न चैतौ प्रयोगवचनः समुच्चतुमर्हति ।
स हि यथा विहितान्यङ्गान्यभिसमीक्ष्य प्रवर्तमानो नैतान्यन्यथयितं शक्नोति ।
मिश्रणे चान्यथात्वमेतेषाम् ।
न चाङ्गानुरोधेन प्रधानाभ्यासोऽगोसवे उभे कुर्यात्ऽइतिवद्युक्तः ।
अश्रुतो ह्यत्र प्रधानाभ्यासोऽङ्गानुरोधेन च सोऽन्याय्यः ।
न चाङ्गभूतैन्द्रवायवादिग्रहानुरोधेन यथा प्रधानस्य सोमयागस्यावृत्तिरेवमत्रापीति युक्तम् ।
ऽसोमेनयजेतऽइति हि तत्रापूर्वयागविधिः ।
तत्र च दशमुष्टिपरिमितस्य सोमद्रव्यस्यऽसोममभिषुणोतिऽ,ऽसोममभिप्लावयतिऽइति च वाक्यान्तरानुलोचनया रसद्वारेण यागसाधनीभूतस्येन्द्रवाय्वाद्युद्देशेन प्रादेशमात्रेषूर्ध्वपात्रेषु ग्रहणानि पृथक्प्रकल्पनानि संस्कारा विधीयन्ते, नतु सोमयागोद्देशेनेन्द्रवाय्वादयो देवताश्चोद्यन्ते, येन तासां यागनिष्पत्तिलक्षणैकार्थत्वेन विकल्पः स्यात् ।
नच प्रादेशमात्रमेकैकमूर्ध्वपात्रं दशमुष्टिपरिमितसोमरसग्रहणाय कल्पते, येन तुल्यार्थतया ग्रहणानि विकल्पेरन् ।
नच यावन्मात्रमेकमूर्ध्वपात्रं व्याप्नोति तावन्मात्रं गृहीत्वा परिशिष्टं त्यज्येतेति युज्यते ।
दशमुष्टिपरिमितोपादानस्यादृष्टार्थत्वप्रसङ्गात् ।
एवं तद्दृष्टार्थं भवेद्यदि तत्सर्वं याग उपयुज्येत ।
नच दृष्टे संभवत्यदृष्टकल्पना न्याय्या ।
तस्मात्सकलस्य सोमरसस्य यागशेषत्वेन संस्कारार्हत्वादेकैकेन च ग्रहणेन सकलस्य संस्कर्तुमशक्यत्वात्तदवयवस्यैकेन संस्कारेऽवयवान्तरस्य ग्रहणान्तरेण संस्कार इति कार्यभेदाद्ग्रहणानि समुच्चीयेरन् ।
अत एव समुच्चयदर्शनंऽदशौतानध्वर्युः प्रातः सवने ग्रहन् गृह्णातिऽइति ।
समुच्चये च सति क्रमोऽप्युपपद्यते ।
ऽआश्विनो दशमो गृह्यते तृतीयो हूयतेऽ ।
तथैवऽऐन्द्रवायवाग्रान्ग्रहान्गृह्णातिऽइति ।
तेषां च समुच्चये सति यावद्यदुद्देशेन गृहीतं तावत्तस्यै देवतायै त्यक्तव्यमित्यर्थाद्यागस्यावृत्त्या भवितव्यम् ।
यदि पुनः पृथक्कृतान्यप्येकीकृत्य काञ्चन देवतामुद्दिश्य त्यजेरन्, पृथक्करणानि च देवतोद्देशाश्चादृष्टार्था भवेयुः ।
नच दृष्टे संभवत्यदृष्टकल्पना न्याय्येत्युक्तम् ।
तस्मात्तत्र समुच्चयस्यावश्यंभावित्याद्गुणानुरोधेनापि प्रधानाभ्यास आस्थीयते ।
इह त्वभ्यासकल्पनाप्रमाणाभावात्पुरोडाशद्रव्यस्य चानियमेन प्रकृतिद्रव्ये यस्मिन्कस्मिंश्चित्प्राप्ते एकैका परस्परानपेक्षा व्रीहिश्रुतिर्यवश्रुतिश्च नियामिकैकार्ततया विकल्पमर्हतः ।
न तु नाडीपुरीतत्परमात्मनामन्योन्यानपेक्षणामेकनिलयनार्थसंभवो येन विकल्पो भवेत् ।
नह्येकविभक्तिनिर्देशमात्रेणैकार्थता भवति समुच्चितानामप्येकविभक्तिनिर्देशदर्शनात् ।
पर्यङ्के शेते प्रसादे शेत इति ।
तस्मादेकविभक्तिनिर्देशस्यानैकान्तिकत्वादन्यतो विनिगमना वक्तव्या ।
सा चोक्ता भाष्यकृतायत्रापि निरपेक्षा इव नाडीः सुप्तिस्थानत्वेन श्रावयतीत्यादिना ।
सापेक्षश्रुत्यनुरोधेन निरपेक्षश्रुतिर्नेतव्येत्यर्थः ।
शेषमतिरोहितार्थम् ।
ननु यदि ब्रह्मैव निलयनस्थानं तावन्मात्रमुच्यतां कृतं नाड्युपन्यासेनेत्यत आहअपिचात्रेति ।
अपिचेति ।
समुच्चये न विकल्पे ।
एतदुपपत्तिसहिता पूर्वोपपत्तिरर्थसाधिनीति ।
मार्गोपदेशोपयुक्तानां नाडीनां स्तुत्यर्थमत्र नाडीसंकीर्तनमित्यर्थः ।
पित्तेनाभिव्याप्तकरणो न बाह्यान्विषयान्वेदेति तद्द्वारा सुखदुःखाभावेन तत्कारणपाप्मास्पर्शेन नाडीस्तुतिः ।
यदा तु तेजो ब्रह्म तदा सुगमम् ।
अपिच नाड्यः पुरीतद्वा जीवस्योपाध्याधार एव भवतीति ।
अयमर्थःभ्युपेत्य जीवस्याधेयत्वमिदमुक्तम् ।
परमार्थतस्तु न जीवस्याधेयत्वमस्ति ।
तथाहिनाड्यः पुरीतद्वा जीवस्योपाधीनां करणानामाश्रयो जीवस्तु ब्राह्माव्यतिरेकात्स्वमहिप्रतिष्ठः ।
न चापि ब्रह्म जीवस्याधारः, तादात्म्यात् ।
विकल्प तु व्यतिरेकं ब्रह्मण आधारत्वमुच्यते जीवं प्रति ।
तथाच सुषुप्तावस्थायामुपाधीनामसमुदाचाराज्जीवस्य ब्रह्मात्मत्वमेव ब्रह्माधारत्वं न तु नाडीपुरीताधारत्वम् ।
तदुपाधिकरणमात्राधारतया तु सुषुप्तदशारम्भाय जीवस्य नाडीपुरीतदाधारत्वमित्यतुल्यार्थतया न विकल्प इति ।
अपिच न कदाचिज्जीवस्येति ।
औत्सगिकं ब्रह्मस्वरूपत्वं जीवस्यासति जाग्रत्स्वप्नदशारूपेऽपवादे सुषुप्तवस्थायां नान्यथयितुं शक्यमित्यर्थः ।
अपिच येऽपि स्थानविकल्पमास्थिषचत तैरपि विशेषविज्ञानोपशमलक्षणा सुषुप्त्यवस्थाङ्गीकर्तव्या ।
न चेयमात्मतादात्म्यं विना नाड्यादिषु परमात्मव्यतिरिक्तेषु स्थानेषूपपद्यते ।
तत्र हि स्थितोऽयं जीव आत्मव्यतिरेकाभिमानी सन्नवश्यं विशेषज्ञानवान् भवेत् ।
तथाहि श्रुतिःऽयत्र वा अन्यदिव स्यात्तत्रान्योऽन्यत्पश्येत्ऽइति ।
आत्मस्थानत्वे त्वदोषः ।
ऽयत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येद्विजानीयात्ऽइति श्रुतेः ।
तस्मादप्यात्मस्थानत्वस्य द्वारं नाड्यादीत्याहअपिच स्थानविकल्पाभ्युपगमेऽपीति ।
अत्र चोदयतिननु भेदविषयस्यापीति ।
भिद्यत इति भेदः ।
भिद्यमानस्यापि विषयस्येत्यर्थः ।
परिहरतिबाढमेवं स्यादिति ।
न तावज्जीवस्यास्ति स्वतःपरिच्छेदस्तस्य ब्रह्मात्मत्वेन विभुत्वात् ।
औपाधिके तु परिच्छेदे यत्रोपाधिसंनिहितस्तन्मात्रं न जानीयान्न तु सर्वम् ।
नह्यसंनिधानात्सुमेरुमविद्वान् देवदत्तः संनिहितमपि न वेद ।
तस्मात्सर्वविशेषविज्ञानप्रत्यस्तमयीं सुषुप्तिं प्रसादयत तदास्य सर्वोपाध्युपसंहारो वक्तव्यः ।
अथाच सिद्धमस्य तथा ब्रह्मात्मत्वमित्यर्थः ।
गुणप्रधानभावेन समुच्चयो न समप्रधानतयाग्नेयादिवदिति वदन्विकल्पमप्यपाकरोतिनच वयमिहेति ।
स्वाध्यायाध्ययनविध्यापादितपुरुषार्थत्वस्य वेदराशेरेकेनापि वर्णेन नापुरुषार्थेन भवितुं युक्तम् ।
नच सुषुप्तावस्थायां जीवस्य स्वरूपेण नाड्यादिस्थानत्वप्रतिपादने किञ्चित्प्रयोजनं ब्रह्मभूयप्रतिपादने त्वस्ति ।
तस्मान्न समप्रधानभावेन समुच्चयो नापि विकल्प इति भावः ।
नीतार्थमन्यत् ॥७॥



____________________________________________________________________________________________


३,२.२.८

अतः प्रबोधोऽस्मात् । ब्रह्मसूत्र ३,२.८ ।
॥ ८ ॥


____________________________________________________________________________________________


३,२.३.९

स एव तु कर्मानुस्मृतिशब्दविधिभ्यः । ब्रह्मसूत्र ३,२.९ ।
यद्यपीश्वरादभिन्नो जीवस्तथाप्युपाध्यवच्छेदेन भेदं विवक्षित्वाधिकरणान्तरारम्भः ।
स एवेति दुःसंपादमिति ।
स वान्यो वेति ईश्वरो वेति संभवमात्रेणोपन्यासः ।
नहि तस्य शुद्धमुक्तस्वभावस्याविद्याकृतव्युत्थानसंभवः ।
अत एव

विमर्शावसरेऽस्यानुपन्यासः ।
यद्धि द्व्यहादिनिर्वर्तनीयमेकस्य पुंसश्चोदितं कर्म तस्य पूर्वेद्युरनुष्ठितस्यास्ति स्मृतिरिति वक्तव्येऽनुः प्रत्यभिज्ञानसूचनार्थः ।
अत एव सोऽहमस्मीत्युक्तम् ।
पुनः प्रतिन्यायं प्रतियोन्याद्रवतीति ।
अयनमायः नियमेन गमनं न्यायः ।
जीवः प्रतिन्यायं संप्रसादे सुषुप्तावस्थायां वृद्धान्तायाद्रवति आगच्छति प्रतियोनि ।
योहि व्याघ्रयोनिः सुषुप्तो बुद्धान्तमागच्छन् स व्याघ्र एव भवति न जात्यन्तरम् ।
तदिदमुक्तम्त इह व्याघ्रो वा सिंहो वेति ।
अथ तत्र सुप्त उतिष्ठेदिति ।
यो हि जीवः सुप्तः स शरीरान्तर उत्तिष्ठति शरीरान्तरगतस्तु सुप्तजीवसंबन्धिनि शरीर उत्तिष्ठति, ततश्च न शरीरान्तरे व्यवहारलोप इत्यर्थः ।
अपिच न जीवो नाम कश्चित्परस्मादन्य इति ।
यथा घटाकाशो नाम न परमाकाशादन्यः ।
अथ चान्य इव यावद्घटमनुवर्तते ।
न चासौ दुर्विवेचस्तदुपाधेर्घटस्य विविक्तत्वात् ।
एवमनाद्यनिर्वचनीयाविद्योपधानभेदोपाधिकल्पितो जीवो न वस्तुतः परमात्मनो भिद्यते तदुपाद्युद्भवाभिभवाभ्यां चोद्भूत इत्यभिभूत इव प्रतीयते ।
ततश्च सुषुप्तादावपि अभिभूत इव

जाग्रदवस्थादिषूद्भूत इव ।
तस्य चाविद्यातद्वासनोपाधेरनादितया कार्यकारणभावेन प्रवहतः सुविवेचतया तदुपहितो जीवः सुविवेच इति ॥९॥



____________________________________________________________________________________________


३,२.४.१०

मुग्धेऽर्धसंपत्तिः परिशेषात् । ब्रह्मसूत्र ३,२.१० ।
विशेषविज्ञानाभावान्मूर्च्छा जागरस्वप्नावस्थाभ्यां भिद्यते पुनरुत्थानाच्च मरणावस्थायाः ।
अतः सुषुप्तिरेव मूर्च्छा विशेषज्ञानाभावाविशेषात् ।
चिरानुच्छ्वासवेपथुप्रभृतयस्तु सुप्तेरवान्तरप्रभेदाः ।
तद्यथा कश्चित्सुप्तोत्थितः प्राह सुखमहमस्वाप्सं लघूनि मे गात्राणि प्रसन्नं मे मन इति, कश्चित्पुनर्दुःखमस्वाप्सं गुरूणि मे गात्राणि भ्रमत्यनवस्थितं मे मन इति ।
न चैतावता सुषुप्तिर्भिद्यते ।
तथा विकारान्तरेऽपि मूर्च्छा न सुषुप्तेर्भिद्यते ।
तस्माल्लोकप्रसिद्ध्यभावान्नेयं पञ्चम्यवस्थेति प्राप्तम् ।
एवं प्राप्त उच्यते
यद्यपि विशेषविज्ञानोपशमेन मोहसुषुप्तयोः साम्यं तथापि नैक्यम् ।
नहि विशेषविज्ञानसद्भावसाम्यमात्रेण स्वप्नजागरयोरभेदः ।
बाह्येन्द्रियव्यापारभावाभावाभ्यां तु भेदे तयोः सुषुप्तमोहयोरपि प्रयोजनभेदात्कारणभेदाल्लक्षणभेदाच्च भेदः ।
श्रमापनुत्त्यर्था हि ब्रह्मणा संपत्तिः सुषप्तम् ।
शरीरत्यागार्था तु ब्रह्मणा संपत्तिर्मोहः ।
यद्यपि सत्यपि मोहे न मरणं तथाप्यसति मोहे न मरणमिति मरणार्थो मोहः ।

मुसलसंपातादिनिमित्तत्वान्मोहस्य श्रमादिनिमित्तत्वाच्च सुषुप्तस्य मुखनेत्रादिविकारलक्षणत्वान्मोहस्य प्रसन्नवदनत्वादिलक्षणभेदाच्च सुषुप्तस्यासुषुप्तस्य त्ववान्तरभेदेऽपि निमित्तप्रयोजनलक्षणाभेदादेकत्वम् ।
तस्मात्सुषुप्तमोहावस्थयोर्ब्रह्मणा संपत्तावपि सुषुप्ते यादृशी संपत्तिर्न तादृशी मोह इत्यर्धसंपत्तिरुक्ता ।
साम्यवैषम्याभ्यामर्धत्वम् ।
यदा नैतदवस्थान्तरं तदा भेदात्तत्प्रविलयाय यत्नान्तरमास्थेयम् ।
अभेदे तु न यत्नान्तरमिति चिन्ताप्रयोजनम् ॥१०॥



____________________________________________________________________________________________


३,२.५.११

न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि । ब्रह्मसूत्र ३,२.११ ।
अवान्तरसंगतिमाहयेन ब्रह्मणा सुषुप्तादिष्विति ।
यद्यपिऽतदनन्यत्वमारम्भणशब्दादिभ्यःऽइत्यत्र निष्प्रपञ्चमेव ब्रह्मोपपादितं तथापि प्रपञ्चलिङ्गानां बह्वीनां श्रुतीनां दर्शनाद्भवति पुनर्विचिकित्सा अतस्तन्निवारणायारम्भः ।
तस्य च तत्त्वज्ञानमपवर्गोपयोगीति प्रयोजनवान् विचारः ।
तत्रोभयलिङ्गश्रवणादुभयरूपत्वं ब्रह्मणः प्राप्तम् ।

तत्रापि सविशेषत्वनिर्विशेषत्वयोर्विरोधात्स्वाभाविकत्वानुपपत्तेरेकं स्वतोऽपरं तु परतः ।
नच यत्परतस्तद्पारमार्थिकम् ।
नहि चक्षुरादीनां स्वतःप्रमाणभूतानां दोषतोऽप्रामाण्यमपारमार्थिकम् ।
विपर्ययज्ञानलक्षणकार्यानुत्पादप्रसङ्गात् ।
तस्मादुभयलिङ्गकशास्त्रप्रामाण्यादुभयरूपता ब्रह्मणः पारमार्थिकीति प्राप्त उच्यतेन स्थानत उपाधितोऽपि परस्य ब्रह्मण उभयचिह्नत्वसंभवः ।
एकं हि पारमार्थिकमन्यदध्यारोपितम् ।
पारमार्थिकत्वे ह्युपाधिजनितस्य रूपस्य ब्रह्मणः परिणामो भवेत् ।
स च प्राक्प्रतिषिद्धः ।
तत्पारिशेष्यात्स्फटिकमणेरिव स्वभावस्वच्छधवलस्य लाक्षारसावसेकोपाधिररूणिमा सर्वगन्धत्वादिरौपाधिको ब्रह्मण्यध्यस्त इति पश्यामो निर्विशेषताप्रतिपादनार्थत्वाच्छ्रुतीनाम् ।
सविशेषतायामपि ऽयश्चायमस्यां पृथिव्यां तेजोमयःऽइत्यादीनां श्रुतीनां ब्रह्मैकत्वप्रतिपादनपरत्वादेकत्वनानात्वयोश्चैकस्मिन्नसंभवादेकत्वाङ्गत्वेनैव नानात्वप्रतिपादनपर्यवसानात्, नानात्वस्य प्रमाणान्तरसिद्धतयानुवाद्यत्वादेकत्वस्य चानधिगतेर्विधेयत्वोपपत्तेर्भेददर्शननिन्दया च साक्षाद्भूयसीभिः

श्रुतिभिरभेदप्रतिपानादाकारवद्ब्रह्मविषयाणां च कासांचिच्छ्रुतीनामुपासनापरत्वमसति बाधकेऽन्यपराद्वचनात्प्रतीयमानमपि गृह्यते ।
यथा देवतानां विग्रहवत्त्वम् ।
सन्ति चात्र साक्षाद्वैतापवादेनाद्वैतप्रतिपादनपराः शतशः श्रुतयः ।
कासांचिच्च द्वैताभिधायिनीनां तत्प्रविलयपरत्वम् ।
तस्मान्निर्विशेषमेकरूपं चैतन्यैकरसं सद्ब्रह्म परमार्थतः, विशेषाश्च सर्वगन्धत्ववामनीत्वादय उपाधिवशादध्यस्ता इति सिद्धम् ।
शेषमतिरोहितार्थम् ॥११॥

____________________________________________________________________________________________


३,२.५.१२

न भेदादिति चेन्न प्रत्येकमतद्वचनात् । ब्रह्मसूत्र ३,२.१२ ।
॥ १२ ॥


____________________________________________________________________________________________


३,२.५.१३

अपि चैवमेके । ब्रह्मसूत्र ३,२.१३ ।
॥ १३ ॥



____________________________________________________________________________________________


३,२.५.१४
अरूपवदेव हि तत्प्रधानत्वात् । ब्रह्मसूत्र ३,२.१४ ।
॥ १४ ॥


____________________________________________________________________________________________


३,२.५.१५

प्रकाशवच्चावैयर्थ्यात् । ब्रह्मसूत्र ३,२.१५ ।
॥ १५ ॥


____________________________________________________________________________________________


३,२.५.१६

आह च तन्मात्रम् । ब्रह्मसूत्र ३,२.१६ ।
॥ १६ ॥


____________________________________________________________________________________________


३,२.५.१७

दर्शयति चाथो अपि स्मर्यते । ब्रह्मसूत्र ३,२.१७ ।
॥ १७ ॥


____________________________________________________________________________________________


३,२.५.१८

अत एव चोपमा सूर्यकादिवत् । ब्रह्मसूत्र ३,२.१८ ।
॥ १८ ॥


____________________________________________________________________________________________


३,२.५.१९

अम्बुवदग्रहणात्तु न तथात्वम् । ब्रह्मसूत्र ३,२.१९ ।
॥ १९ ॥


____________________________________________________________________________________________


३,२.५.२०

वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवम् । ब्रह्मसूत्र ३,२.२० ।
॥ २० ॥


____________________________________________________________________________________________


३,२.५.२१

दर्शनाच्च । ब्रह्मसूत्र ३,२.२१ ।

अत्र केचिद्द्वे अधिकरणे कल्पयन्तीति ।
किं साल्लक्षणं च प्रकाशलक्षणं च ब्रह्म किं सल्लक्षणमेव ब्रह्मोत प्रकाशलक्षणमेवेति तत्र पूर्वपक्षं गृह्णातिप्रकाशवच्चावैयर्थ्यात् ।
चकारात्सच्च ।
अवैयर्थ्यात् ।
ब्रह्मणि सच्छ्रुतेः सिद्धान्तयतिआह च तन्मात्रम् ।
प्रकाशमात्रम् ।
नहि सत्त्वं नाम प्रकाशरूपादन्यत्, यथा सर्वगन्धत्वादयोऽपि तु प्रकाशरूपमेव सदिति नोभयरूपत्वं ब्रह्मण इत्यर्थः ।
तदेतदनेनोपन्यस्य दूषितम् ।
सत्ताप्रकाशयोरेकत्वे नोभयलक्षणत्वम् ।
भेदे न स्थानतोऽपीति निराकृतमिति नाधिकरणान्तरं प्रयोजयति ।
परमार्थतस्त्वभेद एव प्रकर्षप्रकाशवदिति ।
सर्वेषां च साधारणे प्रविलयार्थत्वे सतिऽ अरूपवदेव हि तत्प्रधानत्वात्ऽ इति विनिगमनकारणवचनमनवकाशं स्यात् ।
एवं हि तस्यावकाशः स्याद्याद काश्चिदुपासनापरतया रूपमाचक्षीरन् काश्चिन्नीरूपब्रह्मप्रतिपादनपरा भवेयुः ।
सर्वासां तु प्रविलयार्थत्वेन नीरूपब्रह्मप्रतिपादनार्थत्वे उक्तो

विनिगमनहेतुर्न स्यादित्यर्थः ।
एकनियोगप्रतीतेः प्रयाजदर्शपूर्णमासवाक्यवदित्यधिकाराभिप्रायम्,अनुबन्धभेदात्तु भिन्नोऽनयोरपि नियोग इति ।
कोऽयं प्रपञ्चप्रविलय इति ।
वास्तवस्य वा प्रपञ्चस्य प्रविलयः सर्पिष इवाग्निसंयोगात् ।
समारोपितस्य वा रज्ज्वां सर्पभावस्येव रज्जुतत्त्वपरिज्ञानात् ।
न तावद्वास्तवः सर्वसाधारणः पृथिव्यादिप्रपञ्चः पुरुषमात्रेण शक्यः समुच्छेत्तुम् ।
अपिच प्रह्लादशुकादिभिः पुरुषधौरेयैः समूलमुन्मूलितः प्रपञ्च इति शून्यं जगद्भवेत् ।
नच वास्तवं तत्त्वज्ञानेन शक्यं समुच्छेत्तुम् ।
आरोपितरूपविरोधित्वातत्त्वज्ञानस्येत्युक्तम् ।
समारोपितरूपस्तु प्रपञ्चो ब्रह्मतत्त्वज्ञापनपरैरेव वाक्यैर्ब्रह्मतत्त्वमवबोधयद्भिः शक्यः समुच्छेत्तुमिति कृतमत्र विधिना ।
नहि विधिशतेनापि विना तत्त्वावबोधनं प्रवर्तस्वात्मज्ञान इति वा कुरु प्रपञ्चप्रविलयं वेति प्रवर्तितः शक्नोति प्रपञ्चप्रविलयं कर्तुम् ।
न चास्यात्मज्ञानविधिं विना वेदान्तार्थब्रह्मतत्त्वावबोधो न भवति ।
मौलिकस्य स्वाध्यायाध्ययनविधेरेव विवक्षितार्थतया सकलस्य वेदराशेः फलवदर्थावबोधनपरतामापादयतो विद्यमानत्वात् ।
अन्यथा कर्मविधिवाक्यान्यपि विध्यन्तरमपेक्षेरन्निति ।
नच चिन्तासाक्षात्कारयोर्विधिरिति तत्त्वसमीक्षायामस्माभिरूपपादितम् ।
विस्तरेण चायमर्थस्तत्रैव प्रपञ्चितः ।
तस्मात्ऽजर्तिलयवाग्वा जुहुयात्ऽइतिवद्विधिसरूपा एतेऽआत्मा वा अरे द्रष्टव्यऽइत्यादयो न तु विधय इति ।
तदिदमुक्तम्द्रष्टव्यादिशब्दा अपि तत्त्वाभिमुधीकरणप्रधाना न तत्त्वावबोधविधिप्रधाना इति ।
अपिच ब्रह्मतत्त्वं निष्प्रपञ्चमुक्तं न तत्र नियोज्यः कश्चित्संभवति ।
जीवो हि नियोज्यो भवेत्, स चेत्प्रपञ्चपक्षे वर्तते को नियोज्यस्तस्योच्छिन्नत्वात् ।
अथ ब्रह्मपक्षे तथाप्यनियोज्यः, ब्रह्मणोऽनियोज्यत्वात् ।
अथ ब्रह्मणोऽनन्योऽप्यविद्ययान्य इवेति नियोज्यः ।
तदयुक्तम् ।
ब्रह्मभावं पारमार्थिकमवगमयतागमेनाविद्याया निरस्तत्वात् ।
तस्मान्नियोज्याभावादपि न नियोगः ।
तदिदमुक्तम्जीवो नाम प्रपञ्चपक्षस्यैवेति ।
अपिच ज्ञानविधिपरत्वे तन्मात्रात्तु ज्ञानस्यानुत्पत्तेस्तत्त्वप्रतिपादनपरत्वमभ्युपगमनीयम् ।
तत्र वरं तत्त्वप्रतिपादनपरत्वमेवास्तु तस्यावश्याभ्युपगन्तव्यत्वेनोभयवादिसिद्धत्वात् ।
एवं च कृतं तत्त्वज्ञानविधिनेत्याहज्ञेयाभिमुखस्यापीति ।
नच ज्ञानादाने प्रमाणानपेक्षस्यास्ति कश्चिदुपयोगो विधेः ।
एवं हि तदुभयोगो भवेद्यद्यन्यथाकारं ज्ञानमन्यथादधीत ।
नच तच्छक्यं वापि युक्तमित्याहनच

प्रमाणान्तरेणेति ।
किञ्चान्यन्नियोगनिष्ठतयैव च पर्यवस्यत्याम्नाये यदभ्युपगतंभवद्भिः शास्त्रपर्यालोचनयानियोज्यब्रह्मात्मत्वं जीवस्येति तदेतच्छास्त्राविरोधादप्रमाणकम् ।
अथैतच्छास्त्रमनियोज्यब्रह्मात्मत्वं च जीवस्य प्रतिपादयति जीवं च नियुक्तं ततो द्व्यर्थं च विरुद्धार्थं च स्यादित्याहअथेति ।
दर्शपौर्णमासादिवाक्येषु जीवस्यानियोज्यस्यापि वस्तुतोऽध्यस्तनियोज्यभावस्य नियोज्यता युक्ता ।
नहि तद्वाक्यं तस्य नियोज्यतामाहापि तु लौकिकप्रमाणसिद्धां नियोज्यतामाश्रित्य दर्शपूर्णमासौ विधत्ते ।
इदं तु नियोज्यतामपनयति च नियुङ्क्ते चेति दुर्घटमिति भावः ।
नियोगपरतायां चेति ।
पौर्वापर्यालोचनया वेदान्तानां तत्त्वनिष्ठता श्रुता न श्रुता नियोगनिष्ठतेत्यर्थः ।
अपिच

नियोगनिष्ठत्वे वाक्यस्य दर्शपौर्णामासकर्मण इवापूर्वावान्तरव्यापारादात्मज्ञानकर्मणोऽप्यपूर्वावान्तरव्यापारादेव स्वर्गादिफलवन्मोक्षस्यानन्दरूपफलस्य सिद्धिः ।
तथा चानित्यत्वं सातिशयत्वं

स्वर्गवद्भवेदित्याहकर्मफलवदिति ।
अपिच ब्रह्मवाक्येष्विति ।
सप्रपञ्चनिष्प्रपञ्चोपदेशेषु हि साध्यानुबन्धभेदादेकनियोगत्वमसिद्धम् ।
दर्शपौर्णमासप्रयाजवाक्येषु तु यद्यप्यनुबन्धभेदस्तथाप्यधिकारांशस्य साध्यस्य भेदाभावादभेद इति ॥२१॥



____________________________________________________________________________________________


३,२.६.२२

प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः । ब्रह्मसूत्र ३,२.२२ ।

अधिकरणविषयमाहद्वे वाव ब्रह्मणो रूपे इति ।
द्वे एव ब्रह्मणो रूपे ब्रह्मणः परमार्थतोऽरूपस्याध्यारोपिते द्वे एव रूपे ताभ्यां हि तद्रूप्यते ।
ते दर्शयतिमूर्तं चैवामूर्तं च ।
समुच्चीयमानावधारणम् ।
अत्र पृथिव्यप्तेजांसि त्रीणि भूतानि ब्रह्मणो रूपं मूर्तं मूर्च्छितावयवमितरेतरानुप्रविष्टावयवं कठिनमिति यावत् ।
तस्यैव विशेषणान्तराणिमर्त्यं मरणधर्मकम् ।
स्थितमव्यापि ।
अवच्छिन्नमिति यावत् ।
सतन्येभ्यो विशिष्यमाणमसाधारणधर्मवदिति यावत् ।
गन्धस्नेहोष्णताश्चान्योन्यव्यवच्छेदहेतवोऽसाधारणा धर्माः ।
तस्यैतस्य ब्रह्मरूपस्य तेजोऽबन्नस्य चतुर्विशेषणस्यैष रसः सारो य एष सविता तपति ।
अथामूर्तं वायुश्चान्तरिक्षं च तद्धि न कठिनमित्यमूर्तमेतदमृतममरणधर्मकम् ।
मूर्तं हि मूर्तान्तरेणाभिहन्यमानमवयवविश्लेषाद्ध्वंसते नतु तथाभावः संभवत्यमूर्तस्य ।
एतद्यदेति गच्छति व्याप्नोतीति ।
एतत्त्यं नित्यपरोक्षमित्यर्थः ।
तस्यैतस्यामूर्तस्यैतस्यामृतस्यैतस्य यत एतस्य त्यस्यैष रसो य एष एतस्मिन् सवितृमण्डले पुरुषः ।
करणात्मको हिरण्यगर्भप्राणाह्वयस्त्यस्य ह्येष रसः सारो नित्यपरोक्षता च साम्यमित्यधिदैवतम् ।
अथाध्यात्ममिदमेव मूर्तं यदन्यत्प्राणान्तराकाशाभ्यां भूतत्रयं शरीरारम्भकमेतन्मर्त्यमेतत्स्थितमेतत्सत्तस्यैतस्य मूर्तस्यैतस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सत एष रसो यच्चक्षुः सतो ह्योष रस इति ।
अथामूर्तं प्राणश्च यश्चायमन्तरात्मन्नाकाश एतदमृतमेतद्यदेतत्त्यं तस्यैतस्यामूर्तस्यैतस्यामृतस्यैतस्य यत एतस्य त्यस्यैष रसो योऽयं दक्षिणेक्षन् पुरुषस्त्यस्य ह्येष रसः ।
लिङ्गस्य हि करणात्मकस्य हिरण्यगर्भस्य दक्षिणमक्ष्यधिष्ठानं श्रुतेरधिगतम् ।
तदेवं ब्रह्मण औपाधिकयोर्मूर्तामूर्तयोराध्यात्मिकाधिदैविकयोः कार्यकारणभावेन विभागो व्याख्यातः सत्त्यच्छब्दवाच्ययोः ।
अथेदानीं तस्य करणात्मनः पुरुषस्य लिङ्गस्य रूपं वक्तव्यम् ।
मूर्तामूर्तवासनाविज्ञानमयं विचित्रं मायामहेन्द्रजालोपमं तद्विचित्रैर्दृष्टान्तैरादर्शयतिऽतद्यथा माहारजनंऽइत्यादिनाम् ।
एतदुक्तं भतिमूर्तामूर्तवासनाविज्ञानमयस्य विचित्रं रूपं लिङ्गस्येति ।
तदेवं

निरवशेषं सवासनं सत्यरूपमुक्त्वा यत्तत्सत्यस्य सत्यमुक्तं ब्रह्म तत्स्वरूपावधारणार्थमिदमारभ्यते ।
यतः सत्यस्य रूपं निःशेषमुक्तमतोऽवशिष्टं सत्यस्य यत्सत्यं तस्यानन्तरं तदुक्तिहेतुकं स्वरूपं वक्तव्यमित्याहअथात आदेशःकथनं सत्यसत्यस्य परमात्मनस्तमाहनेति नेतीति ।
एतदर्थकथनार्थमिदमधिकरणम् ।
ननु किमेतावदेवादेश्यमुतेतः परमन्यतप्यस्तीत्यत आहनह्येतस्माद्ब्रह्मण इति ।
नेत्यादिष्टादन्यत्परमस्ति यदादेश्यं भवेत् ।
तस्मादेतावदेवादेश्यं नापरमस्तीत्यर्थः ।
अत्रैवमर्थेनेतिना यत्संनिहितं परामृष्टं तन्निषिध्यते नञा संनिहितं च मूर्तामूर्तं सवासनं रूपद्वयम् ।
तदवच्छेदकत्वेन च ब्रह्म ।
तत्रेदं विचार्यतेकिं रूपद्वयं सवासनं ब्रह्म च सर्वमेव च प्रतिषिध्यते, उत ब्रह्मैवाथ सवासनं रूपद्वयं ब्रह्म तु परिशिष्यत इति ।
यद्यपि तेषु तेषु वेदान्तप्रदेशेषु ब्रह्मस्वरूपं प्रतिपादितं तदसद्भावज्ञानं च निन्दितम् ।
ऽअस्तीत्येवोपलब्धव्यःऽइति चास्य सत्त्वमवधारितं तथापि सद्बोधरूपं तद्ब्रह्म सवासनमूर्तामूर्तरूपसाधारणतया च सामान्यं तस्य चैते विशेषा मूर्तामूर्तादयः ।
नच तत्तद्विशेषनिषेधे सामान्यमवस्थातुमर्हति निर्विशेषस्य

सामान्यस्यायोगात् ।
यथाहुःऽनिर्विशेषं न सामान्यं भवेच्छशविषाणवत्ऽइति ।
तस्मात्तद्विशेषनिषेधेऽपि तत्सामान्यस्य ब्रह्मणोऽनवस्थानात्सर्वस्यैवायं निषेधः ।
अत एव नह्येतस्मादिति नेत्यन्यत्परमस्तीति निषेधात्परं नास्तीति सर्वनिषेधमेव तत्त्वमाह श्रुतिः ।
ऽअस्तीत्येवोपलब्धव्यःऽइति चोपासनाविधानवन्नेयं, न त्वस्तित्वमेवास्य तत्त्वम् ।
तत्प्रशंसार्थ चासद्भावज्ञाननिन्दा ।
यच्चान्यत्र ब्रह्मस्वरूपप्रतिपादनं तदपि मूर्तामूर्तरूपप्रतिपादनवन्निषेधार्थम् ।
असंनिहितोऽपि च तत्र निषेधो योग्यत्वात्संभन्स्यते ।
यथाहुःऽयेन यस्याभिसंबन्धो दूरस्थस्यापि तेन सःऽइति ।
तस्मात्सर्वस्यैवाविशेषेण निषेध इति प्रथमः पक्षः ।
अथवा पृथिव्यादिप्रपञ्चस्य समस्तस्य प्रत्यक्षादिप्रमाणसिद्धत्वात्, ब्रह्मणस्तु वाङ्मनसागोचरतया सकलप्रमाणविरहात्, कतरस्यास्तु निषेध इति विशये प्रपञ्चप्रतिषेधे समस्तप्रत्यक्षादिव्याकोपप्रसङ्गात्, ब्रह्मप्रतिषेधे त्वव्याकोपाद्ब्रह्मैव प्रतिषेधेन संबध्यते योग्यत्वान्न प्रपञ्चस्तद्वैपरीत्यात्, वीप्सा तु तदत्यन्ताभावसूचनायेति मध्यमः पक्षः ।
तत्र प्रथमं पक्षं निराकरोतिन तावदुभयप्रतिषेध उपपद्यते शून्यवादप्रसङ्गादिति ।
अयमभिसंधिःुपाधयो ह्यमी पृथिव्यादयोऽविद्याकल्पिता न तु शोणकर्कादय इव विशेषा अश्वत्वस्य ।
न चोपाधिविगमे उपहितस्याभावोऽप्रतीतिर्वा ।
नह्युपादीनां दर्पणमणिकृपाणादीनामपगमे मुखस्याभावोऽप्रतितिर्वा ।
तस्मादुपाधिनिषेधेऽपि नोपहितस्य शशविषाणायमानताप्रत्ययो वा ।
न चेतीति संनिधानाविशेषात्सर्वस्य प्रतिषेध्यत्वमिति युक्तम् ।
नहि भावमनुपाश्रित्य प्रतिषेध उपपद्यते ।
किञ्चिद्धि क्वचिन्निषिध्यते ।
नह्यनाश्रयः प्रतिषेधः शक्यः प्रतिपत्तुम् ।
तदिदमुक्तमपरिशिष्यमाणे चान्यस्मिन्य इतरः प्रतिषेद्धुमारभ्यते तस्य प्रतिषेद्भुमशक्यत्वात्तस्यैव परमार्थत्वापत्तेः प्रतिषेधानुपपत्तिः ।
मध्यमं पक्षं प्रतिक्षिपतिनापि ब्रह्मप्रतिषेध उपपद्यते ।
युक्तं यन्नैसर्गिकाविद्याप्राप्तः प्रपञ्चः प्रतिषिध्यते प्राप्तिपूर्वकत्वात्प्रतिषेधस्य ।
ब्रह्म तु नाविद्यासिद्धं, नापि प्रमाणान्तरात् ।
तस्माच्छब्देन प्राप्तं प्रतिषेधनीयम् ।
तथाच यस्तस्य शब्दः प्रापकः स तत्पर इति स ब्रह्मणि प्रमाणमिति कथमस्य निषेधोऽपि प्रमाणवान् ।
नच पर्युदासाधिकरणपूर्वपक्षन्यायेन विकल्पः वस्तुनि सिद्धस्वभावे तदनुपपत्तेः ।
न चावाङ्मनसगोचरो बुद्धावलेखितुं शक्यः ।
अशक्यश्च कथं निषिध्यते ।
प्रपञ्चस्त्वनाद्यविद्यासिद्धोऽनूद्य ब्रह्मणि प्रतिषिद्यत इति युक्तम् ।
तदिमामनुपपत्तिमभिप्रेत्योक्तम्ऽनापि ब्रह्मप्रतिषेध उपपद्यतेऽइति ।
हेत्वन्तरमाहब्रह्म ते ब्रवाणीति ।
उपक्रमविरोधादिति ।
उपक्रमपरामर्शोपसंहारपर्यालोचनया हि वेदान्तानां सर्वेषामेव ब्रह्मपरत्वमुपपादितं प्रथमेऽध्याये ।
न चासत्यामाकाङ्क्षायां दूरतरस्थेन प्रतिषेधेनैषां संबन्धः संभवति ।
यच्च वाङ्मनसातीततया ब्रह्मणस्तत्प्रतिषेधस्य न प्रमाणान्तरविरोध इति तत्राहवाङ्मनसातीतत्वमपीति ।
प्रतिपादयन्ति वेदान्ता महता प्रयत्नेन ब्रह्म ।
नच निषेधाय तत्प्रतिपादनम्, अनुपपत्तेरित्युक्तमधस्तात् ।
इदानीं तु निष्प्रयोजनमित्युक्तंऽप्रक्षालनाद्धि पङ्कस्यऽइति न्यायात् ।
तस्माद्वेदान्तवाचा मनसि संनिधानाद्ब्रह्मणो वाङ्मनसातीतत्वं नाञ्जसमपि तु प्रतिपादनप्रक्रियोपक्रम एषः ।
यथा गवादयो विषयाः साक्षाच्छृङ्गग्राहिकया प्रतिपाद्यन्ते प्रतियन्ते च नैवं ब्रह्म ।
यथाहुःऽभेदप्रपञ्चविलयद्वारेण च निरूपणम्ऽइति ।
ननु प्रकृतप्रतिषेधे ब्रह्मणोऽपि कस्मान्न प्रतिषेध इत्यत आहतद्धि प्रकृतं प्रपञ्चितं चेति ।
प्रधानं प्रकृतं प्रपञ्चश्च प्रधानं न ब्रह्म तस्य षष्ठ्यन्ततया प्रपञ्चावच्छेदकत्वेनाप्रधानत्वादित्यर्थः ।
ततोऽन्यद्ब्रवीतीति नेति नेतीति प्रतिषेधादन्यद्भूयो ब्रवीतीति तन्निर्वचनम् ।
नह्येतस्मादित्यस्य यदा नह्येतस्मादिति नेति नेत्यादिष्टाद्ब्रह्मणोऽन्यत्परमस्तीति व्याख्यानं तदा प्रपञ्चप्रतिषेधादन्यद्ब्रह्मैव ब्रवीतीति व्याख्येयम् ।
यदा तु नह्येतस्मादिति सर्वनाम्ना प्रतिषेधो ब्रह्मण आदेशः परामृश्यते तदापि प्रपञ्चप्रतिषेधमात्रं न प्रतिपत्तव्यमपि तु तेन प्रतिषेधेन भावरूपं ब्रह्मोपलक्ष्यते ।
कस्मादित्यत आहततो ब्रवीति च भूय इति ।
यस्मात्प्रतिषेधस्य परस्तादपि ब्रवीति ।
अथ ब्रह्मणो नामधेयं नाम सत्यस्य सत्यमिति तद्व्याचष्टे श्रुतिःऽप्राणा वै सत्यम्ऽइति ।
महारजनाद्युपमितं लिङ्गमुपलङयति ।
तत्खलु सत्यमितरापेक्षया तस्यापि परं सत्यं ब्रह्म ।
तदेवं यतः प्रतिषेधस्य परस्ताद्ब्रवीति तस्मान्न प्रपञ्चप्रतिषेधमात्रं ब्रह्मापि तु भावरूपमिति ।
तदेवं पूर्वस्मिन् व्याख्याने निर्वचनं ब्रवीतीति व्याख्यातम् ।
अस्मिस्तुं सत्यस्य सत्यमिति ब्रवीतीति व्याख्येयम् ।
शेषमतिरोहितार्थम् ॥२३॥



____________________________________________________________________________________________


३,२.६.२४
अपि च संराधने प्रत्यक्षानुमानाभ्याम् । ब्रह्मसूत्र ३,२.२४ ।
॥ २४ ॥


____________________________________________________________________________________________


३,२.६.२५

प्रकाशादिवच्चावैशेष्यं प्रकाशश्च कर्मण्यभ्यासात् । ब्रह्मसूत्र ३,२.२५ ।
॥ २५ ॥


____________________________________________________________________________________________


३,२.५.२६

अतोऽनन्तेन तथा हि लिङ्गम् । ब्रह्मसूत्र ३,२.२६ ।
॥ २६ ॥


____________________________________________________________________________________________


३,२.६.२७

उभयव्यपदेशात्त्वहिकुण्डलवत् । ब्रह्मसूत्र ३,२.२७ ।

अनेनाहिरूपेणाभेदः ।
कुण्डलादिरूपेण तु भेद इत्युक्तं तेन विषयभेदाद्भेदाभेदयोरविरोध इत्येकविषयत्वेन वा सर्वदोपलब्धेरविरोधः ।
विरुद्धमिति हि नः क्व संप्रत्ययो न यत्प्रमाणेनोपलभ्यते ।
आगमतश्च प्रमाणादेकगोचरावपि भेदाभेदौ प्रतीयमानौ न विरोधमावहतः सवितृप्रकाशयोरिव प्रत्यक्षात्प्रमाणाद्भेदाभेदाविति ॥२७॥



____________________________________________________________________________________________


३,२.६.२८

प्रकाशाश्रयवद्वा तेजस्त्वात् । ब्रह्मसूत्र ३,२.२८ ।

प्रकारान्तरेण भेदाभेदयोरविरोधमाहप्रकाशाश्रयवद्वा तेजस्त्वात् ॥२८॥



____________________________________________________________________________________________


३,२.६.२९

तदेवं परमतमुपन्यस्य स्वमतमाह

पूर्ववद्वा । ब्रह्मसूत्र ३,२.२९ ।

अयमभिसंधिःयस्य मतं वस्तुनोऽहित्वेनाभेदः ।
कुण्डलत्वेन भेद इति, स एवं ब्रुवाणः प्रष्टव्यो जायते, किमहित्वकुण्डलत्वे वस्तुनो भिन्ने उताभिन्ने इति ।
यदि भिन्ने, अहित्वकुण्डलत्वे भिन्ने इति वक्तव्यं न तु वस्तुनस्ताभ्यां भेदाभेदौ ।
नह्यन्यभेदाभेदाभ्यामन्यद्भिन्नमभिन्नं वा भवितुमर्हति ।
अतिप्रसङ्गात् ।
अथ वस्तुनो न भिद्येते अहित्वकुण्डलत्वे तथा सति को भेदाभेदयोर्विषयभेदस्तयोर्वस्तुनोऽनन्यत्वेनाभेदात् ।
न चैकविषयत्वेऽपि सदानुभूयमानत्वाद्भेदाभेदयोरविरोधः स्वरूपविरुद्धयोरप्यविरोधे क्व नाम विरोधो व्यवतिष्ठेत ।
नच सदानुभूयमानं विचारासहं भाविकं भवितुमर्हति ।
देहात्मभावस्यापि सर्वदानुभूयमानस्य भाविकत्वप्रसङ्गात् ।
प्रपञ्चितं चैतदस्माभिः प्रथमसूत्र इति नेह प्रपञ्चितम् ।
तस्मादनाद्यविद्याविक्रीडितमेवैकस्यात्मनो जीवभावभेदो न भाविकः ।
तथाच तत्त्वज्ञानदविद्यानिवृत्तावपवर्गसिद्धिः ।
तात्त्विकत्वे त्वस्य न ज्ञानान्निवृत्तिसंभवः ।
नच तत्त्वज्ञानादन्यदपवर्गसाधनमस्ति ।
यथाह श्रुतिःऽतमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यतेऽयनायऽइति ।
शेषमतिरोहितार्थम् ॥२९॥



____________________________________________________________________________________________


३,२.६.३०

प्रतिषेधाच्च । ब्रह्मसूत्र ३,२.३० ।
॥ ३० ॥


____________________________________________________________________________________________


३,२.७.३१

परमतः सेतून्मानसंबन्धभेदव्यपदेशेभ्यः । ब्रह्मसूत्र ३,२.३१ ।

यद्यपि श्रुतिप्राचुर्याद्ब्रह्मव्यतिरिक्तं तत्त्वं नास्तीत्यवधारितं तथापि सेत्वादिश्रुतीनामापाततस्तद्विरोधदर्शनात्तत्प्रतिसमाधानार्थमयमारम्भः ।
जाङ्गलंस्थलम् ।
प्रकाशवदनन्तवज्ज्योतिष्मदायतनवदिति पादा ब्रह्मणश्चत्वारस्तेषां पादानामर्धान्यष्टौ शफाः ।
तेऽष्टावस्य ब्रह्मण इत्यष्टशफं ब्रह्म ।
षोडश कला अस्येति षोशकलम् ।
तद्यथा प्राची प्रतीची दक्षिणोदीचीति चतस्रः कला अवयवा इव कलाः स प्रकाशवान्नाम प्रथमः पादः ।
एतदुपासनायां प्रकाशवान्मुख्यो भवतीति प्रकाशवान् पादः ।
अथापराः पृथिव्यन्तरिक्षं द्यौः समुद्र इति चतस्रः कला एष द्वितीयः पादोऽनन्तवान्नाम ।
सोऽयमनन्तवत्त्वेन गुणेनोपास्यमानोऽनन्तत्वमुपासकस्यावहतीति अनन्तवान् पादः ।
अथाग्निः सूर्यश्चन्द्रमा विद्युदिति चतस्रः कलाः स ज्योतिष्मान्नाम पादस्तृतीयस्तदुपासनाज्ज्योतिष्मान् भवतीति ज्योतिष्मान् पादः ।
अथ घ्राणश्चक्षुः श्रोत्रं वागिति चतस्रः कलाश्चतुर्थः पाद आयतनवान्नाम ।
एते घ्राणादयो हि गन्धादिविषया मन आयतनमाश्रित्य भोगसाधनं भवन्तीत्यायतनवान्नाम पादः ।
तदेवं चतुष्पाद्ब्रह्माष्टशफं षोडषकलमुन्मिषितं श्रुत्या ।
अतस्ततो ब्रह्मणः परमन्यदस्ति ।
स्यादेतत् ।
अस्ति चेत्परिसंख्यायोच्यतामेतावदिति ।
अत आहअमितमस्तीति ।
प्रमाणसिद्धम् ।
न त्वेतावदित्यर्थः ।
भेदव्यपदेशश्च त्रिप्रकारःाधारतश्चातिदेशतश्चावधितश्च ॥३१॥



____________________________________________________________________________________________


३,२.७.३२

सामान्यात्तु । ब्रह्मसूत्र ३,२.३२ ।

जगतस्तन्मर्यादानां च विधारकत्वं च सेतुसामान्यम् ।
यथा हि तन्तवः पटं विधारयन्ति तदुपादानत्वादेवं ब्रह्मापि जगद्विधारयति तदुपपादकत्वात् ।
तन्मर्यादानां च विधारकं ब्रह्म ।
इतरथातिचपलस्थूलबलवत्कल्लोलमालाकलिलो जलनिधिरिलापरिमण्डलमवगिलेत् ।
वडवानलो वा विस्फुर्जितज्वालाजटिलो जगद्भस्मसाद्भावयेत् ।
पवनः प्रचण्डो वाकाण्डमेव ब्रह्माण्डं विघटयेदिति ।
तथाच श्रुतिःऽभीषास्माद्वातः पवतेऽइत्यादिका ॥३२॥



____________________________________________________________________________________________


३,२.७.३३

बुद्ध्यर्थः पादवत् । ब्रह्मसूत्र ३,२.३३ ।

मनसो ब्रह्मप्रतीकस्य समारोपितब्रह्मभावस्य वाग्घ्राणश्चक्षुः श्रोत्रमिति चत्वारः पादाः ।

मनो हि वक्तव्यघ्रातव्यद्रष्टव्यश्रोतव्यान् गोचरान् वागादिभिः संचरतीति संचरणसाधारणतया मनसः पादस्तदिदमध्यात्मन् ।
आकाशस्य ब्रह्मप्रतीकस्याग्निर्वायुरादित्यो दिश इति चत्वारः पादाः ।
ते हि व्यापिनो नभस उदर इव गोः पादा विलग्ना उपलक्ष्यन्त इति पादास्तदिदमधिदैवतम् ।
तदनेन पादवदिति वैदिकं निदर्शनं व्याख्याय लौकिकं चेदं निदर्शनमित्याहअथवा पादवदिति ।
तद्वदिति ।
इहापि मन्दबुद्धीनामाध्यानव्यवहारायेत्यर्थः ॥३३॥



____________________________________________________________________________________________


३,२.७.३४

स्थानविशेषात्प्रकाशादिवत् । ब्रह्मसूत्र ३,२.३४ ।
बुद्ध्याद्युपाधिस्थानविशेषयोगादुद्भूतस्य जाग्रत्स्वप्नयोर्विशेषविज्ञानस्योपाध्युपशमेऽभिभवे सुषुप्तावस्थानमिति ।
तथा भेदव्यपदेशोऽपि त्रिविधो ब्रह्मण उपाधिभेदापेक्षयेति ।
यथा सौधजालमार्गनिवेशिन्यः सवितृभासो जालमार्गोपाधिभेदाद्भिन्ना

भासन्ते तद्विगमे तु गभस्तिमण्डलेनैकीभवन्त्यतस्तेन संबध्यन्त एवमिहापीति ॥३४॥



____________________________________________________________________________________________


३,२.७.३५

स्यादेतत् ।
एकीभावः कस्मादिह संबन्धः कथञ्चिद्व्याख्यायते न मुख्य एवेत्येतत्सूत्रेण परिहरति

उपपत्तेश्च । ब्रह्मसूत्र ३,२.३५ ।

स्वमपीत इति हि स्वरूपसंबन्धं ब्रूते ।
स्वभावश्चेदनेन संबन्धत्वेन स्पृष्टस्ततः स्वाभाविकस्तादात्म्यान्नातिरिच्यत इति तर्कपाद उपपादितमित्यर्थः ।
तथा भेदोऽपि त्रिविधो वान्यादृशः स्वाभाविक इत्यर्थः ॥३५॥



____________________________________________________________________________________________


३,२.७.३६

तथान्यप्रतिषेधात् । ब्रह्मसूत्र ३,२.३६ ।

सुगमेन भाष्येण व्याख्यातम् ॥३६॥



____________________________________________________________________________________________


३,२.७.३७

अनेन सर्वगतत्वमायामशब्दादिभ्यः । ब्रह्मसूत्र ३,२.३७ ।

ब्रह्माद्वैतसिद्धावपि न सर्वगतत्वं सर्वव्यापिता सर्वस्य ब्रह्मणा स्वरूपेण रूपवत्त्वं सिध्यतीत्यत आहअनेन सेत्वादिनिराकरणेनपरहेतुनिराकरणेनान्यप्रतिषेधसमाश्रयणेन च स्वसाधनोपन्यासेन च सर्वगतत्वमप्यात्मनः सिद्धं भवति ।
अद्वैते सिद्धे सर्वोऽयमनिर्वचनीयः प्रपञ्चावभासो ब्रह्माधिष्ठान इति सर्वस्य ब्रह्मसंबन्धाद्ब्रह्म सर्वगतमिति सिद्धम् ॥३७॥



____________________________________________________________________________________________


३,२.८.३८

फलमत उपपत्तेः । ब्रह्मसूत्र ३,२.३८ ।

सिद्धान्तोपक्रममिदमधिकरणम् ।
स्यादेतत् ।
नित्यशुद्धबुद्धमुक्तस्वभावस्य ब्रह्मणः कुत ईश्वरत्वं कुतश्च फलहेतुत्वमपीत्यत आहतस्यैव ब्रह्मणो व्यावहारिक्यामिति ।
नास्य पारमार्थिकं रूपमाश्रित्यैतच्चिन्त्यते किन्तु सांव्यवहारिकम् ।
एतच्चऽतपसा चीयते ब्रह्मऽइति व्याचक्षाणेरस्माभिरूपपादितम् ।
इष्टंफलं स्वर्गः ।
यथाहुःऽयन्न दुःखन संभिन्नं नच ग्रस्तमनन्तरम् ।
अभिलाषोपनीतं च सुखं स्वर्गपदास्पदम्ऽइति ।
अनिष्टमवीच्यादिस्थानभोग्यं,व्यामिश्रंमनुष्यभोग्यम् ।
तत्र तावत्प्रतिपाद्यतेफलमत ईश्वरात्कर्मभिराराधिताद्भवितुमर्हति ।
अथ कर्मण एव फलं कस्मान्न भवतीत्यत आहकर्मणस्त्वनुक्षणविनाशिनःप्रत्यक्षविनाशिन इति ।
चोदयतिसयादेतत्कर्म विनश्यदिति ।
उपात्तमपि फलं भोक्तुमयोग्यत्वाद्वा कर्मान्तरप्रतिबन्धाद्वा न

भुज्यत इत्यर्थः ।
परिहरतितदपि न परिशुध्यतीति ।
नहि स्वर्ग आत्मानं लभतामित्यधिकारिणः कामयन्ते किन्तु भोग्योऽस्माकंभवत्विति ।
तेन यादृशमेभिः काम्यते तादृशस्य फलत्वमिति भोग्यमेव सत्फलमिति ।
नच तादृशं कर्मानन्तरमिति कथं फलं, तदपि स्वरूपेण ।
अपिच स्वर्गनरकौ तीव्रतमे सुखदुःखे इति तद्विषयेणानुभवेन भोगापरनाम्नावश्यं भवितव्यम् ।
तस्मादनुभवयोग्ये अननुभूयमाने शशशृङ्गवन्न स्त इति निश्चीयते ।
चोदयतिअथोच्येत मा भूत्कर्मानन्तरं फलोत्पादः कर्माकार्यादपूर्वात्फलमुत्पत्स्यत इति ।
परिहरतितदपि नेति ।
यद्यदचेतनं तत्तत्सर्वं चेतनाधिष्ठितं प्रवर्तत इति प्रत्यक्षागमाभ्यामवधारितम् ।
तस्मादपूर्वोणाप्यचेतनेन चेतनाधिष्ठितेनैव प्रवर्तितव्यं नान्यथेत्यर्थः ।
न चापूर्वं प्रामाणिकमपीत्याहतदस्तित्वे इति ॥३८॥



____________________________________________________________________________________________


३,२.८.३९
श्रुतत्वाच्च । ब्रह्मसूत्र ३,२.३९ ।

अन्नादः अन्नप्रदः ॥३९॥


____________________________________________________________________________________________


३,२.८.४०

सिद्धान्तेनोपक्रम्य पूर्वपक्षं गृह्णाति

धर्मं जैमिनिरत एव । ब्रह्मसूत्र ३,२.४० ।

श्रुतिमाहश्रूयते तावदिति ।
ननुऽस्वर्गकामो यजेतऽइत्यादयः श्रुतयः फलं प्रति न साधनतया यागं विदधति ।
तथाहियदि यागादय एव क्रिया न तदतिरिक्ता भावना तथापि त एव स्वपदेभ्यः पूर्वापरीभूताः साध्यस्वभावा अवगम्यन्त इति न साध्यान्तरमपेक्षन्त इति न स्वर्गेण साध्यान्तरेण संबद्धुमर्हन्ति ।
अथापि तदतिरेकिणी भावानास्ति तथाप्यसौ भाव्यापेक्षापि स्वपदोपात्तं पूर्वावगतं न भाव्यं धात्वर्थमपहाय न भिन्नपदोपात्तं पुरुषविशेषणं च स्वर्गादि भाव्यतया स्वीकर्तुमर्हति ।
न चैकस्मिन् वाक्ये साध्यद्वयसंबन्धसंभवः, वाक्यभेदप्रसङ्गात् ।
न केवलं शब्दतो वस्तुतश्च पुरुषप्रयत्नस्य भावनायाः साक्षाद्धात्वर्थ एव साध्यो न तु स्वर्गादिस्तस्य तदव्याप्यत्वात् ।
स्वर्गादेस्तु नामपदाभिधेयतया सिद्धरूपस्याख्यातवाच्यं साध्यं धात्वर्थं प्रतिऽभूतं भव्यायोपदिश्यतेऽइति न्यायात्साधनतया गुणत्वेनाभिसंबन्धः ।
तथाच पारमर्षं सूत्रम्ऽद्रव्याणां कर्मसंयोगे गुणत्वेनाभिसंबन्धःऽइति ।
तथाच कर्मणो यागादेर्दुःखत्वेन पुरुषेणासमीहितत्वात्, समीहितस्य च स्वर्गादेरसाध्यत्वान्न यागादयः पुरुषस्योपकुर्वन्त्यनुपकारिणां चैषां न पुरुष ईष्टे अनीशानश्च न तेषु संभवत्यधिकारीत्यधिकाराभावप्रतिपादितानर्थक्यपरिहाराय कृत्स्नस्यैवाम्नायस्य निर्मृष्टनिखिलदुःखानुषङ्गनित्यसुखमयब्रह्मज्ञानपरत्वं भेदप्रपञ्चविलयनद्वारेण तथाहिसर्वत्रैवाम्नाये क्वचित्कस्यचिद्भेदस्य प्रविलयो गम्यतेयथाऽस्वर्गकामो यजेतऽइति शरीरात्मभावप्रलियः ।
इह खल्वापाततो देहातिरिक्त आमुष्मिकफलोपभोगसमर्थोऽधिकारी गम्यते ।
तत्राधिकारस्योक्तेन क्रमेण निराकरणादसतोऽपि प्रतीयमानस्य विचारासहस्योपायतामात्रेणावस्थानादनेन वाक्येन देहात्मभावप्रविलयस्तत्परेण क्रियते ।
ऽगोदोहनेन पशुकामस्य प्रणयेत्ऽइत्यत्राप्यापाततोऽधिकृताधिकारावगमादधिकारिभेदप्रविलयः ।
निषेधवाक्यानि च साक्षादेव प्रवृत्तिनिषेधेन विधिवाक्यानि चान्यानिऽसांग्रहण्या यजेत ग्रामकामःऽइत्यादीनि न सांग्रहण्यादिप्रवृत्तिपराण्यपि तूपायान्तरोपदेशेन सेवादिदृष्टोपायप्रतिषेधार्थानि ।
यथा विषं भुङ्क्षव मास्य गृहे भुङ्क्ष्वेति ।
तथाच रागाद्यक्षिप्तप्रवृत्तिप्रतिषेधेन शास्त्रस्य शास्त्रत्वमप्युपपद्यते ।
रागनिबन्धनां तूपायोपदेशद्वारेण प्रवृत्तिमनुजानतो रागसंवर्धनादशास्त्रत्वप्रसङ्गः ।
तन्निषेधेन तु ब्रह्मणि प्रणिधानमादधच्छास्त्रं शास्त्रं भवेत् ।
तस्मात्कर्मफलसंबन्धस्याप्रामाणिकत्वादनादिविचित्राविद्यासहकारिण ईश्वरादेव

कर्मानपेक्षाद्विचित्रफलोत्पत्तिरिति ।
कथं तर्हि विधिः किमत्र कथं प्रवर्तनामात्रत्वाद्विधेस्तस्य चाधिकारमन्तरेणाप्युपपत्तेः ।
नहि यो यः प्रवर्तयति स सर्वोऽधिकृतमपेक्षते ।
पवनादेः प्रवर्तकस्य तदनपेक्षत्वादितिशङ्कामपाचिकीर्षुराहतत्र च विधिश्रुतेर्विषयभावोपगमाद्यागः स्वर्गस्योत्पादक इति गम्यते ।
अन्यथा ह्यननुष्ठातृको याग आपद्येत ।
अयमभिसंधिःुपदेशो हि विधिः ।
यथोक्तम्ऽतस्य ज्ञानमुपदेशःऽइति ।
उपदेशश्च नियोज्यप्रयोजने कर्मणि लोकशास्त्रयोः प्रसिद्धः ।
तद्यथारोग्यकामो जीर्णे भुञ्जीत ।
एष सुपन्था गच्छतु भवाननेनेति ।
न त्वज्ञानादिरिव नियोक्तृप्रयोजनस्तत्राभिप्रायस्य प्रवर्तकत्वात्, तस्य चापौरुषेयेऽसंभवात् ।
अस्य चोपदेशस्य नियोज्यप्रयोजनव्यापारविषयत्वमनुष्ठात्रपेक्षितानुकूलव्यापारगोचरत्वमस्माभिरुपपादितं न्यायकणिकायाम् ।
तथाचऽस्वर्गकामो यजेतऽइत्यादिषु स्वर्गकामादेः समीहितोपाया गम्यन्ते यागादयः ।
इतरथा तु न साधयितारमनुगच्छेयुः ।
तदुक्तमृषिणाऽअसाधकं तु तादर्थ्यात्ऽइति ।
अनुष्ठात्रपेक्षितोपायतारहितप्रवर्तनामात्रार्थत्वे यजेतेत्यादीनामसाधकं कर्म यागादि स्यात् ।

साधयितारं नाधिगच्छेदित्यर्थः ।
न चैते साक्षाद्भावनाभाव्या अपि कर्त्रपेक्षितसाधनताविध्युपहितमर्यादा भावनोद्देश्या भवितुमर्हन्ति, येन पुंसामनुपकारकाः सन्तो नाधिकारभाजो भवेयुः ।
दुःखत्वेन कर्मणां चेतनसमीहानास्पदत्वात् ।
स्वर्गादीनां तु भावनापूर्वरूपकामनोपधानाच्च ।
प्रीत्यात्मकत्वाच्च ।
नामपदाभिधेयानामपि पुरुषविशेषणानामपि भावनोद्देश्यतालक्षणभाव्यत्वप्रतीतेः ।
फलार्थप्रवृत्तभावनाभाव्यत्वलक्षणेन च यागादिसाध्यत्वेन फलार्थप्रवृत्तभावनाभाव्यत्वरूपस्य फलसाध्यत्वस्य समप्रधानत्वाभावेनैकवाक्यसमवायसंभवात्, भावनाभाव्यत्वमात्रस्य च यागादिसाध्यत्वस्य करणेऽप्यविरोधात् ।
अन्यथा सर्वत्र तदुच्छेदात् ।
परश्वादेरपि छिदादिषु तथाभावात् ।
फलस्य साक्षाद्भावनाव्याप्यत्वविरहिणोऽपि तदुद्देश्यतया सर्वत्र व्यापितया व्यवस्थानात्स्वर्गसाधने यागादौ स्वर्गकामादेरधिकार इति सिद्धम् ।
न चाप्राप्तार्थविषयाः सांग्रहण्यादियागविधयः परिसंख्यायका नियामका वा भवितुमर्हन्ति ।
न चाधिकाराभावे

देहात्मप्रविलयो वाधिकारिभेदप्रविलयो वा शक्य उपपादयितुम् ।
आपाततः प्रतिभाने चास्य तत्परत्वमेव नार्थायातपरत्वम् ।
स्वरसतः प्रतीयमानेर्ऽथे वाक्यस्य तादर्थ्ये संभवति न संपातायातपरत्वमुचितम् ।
न चैतावता शास्त्रत्वव्याघातः ।
तस्य स्वर्गाद्युपायशासनेऽपि शास्त्रत्वोपपत्तेः ।
पुरुषश्रेयोऽभिधायकत्वं हि शास्त्रत्वम् ।
सरागवीतरागपुरुषश्रेयोऽभिधायकत्वेन सर्वपारिषदतया न तत्त्वव्याघातः ।
तस्माद्विधिविषयभावोपगमाद्यागः स्वर्गस्योत्पादक इति सिद्धम् ।
कर्मणो वा काचिदवस्थेति ।
कर्मणोऽवान्तरव्यापारः ।
एतदुक्तं भवतिकर्मणो हि फलं प्रति यत्साधनत्वं श्रुतं, तन्निर्वाहयितुं तस्यैवावान्तरव्यापारो भवति ।
नच व्यापारवति सत्येव व्यापारो नासतीति युक्तम् ।
असत्स्वप्याग्नेयादिषु तदुत्पत्त्यपूर्वाणां परमापूर्वे जनयितव्ये तदवान्तरव्यापारत्वात् ।
असत्यपि च तैलपानकर्मणि तेन पुष्टौ कर्तव्यायामन्तरा तैलपरिणामभेदानां तदवान्तरव्यापारत्वात् ।
तस्मात्कर्मकार्यमपूर्वं कर्मणा फले कर्तव्ये तदवान्तरव्यापार इति युक्तम् ।
यदा पुनः फलोपजननान्यथानुपपत्त्या किञ्चित्कल्प्यते तदाफलस्य वा पूर्वावस्था ।
अविचित्रस्य कारणस्येति ।
यदीश्वरादेव केवलादिति शेषः ।
कर्मभिर्वा शुभाशुभैः कार्यद्वैधोत्पादे रागादिमत्त्वप्रसङ्ग इत्याशयः ॥४०॥



____________________________________________________________________________________________


३,२.८.४१

पूर्वं तु बादरायणो हेतुव्यपदेशात् । ब्रह्मसूत्र ३,२.४१ ।

दृष्टानुसारिणी हि कल्पना युक्ता नान्यथा ।
नहि जातु मृत्पिण्डदण्डादयः कुम्भकाराद्यनधिष्ठिताः कुम्भाद्यारम्भाय विभववन्तो दृष्टाः ।
नच विद्युत्पवनादिभिरप्रयत्नपूर्वैर्व्यभिचारः, तेषामपि कल्पनास्पदतया व्यभिचारनिदर्शनत्वानुपपत्तेः ।
तस्मादचेतनं कर्म वापूर्वं वा न चेतनानधिष्ठितं स्वतन्त्रं स्वकार्यं प्रवर्तितुमुत्सहते नच चैतन्यमात्रं कर्मस्वरूपसामान्यविनियोगादिविशेषविज्ञानशून्यमुपयुज्यते, येन तद्रहितक्षेत्रज्ञमात्राधिष्ठानेन सिद्धसाध्यत्वमुद्भाव्येत ।
तस्मात्तत्तत्प्रासादाट्टालगोपुरतोरणाद्युपजननिदर्शनसहस्रैः सुपरिनिश्चितं यथा चेतनाधिष्ठानादचेतनानां कार्यारम्भकत्वमिति तथा चैतन्यं देवताया असति बाधके श्रुतिस्मृतीतिहासपुराणप्रसिद्धं न शक्यं प्रतिषेध्धुमित्यपि स्पष्टं निरटङ्कि देवताधिकरणे ।
लौकिकश्चेश्वरो दानपरिचरणप्रणामाञ्जलिकरणस्तुतिमयीभिरतिश्रद्धागर्भाभिर्भक्ति भिराराधितः प्रसन्नः स्वानुरूपमाराधकाय फलं प्रयच्छति विरोधतश्चापक्रियाभिर्विरोधकायाहितामित्यपि सुप्रसिद्धम् ।
तदिह केवलं कर्म वापूर्वं वा चेतनानधिष्ठितमचेतनं फलं प्रसूत इति दृष्टविरुद्धम् ।
यथा विनष्टं

कर्म न फलं प्रसूत इति कल्प्यते दृष्टविरोधादेवमिहापीति ।
तथा देवपूजात्मको यागो देवतां नप्रसादयन् फलं प्रसूत इत्यपि दृष्टविरुद्धम् ।
नहि राजपूजात्मकमाराधनं राजानमप्रसाद्य फलाय कल्पते ।
तस्माद्दृष्टानुगुण्याय यागादिभिरपि देवताप्रसत्तिरुत्पाद्यते ।
तथाच देवताप्रसादादेव स्थायिनः फलोत्पत्तेरुपपत्तेः कृतमपूर्वेण ।
एवमशुभेनापि कर्मणा देवताविरोधनं श्रुतिस्मृतिप्रसिद्धम् ।
ततः स्थायिनोऽनिष्टफलप्रसवः ।
नच शुभाशुभकारिणां तदनुरूपं फलं प्रसुवाना देवता द्वेषपक्षपातवतीति युज्यते ।
नहि राजा साधुकारिणमनुगृह्णन्निगृह्णन् वा पापकारिणं भवति द्विष्टो रक्तो वा तद्वदलौकिकोऽपीश्वरः ।
यथा च परमापूर्वे कर्तव्ये उत्पत्त्यपूर्वाणामङ्गापूर्वाणां चोपयोगः ।
एवं प्रधानाराधनेऽङ्गाराधनानामुत्पत्त्याराधनानां चोपयोगः ।
स्वाम्याराधन इव तदमात्यतत्प्रणयिजनाराधनानामिति सर्वं समानमन्यत्राभिनिवेशात् ।
तस्माद्दृष्टाविरोधेन देवताराधनात्फलं न त्वपूर्वात्कर्मणो वा केवलाद्विरोधतो हेतुव्यपदेशश्च श्रौतः स्मार्तश्च व्याख्यातः ।
ये पुनरन्तर्यामिव्यापाराया फलोत्पादनाया नित्यत्वं सर्वसाधारणत्वमिति मन्यमाना भाष्यकारीयमधिकरणं दूषयांबभूवुस्तेभ्यो व्यावहारिख्यामीशित्रीशितव्यविभागावस्थायामिति भाष्यं व्याचक्षीत ॥४१॥

इति श्रीवाचस्पतिमिश्रविरचिते भाष्यविभागे भामत्यां तृतीयस्याध्यायस्य द्वितीयः पादः ॥२॥



॥ इति तृतीयाध्यायस्य तत्त्वम्पदार्थपरिशोधनाख्यो द्वितीयः पादः ॥




____________________________________________________________________________________________
____________________________________________________________________________________________




तृतीयाध्याये तृतीयः पादः ।

____________________________________________________________________________________________


३,३.१.१

सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् । ब्रह्मसूत्र ३,३.१ ।
पूर्वेण संगतिमाह
व्याख्यातं विज्ञेयस्य ब्रह्मण इति ।
निरूपाधिब्रह्मतत्त्वगोचरं विज्ञानं मन्वान आक्षिपति
ननु विज्ञेयं ब्रह्मेति ।
सावयवस्य ह्यवयवानां भेदात्तदवयवविशिष्टब्रह्मगोचराणि विज्ञानानि गोचरभेदाद्भिद्येरन्नित्यवयवा ब्रह्मणो निराकृताः पूर्वापरादीत्यनेन ।
नच नानास्वभावं ब्रह्म यतः स्वभावभेदाद्भिन्नानि ज्ञानानीत्युक्तम्
एकरसमिति ।
धनङ्कठिनम् ।
नन्वेकमप्यनेकरूपं लोके दृष्टं, यथा सोमशर्मैकोऽप्याचार्यो मायुलपिता पुत्रो भ्राता भर्ता जामाता द्विजोत्तम इत्यनेकरूप इत्यत उक्तम्
एकरूपत्वाच्च ।
एकस्मिन् गोचरे संभवन्ति बहूनि विज्ञानानि न त्वनेकाकारणीत्युक्तम्
अनेकरूपाणि ।
रूपमाकारः ।
समाधत्ते
उच्यतेसगुणेति ।
तत्तद्गुणोपाधानब्रह्मविषया उपासनाः प्राणादिविषयाश्च दृष्टादृष्टक्रमुक्तिफला विषयभेदाद्भिद्यन्त इत्यर्थः ।
तत उपपन्नो विमर्श इत्याह
तेष्वेषा चिन्ता ।
पूर्वपक्षं गृह्णाति
तत्रेति ।
नाम्नस्तावदिति ।
अस्तिऽअथैष ज्योतिःेतेन सहस्रदक्षिणेन यजेतऽइति ।
तत्र संशयःकिं यजेतेति संनिहितज्योतिष्टोमानुवादेन सहस्रदक्षिणालक्षणगुणविधानम्, उतैतद्गुणविशिष्टकर्मान्तरविधानमिति ।
किं तावत्प्राप्तम्, ज्योतिष्टोमस्य प्रक्रान्तत्वाद्यजेतेति तदनुवादाज्ज्योतिरिति प्रातिपदिकमात्रं पठित्वा एतेनेत्यनुकृष्य कर्मसामानाधिकरण्येन

कर्मनामव्यवस्थापनात्, कर्मणश्चानुवाद्यत्वेन तत्तन्त्रस्य नाम्नोऽपि तथैव व्यवस्थापनात्, ज्योतिःशब्दस्यऽवसन्ते वसन्ते ज्योतिषाऽइति च ज्योतिष्टोमे योगदर्शनात्नामैकदेशेन च नामोपलक्षणस्य लोकसिद्धत्वाद्भीमसेनोपलक्षणभीमपदवत्, अथशब्दस्य चानन्तर्यार्थस्यासंबन्धित्वेऽनुपपत्तेः, गुणविशिष्टकर्मान्तरविधेश्च गुणमात्रविधानस्य लाघवात्, द्वादशशतदक्षिणायाश्चोत्पत्त्यशिष्टतया समशिष्टतया सहस्रदक्षिणया सह विकल्पोपपत्तेः, प्रकृतस्यैव ज्योतिष्टोमस्य सहस्रदक्षिणालक्षणगुणविधानार्थमयमनुवादो न तु कर्मान्तरमिति प्राप्तम् ।
एवं प्राप्त उच्यतेभवेत्पूर्वस्मिन् गुणविधिर्यदि तदेव प्रकरणं स्यात् ।
विच्छिन्नं तु तत् ।
तथाहि संनिधावपि पूर्वासंबद्धार्थं संज्ञान्तरं प्रतीयमानम्ऽअन्यायश्चानेकार्थत्वम्ऽइति न्यायादुत्सर्गतोर्ऽथान्तरार्थत्वात्पूर्वबुद्धिं व्यवच्छिनत्त्यपूर्वबुद्धिं च प्रसूत इति लोकसिद्धम् ।
न जातु देहि देवदत्ताय गामथ देवाय वाजिनमिति देवशब्दाद्देवदत्तं वाजिभाजमवस्यन्ति लौकिकाः ।
तथा चोपरिष्टात्ऽयजेतऽइति श्रूयमाणमसंबद्धार्थपदव्यवायात्तत्कर्मबुद्धिमनादधत्तत्र गुणविधानमात्रासमर्थं कर्मान्तरमेव विधत्ते ।
न चैकत्रानुपपत्त्या लक्षणया ज्योतिःशब्दो ज्योतिष्टोमे प्रवृत्त इत्यसत्यामनुपपत्तौ लाक्षणिको युक्तः ।
नहि गाङ्गायां घोष इत्यत्र गाङ्गापदं लाक्षणिकमिति मीनो गाङ्गायामित्यत्रापि लाक्षणिकं भवति ।
भेदेऽपि च प्रथमं संज्ञान्तरेणोल्लिखिते यजिशब्दसामानाधिकरण्यं कर्मनामधेयतामात्रतामावहति नतु संज्ञान्तरोपजनितां भेदधियमपनेतुमुत्सहते ।
तथा चाथशब्दोऽधिकारार्थः प्रकरणान्तरतामवद्योतयति ।
एषशब्दश्चाधिक्रियमाणपरामर्शक इति सोऽयं संज्ञान्तराद्भेद इति ।
भवतु संज्ञान्तरात्कर्मभेदः प्रस्तुते तु किमायातमित्यत आह
अस्ति चात्र वेदान्तान्तरविहितेष्विति ।
यथैव काठकादिसमाख्या ग्रन्थे प्रयुज्यन्त एवं ज्ञानेऽपि लौकिकाः ।
न चास्ति विशेषो यतो ग्रन्थे मुख्याविज्ञाने गौणी भवेत् ।

प्रणयनं च ग्रन्थज्ञानयोरभिन्नं प्रवृत्तिनिमित्तम् ।
तस्माज्ज्ञानस्यापि वाचिका समाख्या ।
तथाच यदा ज्योतिष्टोमसंनिधौ श्रूयमाणं समाख्यान्तरं तत्प्रतीकमपि कर्मणो भेदकं तदा कैव कथा शाखान्तरीये विप्रकृष्टतमेऽतत्प्रतीकभूतसमाख्यान्तराभिधेये ज्ञात इति ।
तथा रूपभेदोऽपि कर्मभेदस्य प्रतिपादकः प्रसिद्धो यथाऽवैश्वदेव्यामिक्षा वाजिभ्यो वाजिनम्ऽइत्येवमादिषु ।
इदमाम्नयतेऽतप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षाऽइति ।
अत्र हि द्रव्यदेवतासंबन्धानुमितो यागो विधीयते ।
तदनन्तरं चेदमाम्नायतेऽवाजिभ्यो वाजिनम्ऽइति ।
अत्रेदं संदिह्यतेकिं पूर्वस्मिन्नेव कर्मणि वाजिनं गुणो विधीयते उत कर्मान्तरं द्रव्यदेवतान्तरविशिष्टमपूर्वं विधीयत इति ।
किं तावत्प्राप्तम्, द्रव्यदेवतान्तरविशिष्टकर्मान्तरविधौ विधिगौरवप्रसङ्गात्कर्मान्तरापूर्वान्तरकल्पनागौरवप्रसङ्गाच्च न कर्मान्तरविधानमपि तु पूर्वस्मिन्नेव कर्मणि वाजिनद्रव्यविधिः ।
न चोत्पत्तिशिष्टमिक्षागुणावरोधात्तत्र वाजिनमलब्धावकाशं कर्मान्तरं गोचरयतीति युक्तम् ।
उभयोरपि वाक्ययोः समसमयप्रवृत्तेरामिक्षावाजिनयोरुत्पत्तौ समं शिष्यमाणत्वेन नामिक्षायाः शिष्टत्वम् ।
तत्कथमनयावरुद्धं कर्म न वाजिनं निविशेत् ।
न च वैश्वदेवीत्यत्र श्रौत आमिक्षासंबन्धो विश्वेषां देवानां येन वाजिनसंबन्धाद्वाक्यगम्याद्बलवान्भवेदुभयोरपि पदान्तरापेक्षप्रतीतितया वाक्यगम्यत्वाविशेषात् ।
नो खलु वैश्वदेवीत्युक्ते आमिक्षापदानपेक्षामामिक्षामध्यवस्यामः ।
अस्तु वा श्रौतत्वं तथापि वाजिभ्य इति पदं वाजमन्नमामिक्षा तदेषामस्तीति व्युत्पत्त्या तत्संबन्धिनो विश्वान्देवानुपलक्षयति ।
यद्यपि विश्वदेवशब्दाद्वाजिपदं भिन्नं, येन च शब्देन चोदना तेनैवोद्देशे

देवतात्वं न शब्दान्तरेणान्यथार्थैकत्वेन सूर्यादित्यपदयोः सूर्यादित्यचर्वोरेकदैवत्यप्रसङ्गात्, तथापि वाजिन्नितीनेः सर्वनामार्थे स्मरणात्संनिहितस्य च सर्वनामार्थत्वात्, विश्वेषां देवानां च विश्वदेवपदेन संनिधापनात्तत्पदपुरःसरा एवैते वाजिपदेनोपस्थाप्या न तु सूर्यादित्यपदवत्स्वतन्त्राः ।
तथाच तदुपलक्षणार्थं वाजिपदं विश्वदेवोपहितामेव देवतामुपलक्षयतीति न शब्दान्तरोद्देवताभेदः ।
ततश्चामिक्षासंबन्धोपजीवनेन विश्वेभ्यो वाजिनं विधीयमानं नामिक्षया बाध्यते किन्तु तया सह समुच्चीयत इति न कर्मान्तरमपि तु वाक्याभ्यां द्रव्ययुक्तमेकं कर्म विधीयत इति प्राप्त उच्यतेस्यादेतदेवं यदि वैश्वदेवीति तद्धितश्रुत्यामिक्षा नोच्येत ।
तद्धितस्य त्वस्येति सर्वनामार्थे स्मरणात्संनिहितस्य च विशेष्यस्य सर्वनामार्थत्वात्तत्रैव तद्धितस्यापि वृत्तिर्नतु विश्वेषु देवेषषु ।
न तत्संबन्धे, नापि तत्संबन्धिमात्रे ।
नन्वेवं सति कस्माद्वैश्वदेवीशब्दमात्रादेव नामिक्षां प्रतीमः किमिति चामिक्षापदमपेक्षामहे ।
तद्धितान्तस्य पदस्याभिधानापर्यवसानान्न प्रतीमस्तत्पर्यवसानाय चापेक्षामहे ।
अवसिताभिधानं हि पदं समर्थमर्थधियमाधातुम् ।
इदं तु संनिहितविशेषाभिधायि तत्संनिधिमपेक्षमाणं संनिधापकमामिक्षापदमपेक्षत इति कुत आमिक्षापदानपेक्ष आमिक्षाप्रत्ययप्रसङ्गः ।
कुतो वा तत्रानपेक्षा ।
अतश्च सत्यामपि पदान्तरापेक्षायां यत्पदं पदान्तरापेक्षमभिधत्ते तत्प्रमाणभूतप्रथमभाविपदावगम्यत्वाच्छ्रौतं बलीयश्च ।
यत्तु पर्यवसिताभिधानपदाभिहितपदार्थवगमगम्यं तत्तच्चरमप्रतीतिवाक्यगम्यं दुर्बलं चेति तद्धितश्रुत्यवगतामिक्षालक्षणगुणावरोधात्पूर्वकर्मासंयोगि वाजिनद्रव्यं ससंबन्धि पूर्वस्माद्भिनत्ति ।
एवञ्च सति नित्यवदवगधानपेक्षसाधनभावामिक्षा न वाचिनद्रव्येण सह विकल्पसमुच्चयौ प्राप्स्यति ।
नचाश्वत्वे निरीढत्वादनपेक्षवृत्ति वाजिपदं कथञ्चिद्यौगिकं सापेक्षावृत्ति विश्वदेवशब्दां देवतां वैश्वदेवीपदादामिक्षाद्रव्यं प्रत्युपसर्जनीभूतामवगतामुपलक्षयिष्यति ।
प्रकृतं हि सर्वनामपदगोचरः ।

प्रधानं च प्रकृतमुच्यते नोपसर्जनम् ।
प्रामाणिके च विधिकल्पनागौरवे अभ्युपेतव्ये एव प्रमाणस्य तत्त्वविषयत्वात् ।
तस्माद्यथेह पूर्वकर्मासंभविनो गुणात्कर्मभेद एवमिहापि पञ्चाग्निविद्यायाः षडग्निविद्या भिन्ना, एवं प्राणसंवादेषूनाधिकभावेन विद्याभेद इति ।
तथा धर्मविशेषोऽपि कर्मभेदस्य प्रतिपादक इति ।
तथाहिकारीरिवाक्यान्यधीयानास्तैत्तिरीया भूमौ भोजनमाचरन्ति नाचरन्त्यन्ये ।
तथाग्निमधीयानाः केचिदुपाध्यायस्योदकुम्भमाहरन्ति नाहरन्त्यन्ये ।
तथाश्वमेधमधीयानाः केचिदश्वस्य घासमानयन्ति नानयन्त्यन्ये ।
केचित्त्वाचरन्त्यन्यमेव धर्मम् ।
नच तान्येव कर्माणि भूमिभोजनादिजनितमुपकारमाकाङ्क्षन्ति नाकाङ्क्षन्ति चेति युज्यते ।
अतोऽवगम्यते भिन्नानि तासु शाखासु कर्माणीति ।
अस्तु प्रस्तुते किमायातमित्यत आह
अस्ति चात्रेति ।
अन्येषां शाखिनां नास्तीति शेषः ।
एवं पुनरुक्त्यादयोऽपीति ।
ऽसमिधो यजतिऽइत्यादिषु पञ्चकृत्वोऽभ्यस्तो यजतिशब्दः ।
तत्र किमेका कर्मभावना किंवा पञ्चैवेति ।
किं तावत्प्राप्तं, धात्वर्थानुबन्धभेदेन शब्दान्तराधिकरणे भावनाभेदाभिधानाद्धात्वर्थस्य च धातुभेदमन्तरेण भेदानुपपत्तेःऽसमिधो यजतिऽइति प्रथमभाविना वाक्येन विहिता कर्मभावना विपरीवर्तमानोपरितनैर्वाक्यैरनूद्यते ।
नच प्रयोजनाभावादननुवादः प्रमाणसिद्धस्याप्रयोजनस्याननुयोज्यत्वात् ।
कर्मभावनाभेदे चानेकापूर्वकल्पनाप्रसङ्गादेकापूर्ववान्तरव्यापारमेकं कर्मेति प्राप्तम् ।
एवं प्राप्त उच्यतेपरस्परानपेक्षाणि हि समिदादिवाक्यानीति ।
सर्वाण्येव प्राथम्यार्हण्यपि युगपदध्ययनानुपपत्तेः क्रमेणाधीतानीति ।
न त्वयमेषां प्रयोजकः क्रमः ।
परस्परापेक्षाणामेकवाक्यत्वे हि प्रयोजकः स्यात् ।

तेन प्राथम्याभावात्प्राप्तमित्येव नास्तीति कस्य कोऽनुवादः ।
कथञ्चिद्विपरिवृत्तिमात्रस्यौत्सर्गिकाप्रवृत्तप्रवर्तनालक्षणविधित्वापवादसामर्थ्याभावात् ।
गुणश्रवणे हि गुणविशिष्टकर्मविधाने विधिगौरवभिया गुणमात्रविधानलाघवाय कर्मानुवादापेक्षायां विपरिवृत्तेरुपकारः ।
यथाऽदध्ना जुहोतिऽइति दधिविधिपरे वाक्ये विपरिवृत्त्यपेक्षायाम्ऽअग्निहोत्रं जुहेतिऽइति विहितस्य होमस्य

विपरीवर्तमानस्यानुवादः ।
न चात्र गुणाद्भेदः, समिदादिपदानां कर्मनामधेयानां गुणवचनत्वाभावात् ।
अगृह्यमाणविशेषतया च किंवचनविहितकिङ्कर्मानुवादेन कस्य गुणविधित्वमिति न विनिगम्यते ।
न चापूर्वा नाम ज्योतिरादिवद्विधानसंबन्धं प्रथममवगतं, यतः पूर्वबुद्धिविच्छेदेन विधीयमानं कर्म पूर्वस्मात्संज्ञातो व्यवच्छिन्द्यात् ।
किन्तु प्रथमत एव कर्मसामानाधिकरण्येनावगताः समिदादयस्तद्वशात्कर्मनामधेयतां प्रतिपद्यमाना आख्यातस्यानुवादत्वेऽनुवादा विधित्वे विधयो न तु स्वातन्त्र्येण कस्यचिदीशते ।
तस्मात्स्वरससिद्धाप्राप्तकर्मविधिपरत्वात्कर्मण्ययमभ्यासो भावनानुबन्धभूतानि भिन्दानो भावनां भिनत्ति यथा तथा शाखान्तरविहिता अपि विद्याः शाखान्तरविहिताभ्यो विद्याभ्योऽभ्यासो भेत्स्यतीति ।
अशक्तेश्च ।
नह्येकः पुरुषः सर्ववेदान्तप्रत्ययात्मिकामुपासनामुपसंहर्तुं शक्नोति सर्ववेदान्ताध्ययनासामर्थ्यादनधीतार्थोपसंहारेऽध्ययनविधानवैयथ्र्यप्रसङ्गात् ।
प्रतिशाखं भेदे तूपासनानां नायं दोषः ।
समाप्तिभेदाच्च ।
केषाञ्चित्शाखिनामोङ्कारसार्वात्म्यकथने समाप्तिः ।
केषाञ्चिदन्यत्र ।
तस्मादप्युपासनाभेदः ।
अन्यार्थदर्शनादपि भेदः ।
तथाहिऽनैतदचीर्णव्रतोऽधीतेऽइति अचीर्णव्रतस्याध्ययनाभावदर्शनादुपासनाभावः ।
क्वचिदचीर्णव्रतस्याध्ययनदर्शनादुपासनावगम्यते ।
तस्मादुपासनाभेद इति ।
अत्र सिद्धान्तमाह
सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ।

तद्व्याचष्टे
सर्ववेदान्तप्रत्ययानि सर्ववेदान्तप्रमाणानिविज्ञानानि तस्मिंस्तस्मिन् वेदान्ते तानि तान्येव भवितुमर्हन्ति ।
यान्येकस्मिन् वेदान्ते तान्येव वेदान्तान्तरेष्वपीत्यर्थः ।
चोदनाद्यविशेषात् ।
आदिशब्देन संयोगरूपाख्याः संगृह्यन्ते ।
अत्र च चोद्यत इति चोदना पुरुषप्रयत्नः ।
स हि पुरुषस्य व्यापारः ।
तत्र खल्वयं होमादिधात्वर्थावच्छिन्ने प्रवर्तते ।
तस्य देवतोद्देशेन त्यागस्यासेचनादिकस्यावच्छेद्यः पुरुषप्रयत्नः स एव शाखान्तरे यथैवमिहापि प्राणज्येष्ठत्वश्रेष्ठत्ववेदनविषयः पुरुषप्रयत्नः स एव शाखान्तरेष्वपीति ।
एवं फलसंयोगोऽपि ज्येष्ठश्रेष्ठभवनलक्षणः स एव ।
रूपमपि तदेव ।
यथा यागस्य यदेकस्यां शाखायां द्रव्यदेवतारूपं तदेव शाखान्तरेष्वपीति ।
एवं वेदनस्यापि यदेकत्र प्राणज्येष्ठत्वश्रेष्ठत्वरूपं विषयस्तच्छाखान्तरेष्वपीति ॥१॥



____________________________________________________________________________________________


३,३.१.२

कञ्चिद्विशेषमिति ।
युक्तं यदग्नीषोमीयस्योत्पन्नस्य पश्चादेकादशकपालत्वादिसंबन्धेऽप्यभेद इति ।
यथोत्पन्नस्य तस्य सर्वत्र प्रत्यभिज्ञायमानत्वादिह त्वग्निषूत्वपत्तिगत एव गुणभेद इति कथं वैश्वदेवीवन्न भेदक इति विशेषः ।
तमिमं विशेषमभिप्रेत्याशङ्कते सूत्रकारः
भेदान्नेति चेदिति । ब्रह्मसूत्र ३,३.२ ।
परिहारः सूत्रावयवः
न एकस्यामपीति । ब्रह्मसूत्र ३,३.२ ।
पञ्चैव सांपादिका अग्नयो वाजसनेयिनामपि छान्दोग्यानामिव विधीयन्ते ।
षष्ठस्त्वग्निः संपद्व्यतिरेकायानूद्यते न तु विधीयते ।
वैश्वदेव्यां तूत्पत्तौ गुणो विधीयत इति भवतु भेदः ।
अथवा छान्दोग्यानामपि षष्ठोऽग्निः पठ्यत एव ।
अथवा भवतु

वाजसनेयिनां षष्ठाग्निविधानं मा च भूच्छान्दोग्यानां तथापि पञ्चत्वसंख्याया अविधानान्नोत्पत्तिशिष्टत्वं संख्यायाः किन्तूत्पन्नेष्वग्निषु प्रचयशिष्टा संख्यानूद्यते सांपादिकानग्नीनवच्छेतुं, तेन येषामुत्पत्तिस्तेषां प्रत्यभिज्ञानात् ।
अप्रत्यभिज्ञायमानायाश्च संख्याया अनुवाद्यत्वेनानुत्पत्तेर्विधीयमानस्य चाधिकस्य षोडशिग्रहणवद्विकल्पसंभवान्न शाखान्तरे ज्ञानभेदः ।
उत्पत्तिशिष्टत्वेऽसिद्धे प्राणसंवादादयोऽपि भवन्ति प्रत्यभिज्ञानादभिन्नास्तासु तासु शाखास्विति ॥२॥



____________________________________________________________________________________________


३,३.१.३

स्वाध्यायस्य तथात्वेन हि समाचारेऽधिकाराच्च सववच्च तन्नियमः । ब्रह्मसूत्र ३,३.३ ।
यैराथर्वणिकग्रन्थोपाया विद्या वेदितव्यां तेषामेव शिरोव्रतपूर्वाध्ययनप्राप्तग्रन्थबोधिता फलं प्रयच्छति नान्यथा ।
अन्येषां तु छान्दोग्यादीनां सैव विद्या चीर्णशिरोव्रतानां फलदेत्याथर्वणग्रन्थाध्ययनसंबन्धादवगम्यते ।
तत्संबन्धश्च वेदव्रतेनेतिऽनैतदचीर्णव्रतोऽधीतेऽइति समाम्नानादवगम्यते ।
ऽतेषामेवैतां ब्रह्मविद्यां वदेतऽइति विद्यासंयोगेऽप्येतामिति प्रकृतपरामर्शिना सर्वनाम्नाध्ययनसंबन्धाविरोधादाथर्वविहितैव विद्योच्यत इति ।
सवा होमाः सप्त सौर्यादयः शतौदनान्ता अथर्वणिकानां त एकस्मिन्नेवार्थर्वणिकेऽग्नौ क्रियन्ते न त्रेतायाम् ॥३॥



____________________________________________________________________________________________


३,३.१.४

विद्यैकत्वं

दर्शयति च । ब्रह्मसूत्र ३,३.४ ।

भूयोभूयो विद्यैकत्वस्य वेददर्शनाद्यत्रापि सगुणब्रह्मविद्यानां न साक्षाद्वेद

एकत्वमाह तासामपि तत्प्रायपठितानां तद्विधानां प्रायदर्शनादेकत्वमेव ।
तथाह्यग्र्यप्राये लिखितं दृष्ट्वा भवेदयमग्र्य इति बुद्धिरिति ।
यच्च काठकादिसमाख्ययोपासनाभेद इति तदयुक्तम् ।
एता हि पौरुषेय्यः समाख्याः काठकादिप्रवचनयोगात्तासां शाखानां न तूपासनानाम् ।
नह्येताः कठादिभिः प्रोक्ता नच कठाद्यनुष्ठानमासामितरानुष्ठानेभ्यो विशेष्यते ।
नच कठप्रोक्तानिमित्तमात्रेण ग्रन्थे प्रवृत्तौ तद्योगाच्च कथञ्चिल्लक्षणयोपासनासु प्रवृत्तौ संभवन्त्यामुपासनाभिधानामप्यासां शक्यं कल्पयितुम् ।
नच तद्भेदाभेदौ ज्ञानभेदाभेदप्रयोजकौ, मा भूद्यथास्वमासामभेदाज्ज्ञानानामेकशाखागतानामैक्यम् ।
कठादिपुरुषप्रवचननिमित्ताश्चैताः समाख्याः कठादिभ्यः प्राक्नासन्निति तन्निबन्धनो ज्ञानभेदो नासीदिदानीं चास्तीति दुर्घटमापद्येत ।
तस्मान्न समाख्यातो भेदः ।
अभ्यासोऽपि नात्र भेदकः ।
युक्तं यदेकशाखागतो यजत्यभ्यासः समिदादीनां भेदक इति ।
तत्र हि विधित्वमौत्सर्गिकमज्ञातज्ञापनमप्रवृत्तप्रवर्तनं च कुप्येयाताम्ऽशाखान्तरे त्वध्येतृपुरुषभेदादेकत्वेऽपि नौत्सर्गिकविधित्वव्याकोप इति ।
अशक्तिरपि न भेदहेतुः स्वाध्यायोऽध्येतव्य इति स्वशाखायामध्ययननियमः ।
ततश्च शाखान्तरपरीयानर्थानन्येभ्यस्तद्विद्येभ्योऽधिगम्योपसंहरिष्यति ।
समाप्तिश्चैकस्मिन्नपि तत्संबन्धिनि समाप्ते तस्य व्यपदिश्यते ।
यथाध्वर्यवे कर्मणि ज्योतिष्टोमस्य समाप्ति व्यपदिशन्तिऽज्योतिष्टोमः समाप्तःऽइति तस्मात्समाप्तिभेदोऽपि न साधनमुपासनाभेदस्य ।
तदेवमसति बाधके चोदनाद्यविशेषात्सर्ववेदान्तप्रत्ययानि कर्माणि तानि तान्येवेति सिद्धम् ॥४॥



____________________________________________________________________________________________


३,३.२.५


कञ्चिद्विशेषमाशङ्क्य पूर्वतन्त्रप्रसाधितम् ।
वक्ष्यमाणार्थसिद्ध्यर्थमर्थमाह स्म सूत्रकृत् ॥
चिन्ताप्रयोजनप्रदर्शनार्थं सूत्रम्

उपसंहारोऽर्थाभेदाद्विधिशेषवत्समाने च । ब्रह्मसूत्र ३,३.५ ।

अत्रैदमाशङ्कतेभवतु

सर्वशाखाप्रत्ययमेकं विज्ञानं तथापि शाखान्तरोक्तानां तदङ्गान्तराणां न शाखान्तरोक्ते तस्मिन्नुपसंहारो भवितुमर्हति ।
तस्यैकस्य कर्मणो यावन्मात्रमङ्गजातमेकस्यां शाखायां विहितं तावान्मात्रेणैवोपकारसिद्धेरधिकानपेक्षणात् ।
अपेक्षणे चाधिकमपि तत्र विधीयते ।
नच विहितम् ।
तस्माद्यथा नैमित्तिकं कर्म सकलाङ्गवद्विहितमपि अशक्तौ यावच्छक्यमङ्गमनुष्ठातुं तावन्मात्रजन्येनोपकारेणौपकृतं भवत्येवमिहाप्यङ्गान्तराविधानादेव भविष्यतीति ।
एवं प्राप्त उच्यतेसर्वत्रैकत्वे कर्मणः स्थिते गृहमेधीयन्यायेन नोपकारावच्छेदो युज्यते ।
नहि तदेव कर्म सत्तदङ्गमपेक्षते नापेक्षते चेति युज्यते ।
नैमित्तिके तु निमित्तानुरोधादवश्यकर्तव्ये सर्वाङ्गोपसंहारस्य सदातनत्वासंभवादुपकारावच्छेदः कल्प्यते ।
प्राकृतोपकारपिण्डे चोदकप्राप्ते आज्यभागविधानाद्गृहमेधीयेऽप्युपकारावच्छेदः स्यात् ।
इह तु शाखान्तरे कतिपयाङ्गविधानं तानि विधत्ते नेतराणि परिसंचष्टे ।
नच तदुपकारपिण्डे चोदकप्राप्ते आज्यभागवत्तन्मात्रविधानम् ।
तस्मात्तत्त्वेन कर्मणां सर्वाङ्गसङ्गम औत्सर्गिकोऽसति बलवति बाधके नापवदितुं युक्त इति ॥५॥



____________________________________________________________________________________________


३,३.३.६

अन्यथात्वं शब्दादिति चेन्नाविशेषात् । ब्रह्मसूत्र ३,३.६ ।
द्वया द्विप्रकाराः प्राजापत्या देवाश्चासुराश्च ।
ततः कानीयसा एव देवा ज्यायसा असुराः ।
शास्त्रजन्यया सात्त्विक्या बुद्ध्या संपन्ना देवाः ।
ते हि दीव्यन्त इति देवाः ।
शास्त्रयुक्त्यपरिकल्पितमतयस्तामसवृत्तिप्रधाना असुरा असुभिः प्राणैरनिन्द्रियैरगृहीतैस्तेषु तेषु विषयेषु रमन्त इत्यसुरा अत एव ते ज्यायांसः ।
यतोऽमी तत्त्वज्ञानवन्तः कानीयसास्तु देवाः ।
अज्ञानपूर्वकत्वात्तत्त्वज्ञानस्य ।
प्राणस्य प्रजापतेः सात्त्विकवृत्त्युद्भवस्तामसवृत्त्यभिभवः कदाचित् ।
कदाचित्तामसवृत्त्युद्भवोऽभिभवश्च सात्त्विक्या वृत्तैः ।
सेयं स्पर्धा ।
ते ह देवा ऊचुः, हन्त असुरान् यज्ञ उद्गीथेनात्ययाम असुरान्

जयामास्मिन्नाभिचारिके यज्ञ उद्गीथलक्षणसामभक्त्युपलक्षितेनोद्गात्रेण कर्मणेति ।
ते ह वाचमूचुरित्यादिना संदर्भेण वाक्प्राणचक्षुःश्रोत्रमनसामासुरपाप्मविद्धतया निन्दित्वा अथ हेममासन्यमास्ये भवमासन्यं मुखान्तर्बिलस्थं मुख्यं प्राणं प्राणाभिमानवतीं देवतामूचुस्त्वं न उद्गायेति ।
तथेत्यभ्युपगम्य तेभ्य एव प्राण उदगायत्तेऽसुरा विदुरनेन प्राणेनोद्गात्रा नोऽस्मान् देवा अत्येष्यन्तीति ।
तमभिद्रुत्य पाप्मनाविध्यन्नसुरा यथाश्मानमृत्वा प्राप्य मृत्त्वाल्लोष्टो वा विध्वंसत एवं विध्वंसमाना विष्वञ्चोऽसुरा विनेशुः ।
तदेतत्संक्षिप्याह
वाजसनेयक इति ।
तथा छान्दोग्येऽप्येतदुक्तमित्याह
तथा छान्दोग्येऽपीति ।
विषयं दर्शयित्वा विमृशति
तत्र संशय इति ।
पूर्वपक्षं

गृह्णाति
विद्यैकत्वमिति ।
पूर्वपक्षमाक्षिपति
ननु न युक्तमिति ।
एकत्रोद्गातृत्वेनोच्यते प्राण एकत्र चोद्गानत्वेन क्रियाकर्त्रोश्च स्फुटो भेद इत्यर्थः ।
समाधत्ते
नैष दोष इति ।
बहुतररूपप्रत्यभिज्ञा नादप्रत्यभिज्ञायमानं किञ्चिल्लक्षणया नेतव्यम् ।
न केवलं शाखान्तरे, एकस्यामपि शाखायां दृष्टमेतन्न च तत्र विद्याभेद इत्याह
वाजसनेत्यकेऽपि चेति ।
बहुतररूपप्रत्यभिज्ञानानुग्रहाय चोमित्यनेनापि उद्गीथावयवेन उद्गीथ एव लक्षणीय इति पूर्वपक्षः ॥६॥



____________________________________________________________________________________________


३,३.३.७

न वा प्रकरणभेदात्परोवरीयस्त्वादिवत् । ब्रह्मसूत्र ३,३.७ ।
बहुतरप्रत्यभिज्ञानेऽपि उपक्रमभेदात्तनुरोधेन चोपसंहारवर्णनादेकस्मिन्वाक्ये तस्यैव चोद्गीथस्य पुनःपुनः संकीर्तनाल्लक्षणायां च छान्दोग्ये

वाजसनेयके प्रमाणाभावाद्विद्याभेद इति राद्धान्तः ।
ओङ्कारस्योपास्यत्वं प्रस्तुत्य रसतमादिगुणोपव्याख्यानमोङ्कारस्य ।
तथाहिभूतपृथिव्योषधिपुरुषवागृक्साम्नां पूर्वस्योत्तरमुत्तरं रसतया सारतयोक्तम् ।
तेषां सर्वेषां रसतम ओङ्कार उक्तश्छान्दोग्ये ।
नच विवक्षितार्थभेद इति ।
एकत्रोद्गीथोद्गातारावुपास्यत्वेन विवक्षितावेकत्र तदवयव ओङ्कार इति ।
तथा ह्यभ्युदयवाक्ये इति ।
एवं हि श्रूयतेऽविवा एतं प्रजया पशुभिरर्धयति वर्धयत्यस्य भ्रातृव्यं यस्य हविर्निरुप्तं पुरस्ताच्चन्द्रमा अभ्युदेति स त्रेधा तण्डुलान्विभजेद्ये मध्यमाः स्युस्तानग्नये दात्रे पुरोडाशमष्टाकपालं निर्वपेद्ये स्थविष्ठास्तानिन्द्राय प्रदात्रे दधंश्चरुं ये क्षोदिष्ठास्तान् विष्णवे शिपिविष्टाय शृते चरुम्ऽइति ।
तत्र संदेहःकिं कालापराधे यागान्तरमिदं चोद्यत उत तेष्वेव कर्मसु प्रकृतेषु कालापराधे निमित्ते देवतापनय इति ।
एष तावदत्र विषयःमावास्यायामेव दर्शकर्मार्थं वेदिक्रियाग्निप्रणयनक्रिया व्रतादिश्च यजमानसंस्कारः ।
दध्यर्थश्च दोहः ।
प्रतिपदि च दर्शकर्मप्रवृत्तिरित्यनुष्ठानक्रमस्तात्त्विकः ।
यस्य तु यजमानस्य कुतश्चिद्भ्रमनिबन्धनाच्चतुर्दश्यामेवामावास्याबुद्धौ प्रवृत्तप्रयोगस्य चन्द्रमा अभ्युदीयते तत्रेदं श्रूयतेऽयस्य हविर्निरुप्तम्ऽइति ।
तेन यजमानेनाभ्युदितेनामावास्यायामेव निमित्ताधिकारं परिसमाप्य पुरस्तदहरेव वेद्युद्धरणादिकर्म कृत्वा प्रतिपदि दर्शः प्रवर्तयितव्यः ।
तत्राभ्युदये किं नैमित्तिकमिदं कर्मान्तरं दर्शाच्चोद्यत उत तस्मिन्नेव दर्शकर्मणि पूर्वदेवतापनयनेन देवतान्तरं विधीयत इति ।
तत्र हविर्भागमात्रश्रवणाच्चरुविधानसामर्थ्याच्च कर्मान्तरम् ।
यदि हि पूर्वदेवताभ्यो हवींषि विभजेदिति श्रूयते ततस्तान्येव हवींषि देवतान्तरेण युज्यमानानि न कर्मान्तरं गमयितुमर्हन्ति किन्तु प्रकृतमेव कर्म तद्धविष्कमपनीतपूर्तदेवताकं देवतान्तरयुक्तं स्यात् ।
अत्र पुनस्त्रेधा तण्डुलान् विभजेदिति हविष एव मध्यमादिक्रमेण विभागश्रवणादनपनीता हविषि पूर्वदेवता इति पूर्वदवतावरुद्धे हविषि देवतान्तरमलब्धावकाशं श्रूयमाणं कर्मान्तरमेव गोचरयेत् ।
अपिच प्राप्ते

पूर्वस्मिन् कर्मणि दध्नस्तण्डुलानां पयसस्तण्डुलानां चेन्द्रादिदेवता संबन्धश्च विधातव्यः ।
चरुत्वं चात्र विहितं नास्तीति तदपिव विधातव्यम् ।
तथा प्राप्ते कर्मण्यनेकगुणविधानाद्वाक्यं भिद्येत ।
कर्मान्तरं त्वपूर्वं शक्यमेकेनैव प्रयत्नेनानेकगुणविशिष्टं विधातुमिति निमित्ते कर्मान्तरमेव विधीयते ।
दर्शस्तु लुप्यते कालापराधादिति प्राप्त उच्यतेन कर्मान्तरम् ।
पूर्वदवतातो हविषो विभागपूर्वं निमित्ते देवतान्तरविधानात् ।
चर्वर्थस्य चार्थप्राप्तेः ।
भवेदेतदेवं यदा त्रेधा तण्डुलान् विभजेदिति तण्डुलानां त्रेधा विभागविधानपरमेतद्वाक्यं स्यादपि तु वाक्यान्तरप्राप्तं तण्डुलानां त्रेधात्वमनूद्य विभजेदित्येतावद्विधत्ते तत्र वाक्यान्तरालोचनया पूर्वदेवताभ्य इति गम्यते तण्डुलानिति त्वविवक्षितं हविरुभयत्वावत् ।
तथा च ये मध्यमा इत्यादीनि वाक्यान्यपनीते पूर्ववत्देवतासंबन्धे हविषस्तस्मिन्नेव कर्मण्यप्रत्यूहं देवतान्तरसंबन्धं विधातुं शक्नुवन्ति ।
तथाच द्रव्यमुखेन प्रकृतमुखप्रत्यभिज्ञानात्देवतान्तरसंबन्धेऽपि न कर्मान्तरकल्पनाभवितुमर्हति ।
ततश्च समाप्तेऽपि नैमित्तिकाधिकारसिद्ध्यर्थं तान्येव पुनः कर्माण्यनुष्ठेयानि ।
नच दधनि चरुमिति चरुसप्तम्यर्थयोर्विधानं तयोरप्यर्थप्राप्तत्वात् ।
प्रकृते हि कर्मणि तण्डुलपेषणप्रथनं पुरोडाशपाकादि दधिपयसी च प्राप्तानि तत्राभ्युदयनिमित्ते दधियुक्तानां पयोयुक्तानां च तण्डुलानां विभजेदिति वाक्येन पूर्वदेवतापनयं कृत्वा ये मध्यमा इत्यादिभिर्वाक्यैर्देवतान्तरसंबन्धः कृतः ।
नच प्रभूतधिपयः संसक्तैरल्पैस्तण्डुलैः पुरोडाशक्रिया संभवति ।
इति पुरोडाशनिवृत्तौ तदर्थस्य प्रथनस्यापि निवृत्तिरनिवृत्तस्तु पाकोऽपवादाभावात्तथा चार्थप्राप्तश्चोद्यते ।
भवतु वा अनेकवाक्यकल्पनम् ।

प्रकृताधिकारावगमबलादस्यापि न्याय्यत्वादिति ।
तस्मात्तदेवेदं कर्म न तु कर्मान्तरमिति सिद्धम् ।
पशुकामवाक्ये

त्वपूर्वकर्मविधिरभ्युदयवाक्यसारूप्येऽपि ।
ऽयः पशुकामः स्यात्सोऽमावास्यामिष्ट्वा वत्सानपाकुर्याद्ये स्थविष्ठास्तानग्नये सनिमतेऽष्ठाकपालं निर्वपेद्ये मध्यमास्तान् विष्णवे शिपिविष्टाय शृते चरुं ये क्षोदिष्ठास्तनिन्द्राय प्रदात्रे दधंश्चरुम्ऽइति ।
अत्र हि अमावास्यामिष्ट्वेति समाप्ते यागे पशुकामेष्टिविधानं नात्र पूर्वस्य कर्मणोऽननुवृत्तेर्यागान्तरविधिरिति युक्तम् ।
परोवरीयस्त्वादिवत् ।
यथोद्गीथोपासनासाम्येऽपि आदित्यगतहिरण्यश्मक्षुत्वादिगुणविशिष्टोद्गीथोपासनातः परोवरीयस्त्वगुणविशिष्टोद्गीथोपासना भिन्ना तद्वदिदमपीति ।
परस्मात्परो वराच्च वरीयानिति परोवरीयानुद्गीथः परमात्मरूपः संपन्नः ।
अत एव अनन्तः ।
परमात्मदृष्टिमुद्गीथे भवयितुम्ऽआकाशो ह्येवैभ्यो भूतेभ्यो ज्यायान्ऽइत्याकाशशब्देन परमात्मानं निर्दिशति ॥७॥



____________________________________________________________________________________________


३,३.३.८
संज्ञातश्चेत्तदुक्तमस्ति तु तदपि । ब्रह्मसूत्र ३,३.८ ।
स्फुटतरे भेदावगमे संज्ञैकत्वं नाभेदसाधनमतिप्रसङ्गपातात् ।
अपिच श्रुत्यक्षरालोचनयां भेदप्रत्ययोऽन्तरङ्गश्चानपेक्षश्च ।
संज्ञैकत्वं तु श्रुतिबाह्यतया बहिरङ्गं च पौरुषेयतया सापेक्षं च ।
तस्मादुर्बलं नामेदसाधनायालमिति ॥८॥



____________________________________________________________________________________________


३,३.४.९

व्याप्तेश्च समञ्जसम् । ब्रह्मसूत्र ३,३.९ ।
अध्यासो नामेति ।
गौणी बुद्धिरध्यासः ।
यथा माणवकेऽनिवृत्तायामेव माणवकबुद्धिव्यपदेशवृत्तौ सिंहबुद्धिव्यपदेशवृत्तिः सिंहो माणवक इति, एवं प्रतिमायां वासुदेवबुद्धिर्नाम्नि च ब्रह्मबुद्धिस्तथोङ्कार उद्गीथबुद्धिव्यपदेशाविति ।
अपवादैकत्वविशेषणानि

चोक्तानि ।
एकार्थेऽपि च शब्दद्वयप्रयोगो दृश्यते ।
यथा वैश्वदेव्यामिक्षा विज्ञानमानन्दम् ।
व्याख्यायां च पर्यायाणमपि सहप्रयोगो यथा सिन्धुरः करी पिकः कोकिल इति ।
विमृश्यानध्यवसायलक्षणं पक्षं गृह्णाति
तत्रान्यतम इति ।
सिद्धान्तमाहैदमुच्यते
व्याप्तेश्च ।
प्रत्यनुवाकं प्रत्यृचमुपक्रमे च समाप्तौ चोकारः सर्दवेदव्यापीति किङ्गतोऽयमोङ्कारस्तत्तदाप्यादिगुणविशिष्टस्तस्मै तस्मै कामावाप्त्यादिफलायोपास्यत्वेनाधिक्रियत इत्यपेक्षायामुद्गीथपदेनेति विशिष्यते ।
उद्गीथपदेनोकाराद्यवयवघटितसामभक्तिभेदाभिधायिना समुदायस्यावयवभावानुपपत्तेस्तत्संबन्धवयव ओङ्कारो लक्ष्यते, न पुनरोङ्कारेणावयविन उद्गीथस्य लक्षणा ।
ओङ्कारस्यैवोपरिष्टात्तु तत्तद्गुणविशिष्टस्य तत्तत्फलविशिष्टस्य चोपव्याख्यास्यमानत्वात् ।
दृष्टश्च समुदायशब्दोऽवयवे लक्षणया यथा ग्रामो दग्धः पटो दग्ध इति तदेकदेशदाहे ।
अध्यासे तु लक्षणा फलकल्पना च ।
तथाहि आप्त्यादिगुणकप्रणवोपासनादिदमुद्गीथतोपासनं प्रणवस्यान्यत् ।
नचात्राप्यादि उपासनेष्विव फलं श्रूयते ।
तस्मात्कल्पनीयम् ।
उद्गीथसंबन्धिप्रणवोपासनाधिकारपरे वाक्ये नायं दोषः ।
अपिच गौण्या वृत्तेर्लक्षणावृत्तिर्बलीयसी लाघवात् ।
लक्षणाया हि लक्षणीयपरत्वं पदस्य तस्यैव वाक्यार्थान्तर्भावात् ।
यथा गाङ्गायां घोष इति लक्ष्यमाणस्य तीरस्य वाक्यार्थेऽन्तर्भावोऽधिकरणतया ।
गौर्वाहीक इत्यत्र तु गोसंबन्धितीष्ठन्मूत्रपुरीषादिलक्षणया न तत्परत्वं गोशब्दस्य ।
अपितु तत्कक्षाध्यवसिततद्गुणयुक्तवाहीकपरत्वमिति गौण्या वृत्तेर्दुर्बलत्वं तदिदमुक्तंलक्षणायामपि त्विति ।
गौण्यपि वृत्तिर्लक्षणावयवत्वाल्लक्षणोक्ता ।
यद्यपि

वैश्वदेवीपदमामिक्षायां प्रवर्तते तथाप्यर्थमेदः स्फुटतरः ।
आमिक्षापदं हि रूपेणामिक्षायां प्रवर्तते ।
वैश्वदेवीपदं तु तस्यामेव विश्वदेवविशिष्टायाम् ।
एवं हि विज्ञानान्दयोरपि स्फुटतरः प्रवृत्तिनिमित्तभेदः सत्यपि ब्रह्मण्यैकार्थ्ये ।
नच व्याख्यानमुभयोरपि प्रसिद्धार्थत्वाद्भिन्नार्थत्वाच्च ।
शेषमतिरोहितार्थम् ॥९॥



____________________________________________________________________________________________


३,३.५.१०

सर्वाभेदादन्यत्रेमे । ब्रह्मसूत्र ३,३.१० ।

सर्वाभेदादन्यत्रेति ।
एवंशब्दस्य सन्निहितप्रकारभेदपरामर्शार्थत्वात्साक्षाच्छब्दोपस्थापितस्य च संनिधानाच्छाखान्तरगतस्य चानुक्रमतया(?) संनिधानाभावान्न कौषीतकिप्राणसंवादवाक्ये प्राणस्य वसिष्ठत्वादिभिर्गुणैरुपास्यत्वमपि तु ज्येष्ठत्रेष्ठत्वमात्रेणेति पूर्वः पक्षः ।
सिद्धान्तस्तुसत्यं संनिहितं परामृशति एवङ्कारो न तु शब्दोपात्तमात्रं संनिहितम् ।
किन्तु यच्छब्दाभिहितार्थनान्तरीयकतया प्राप्तं तदपि हि बुद्धौ संनिहितं संनिहितमेव ।
यथाऽयस्य पर्णमयी जुहूर्भवतिऽइत्यव्यभिचारितक्रतुसमन्वयया जुह्वोपस्थापितः क्रतुः ।
तस्मादुपास्यफलप्रत्यभिज्ञानात्तदव्यभिचारिणः प्रकारभेदस्येहानुक्तस्यापि बुद्धौ संनिधानात्प्रकृतपरामर्शिनैवङ्कारेण

परामर्शो युक्त इति सिद्धं कौषीतकिब्राह्मणगतेन तावदेवङ्कारेण शक्यते पराम्रष्टुम् ।
तथाप्यभ्युपेत्यापि ब्रूम इत्याशयवता भाष्यकृतोक्तम्
तथापि तस्मिन्नेव विज्ञाने वाजसनेयिब्राह्मणगतेनेति ।
श्रुतहानिरिति ।
केवलस्य श्रुतस्य हानिरितरसहितस्य चाक्षुतस्य कल्पना न चेत्यर्थः ।
अतिरोहितमन्यत् ॥१०॥



____________________________________________________________________________________________


३,३.६.११

आनन्दादयः प्रधानस्य । ब्रह्मसूत्र ३,३.११ ।
गुणवदुपासनाविधानस्य

वास्तवगुणव्याख्यानाद्विवेकार्थमिदमधिकरणम् ।
यथैकस्य ब्रह्मणः ।
संयद्वामत्वादयः सत्यकामादयश्च गुणा न संकीर्येरन् ।
एवामानन्दविज्ञानत्वादयो विभुत्वनित्यत्वादिभिर्गुणैः प्रदेशान्तरोक्तैर्न संकीर्येरन् ।
तत्संकरे वा संयद्वामत्वादयोऽपि सत्यकामादिभिः संकीर्येरन् ।
नहि ब्रह्मणो धर्मिणः सत्त्वे कश्चिद्विशेष इति पूर्वः पक्षः ।
राद्धान्तस्तु वास्तवविधेययोर्वस्तुधर्मतया चानुष्ठेयतया चाव्यवस्थाव्यवस्थे व्यवतिष्ठेते ।
वस्तुधर्मो हि यावद्वस्तु व्यवतिष्ठते ।
नासावेकत्रोक्तोऽन्यत्रानुक्तो नास्तीति शक्यं वक्तुम् ।
विधेयस्तु पुरुषप्रयत्नतन्त्रः पुरुषप्रयत्नश्च यत्र यावद्गुणविशिष्टे ब्रह्मणि चोदितः स तावत्येवावतिष्ठते नाविहितमपि गुणं चोतरीकर्तुमर्हति ।
तस्य विधितन्त्रत्वाद्विधेश्च व्यवस्थानात् ।
तस्मादानन्दविज्ञानादयो ब्रह्मतत्त्वात्मतयोक्ता यत्र यत्र ब्रह्म श्रूयते तत्र तत्रानुक्ता अपि लभ्यन्ते ।
संयद्वामादयश्चोपासनाप्रयत्नविधिविषया यथाविध्यवतिष्ठन्ते न तु यथावस्त्विति सिद्धम् ।
प्रियशिरस्त्वादीनां तूपास्यत्वमारोप्य न्यायो दर्शितः ।
तस्य (?)तु संयद्वामादिरुक्तः ।
मोदनमात्रं मोदः ।
प्रमोदः प्रकृष्टो मोदस्ताविमौ परस्परापेक्षावुपचयापचयौ ॥११॥



____________________________________________________________________________________________


३,३.६.१२

प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे । ब्रह्मसूत्र ३,३.१२ ।
॥ १२ ॥


____________________________________________________________________________________________


३,३.६.१३

इतरे त्वर्थसामान्यात् । ब्रह्मसूत्र ३,३.१३ ।
॥ १३ ॥


____________________________________________________________________________________________


३,३.७.१४

आध्यानाय प्रयोजनाभावात् । ब्रह्मसूत्र ३,३.१४ ।

इन्द्रियेभ्यः परा ह्यर्था इति ।
किमत्र सर्वेषामेवार्थादीनां परत्वं प्रतिपिपादयिषितम्, आहो पुरुषस्यैव तत्प्रतिपादनार्थं चेतरेषां परत्वप्रतिपादनम् ।
तत्र प्रत्येकमर्थादिपरत्वप्रतिपादनश्रुतेः श्रूयमाणतत्तत्परत्वे च संभवति न तत्तदतिकर्मे सर्वेषामेकपरत्वाध्यवसानं न्याय्यम् ।
न च प्रयोजनाभावादसंभवः ।
सर्वेषामेव प्रत्येकं परत्वाभिधानस्याध्यानप्रयोजनत्वात् ।
तत्तदाध्यानानां च प्रयोजनवत्त्वस्मृतेः ।
तथाहि स्मृतिःऽदश मन्वन्तराणीह तिष्ठन्तीन्द्रियचिन्तकाः ।
भौतिकास्तु शतं पूर्णं सहस्रं त्वाभिमानिकाः ॥
बौद्धा दश सहस्राणि तिष्ठन्ति विगतज्वराः ।
पूर्णं शतसहस्रं तु तिष्ठन्त्यव्यक्तचिन्तकाः ।
पुरुषं निर्गुणं प्राप्य कालसंख्या न विद्यते ।
ऽइति ।
प्रामाणिकस्य वाक्यभेदस्याभ्युपेयत्वात्प्रत्येकं तेषामर्थादीनां परत्वपराण्येतानि वाक्यानीति प्राप्तय उच्यतेइन्द्रियेभ्यः परा ह्यर्था इत्येष तावत्संदर्भो वस्तुतत्त्वप्रतिपादनपरः प्रतीयते नाध्यानविधिपरः ।
तदश्रुतेः ।
तदत्र यत्प्रत्यस्य साक्षात्प्रयोजनवत्त्वं दृश्यते तत्प्रत्ययपरत्वं सर्वेषाम् ।
दृष्टं च विष्णोः परमपदज्ञानस्य निखिलानर्थसंसारकारणाविद्योपशमः ।
तत्त्वज्ञानोदयस्य विपर्यासोपशमलक्षणत्वेत तत्र तत्र दर्शनात् ।
अर्थादिपरत्वप्रत्ययस्य तु न दृष्टमस्ति प्रयोजनम् ।
नच दृष्टे संभवति अदृष्टकल्पना न्याय्या ।
नच परमपुरुषार्थहेतुपरत्वे संभवति अवान्तरपुरुषार्थतोचिता ।
तस्माद्दृष्टप्रयोजनवत्त्वात्, पुरुषपरत्वप्रतिपादनार्थोऽयं संदर्भ इति गम्यते ।
किञ्चादरादप्ययमेवास्यार्थ इत्याह
अपिच परप्रतिषेधेनेति ।
नन्वत्राध्यानविधिर्नास्ति तत्कथमुच्यते आध्यानायेत्यत आह
आध्यानायेति ॥१४॥



____________________________________________________________________________________________


३,३.७.१५

आत्मशब्दाच्च । ब्रह्मसूत्र ३,३.१५ ।

अनधिगतार्थप्रतिपादनस्वभावत्वाप्रमाणानां विशेषतश्चागमस्य, पुरुषशब्दवाच्यस्य चात्मनः स्वयं श्रुत्यैव दुरधिगमत्वावधारणाद्वस्तुतश्च दुरधिगमत्वादर्थादीनां च

सुगमत्वात्तत्परत्वमेवार्थादिपरत्वाभिधानस्येत्यर्थः ।
श्रुतेराशयातिशय इवाशयातिशयः ।
तत्तात्पर्यतेति यावत् ।
किञ्च श्रुत्यन्तरापेक्षिताभिधानादप्येवमेव ।
अर्थादिपरत्वे तु स्वरूपेण विवक्षिते नापेक्षितं श्रुतिराचष्टे इत्याह
अपिच सोऽध्वनः पारमाप्नोतीति ॥१५॥


____________________________________________________________________________________________


३,३.८.१६

आत्मगृहीतिरितरवदुत्तरात् । ब्रह्मसूत्र ३,३.१६ ।
श्रुतिस्मृत्योर्हि लोकसृष्टिः परमेश्वराधिष्ठिता परमेश्वरहिरण्यगर्भकर्तृकोपलब्धा सेयमिह महाभूतसर्गमनभिधाय प्राथमिकी लोकसृष्टिरुपलभ्यमानावान्तरेश्वरकार्या प्रागुत्पत्तेरात्मैकत्वावधारणं चावान्तरेश्वरसंबन्धितया गमयति ।
पारमेश्वरसर्गस्य महाभूताकाशादित्वादस्य च तद्वैपरीत्यात् ।
अस्ति हि तस्यैवैकस्य विकारान्तरापेक्षयाग्नत्वमस्ति चेक्षणम् ।
अपि चैतस्मिन्नैतरेयके पूर्वस्मिन्प्रकरणे प्रजापतिकर्तृकैव लोकसृष्टिरुक्ता ।
तदनुसारादप्येतदेव विज्ञायते ।
अपिच ताभ्यो गामानयदित्यादयश्च व्यवहारः श्रुत्योक्ता विशेषवत्स्वात्मपरमात्मसु प्रसिद्धाः ।
ततोऽप्यवान्तरेश्वर एव विज्ञायते ।
आत्मशब्दप्रयोगश्चात्रापि दृष्टस्तस्मादपरात्माभिलापोऽयमिति प्राप्त उच्यतिपरमात्मनो गृहीतिरिह यथा इतरेषु सृष्टिश्रवणेषुऽएतस्मादात्मन आकाशः संभूतःऽइत्यादिषु ।
तस्मादुत्तरात्स ऐक्षतेतीक्षणपूर्वकस्रष्टृत्वश्रवणादात्मेत्यवधारणाच्च ।
एतदभिसंहितम्मुख्यं तावत्सर्गात्प्राक्केवलत्वमात्मपदत्वं स्रष्टृत्वं च परमेश्वरस्यात्र भवतः ।
तदसत्यामनुपपत्तौ नान्यत्र व्याख्यातुमुचितम् ।
नच महाभूतसृष्ट्यनभिधानेन लोकसृष्ट्यभिधानमनुपपत्तिबीजम् ।

आकाशपूर्विकायां वस्तुतो ब्रह्मणः सृष्टौ यथा क्वचित्तेजःपूर्वकसृष्ट्यभिधानं न विरुध्यतेऽएतस्मादात्मन आकाशः संभूतःऽइति दर्शनात् ।
आकाशं वायुं सृष्ट्वेति हि तत्र पूरयितव्यमेवहापि महाभूतानि सृष्ट्वेति कल्पनीयम् ।
सर्वशाखाप्रत्ययत्वेन ज्ञानस्य श्रुतिसिद्ध्यर्थमश्रुतोपलब्धौ यत्नवता भवितव्यं न पुनः श्रुते महाभूतादित्वे सर्गस्य शैथिल्यमादरणीयम् ।
अपिच स्वाध्यायविध्यधीनग्रहणो वेदराशिरध्ययनविध्यापादितप्रयोजनवदर्थमभिदधानो यथा यथा प्रयोजनाधिक्यमाप्नोति तथा तथानुमन्यतेतराम् ।
यथा चास्य ब्रह्मगोचरत्वे परमपुरुषार्थौपयिकत्वं नैवमन्यगोचरत्वे ।
तदिदमुक्तम्
योऽप्ययं व्यापारविशेषानुगम इति ।
नच लोकसर्गोऽपि हिरण्यगर्भव्यापारोऽपि तु तदनुप्रविष्टस्य परमात्मन इत्यत्रैवोक्तम् ।
तस्मादात्मैवाग्न इत्युपक्रमात्तद्व्यापारेण चेक्षणेन मध्ये परामर्शादुपरिष्टाच्च भेदजातं महाभूतैः सहानुकम्य ब्रह्मप्रतिष्ठत्वेन ब्रह्मण उपसंहाराद्ब्रह्माभिलापत्वमेवास्येति निश्चीयते ।
यत्र तु पुरुषविधादिश्रवणं तस्य भवेत्त्वन्यपरत्वं गत्यन्तराभावादिति सर्वमवदातम् ।
अपरः कल्पः ।
सदुपक्रमस्य संदर्भस्यात्मोपक्रमस्य च किमैकार्थ्यमाहोस्विदर्थभेदः ।
तत्र सच्छब्दस्याविशेषेणात्मनि चानात्मनि च प्रवृत्तेर्नात्मार्थत्वं किन्तु समस्तवस्त्वनुगतसत्तासामान्यार्थत्वं तथा चोपक्रमभेदाद्भिन्नार्थत्वम् ।
स आत्मा तत्त्वमसीति चोपसंहार उपक्रमानुरोधेन संपत्त्यर्थतया व्याख्येयः ।
तद्धि सत्सामान्यं परमात्मतया संपादनीयम् ।
तद्विज्ञानेन च सर्वविज्ञानं महासामान्यस्य सत्तायाः समस्तवस्तुविस्तारव्यापित्वादित्येवं प्राप्त उच्यतेआत्मगृहीतिर्वाजसनेयिनामिव छान्दोग्यानामप्युत्तरात्स आत्मा तत्त्वमसीति तादात्म्योपदेशात् ।
अस्तु तावदात्मव्यातिरिक्तस्य प्रपञ्चस्य सदसत्त्वाभ्यामनिर्वाच्यतया न सत्त्वं सत्त्वं त्वात्मधातोरेव तत्त्वेन निर्वाच्यत्वात्तस्मादात्मैव सन्निति ।
अभ्युपेत्याह ।
सच्छब्दस्य सत्तासामान्याभिधायित्वात्प्रतिव्यक्ति च तस्य प्रवृत्तेरात्मनि

चान्यत्र च सच्छब्दप्रवृत्तेः संशये सत्युपसंहारानुरोधेन सदेवेत्यात्मन्येवावस्थाप्यते ।
नीतार्थोपक्रमानुरोधेन ह्युपसंहारवर्णना न पुनः संदिग्धार्थेनोपक्रमेणोपसंहारो वर्णनीयः ।
अपिच संपत्तौ फलं कल्पनीयम् ।
नच सामान्यमात्रे ज्ञाते विशेषज्ञानसंभवः ।
न खल्वाकाराद्वृक्षे ज्ञाते शिंशपादयस्तद्विशेषा ज्ञाता भवन्ति ।
तदेवमवधारणादि सर्वमनात्मार्थत्वे स्यादनुपपन्नमिति छान्दोग्यस्यात्मार्थत्वमेवेति सिद्धम् ।
अत्र च पूर्वस्मिन् पूर्वपक्षे हिरण्यगर्भोपासना सिद्धान्ते तु ब्रह्मभावनेति ॥१६॥



____________________________________________________________________________________________


३,३.८.१७

अन्वयादिति चेत्स्यादवधारणात् । ब्रह्मसूत्र ३,३.१७ ।
॥ १७ ॥


____________________________________________________________________________________________


३,३.९.१८

कार्याख्यानादपूर्वम् । ब्रह्मसूत्र ३,३.१८ ।
विषयमाह
छन्दोगा वाजसनेयिनश्चेति ।
अननं प्राणनमनः प्राणः तं प्राणमनग्नं कुर्वन्तः ।
अनग्नताचिन्तनमिति ।
मन्यन्त इति मननं ज्ञानं तद्व्यानपर्यन्तमिति चिन्तनमुक्तम् ।
संशयमाह
तत्किमिति ।
खुररवमात्रेणापातत उभयविधानपक्षं गृहीत्वा मध्यमं पक्षमालम्बते पूर्वपक्षी
अथवाचमनमेवेति ।
यद्येवमनग्नतासंकीर्तनस्य किं प्रयोजनमित्यत आह
तस्यैव तु स्तुत्यर्थमिति ।
अयमभिसन्धिःयद्यपि स्मार्तं प्रायत्यार्थमाचमनमस्ति तथापि प्राणोपासनप्रकरणेऽविधानात्तदङ्गत्वेनाप्राप्तमिति विधानमर्थवद्भवति, अनृतवदनप्रतिषेध इव स्मार्ते ज्योतिष्टोमप्रकरणे समाम्नातो नानृतं वदेदिति प्रतिषेधो ज्योतिष्टोमाङ्गतयार्थवानिति ।
राद्धान्तमाह
एवं प्राप्त इति ।
चोदयति
नन्वियं श्रुतिरिति ।
परिहरति
नेति ।
तुल्यार्थयोर्मूलमूलिभावो नातुल्यार्थयोरित्यर्थः ।
अभिप्रायस्थं पूर्वपक्षबीजं निराकरोति
न चेयं श्रुतिरिति ।
क्रत्वर्थपुरुषार्थयोरनृतवदनप्रतिषेधयोर्युक्तमपौनरुक्तम् ।
इह तु स्मार्तवाचमनं सकलकर्माङ्गतया विहितं प्राणोपासनाङ्गमपीति व्यापकेन स्मार्तेनाचमनविधिना पुनरुक्तत्वादनर्थकम् ।
नच स्मार्तस्यानेन पौनरुक्त्यं तस्य च व्यापकत्वादेतस्य च प्रतिनियतविषयत्वादिति ।
मध्यमं पक्षमपाकृत्य प्रथमपक्षमपाकरोति
अत एव च नोभयविधानम् ।
युक्त्यन्तरमाह
उभयविधाने चेति ।
उपसंहरति
तस्मात्प्राप्तमेवेति ।
न चायमनग्नतावाद इति ।
स्तोतव्याभावे स्तुतिर्नोपपद्यत इत्यर्थः ।
अपिच मानान्तरप्राप्तेनाप्राप्तं विधेयं स्तूयेत ।
न चानग्नतासंकल्पोऽन्यतः प्राप्तो यतः स्तावको भवेत् ।
न चाचमनमन्यतोऽप्राप्तं येन विधेयं सत्स्तूयेतेत्याह
स्वयं चानग्नतासंकल्पस्येति ।
अपि चैकस्य कर्मण एकार्थतैवेत्युचितं तस्य बलवत्प्रमाणवशादनन्यगतित्वे सत्यनेकार्थता कल्प्यते ।
संकल्पे तु कर्मान्तरे विधीयमाने नायं दोष इत्याह
न चैवं सत्येकस्याचमनस्येति ।
अपिच दृष्टिचोदनासाहचर्याद्दृष्टिचोदनैव न्याय्या न चाचमनचोदनेत्याह
अपिच यदिदं किञ्चेति ।
यथा हि श्वादिमर्यादस्यान्नस्यात्तुमशक्यत्वादन्नदृष्टिश्चोद्यते एवमिहाप्यपां परिधानासंभवाद्दृष्टिरेव चोद्यत इत्यन्नदृष्टिविधिसाहचर्याद्गम्यते ।
अशब्दत्वं च यद्यपि दृष्ट्यभ्यवहारयोस्तुल्यं तथापि दृष्टिः शाब्ददृश्यनान्तरीयकतया साक्षाच्छब्देन क्रियमाणोपलभ्यते ।
अभ्यवहारस्त्वध्याहरणीयः कथञ्चिद्योग्यतामात्रेणेति विशेषः ।
किञ्च छान्दोग्यानां वाजसनेयिनां चाचमने प्रायेणाचामन्तीति वर्तमानापदेशः एवं यत्रापि विधिविभक्तिस्तत्रापि जर्तिलयवाग्ववा वा जुहुयादितिवद्विधित्वमविवक्षितम् ।
मन्यन्त इति त्वत्प्राप्तार्थत्वात्समिधो

यजतीत्यादिवद्विधिरेवेत्याहअपिचाचामन्तीति ।
शेषमतिरोहितार्थम् ॥१८॥



____________________________________________________________________________________________


३,३.१०.१९

समान एवं चाभेदात् । ब्रह्मसूत्र ३,३.१९ ।
इहाभ्यासाधिकरणन्यायेन पूर्वः पक्षः ।
द्वयोर्विद्याविध्योरेकशाखागतयोरगृह्ममाणविशेषतया कस्य कोऽनुवाद इति विनिश्चयाभावादज्ञातज्ञापनाप्रवृत्तप्रवर्तनारूपस्य च विधित्वस्य स्वरससिद्धेरुभयत्रोपासनाभेदः ।
नच गुणान्तरविधानायैकत्रानुवाद उभयत्रापि गुणान्तरविधानोपलब्धेर्विनिगमनाहेत्वभावात्समानगुणानभिधानप्रसङ्गाच्च ।
तस्मात्समिधो यजतीत्यादिवदभ्यासादुपासनाभेद इति प्राप्त उच्यतेऐककर्म्यमेकत्वेन प्रत्यभिज्ञानात् ।
न चागृह्यमाणविशेषता ।
यत्र भूयांसो गुणा यस्य कर्मणो विधीयन्ते तत्र तस्य प्रधानस्य विधिरितरत्र तु तदनुवादेन कतिपयगुणविधिः ।
यथा यत्र छत्रचामरपताकाहास्तिकाश्चीयशक्तिकयाष्टीकधानुष्ककार्पाणिकप्रासिकपदातिप्रचयस्तत्रास्ति राजेति गम्यते न तु कतिपयगजवाजिपदातिभाजि तदमात्ये, तथेहापि ।
न चैकत्र विहितानां गुणानामितरत्रोक्तिरनर्थिका प्रत्यभिज्ञानदार्ढ्यार्थत्वात् ।
अस्तु वास्मिन्नित्यानुवादो नह्यनुवादानामवश्यं सर्वत्र प्रयोजनवत्त्वम् ।
अनुवादमात्रस्यापि तत्र तत्रोपलब्धेः ।
तस्मात्तदेव बृहदारण्यकेऽप्युपासनं तद्गुणेनोपसंहारादिति सिद्धम् ॥१९॥


____________________________________________________________________________________________


३,३.११.२०

संबन्धादेवमन्यत्रापि । ब्रह्मसूत्र ३,३.२० ।
यद्येकस्यामपि शाखायां तत्त्वेन प्रत्यभिज्ञानादुपासनस्य तत्र विहितानां धर्माणां संकरः ।
तथा सति सत्यस्यैकसस्याभेदान्मण्डलद्वयवर्तिन उपनिषदोरपि संकरप्रसङ्गात् ।
तस्येति च प्रकृतपरामर्शित्वाद्भेदः ।
सत्यस्य च प्रधानस्य प्रकृतत्वादधिदैवमित्यस्य विशेषणतयोपसर्जनत्वेनाप्रस्तुत्वात्प्रस्तुतस्य च सत्यस्याभेदात्पूर्ववद्गुणसंकरः ॥२०॥


____________________________________________________________________________________________


३,३.११.२१

इति प्राप्त उच्यते
न वा विशेषात् । ब्रह्मसूत्र ३,३.२१ ।
सत्यं यत्र स्वरूपमात्रसंबन्धो धर्माणां श्रूयते तत्रैवं स्वरूपस्य सर्वत्र प्रत्यभिज्ञायमानत्वात्तन्मात्रसंबन्धित्वाच्च धर्माणाम् ।
यत्र तु सविशेषणं प्रधानमवगम्यते तत्र सविशेषणस्यैव तस्य धर्माभिसंबन्धो न निर्विशेषणस्य नाप्यन्यविशेषणसहितस्य ।
नहि दण्डिनं पुरुषमानयेत्युक्ते दण्डरहितः

कमण्डलुमानानीयते ।
तस्मादधिदैवं सत्यस्योपनिषदुक्ता न तस्यैवाध्यात्मं भवितुमर्हति ।
यथा चाचार्यस्य गच्छतोऽनुगमनं विहितं न तिष्ठतो भवति, तस्मान्नोपनिषदोः संकरः किन्तु व्यवस्थितिः ।
तदिदमुक्तंस्वरूपानपायादिति ॥२१॥



____________________________________________________________________________________________


३,३.११.२२

दर्शयति च । ब्रह्मसूत्र ३,३.२२ ।
अतिदेशादप्येवमेव तत्त्वे हि नातिदेशः स्यादिति ॥२२॥



____________________________________________________________________________________________


३,३.१२.२३

संभृतिद्युव्याप्त्यपि चातः । ब्रह्मसूत्र ३,३.२३ ।
ऽब्रह्मज्येष्ठा वीर्या संभृतानि ब्रह्माग्रे ज्येष्ठं दिवमाततान ।
ब्रह्म भूतानां प्रथमं तु जज्ञे तेनार्हति ब्रह्मणा स्पर्धितुं कः ।
ऽब्रह्म ज्येष्ठं येषां तानि ब्रह्मज्येष्ठा जज्ञे आस ।
यद्यपि तासु तासु शाण्डिल्यादिविद्यास्वायतनभेदपरिग्रहेणाध्यात्मिकायतनत्वं संभृत्यादीनां गुणानामाधिदैकत्वमित्यायतनभेदः प्रतिभाति, तथापि ज्यायान् दिव इत्यादिना संदर्भेणाधिदैविकविभूतिप्रत्यभिज्ञानात्षोडशकलाद्यासु च विद्यास्वायतनाश्रवणादन्ततो ब्रह्माश्रयतया साम्येन प्रत्यभिज्ञासंभवात्संबृत्यादीनां गुणानां शाण्डिल्यादिविद्यासु षोडशकलादिविद्यासु चोपसंहार इति पूर्वः पक्षः ।
राद्धान्तस्तुमिथः समानगुणश्रवणं प्रत्यभिज्ञाय यद्विद्या अपूर्वानपि तत्राश्रुतान्गुणानुपसंहारयति न त्विह संभृत्यादिगुणकब्रह्मविद्यायां शाण्डिल्यादिविद्यागतगुणश्रवणमस्ति ।
या तु काचिदाधिदैविकी विभूतिः शाण्डिल्यादिविद्यायां श्रूयते तस्यास्तत्प्रकरणाधीनत्वात्तावन्मात्रं ग्रहीष्यते नैतावन्मात्रेण संभृत्यादीननुक्रष्टुमर्हति ।
तत्रैतत्प्रत्यभिज्ञानाभावादित्युक्तम् ।
ब्रह्मा श्रयत्वेन तु प्रत्यभिज्ञानसमर्थनमतिप्रसक्तम् ।
भूयसीनामैक्यप्रसङ्गात् ।
तदिदमुक्तं
संभृत्यादयस्तु शाण्डिल्यादिवाक्यगोचराश्चेति ।
तस्मात्संभृतिश्च द्युव्याप्तिश्च तदिदं संभृतिद्युव्याप्त्यपि चातः प्रत्यभिज्ञानाभावान्न शाण्डिल्यादिविद्यासूपसंह्रियत इति सिद्धम् ॥२३॥


____________________________________________________________________________________________


३,३.१३.२४

पुरुषविद्यायामिव चेतरेषामनाम्नानात् । ब्रह्मसूत्र ३,३.२४ ।

पुरुषयज्ञत्वमुभयत्राप्यविशिष्टम् ।
नच विदुषो यज्ञस्येति न सामानाधिकरण्यसंभवः ।
यज्ञस्यात्मेत्यात्मशब्दस्य स्वरूपवचनत्वात् ।
यज्ञस्य स्वरूपं यजमानस्तस्य च चेतनत्वाद्विदुष इति सामानाधिकरण्यसंभवः ।
तस्मात्पुरुषयज्ञत्वाविशेषान्मरणावभृथत्वादिसामान्याच्चैकविद्याध्यवसाने उभयत्र उभयधर्मोपसंहार इति प्राप्तम् ।
एवं प्राप्त उच्यते यादृशं ताण्डिनां पैङ्गिनां च पुरुषयज्ञसंपादनं तदायुषश्च त्रेधा

व्यवस्थितस्य सवनत्रयसंपादनम् ।
अशिशिषादीनां च दीक्षादिभावसंपादनं नैवं तैत्तिरीयाणाम् ।
तेषां न तावत्पुरुषे यज्ञसंपत्तिः ।
नह्यात्मा यजमान इत्यत्रायमात्मशब्दः स्वरूपवचनः ।
नहि यज्ञस्वरूपं यजमानो भवति ।
कर्तृकर्मणोरभेदाभावात् ।
चेतनाचेतनयोश्चैक्यानुपपत्तेः यज्ञकर्मणोश्चाचेतनत्वात् ।
यजमानस्य चेतनत्वात् ।
आत्मनस्तु चेतनस्य यजमानत्वं च विद्वत्त्वं चोपपद्यते ।
तथा चायमर्थःेवं विदुषः पुरुषस्य यः संबन्धी यज्ञः तस्य संबन्धितया यजमान आत्मा तथा चात्मनो यजमानत्वं च विद्वत्संबन्धिता च यज्ञस्य मुख्ये स्यातामितरथात्मशब्दस्य स्वरूपवाचित्वे विदुषो यज्ञस्येति च यजमानो यज्ञस्वरूपमिति च गौणे स्याताम् ।
नच सत्यां गतौ तद्युक्तम् ।
तस्मात्पुरुषयज्ञता तैत्तिरीये नास्तीति तया तावन्न साम्यम् ।
नच पत्नीयजमानवेदविद्यादिसंपादनं तैत्तिरीयाणामिव ताण्डिनां पैङ्गिनां वा विद्यते सवनसंपत्तिरप्येषां विलक्षणैव ।
तस्माद्भूयो वैलक्षण्ये सति न किञ्चिन्मात्रसालक्षण्याद्विद्यैकत्वमुचितमतिप्रसङ्गात् ।
अपिच तस्यैवं विदुष इत्यनुवादश्रुतौ सत्यामनेकार्थविधाने वाक्यभेददोषप्रसक्तिरित्यर्थः ।
अपि चेयं पैङ्गिनां ताण्डिनां च पुरुषयज्ञविद्याफलान्तरयुक्ता स्वतन्त्रा प्रतीयते ।
तैत्तिरीयाणां तु एवंविदुष इति श्रवणात्पूर्वोक्तपरामर्शात्तत्फलत्वश्रुतेश्च पारतन्त्र्यम् ।
नच स्वतन्त्रपरन्त्रयोरैक्यमुचितमित्याहअपिच ससंन्यासामात्मविद्यामिति ।
उपसंहरतितस्मादिति ॥२४॥



____________________________________________________________________________________________


३,३.१४.२५

वेधाद्यर्थभेदात् । ब्रह्मसूत्र ३,३.२५ ।

विचारविषयं दर्शयति
आथर्वणिकानामिति ।
आथर्वणिकाद्युपनिषदारम्भे ते ते मन्त्रास्तानि तानि च प्रवर्ग्यादीनि कर्माणि समम्नातीनि ।
संशयमाह
किमिम इति ।
पूर्वपक्षं गृह्णाति
उपसंहार एवैषां विद्यास्विति ।
सफला हि सर्वा विद्या आम्नातास्तत्सन्निधौ मन्त्राः ।
कर्माणि च समाम्नातानिऽफलवत्सन्निधाफलं तदङ्गम्ऽइति न्यायाद्विद्याङ्गाभावेन विज्ञायन्ते ।
चोदयति
नन्वेषामिति ।
नह्यत्र श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानानि सन्ति विनियोजकानि प्रमाणानि, नहि यथा दर्शपूर्णमासावारभ्य समिदादयः समाम्नातास्तथा काञ्चिद्विद्यामारभ्य मन्त्रा वा कर्माणि वा समाम्नातानि ।
न चासति सामान्यसंबन्धे संबन्धिसंनिधानमात्रात्तादर्थ्यसंभवः ।
नच श्रुतस्वाङ्गपरिपूर्णा विद्या एतानाकाङ्क्षितुमर्हति येन प्रकरणापदितसामान्यसंबन्धानां संनिधिर्विशेषसंबन्धाया भवेदित्यर्थः ।
समाधत्ते
बाढमनुपलभमाना अपीति ।
मा नाम भूत्फलवतीनां विद्यानां परिपूर्णाङ्गानामाकाङ्क्षा ॥
मन्त्राणां तु स्वाध्यायविध्यापादितपुरुषार्थभावानां कर्मणां च प्रवर्ग्यादीनां स्वविध्यापादितपुरुषार्थभावानां पुरुषाभिलषितमाकाङ्क्षतां संनिधानादन्यताराकाङ्क्षानिबन्धो रक्तपटन्यायेन संबन्धः ।
तत्रापि च विद्यानां फलवत्त्वात्तादर्थ्यमफलानां मन्त्राणां कर्मणां च ।
नच प्रवर्ग्यादीनां पिण्डपितृयज्ञवत्स्वर्गः कल्पनास्पदं, फलवत्संनिधानेन तदवरोहात् ।
अनुमानस्यामहे संनिधिसामार्थ्यादिति ।
इदं खलु निवृत्ताकाङ्क्षाया विद्यायाः संनिधाने श्रुतमनाकाङ्क्षाया साकाङ्क्षस्यापि संबद्धुमसामर्थ्यात्तस्या अप्याकाङ्क्षामुत्थापयति ।
उत्थाप्य चैकवाक्यतामुपैति ।
असमर्थस्य चोपकारकत्वानुपपत्तेः प्रकरणिनं प्रति उपकारसामर्थ्यमात्मनः कल्पयति ।
नच सत्यपि सामर्थ्ये तत्र श्रुत्या अविनियुक्तं सदङ्गतामुपगन्तुमर्हतीत्यनया परम्परया संनिधिः श्रुतिमर्थापत्त्या कल्पयति ।
आक्षिपति
ननु नैषां मन्त्राणामिति ।
प्रयोगसमवेतार्थप्रकाशनेन हि मन्त्राणामुपयोगो वर्णितःऽअविशिष्टस्तु वाक्यार्थःऽ

इत्यत्र ।
नच विद्यासंबद्धं कञ्चनार्थं मन्त्रेषु प्रतीमः ।
यद्यपि च प्रवर्ग्यो न किञ्चिदारभ्य श्रूयते तथापि वाक्यसंयोगेन क्रतुसंयोगेन क्रतुसंबन्धं प्रतिपद्यते ।
ऽपुरस्तादुपसदां प्रवर्ग्येण प्रचरन्तिऽइति ।
उपसदां जुहूवदव्यभिचारितक्रतुसंबन्धत्वात् ।
यद्यपि ज्योतिष्टोमविकृतावपि सन्त्युपसदस्तथापि तत्रानुमानिक्यो ज्योतिष्टोमे तु प्रत्यक्षविहितास्तेन शीघ्रप्रवृत्तितया ज्योतिष्टोमाङ्गतैव वाक्येनावगम्यते ।
अपिच प्रकृतौ विहितस्य प्रवर्ग्यस्य चोदकेनोपसद्वत्तद्विकृतावपि प्राप्तिः ।
प्रकृतौ वा अद्विरुक्तत्वादिति न्यायाज्ज्योतिष्टोमे

एव विधानमुपसदा सह युक्तं, तदेतदाह
कथं च प्रवर्ग्यादीनीति ।
संनिधानादर्थविप्रकर्षेण वाक्यं बलीय इति भावः ।
समाधत्ते
नैष दोषः ।
सामर्थ्यं तावदिति ।
यथाऽअग्नये त्वा जुष्टं निर्वपामिऽइति मन्त्रे अग्नये निर्वपामिति पदे कर्मसमवेतार्थप्रकाशके ।
शिष्टानां तु पदानां तदेकवाक्यतया यथाकथञ्चिद्व्याख्यानमेवमिहापि हृदयपदस्योपासनायां समवेतार्थत्वात्तदनुसारेण तदेकवाक्यतापन्नानि पदान्तराणि गौण्या लक्षणया च वृत्त्या कथञ्चिन्नेयानीति नासमवेतार्थता मन्त्राणाम् ।
नच मन्त्रविनियोगो नोपासनेषु दृष्टो येनात्यन्तादृष्टं कल्प्यत इत्याह
दृष्टश्चोपासनेष्विति ।
यद्यपि वाक्येन बलीयसा संनिधिर्दुर्बलो बाध्यते तथापि विरोधे सति ।
न चोहास्ति विरोधः ।
वाक्येन विनियुक्तस्यापि ज्योतिष्टोमे प्रवर्ग्यस्य संनिधिना विद्यायामपि विनियोगसंभवात् ।
यथाऽब्रह्मवर्चसकामो बृहस्पतिसवेन यजेतऽइति ब्रह्मवर्चसफलोऽपि बृहस्पतिसवो वाजपेयाङ्गत्वेन चोद्यतेवाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेतेति ।
अत्र हि क्त्वः समानकर्तृकत्वमवगम्यते धातुसंबन्धे प्रत्ययविधानात् ।
धात्वर्थान्तरसंबन्धश्च कथं च समानः कर्ता स्यात् ।
यद्यकः प्रयोगो भवेत् ।
प्रयोगाविष्टं हि कर्तृत्वम् ।
तच्च प्रयोगभेदे कथमेकम् ।
तस्मात्समानकर्तृकत्वादेकप्रयोगत्वं वाजपेयबृहस्पतिसवयोर्धात्वर्थान्तरसंबन्धाच्च ।
नच

गुणप्रधानभावमन्तरेणैकप्रयोगता संबन्धश्च तत्रापि वाजपेयस्य प्रकरणे समाम्नानाद्वाजपेयः प्रधानम् ।
अङ्गं बृहस्पतिसवः ।
नचऽदर्शपूर्णमासाभ्यामिष्ट्वा सोमेन यजेतऽइत्यत्राङ्गप्रधानभावप्रसङ्गः ।
नह्येतद्वचनं कस्यचिद्दर्शपूर्णमासस्य सोमस्य वा प्रकरणे समाम्नातम् ।
तथाच द्वयोः साधिकारतया अगृह्यमाणविशेषतया गुणप्रधानभावं प्रति विनिगमनाभावेनाधिष्ठानमात्रविवक्षया लाक्षणिकं समानकर्तृकत्वमित्यदोषः ।
यदि तु कस्याञ्चिच्छाखायामारभ्याधीतं दर्शपूर्णमासाभ्यामिष्ट्वेति ।
तथाप्यनारभ्याधीतस्यैवारभ्याधीते प्रत्यभिज्ञानमिति युक्तम् ।
तथा सति द्वयोरपि पृथगधिकारतया प्रतीतं समप्रधानत्वमत्यक्तं भवेदितरथा तु गुणप्रधानभावेन तत्त्यागो भवेत् ।
तस्मात्कालार्थोऽयं संयोग इति सिद्धम् ।
सिद्धान्तमुपक्रमते
एवं प्राप्त इति ।
हृदयं प्रविध्येत्ययं मन्त्रः स्वरसतस्तावदाभिचारिककर्मसमवेतं सकलैरेव पदैरर्थमभिदधदुपलभ्यते तदस्याभिधानसामर्थ्यलक्षणं लिङ्गं वाक्यप्रकरणाभ्यां क्रमाद्बलीयोभ्यामपि बलवत्किमङ्ग पुनः क्रमात्, तस्माल्लिङ्गेन संनिधिमपोद्याभिचारिककर्मशेषत्वमेवापाद्यते ।
यद्यपि चोपासनासु हृदयपदमात्रस्य समवेतार्थत्वम् ।
तथापि तदितरेषां सर्वेषामेव पदानामसमवेतार्थत्वम् ।
आभिचारिके तु कर्मणि

सर्वेषामर्थसमवाय इति किमेकपदसमवेतार्थता करिष्यति ।
नच संनिध्युपगृहीयासूपासनासु मन्त्रमवस्थापयतीति युक्तम् ।
हृदयपदस्याभिचारेऽपि समवेतार्थस्येतरपदैकवाक्यतापन्नस्य वाक्यप्रमाणसहितस्याभिचारिकात्कर्मणः संनिधिनाचालयितुमशक्यत्वादेवंऽदेव सवितः प्रसुव यज्ञम्ऽइत्यादेरपि यज्ञप्रसवलिङ्गस्य यज्ञङ्गत्वे सिद्धे जघन्यो विद्यासंनिधिः किं करिष्यति ।

एवमन्येषामपि श्वेताश्व इत्येवमादीनां केषाञ्चिल्लिङ्गेन केषाञ्चिच्छुत्या केषाञ्चित्प्रमाणान्तरेण प्रकरणेनेति ।
कस्मात्पुनः संनिधिर्लिङ्गादिभिर्बाध्यते इत्यत आह
दुर्बलो हि संनिधिरिति ।
प्रथमतन्त्रगतोर्ऽथः स्मार्यते ।
तत्र तु श्रुतिलिङ्गयोः समवाये समानविषयत्वलक्षणे विरोधे किं बलीय इति चिन्ता ।
अत्रोदाहरणमस्त्यैन्द्री ऋक्ऽकदाचनस्तरीरसि नेन्द्रऽइत्यादिका श्रुतिर्विनियोकीऽऐन्द्र्या गार्हपत्यमुपतिष्ठतेऽइति ।
अत्र हि सामर्थ्यलक्षणाल्लिङ्गादिन्द्रे विनियोगः प्रतिभाति ।
श्रुतेश्च गार्हपत्यमिति द्वितीयातो गार्हपत्यस्य शेषित्वमैन्द्र्येति चतृतीयाश्रुतेरैन्द्र्या ऋचः शेषत्वमवगम्यते ।
यद्यपि गार्हपत्यमिति द्वितीयाश्रुतेराग्नेयीमृचं प्रति गार्हपत्यस्य शेषित्वेनोपपत्तेः ।
यद्यपि चैन्द्र्येति च तृतीयाश्रुतेरैन्द्र्या इन्द्रं प्रति शेषत्वनोपपत्तेरविरोधः ।
पदान्तरसंबन्धे तु वाक्यस्यैव लिङ्गेन विरोधो न तु श्रुतेः ।
तत्र च विपरीतं बलाबलम् ।
तथापि श्रुतिवाक्ययो रूपतो व्यापारभेदाददोषः ।
द्वितीयातृतीयाश्रुती हि कारकविभक्तितया क्रियां प्रति प्रकृत्यर्थस्य कर्मकरणभावमवगमयत इति विनियोजिके ।
क्रियां प्रति हि कर्मणः शेषित्वं करणस्य च शेषत्वमिति हि विनियोगः ।
पदान्तरानपेक्षे च क्रियां प्रति शेषशेषित्वे श्रुतिमात्रात्प्रतियेते इति श्रौते ।
सोऽयं श्रुतितः सामान्यावगतो विनियोगः पदान्तरवशाद्विशेषेऽवस्थाप्यते ।
सोऽयं विशेषणविशेष्यभावलक्षणः संबन्धो वाक्यगोचरः, शेषशेषिभावस्तु श्रौतः, तस्माद्वाक्यलभ्यं विशेषमपेक्ष्य श्रौतः शेषशेषिभावो लिङ्गेन विरुध्यत इति श्रुतिलिङ्गविरोधे किं लिङ्गानुगुणेन गार्हपत्यमिति द्वितीयाश्रुतिः सप्तम्यर्थे व्याख्यायतां गार्हपत्यसमीपे ऐन्द्र्येन्द्र उपस्थेय इति ।
आहो श्रुत्यनुगुणतया लिङ्गं व्याख्यायताम् ।
प्रभवति हि स्वोचितायां क्रियायां गार्हपत्य इतीन्द्र इन्द्रतेरैश्वर्यवचनत्वादिति ।
किं तावत्प्राप्तं श्रुतेर्लिङ्गं बलीय इति ।
नो खलु यत्रासमर्थं तच्छ्रुतिसहस्रेणापि तत्र विनियोक्तुं शक्यते ।
यथा अग्निना सिञ्चेत्पाथसा दहेदिति ।
तस्मात्सामर्थ्यं पुरोधाय श्रुत्या विनियोक्तव्यम् ।
तच्चास्या ऋचः

प्रमाणान्तरतः शब्दतश्च इन्द्रे प्रतीयते ।
तथाहिविदितपदतदर्थः कदाचनेत्यृचः स्पष्टमिन्द्रमवगच्छति, शब्दाच्चैन्द्र्येत्यतः ।
तस्माद्दारुदहनस्येव दहनस्य सलिलदहने विनियोगो गार्हपत्ये विनियोग ऐन्द्र्याः ।
नच श्रुत्यनुरोधाज्जघन्यामास्थाया वृत्तिं सामर्थ्यकल्पनेति साम्प्रतम् ।
सामर्थ्यस्य पूर्वभावितया तदनुरोधेनैव श्रुतिव्यवस्थापनात् ।
तस्मादैन्द्र्येन्द्र एव गार्हपत्यसमीप उपस्थातव्य इति प्राप्तेऽभिधीयतेऽलिङ्गज्ञानं पुरोधाय न श्रुतेर्विनयोक्तृता ।
श्रुतिज्ञानं पुरोधाय लिङ्गं तु विनियोजकम्ऽ ।
यदि हि सामर्थ्यमवगम्य श्रुतेर्विनियोगमवधारयेत्प्रमाता ततः श्रुतेर्विनियोगं प्रति लिङ्गज्ञानापेक्षत्वाद्दुर्बलत्वं भवेत् ।
न त्वेतदस्ति ।
श्रुतिर्विनियोगाय सामर्थ्यमपेक्षते नापेक्षते सामर्थ्यविज्ञानम् ।
अवगते तु ततो विनियोगे नासमर्थस्य स इति तन्निर्वाहाय सामर्थ्यं कल्प्यते ।
तच्छ्रुतिविनियोगात्पूर्वमस्ति सामर्थ्यम् ।
न तु पूर्वमगम्यते ।
विनियोगे तु सिद्धे तदन्यथानुपपत्त्या पश्चात्प्रतीयत इति श्रुतिविनियोगात्पराचीना सामर्थ्यप्रतीतिस्तदनुरोधेनावस्थापनीया ।
लिङ्गं तु न स्वतो विनियोजकमपि तु विनियोकीं कल्पयित्वा श्रुतिम् ।
तथाहिन स्वरसतो लिङ्गादनेनेन्द्र उपस्थातव्य इति प्रतीयते, किन्त्वीदृगिन्द्र इति तस्य तु प्रकरणाम्नानसामर्थ्यात्सामान्यतः प्रकरणापतितैदमर्थ्यस्य तदन्यथानुपपत्त्या विनियोगकल्पनायामपि श्रौताद्विनियोगात्कल्पनीयस्य विनियोगस्यार्थविप्रकर्षाच्छ्रुतिरेव कल्पयितुमुचिता न तु तदर्थो विनियोगः ।
नहि श्रुतमनुपपन्नं शाक्यमर्थेनोपपादयितुम् ।
नहि त्रयोऽत्र ब्रह्मणाः कठकौण्डिन्याविति वाक्यं प्रमाणान्तरोपस्थापितेन माठरेणोपपादयन्ति, उपपादयतो वा नोपहसन्ति ।
शाब्दाः ।
माठरश्चेति तु श्रावयन्तमनुमन्यन्ते ।

तस्माच्छ्रुतार्थसमुत्थानानुपपत्तिः श्रुतेनैवार्थान्तरेणोपपादनीया, नार्थान्तरमात्रेण प्रमाणान्तरोपनीतेनेति लोकसिद्धम् ।
नच लोकसिद्धस्य नियोगानुयोगौ युज्येते शब्दार्थज्ञानोपायभूतलोकविरोधात् ।
तस्माद्विनियोजिका श्रुतिः कल्पनीया ।
तथाच यावल्लिङ्गाद्विनियोजिकां श्रुतिं कल्पयितुं प्रक्रान्तव्यापारस्तावत्प्रत्यक्षया श्रुत्या गार्हपत्ये विनियोगः सिद्ध इति निवृत्ताकाङ्क्षं प्रकरणमिति कस्यानुपपत्त्या लिङ्गं विनियोकीं श्रुतिमुपकल्पयेत् ।
मन्त्रसमाम्नानस्य प्रत्यक्षयैव विनियोगश्रुत्योपपादितत्वात् ।
यथाहुःऽयावदज्ञातसंदिग्धं ज्ञेयं तावत्प्रमित्स्यते ।
प्रमिते तु प्रमातृणां प्रमौत्सुक्यं विहन्यतेऽइति ।

तस्मात्प्रतीतश्रौतविनियोगोपपत्त्यै मन्त्रस्य सामर्थ्यं तदनुगुणत्वेन नीयमानं प्रथमां वृत्तिमजहज्जघन्ययापि नेयमिति सिद्धम् ।
लिङ्गवाक्ययोरिह विरोधो यथाऽस्योनं ते सदनं कृणोमि घृतस्य धारया सुशेवं कल्पयामि ।
तस्मिन्सीदामृते प्रतितिष्ठ व्रीहीणां मेध सुमनस्यमानःऽइति ।
किमयं कृत्स्न एव मन्त्रः सदनकरणे पुरोडाशासादने च प्रयोक्तव्य उत कल्पयाम्यन्त उपस्तरणे तस्मिन्त्सीदेत्येवमादिस्तु पुरोडाशासादन इति ।
यदि वाक्यं बलीयः कृत्स्नो मन्त्र उभयत्र, सुशेवं कल्पयामीत्येतदपेक्षो हि तस्मिन्सीदेत्यादिः पूर्वेणैकवाक्यतामुपैति यत्कल्पयामि तस्मिन्त्सीदेति ।
अथ लिङ्गं बलीयस्ततः कल्प्याम्यन्तः सदनकरणे तत्प्रकाशने हि तत्समर्थम् ।
तस्मिन्त्सीदेति पुरोडाशासादने तत्र हि तत्समर्थमिति ।
किं तावत्प्राप्तम् ।
लिङ्गाद्वाक्यं बलीय इत्युभयत्र कृत्स्नस्य विनियोग इति ।
इह हि यत्तत्पदसमभिव्याहारेण विभज्यमानसाकाङ्क्षत्वादेकवाक्यतायां सिद्धायां तदनुरोधेन पश्चात्तदभिधानसामार्थ्यं कल्पनीयम् ।
यथा देवस्यत्वेतिमन्त्रेऽग्न्ये निर्वपामीति पदयोः समवेतार्थत्वेन तदेकवाक्यतया पदान्तराणां तत्परत्वेन तत्र सामर्थ्यकल्पना ।
तदेवं प्रतीतैकवाक्यतानिर्वाहाय तदनुगुणतया सामर्थ्यं कॢप्तं सन्न तद्व्यापादयितुमर्हति, अपि तु

विनियोजिकां श्रुतिं कल्पयत्तदनुगुणमेव कल्पयेत् ।
तथा च वाक्यस्य लिङ्गतो बलीयस्त्वात्सदनकरणे च पुरोडाशासाधने च कृत्स्न एव मन्त्रः प्रयोक्तव्य इति प्राप्तम् ।
एवं प्राप्ते उच्यतेभवेदेतदेवं यद्येकवाक्यतावगमपूर्वं सामर्थ्यावधारणमपि तु अवधृतसामर्थ्यानां पदानां प्रश्लिष्टपठितानां सामर्थ्यवशेन प्रयोजनैकत्वेनेकवाक्यत्वावधारणम् ।
यावन्ति पदानि प्रधानमेकमर्थमवगमयितुं समर्थानि विभागे साकाङ्क्षाणि तान्येकं वाक्यम् ।
अनुष्ठेयश्चार्थो मन्त्रेषु प्रकाश्यमानः प्रधानम् ।
सदनकरणपुरोडाशासादने चानुष्ठेयतया प्रधाने ।
तयोश्च सदनकरणं कल्पयाम्यन्तो मन्त्रः समर्थः प्रकाशयितुं पुरोडाशासादनं च तस्मिन्सीदेत्यादिः ।
ततश्च यावदेकवाक्यतावशेन सामर्थ्यमनुमीयते तावत्प्रतीतं सामर्थ्यमेकैकस्य भागस्यैकैकस्मिन्नर्थे विनियोजिकां श्रुतिं कल्पयति ।
तथाच श्रुत्यैवैकैकस्य भागस्यैकत्र विनियोगे सति प्रकरणपाठोपपत्तौ न वाक्यकल्पितं लिङ्गं विनियोजिकां श्रुतिमपरां कल्पयितुमर्हतीत्येकवाक्यताबुद्धिरुत्पन्नाप्याभासीभवति लिङ्गेन बाधनात् ।
यत्र तु विरोधकं लिङ्गं नास्ति तत्र समवेतार्थैकद्वित्रिपदैकवाक्यता पदान्तराणामपि सामर्थ्यं कल्पयतीति भवति वाक्यस्य विनियोजकत्वम् ।
यथात्रैव स्योनं त इत्यादीनाम् ।
तस्माद्वाक्याल्लिङ्गं बलीय इति सिद्धम् ॥
वाक्यप्रकरणयोर्विरोधोदाहरणम् ।
अत्र च पदानां परस्परापेक्षावशात्कस्मिंश्चिद्विशिष्ट एकस्मिन्नर्थे पर्यवसितानां वाक्यत्वं, लब्धवाक्यभावनां च पुनः कार्यान्तरापेक्षावशेन वाक्यान्तरेण संबन्धः प्रकरणम् ।
कर्तव्यायाः खलु फलभावनाया लब्धधात्वर्थकरणाया इतिकर्तव्यताकाङ्क्षाया वचनं

प्रकरणमाचक्षते वृद्धाः ।
यथाऽदर्शपूर्णमासाभ्यां स्वर्गकामो यजेतऽइति ।
एतद्धि वचनं प्रकरणम् ।
तदेतस्मिन् स्वपदगणेन कियत्यप्यर्थे पर्यवसिते करणोपकारलक्षणकार्यान्तरापेक्षायांऽसमिधो यजतिऽइत्यादिवाक्यान्तरसंबन्धः ।
समिदादिभावना हि स्वविध्युपहिताः पुरुषे हितं भाव्यमपेक्षमाणा विश्वजित्र्यायेन वानुषङ्गतो वार्थवादतो वा फलान्तराप्रतिलम्भेन दर्शपूर्णमासभावनां निर्वारयितुमीशते ।
तस्मात्तदाकाङ्क्षायामुपनिपतितान्येतानि वाक्यानि स्वकार्यापेक्षाणि तदपेक्षितकरणोपकारलक्षणं कार्यमासाद्य निर्वण्वन्ति च निर्वारयन्ति च प्रधानम् ।
सोऽयमनयोर्नष्टाश्वदग्धरथवत्संयोगः ।
तदेवं लक्षणयोर्वाक्यप्रकरणयोर्विरोधोदाहरणं सूक्तवाकनिगदः ।
तत्र हि पौर्णमासीदेवता अमावस्यादेवताः समाम्नाताः ।
ताश्च न मिथ एकवाक्यतां गन्तुमर्हन्तीति लिङ्गेन पौर्णमासीयागादिन्द्राग्नीशब्द उत्क्रष्टव्यः अमावास्यायां च समवेतार्थत्वात्प्रयोक्तव्यः ।
अथेदानीं संदिह्यतेकिं यदिन्द्राग्निपदैकवाक्यतया प्रतीयतेऽअविवृधेथां महो ज्यायोऽकाताम्ऽइति तन्नोत्क्रष्टव्यमुतेन्द्राग्निशब्दाभ्यां सहोत्क्रष्टव्यमिति ।
तत्र यदि प्रकरणं बलीयस्ततोऽपनीतदेवताकोऽपि शेषः प्रयोक्तव्योऽथ वाक्यं ततो यत्र देवताशब्दस्तत्रैव प्रयोक्तव्यः ।
किं तावत्प्राप्तमपनीतदेवताकोऽपि शेषः प्रयोक्तव्यः प्रकरणस्यैवाङ्गसंबन्धप्रतिपादकत्वात् ।
फलवती हि भावना प्रधानेतिकर्तव्यतात्वमापादयति ।
तदुपजीवनेन श्रुत्यादीनां विशेषसंबन्धापादकत्वात् ।
अतः प्रधानभावनावचनलक्षणप्रकरणविरोधे तदुपजीविवाक्यं बाध्यत इति प्राप्तम् ।
एवं प्राप्त उच्यतेभवेदेतदेवं यदि विनियोज्यस्वरूपसामर्थ्यमनपेक्ष्य प्रकरणं विनियोजयेत् ।
अपि तु विनियोगाय तदपेक्षतेऽन्यथा पूषाद्यनुमन्त्रणमन्त्रस्य द्वादशोपसत्तायाश्च नोत्कर्षः स्यात् ।
तद्रूपालोचनायां च यद्यदेव शीघ्रं प्रतीयते

तत्तद्बलवद्विप्रकृष्टं तु दुर्बलम् ।
तत्र यदि तद्रूपं श्रुत्या लिङ्गेन वाक्येन वान्यत्र विनियुक्तं ततः

प्रकरणं भङ्क्त्वोत्कृष्यते, परिशिष्टैस्तु प्रकरणस्येतिकर्तव्यतापेक्षा पूर्यते ।
अथ स्वस्य शीघ्रप्रवृत्तं श्रुत्यादि नास्ति ततः प्रकरणं विनियोजकम् ।
यथा समिदादेः ।
तदिह प्रकरणाद्वाक्यस्य शीघ्रप्रवृत्तत्वमुच्यते ।
प्रकरणे हि स्वार्थपूर्णानां वाक्यानामुपकार्योपकारकाकाङ्क्षामात्रं दृश्यते ।
वाक्ये तु पदानां प्रत्यक्षसंबन्धः ।
ततश्च सह प्रस्थितयोर्वाक्यप्रकरणयोर्यावत्प्रकरणेनैकवाक्यता कल्प्यते तावद्वाक्येनाभिधानसामर्थ्यं, यावदितरत्र वाक्येन सामर्थ्यं तावदितरत्र सामर्थ्येन श्रुतिर्यावदितरत्र सामर्थ्येन श्रुतिस्तावदिह श्रुत्या विनियोगस्तावता च विच्छिन्नायामाकाङ्क्षायां श्रुत्यनुमाने विहते प्रकरणेनान्तरा कल्पितं विलीयन्त इति वाक्यबलीयस्त्वात्तद्देवताशेषणामपकर्ष एवेति सिद्धम् ॥
क्रमप्रकरणविरोधोदाहरणम् ।
राजसूयप्रकरणे प्रधानस्यैवाभिषेचनीयस्य संनिधौ शौनःशेपोपाख्यानाद्याम्नातं, तत्किं समस्तस्य राजसूयस्याङ्गमुतभिषेचनीयस्य ।
यदि प्रकरणं बलीयस्ततः समस्तस्य राजसूयस्य, अथ क्रमस्ततोऽभिषेचनीयस्यैवेति, किं तावत्प्राप्तम् ।
नाकाङ्क्षामात्रं हि संबन्धहेतुः ।
गामानय प्रासादं पश्येति गामित्यस्य क्रियामात्रापेक्षिणः पश्येत्यनेनापि संबन्धसंभवाद्विनिगमनाभावप्रसङ्गात् ।
तस्मात्संनिधानं संबन्धकारणम् ।
तथा चानयेत्यननैव गामित्यस्य संबन्धो विनिगम्यते ।
नच संनिधानमपि संबन्धकारणम् ।
अयमेति पुत्रो राज्ञः पुरुषोऽपसार्यतामित्यत्र राज्ञ इत्यस्य पुत्रपुरुषपदसंनिधानाविशेषान्मा भूदविनिगमना ।
तस्मादाकाङ्क्षा निश्चयहेतुर्वक्तव्या ।
अत्र पुत्रशब्दस्य संबन्धिवचनतया समुत्थिताकाङ्क्षस्यान्तिके यदुपनिपतितं संबन्ध्यन्तराकाङ्क्षं पदं तस्य तेनैवाकाङ्क्षापरिपूर्तेः पुरुषपदेन

पुरुषरूपमात्राभिधायिना स्वतन्त्रेणैव न संबन्धः किन्तु परेणापसार्यतामित्यनेनापसरणीयापेक्षेणेति ।
सत्यपि संनिधाने आकाङ्क्षाभावादसंबन्धः ।
तथा चाभाणकःऽतप्तं तप्तेन संबध्यतेऽइति ।
तथा चाकाङ्क्षितमपि न यावत्संनिधाप्यते तावन्न संबध्यते ।
तथा संनिहितमपि यावन्नाकाङ्क्ष्यते न तावत्संबध्यत इति द्वयोः संबन्धं प्रति समानबलत्वात्क्रमप्रकरणयोः समुच्चयासंभवाच्च विकल्पेन राजसूयाभिषेचनीययोर्विनियोगः शौनःशेपोपाख्यानादीनामिति प्राप्तम् ।
एवं प्राप्त उच्यतेराजसूयके कथंभावापेक्षा हि पवित्रादारभ्य क्षत्रस्य धृतिं यावदनुवर्तते ।
यथाचऽअविच्छिन्ने कथंभावे यत्प्रधानस्य पठ्यते ।
अनिर्ज्ञातफलं कर्म तस्य प्रकरणाङ्गताऽइति न्यायाद्राजसूयाङ्गता शौनःशेपोपाख्यानादीनाम् ।
अभिषेचनीयस्य तु स्ववाक्योपात्तपदार्थनिराकाङ्क्षस्य संनिधिपाठेनाकाङ्क्षोत्थापनीया यावत्तावत्सिद्धाकाङ्क्षेण राजसूयेनैकवाक्यता कल्प्यते ।
यावच्चाभिषेचनीयाकाङ्क्ष्या तदेकवाक्यता कल्प्यते तावत्कॢप्तया राजसूयैकवाक्यता तदुपकारतया सामर्थ्यलक्षणं लिङ्गं यावच्चाभिषेचनीयैकवाक्यतया लिङ्गं कल्प्यते तावत्कॢप्तलिङ्गं विनियोक्रीं श्रुतिं कल्प्यति यावद्वाक्यकल्पितेन लिङ्गेन श्रुतिरितरत्र कल्प्यते तावत्कॢप्तया श्रुत्या विनियोगे सति प्रकरणपाठोपपत्तौ संनिधानपरिकल्पितमन्तरा विलीयते ।
प्रमाणाभावेऽप्रतिपत्वात् ।
प्रकरणिनश्च राजसूयस्य सर्वदा बुद्धिसांनिध्येन तत्संनिधेरकल्पनीयत्वात् ।
तस्मात्प्रकरणविरोधे क्रमस्य बाध एव नच विकल्पो दुर्बलत्वादिति सिद्धम् ॥
क्रमसमाख्ययोर्विरोधोदाहरणम्पौरोडाशिक इति समाख्याते काण्डे सान्नाय्यक्रमे च शुन्धध्वं दैव्याय कर्मण इति शुन्धनार्थो मन्त्रः समाम्नातः, तत्र संदिह्यते किं समाख्यानस्य बलीयस्त्वात्पुरोडाशपात्राणां शुन्धने विनियोक्तव्यः, आहो सान्नाय्यपात्राणां शुन्धने क्रमो बलीयानिति ।
किन्तावत्प्राप्तम् ।
समाख्यानां बलीय इति पौरोडाशिकशब्देन हि पुरोडाशसंबन्धीनीत्युच्यन्ते तान्यधिकृत्य प्रवृत्तं काण्डं पौरोडाशिकम् ।
ततश्च

यावत्क्रमेण प्रकरणाद्यनुमानपरम्परया संबन्धः प्रतिपादनीयः यावत्समाख्यया श्रुत्यैव साक्षादेव स प्रतिपादित इति अर्थविप्रकर्षेण क्रमात्समाख्यैव बलीयसीति पुरोडाशपात्रशुन्धने मन्त्रः प्रयोक्तव्यः न सान्नाय्यपात्रशुन्धन इति प्राप्तम् ।
एवं प्राप्तेऽभिधीयतेसमाख्यानात्क्रमो बलवानर्थविप्रकर्षादिति ।
तथाहिसमाख्या न तावत्संबन्धस्य वाचिका किन्तु पौरोडाशविशिष्टं काण्डमाह ।
तद्विशिष्टत्वान्यथानुपपत्त्या तु संबन्धः काण्डस्यानुमीयते न तु साक्षान्मन्त्रबेदस्य ।
तद्धारेण च तन्मध्यपातिनो मन्त्रभेदस्यापि तदनुमानम् ।
न चासौ संबन्धोऽपि श्रुत्यैव शेषशेषिभावः प्रतीयते ।
अपि तु संबन्धमात्रम् ।
तस्माच्छ्रुतिसादृश्यमस्य दूरापेतमिति क्रमेण नास्य स्पर्धोचिता ।
तत्रापि च सामान्यतो दर्शपूर्णमासप्रकरणापादितैदमर्थ्यस्य शौनःशेपोपाख्यानादिवच्चारादुपकारकतया प्रकृतमात्रसंबन्धानुपपत्तिः ।
मन्त्रस्य प्रयोगसमवेतार्थस्मारणेन सामवायिकाङ्गत्वात् ।
तथाच यं

कञ्चित्प्रकृतप्रयोगगतमर्थं प्रकाशयतोऽस्य प्रकरणाङ्गत्वमविरुद्धमिति विशेषापेक्षायां सान्नाय्यक्रमः सान्नाय्यं प्रति प्रकरणाद्यनुमानद्वारेण विनियोगं कल्पयितुमुत्सहते न तु समाख्यानम् ।
तस्य दुर्बलत्वात् ।
तथाहिसमाख्या संबन्धनिबन्धना सति तत्सिध्यर्थं संनिधिमुपकल्पयति यावत्ताद्वैदिकेन प्रत्यक्षदृष्टेन संनिधानेनाकाङ्क्षा कल्प्यते ।
यावच्च कॢप्तेन संनिधानेनाकाङ्क्षा कल्प्यते तावदितरत्र कॢप्तयाकाङ्क्षयैकवाक्यता यावच्च कॢप्तयाकाङ्क्षैकवाक्यता तावदितरत्रैकवाक्यतया कॢप्तयोपकारसामर्थ्यम् ।
यावच्चात्रैकवाक्यतयोपकारसामर्थ्यं तावदितरत्र लिङ्गेन विनियोजिका श्रुतिः ।
यावदत्र लिङ्गेन विनियोजिका श्रुतिस्तावदितरत्र कॢप्तया श्रुत्या विनियोग इति तावतैव

प्रकरणपाठोपपत्तेः सर्वं समाख्यानकल्पितं विच्छिन्नमूलत्वाल्लूयमानशस्यमिव निर्बीजं भवति ।
पुरोडाशाभिधायकमन्त्राबाहुल्यात्काण्डस्य पौरोडाशिकसमाख्येति मन्तव्यम् ।
ऽएकद्वित्रिचतुष्पञ्चवस्त्वन्तरयकारितम् ।
श्रुत्यर्थं प्रति वैषम्यं लिङ्गादीनां प्रतीयते ॥
ऽइत्यर्थविप्रकर्ष उक्तः ।
तत्रापि चऽबाधिकैव श्रुतिर्नित्यं समाख्या बाध्यते सदा ।
मध्यमानां तु बाध्यत्वं बाधकत्वमपेक्षया ॥
ऽइति विशेष उक्तो वृद्धैः ।
तद्वयं विस्तराद्बिभ्यतोऽपि प्रथमतन्त्रानभिज्ञानुकम्पया निघ्ना विस्तरे पतिताः स्म इत्युपरम्यते ।
तस्माद्यथानुज्ञापनानुज्ञयोः प्रज्ञातक्रमयोरुपहूत उपहूयस्वेत्येवं मन्त्रावाम्नातौ देशसामान्यात्तथैवाङ्गतया प्राप्नुतः ।
उपहूत इति लिङ्गतोऽनुज्ञामन्त्रो नानुज्ञापने उपहूयस्वेति च लिङ्गतोऽनुज्ञापनो च मन्त्रो नानुज्ञायाम् ।
तदिह लिङ्गेन क्रमं बाधित्वा विपरीतं शेषत्वमापाद्यते ।
यावद्धि स्थानेन प्रकरणमुत्पाद्यैकवाक्यत्वं कल्प्यते तावल्लिङ्गेन श्रुतिं कल्पयित्वा साधितो विनियोग इति अकल्पितलिङ्गश्रुतेः क्रमस्य बाधः ।
तद्वदिहापि विनियोगे प्रत्येकान्तरितेन लिङ्गेन चतुरन्तरितस्य विद्याक्रमस्य बाध इति ।
यद्यपि प्रथमतन्त्र एवायमर्थ उपपादितस्तथापि विरोधे तदुपपादनमिह त्वविरोधः ।
नहि लिङ्गेनाभिचारिककर्मसंबन्धः विद्यासंबन्धेन क्रमकृतेन विरुध्यते ।
नच विनियुक्तविनियोगलक्षणोऽत्र विरोधो बृहस्पतिसवेऽपि तत्प्रसङ्गात् ।
अथैव प्रतीतिविरोधो नच वस्तुविरोधः स विद्यायां विनियोगेऽपि तुल्यः ।
तस्मादविरोधाद्वेधादिमन्त्रस्योपासनाङ्गत्वमित्यस्त्यभ्यधिका शङ्का ।
तत्रोच्यतेऽनहि लिङ्गविरोधेन क्रमबाधोऽभिधीयते ।
किन्तु लिङ्गपरिच्छिन्ने न क्रमः कल्पनाक्षमःऽ ।
प्रकरणपाठोपपत्त्या हि श्रुतिलिङ्गत्वाक्यप्रकरणैरविनियुक्तः क्रमेण प्रकरणवाक्यलिङ्गश्रुतिकल्पनाप्राणालिकया विनियुज्यते ।
तदा विनियुक्तस्य प्रकरणपाठानर्थक्यप्रसङ्गात् ।
उपपादिते तु श्रुत्यादिभि प्रकरणपाठे क्षीणत्वादर्थापत्तेः क्रमो न

स्वोचितां प्रमामुत्पादयितुमर्हति प्रमित्साभावादिति ।
बृहस्पतिसवस्य तु क्त्वाश्रुतिरेव धातुसंबन्धाधिकारकात्समानकर्तृकतायां विहिता संयोगपृथक्त्वेन विनियुक्तमपि विनियोजयन्ती न शक्या श्रुत्यन्तरेण निरोद्धुं स्वप्रमामिति वैषम्यम् ।
तदिदमुक्तम्
वाजपेये तु बृहस्पतिसवस्य स्पष्टं विनियोगान्तरमिति ।
अपि चैकोऽयं प्रवर्ग्य इति ।
तुल्यबलतया बृहस्पतिसवस्य तुल्यताशङ्कापाकरणद्वारेण समुच्चयो न तु पृथगुक्तितया परस्परापेक्षत्वादिति ।
संनिधिपाठमुपपादयति
अरण्यादिवचनवादिति ॥२५॥



____________________________________________________________________________________________


३,३.१५.२६

हानौ तूपायनशब्दशेषत्वात्कुशाच्छन्दःस्तुत्युपगानवत्तदुक्तम् । ब्रह्मसूत्र ३,३.२६ ।
यत्र हानोपायने श्रूयेते तत्राविवादः संनिपाते यत्राप्युपायनमात्रश्रवणं तत्रापि नान्तरीयकतया हानमाक्षिप्तमित्यस्ति संनिपातः ।
यत्र तु हानमात्रं सकृतदुष्कृतयोः श्रुतं न श्रूयते उपायनं, तत्र किमुपायनमुपादानं संनिपतेन्न वेति संशयः ।
अत्र पूर्वपक्षं गृह्णाति
असंनिपात इति ।
स्यादेतत् ।
यथा श्रूयमाणमेकत्र शाखायामुपासनाङ्गं तस्मिन्नेवोपासने शाखान्तरेऽश्रूयमाणमुपसंह्रियते ।
एवं शाखान्तरश्रुतमुपायनमुपसंहरिष्यत इत्यत आह
विद्यान्तरगोचरत्वाच्चेति ।
एकत्वे ह्युपासनकर्मणामन्यत्र श्रुतानामप्यन्यत्र समवायो घटते ।
न त्विहोपासनानामेकत्वं, सगुणनिर्गुणत्वेन भेदादित्यर्थः ।
ननु यथोपायनं श्रुतं हानमुपस्थापयत्येवं हानमपि उपायनमित्यत आह
अपि चात्मकर्तृकमिति ।
ग्रहणं हि न स्वामिनोऽपगममन्तरेण भवतीति ग्रहणादपगमसिद्धिरवश्यंभाविनी ।

अपगमस्त्वसत्यप्यन्येन ग्रहणे दृष्टो यथा प्रायश्चित्तेनापगतिरेनस इति ।
कर्तृभेदकथनं त्वेतदुपोद्बलानार्थं न पुनरवश्यंभावस्य प्रयोजकमुपायनेनानैकान्त्यादिति ।
सिद्धान्तमुपक्रमते
अस्यां प्राप्ताविति ।
अयमस्यार्थःकर्मान्तरे विहितं हि न कर्मान्तर उपसंह्रियते प्रमाणाभावात् ।
यत्पुनर्न विधीयते किन्तु स्तुत्यर्थं सिद्धतया संकीर्त्यते तदसति बाधके देवताधिकरणन्यायेन शब्दतः प्रतीयमानं परित्यक्तुमशक्यम् ।
तथाच विधूतयोः सकृतदुष्कृतयोर्निर्गुणायां

विद्यायामश्वरोमादिवत्किं भवत्वित्याकाङ्क्षायां न तावत्प्रायश्चित्तेनेव तद्विलयसंभवस्तथा सत्यश्वरोमराहुदृष्टान्तानुपपत्तेः ।
न जात्वश्वरोमराहुमुखयोर्विलयनमस्ति ।
अपि त्वश्वचन्द्राभ्यां विभागः ।
नच नष्टे

विधूननप्रमोचनार्थसंभवः ।
तस्मादर्थवादस्यापेक्षायां शब्दसंनिधिकृतोऽपि विशेष उपायनं बुद्धौ संनिधापयितुं शक्नोत्यपेक्षां पूरयितुमिति ।
निर्गुणापि विद्या हानोपायनाभ्यां स्तोतव्या ।
स्तुतिप्रकर्षस्तु प्रयोजनं न प्रमाणम् ।
अप्रकर्षेऽपि स्तुत्युपपत्तेः ।
न चार्थवादान्तरापेक्षार्थवादान्तराणां न दृष्टा ।
नच तैर्न पूरणमित्याह
प्रसिद्धा चेति ।
विद्यास्तुत्यर्थत्वाच्चास्योपायनवादस्येति ।
यद्यप्यन्यदीये अपि सुकृतदुष्कृते अन्यस्य फलं प्रयच्छतः, यथा पुत्रस्य श्राद्धकर्म पितुस्तृप्तिं यथा च पितुर्वैश्वानरीयेष्टिः पुत्रस्य ।
नार्याश्च सुरापानं भर्तुर्नरकम् ।
तथाप्यन्यदीये अपि सुकृतदुष्कृते साक्षादन्यस्मिन्न संभवत इत्याशयेन शङ्का ।
फलतः प्राप्त्या स्तुतिरिति परिहारः ।
गुणोपसंहारविवक्षायामित्यपि न स्वरूपतः सुकृतदुष्कृतसंचाराभिप्रायम् ।
ननु विद्यागुणोपसंहाराधिकारे कोऽयमकाण्डे स्तुत्यर्थविचार इतिशङ्कामुपसंहारन्नपाकरोति
तस्माद्गुणोपसंहारविचारप्रसङ्गेनेति ।
विद्यागुणोपसंहारप्रसङ्गतः स्तुतिगुणोपसंहारो विचारितः ।
प्रयोजनं चोपासके सौहार्दमाचरितव्यं न त्वसौहार्दमिति छन्द एवाच्छन्द आच्छादनादाच्छन्दो भवति ।
यथैव चाविशेषेणोपगानमिति ।
ऋत्विज

उपगायन्तीत्यविशेषेणोपगानमृत्विजाम् ।
भाल्लविनस्तु विशेषेण नाध्वर्युपगायतीति ।
तदेतस्माद्भाल्लविनां वाक्यमृत्विज उपगायन्तीत्येतच्छेषं विज्ञायते ।
एतदुक्तं भवतिअध्वर्युवर्जिता ऋत्विज उपगायन्तीति ।
कस्मात्पुनरेवं व्याख्यायते ।
ननु स्वतन्त्राण्येव सन्तु वाक्यानीत्यत आह
श्रुत्यन्तरकृतमिति ।
अष्टदोषदुष्टविकल्पप्रसङ्गभयेन वाक्यान्तरस्य वाक्यान्तरशेषत्वमत्रभवतो जैमिनेरपि संमतमित्याह
तदुक्तं द्वादशलक्षण्याम् ।
ऽअपि तु वाक्यशेषः स्यादन्याय्यत्वाद्विकल्पस्य विधीनामेकदेशः स्यात्ऽइत्येतदेव सूत्रमर्थद्वारेण पठति
अपि तु वाक्यशेषत्वादितरपर्युदासः स्यात्प्रतिषेधे विकल्पः स्यात्स चान्याय्य इति शेषः ।
एवं किल श्रूयतेऽएष वै सप्तदशः प्रजापतिर्यज्ञे यज्ञेऽन्वायत्तऽइति ।
ततो नानुयाजेषु येयजामहं करोतीति ।
तदत्रानारभ्य कञ्चिद्यज्ञं यज्ञेषु येयजामहकरणमुपदिष्टम् ।
तदुपदिश्य चाम्नातं नानुयाजेष्विति ।
तत्र संशयःकिं विधिप्रतिषेधयोर्विकल्प उत पर्युदासोऽनुयाजवर्जितेषु येयजामहः कर्तव्य इति ।
मा भूदर्थप्राप्तस्य शास्त्रीयेण निषेधे विकल्पः ।
दृष्टं हि तादात्विकीमस्य सुन्दरतां गमयति नायतौ दोषवत्तां निषेधति ।
तस्य तत्रौदासीन्यात् ।
निषेधशास्त्रं तु तादात्विकं सौन्दर्यमबाधमानमेव प्रवृत्त्युन्मुखं नरं निवारयदायत्यामस्य दुःखफलत्वमवगमयति ।
यथाहऽअकर्तव्यो दुःखफलःऽइति ।
ततो रागतः प्रवृत्तमप्यायत्यां दुःखतो बिभ्यतं पुरुषं शक्नोति निवारयितुमिति बलीयान् शास्त्रीयः प्रतिषेधो गारतः प्रवृत्तेरिति न तया विकल्पमर्हति ।
शास्त्रीयौ तु विधिनिषेधौ तुल्यबलतया षोडशिग्रहणवद्विकल्प्येते ।
तत्र हि विधिदर्शनात्प्रधानस्योपकारभूयस्त्वं कल्प्यते ।
निषेधदर्शनाच्च वैगुण्येऽपि

फलसिद्धिरवगम्यते ।
तथाहऽअर्थप्राप्तवदिति चेन्न तुल्यत्वादुभयं शब्दलक्षणंऽइति ।
नच वाच्यं यावद्यजतिषु येयजामहकरणं यावद्यजतिसामान्यद्वारेणानुयाजं यजतिविशेषमुपसर्पति तावदनुयाजगतेन निषेधेन तन्निषिद्धमिति शीघ्रप्रवृत्तेः सामान्यशास्त्राद्विशेषनिषेधो बलवानिति ।
यतो भवत्वेवंविधिषु ब्राह्मणेभ्यो दधि दीयतां तक्रं कौण्डिन्यायेति ।
तत्र तक्रविधिर्न दधिविधिमपेक्षते प्रवर्तितुमिह तु प्राप्तिपूर्वकत्वाप्रतिषेधस्य येयजामहस्य चान्यतोऽप्राप्तेस्तन्निषेधेन निषेधप्राप्त्यै तद्विधिरपेक्षणीयः ।
नच सापेक्षतया निषेधाद्विधिरेव बलीयानित्यतुल्यशिष्टतया न विकल्पः किन्तु निषेधस्यैव बाधनमिति सांप्रतं, तथा सति निषेधशास्त्रं प्रमत्तगीतं स्यात् ।
नच तद्युक्तं तुल्यं हि सांप्रदायिकम् ।
नच न तौ पशौ करोतीतिवदर्थवादता ।
असमवेतार्थत्वात् ।
पशौ हि नाज्यभागौ स्त इत्युपपद्यते ।
न चात्र तथा येयजामहाभावः, यजतिषु येयजामहविधानात् ।
अनुयाजानां च तद्भावात् ।
नच पर्युदासस्तदाननुयाजेष्विति, कात्यायनमतेन नियमप्रसक्तेः ।
तस्माद्विहितप्रतिषिद्धतया विकल्प इति प्राप्तम् ।
एवं प्राप्त उच्यतेउक्तं षोडशिग्रहणयोर्विकल्प इति ।
नहि तत्रान्या गतिरस्ति ।
तेनाष्टादोषदुष्टोऽपि विकल्प आस्थीयते पक्षेऽपि प्रामाण्यान्मा भूत्प्रमतगीततेति ।
इह तु पर्युदासेनाप्युपपत्तौ संभवन्त्यामन्याय्यं विकल्पाश्रयणमयुक्तम् ।
एवं हि तदा नञः संबन्धोऽननुयाजेषु यजतिष्वनुयाजवर्तितेषु येयजामहः कर्तव्य इति ।
किमतो यद्यवम् ।
एतदतो भवतिनानुयाजेष्वित्येतद्वाक्यमपरिपूर्णं साकाङ्क्षं पूर्ववाक्यैकदेशेन संभन्त्स्यते यदेतद्येयजामहङ्करोतीत्येतन्नानुयाजेषु यावदुक्तं स्यादनुयाजवर्जितेष्विति तावदुक्तं

भवति नानुयाजेष्विति ।
तथाच यजितिविशेषणार्थत्वादननुयाजविधिरेवायमिति प्रतिषेधाभावान्न विकल्पः ।
न चाभियुक्ततरपाणिनिविरोधे कात्यायनस्यासद्वादित्वं नित्यसमासवादिनः संभवति ।
स हि विभाषाधिकारे समासं शास्ति ।
तस्मादनुयाजवर्जितेषु येयजामहविधानमिति सिद्धम् ।

वर्णकान्तरमाह
अथवैतास्विति ।
यथा हि सुकृतदुष्कृतयोरमूर्तयोः कल्पनं नाञ्जसं मूर्त्यनुविधायित्वात्कम्पस्य ।
तथान्यदीययोरन्यत्र संचारोऽप्यनुपपन्नोऽमूर्तत्वादेव ।
तस्माद्यत्र विधूननमात्रं श्रुतं तत्र कम्पनेन वरं स्वकार्यारम्भाच्चालनमात्रमेव लक्ष्यतां न तु ततोऽपगत्यान्यत्र संचारः कल्पनागौरवप्रसङ्गात् ।
तस्मात्स्वकार्यारम्भाच्चालनं विधूननमिति प्राप्तेऽभिधीयतेयत्र तावदुपायनश्रुतिस्तत्रावश्यं त्यागो विधूननं वक्तव्यम् ।
क्वचिदपि चेद्विधूननं त्यागे वर्तते तथा सत्यन्यत्रापि तत्रैव वर्तितुमर्हति ।
एवं हि न वर्तेत यदि विधूननमिह मुख्यं लभ्येत ।
न चैतदस्ति ।
तत्रापि स्वकार्याच्चालनस्य लक्ष्यमाणत्वात् ।
नच प्रामाणिकं कल्पनागौरवं लोहगन्धितामाचरति ।
अपिचानेकार्थत्वाद्धातूनां त्यागेऽपि विधूयते मुख्यमेव भविष्यति ।
प्राचुर्येण त्यागेऽपि लोके प्रयोगदर्शनात् ।
विनिगमनहेतोरभावात् ।
गणकारस्य चोपलक्षणत्वेनाप्यर्थनिर्देशस्य तत्र दर्शनात् ।
तस्माद्धानार्थ एवात्रेति युक्तम् ॥२६॥



____________________________________________________________________________________________


३,३.१६.२७

सांपराये तर्तव्याभावात्तथा ह्यन्ये । ब्रह्मसूत्र ३,३.२७ ।
ननु पाठक्रमादर्धपथे सुकृतदुष्कृततरणे प्रतीयेते ।
विद्यासामर्थ्याच्च प्रागेवावगम्येते ।
तथा शाठ्यायनिनां ताण्डिनां च श्रुतेः ।
श्रुत्यर्थौ च पाठक्रमाद्बलीयांसौ,ऽअग्निहोत्रं जुहोति यवागूं पचतिऽइत्यत्र यथा ।
तस्मात्पूर्वपक्षाभावादनारभ्यमेतत् ।
अत्रोच्यते ।
नैतत्पाठक्रममात्रमपि तु श्रुतिस्तत्सुकृतदुष्कृते विधूनुत इति ।
तदिति हि सर्वनाम तस्मादर्थे सन्निहितपरामर्शकं तस्य हेतुभावमाह ।
सन्निहितं च यदनन्तरं

श्रुतम् ।
तच्चार्धपथवर्ति विरजानदीमनोऽभिगमनमित्यर्धपथ एव सुकृतदुष्कृतत्यागः ।
नच श्रुत्यन्तरविरोधः ।
अर्धपथेऽपि पापविधूनने ब्रह्मलोकसंभवात्प्राक्कालतोपपत्तेः ।
एवं शाठ्यायनिनामप्यविरोधः ।
नहि तत्र जीवन्निति वा जीवत इति वा श्रुतम् ।
तथा चार्धपथ एव सुकृतदुष्कृतविमोकः ।
एवञ्च न पर्यङ्कविद्यातस्तत्प्रक्षय इति पूर्वः पक्षः ।
राद्धान्तस्तु विद्यासामर्थ्यविधूतकल्मषस्य ज्ञानवत उत्तरेण पथा गच्छतो ब्रह्मप्राप्तिर्न चाप्रक्षीणकल्मषस्योत्तरमार्गगमनं संभवति ।
यथा यवागूपाकात्प्राग्नाग्निहोत्रम् ।
यमनियमाद्यनुष्ठानसहिताया विद्याया उत्तरेण मार्गेण पर्यङ्कस्थब्रह्मप्राप्त्युपायत्वश्रवणात् ।
अप्रक्षीणपाप्मनश्च तदनुपपत्तेः ।
विद्यैव तादृशी कल्मषं क्षपयति क्षपितकल्मषं चोत्तरमार्गं प्रापयतीति कथमर्धपथे कल्मषयः ।
तस्मात्पाठक्रमबाधेनार्थक्रमोऽनुसर्तव्यः ।
ननु न पाठक्रममात्रमत्र, तदिति सर्वनामश्रुत्या संनिहितपरामर्शादित्युक्तम् ।
तदयुक्तं, बुद्धिसंनिधानमात्रमत्रोपयुज्यते नान्यत्, तच्चानन्तरस्येव विद्याप्रकरणाद्विद्याया अपीति समाना श्रुतिरुभयत्रापीति ।
अर्थपाठौ परिशिष्येते तत्र चार्थो बलीयानिति ।
नच ताण्ड्यादिश्रुत्यविरोधः पूर्वपक्षे ।
अश्व इव रोमाणि विधूयेति हि स्वतन्त्रस्य पुरुषस्य व्यापारं ब्रूते, नच परेतस्यास्ति स्वातन्त्र्यम्, तस्मात्तद्विरोधः ॥२७॥



____________________________________________________________________________________________


३,३.१६.२८

छन्दत उभयाविरोधात् । ब्रह्मसूत्र ३,३.२८ ।
केभ्यश्चित्पदेभ्य इदं सूत्रम् ।
ननु यथा परेतस्योत्तरेण पथा ब्रह्मप्राप्तिर्भवतीति विद्याफलमेवं तस्यैवार्धपथे सुकृतदुष्कृतहानिरपि भविष्यतीति शङ्कापदानि तेभ्य उत्तरमिदं सूत्रम् ।
तद्व्याचष्टे
यदि च देहादपसृप्तस्येति ।
विद्याफलमपि ब्रह्मप्राप्तिर्नापरेतस्य भवितुमर्हति शङ्कापदेभ्यः ।
यथाहुःनाजनित्वा तत्र गच्छन्तीति ।
सुकृतदुष्कृतप्रक्षयस्तु सत्यपि नरशरीरे संभवतीति समर्थस्य हेतोर्यमनियमादिसहिताया विद्यायाः कर्यक्षयायोगाद्युक्तो जीवत एव सुकृतदुष्कृतक्षय इति सिद्धम् ।
छन्दतः स्वच्छन्दतः स्वेच्छयेति यावत् ।
स्वेच्छयानुष्ठानं यमनियमादिसहिताया विद्यायाः ।
तस्य जीवतः पुरुषस्य स्यान्न मृतस्य ।
तत्पूर्वकं चसुकृतदुष्कृतहानं स्याज्जीवत एव ।
समर्थस्य क्षेपायोगात् ।
एवं कारणानन्तरं कार्योत्पादे सति निमित्तनैमित्तकयोस्तद्भावस्योपपत्तिस्ताण्डिशाठ्यायनिश्रुत्योश्च संगतिरितरथा स्वातन्त्र्याभावेनासंगतिरुक्ता स्यात् ।
तदनेनोभयाविरोधो व्याख्यातः ।
ये तु परस्य विदुषः सुकृतदुष्कृते कथं परत्र संक्रामत इति शङ्कोत्तरतया सूत्रं व्याचख्युः ।
छन्दतः संकल्पत इति श्रुतिस्मृत्योरविरोधादेव ।
न त्वत्रागमगम्येर्ऽथे स्वातन्त्र्येण युक्तिर्निवेशनीयेते ।
तेषामधिकरणशरीरानुप्रवेशे संभवत्यर्थान्तरोपवर्णनमसङ्गतमेवेति ॥२८॥



____________________________________________________________________________________________


३,३.१७.२९.३०
गतेरर्थवत्त्वमुभयथान्यथा हि विरोधः । ब्रह्मसूत्र ३,३.२९ ।
यथा हानिसंनिधावुपायनमन्यत्र श्रुतमिति, यत्रापि केवला हानिः श्रूयते तत्रापि उपायनमुपस्थापयत्येवं तत्सन्निधावेव देवयानः पन्थाः श्रुत इति यत्रापि सुकृतदुष्कृतहानिः केवला श्रुता तत्रापि देवयानं पन्थानमुपस्थापयितुमर्हति ।
नच निरञ्जनः परमं साम्यमुपैतीत्यनेन विरोधः ।
देवयानेन पथा ब्रह्मलोकप्राप्तौ निरञ्जनस्य परमसाम्योपपत्तेः ।
तस्माद्धानिमात्रे देवयानः पन्थाः संबध्यत इति प्राप्तम् ।
एवं प्राप्त उच्यतेविद्वान् पुण्यपापे विधूयनिरञ्जनः परमं साम्यमुपैतीति हि विदुषो विधूतपुण्यपापस्य विद्यया क्षेमप्राप्तिमाह ।
भ्रमनिबन्धनोऽक्षेमो याथात्म्यज्ञानलक्षणया विद्यया विनिवर्तनीयः ।
नासौ देशविशेषमपेक्षते ।
नहि जातु रज्जौ सर्पभ्रमनिवृत्तये समुत्पन्नं रज्जुतत्त्वज्ञानं देशविशेषमपेक्षते ।
विद्योत्पादस्यैव स्वविरोध्यविद्यानिवृत्तिरूपत्वात् ।
नच विद्योत्पादाया ब्रह्मलोकप्राप्तिरपेक्षणीया ।
यमनियमादिविशुद्धसत्त्वस्येहैव श्रवणादिभिर्विद्योत्पादात् ।
यदि परमारब्धकार्यकर्मक्षपणाय शरीरपातावध्यपेक्षेति न देवयानेनास्तीहार्थ इति श्रुतिदृष्टविरोधान्नापेक्षितव्य इति ।
अस्ति तु पर्यङ्कविद्यायां तस्यार्थ इत्युक्तं द्वितीयेन सूत्रेणेति ।
ये तु यदि पुण्यमपि निवर्तते किमर्था तर्हि गतरित्याशङ्क्य सूत्रमवतारयन्ति ।
गतेरर्थवत्त्वमुभयथा दुष्कृतनिवृत्त्या सुकृतनिवृत्त्या च ।
यदि पुनः पुण्यमनुवर्तेत ब्रह्मलोकगतस्यापीह पुण्यफलोपभोगायवृत्तिः स्यात् ।
तथा चैतेन प्रतिपाद्यमानागत्यनावृत्तिश्रुतिविरोधः ।
तस्माद्दुष्कृतस्येव सुकृतस्यापि प्रक्षय इति तैः पुनरनाशङ्कनीयमेवाशङ्कितम् ।
विद्याक्षिप्तायां हि गतौ केयमाशङ्का यदि क्षीणसुकृतः किमर्थमयं यातीति ।
नह्येषा सुकृतनिबन्धना गतिरपि तु विद्यानिबन्धना ।
तस्माद्वृद्धोक्तमेवोपवर्णनं साध्विति ॥२९॥


____________________________________________________________________________________________


३,३.१७.३१

अनियमः सर्वासामविरोधः शब्दानुमानाभ्याम् । ब्रह्मसूत्र ३,३.३१ ।
प्रकरणं हि धर्माणां नियामकम् ।
यदि तु तन्नाद्रियते ततो दर्शपूर्णमासज्योतिष्टोमादिधर्माः संकीर्येरन् ।
नच तेषां विकृतिषु सौर्यादिषु द्वादशाहादिषु चोदकतः प्राप्तिः ।
सर्वत्रौपदेशिकत्वात् ।
नच दर्विहोमस्याप्रकृतिविकारस्याधर्मकत्वम् ।
नच सर्वधर्मयुक्तं कर्म किञ्चिदपि शक्यमनुष्ठातुम् ।
न चैवं सति श्रुत्यादयोऽपि विनियोजकास्तेषामपि हि प्रकरणेन सामान्यसंबन्धे सति विनियोजकत्वात् ।
यत्रापि विनाप्रकरणं श्रुत्यादिभ्यो विनियोगोऽवगम्यते तत्रापि तन्निर्वाहाय प्रकरणस्यावश्यं कल्पनीयत्वात् ।
तस्मात्प्रकरणं विनियोगाय

तन्नियमाय चावश्याभ्युपेतव्यमन्यथा श्रुत्यदीनामप्रामाण्यप्रसक्तेः ।
तस्माद्यास्वेवोपासनासु देवयानः पितृयाणो वा पन्था आम्नातस्तास्वेव न तूपासनान्तरेषु तदनाम्नानात् ।
नचऽये चेमेऽरण्ये श्रद्धातप इत्युपासतेऽइति सामान्यवचनात्सर्वविद्यासु तत्पथप्राप्तिः ।
श्रद्धातपःपरायणानामेव तत्र तत्पथप्राप्तिः श्रूयते, न तु विद्यापरायणानाम् ।
अपिचैवं सत्येकस्यां विद्यायां मार्गोपदेशः सर्वासु विद्यास्वित्येकत्रैव मार्गोपदेशः कर्तव्यो न विद्यान्तरे ।
विद्यान्तरे च श्रूयते ।
तस्मान्न सर्वोपासनासु पथिप्राप्तिरिति प्राप्तम् ।
एवं प्राप्ते उच्यतेऽये चेमेऽरण्ये श्रद्धातप इत्युपासतेऽइति न श्रद्धातपोमात्रस्य पथिप्राप्तिमाहापि तु विद्यया तदारोहन्तीत्यत्र नाविद्वांसस्तपस्विन इति केवलस्य तपसः श्रद्धायाश्च तत्प्राप्तिप्रतिषेधाद्विद्यासहिते श्रद्धातपसी तत्प्राप्युपायतया वदन् विद्यान्तरीलानामपि पञ्चाग्निविद्याविद्भिः समानमार्गतां दर्शयति ।
तथान्यत्रापि पञ्चाग्निविद्याधिकारेऽभिधीयतेऽय एवमेताद्विदुर्ये चामी अरण्ये श्रद्धां सत्यमुपासतेऽइति ।
सत्यशब्दस्य ब्रह्मण्येवानपेक्षप्रवृत्तित्वात् ।
तदेव हि सत्यमन्यस्य मिथ्यात्वेन कथञ्चिदापेक्षिकसत्यत्वात् ।
पञ्चाग्निविदां चेत्थंवित्तयैवोपात्तत्वात् ।
विद्यासाहचर्याच्च विद्यान्तरपरायणानामेवेदमुपादानं न्याय्यम् ।
मार्गद्वयभ्रष्टानां चाधोगतिश्रवणात् ।
तत्रापि च योग्यतया देवयानस्यैवेहाध्वनोऽभिसंबन्धः ।
एतदुक्तं भवतिभवेत्प्रकरणं नियामकं यद्यनियमप्रतिपादकं वाक्यं श्रौतं स्मार्तं वा न स्यादस्ति तु तत्तस्य च प्रकरणाद्बलीयस्त्वम् ।
तस्मादनियमो विद्यान्तरेष्वपि सगुणेषु देवयानः पन्था असकृन्मार्गोपदेशस्य च प्रयोजनं वर्णितं भाष्यकृतेति ॥३१॥



____________________________________________________________________________________________


३,३.१९.३२

यावदधिकारमवस्थितिराधिकारिकाणाम् । ब्रह्मसूत्र ३,३.३२ ।
सगुणायां विद्यायां चिन्तां कृत्वा निर्गुणायां चिन्तयति ।
निर्गुणायां विद्यायां नापवर्गः पलं भवितुमर्हति ।
श्रुतिस्मृतीतिहासपुराणेषु विदुषामप्यपान्तरतमःप्रभृतीनां तत्तद्देहपरिग्रहपरित्यागौ श्रूयेते ।
तदपवर्गफलत्वे नोपपद्यते ।
अपवृक्तस्य तदनुपपत्तेः ।
उपपत्तौ वा तल्लक्षणायोगात् ।
अपुनरावृत्तिर्हि तल्लक्षणम् ।
तेन सत्यामपि विद्यायां तदनुपपत्तेर्न मोक्षः ।
फलं, विद्यायां विभूतयस्तु तास्तास्तस्याः फलम् ।
अपुनरावृत्तिश्रुतिः पुनस्तत्प्रशंसार्थेति मन्यते ।
नचऽतावदेवास्य चिरं यावन्न विमोक्ष्येऽथ संपत्स्येऽइति श्रुतेर्विदुषो देहपातावधिप्रतीक्षावद्वसिष्ठादीनामपि प्रारब्धकर्मफलोपभोगप्रतीक्षेति सांप्रतम् ।
येन हि कर्मणा वसिष्ठादीनामारब्धं शरीरं तत्प्रतीक्षा स्यात् ।
तथाच न शरीरान्तरं ते गृह्णीयुः ।
नच तावदेव चिरमित्येतदप्यार्जवेन घटते ।
समर्थहेतुसंनिधौ क्षेपायोगात् ।
तस्मादेतदपि विद्यास्तुत्यैव गमयितव्यम् ।
तस्मान्नापवर्गो विद्याफलम् ।
तथा चापवर्गाक्षेपेण पूर्वः पक्षः ।
अत्र च पाक्षिकं मोक्षहेतुत्वमित्यापाततः, अहेतुत्वं वेति तु पूर्वपक्षतत्त्वम् ।
राद्धान्तस्तुविद्याकर्मस्वनुष्ठानतोषितेश्वरचोदितम् ।
अधिकारं समाप्यैते प्रतिशन्ति परं पदम् ॥
निर्गुणायां विद्यायामपवर्गलक्षणं श्रूयमाणं न स्तुतिमात्रतया व्याख्यायमुचितम् ।
पौर्वापर्यपर्यालोचने भूयसीनां श्रुतीनामत्रैव तात्पर्यावधारणात् ।
नच यत्र तात्पर्यं तदन्यथयितुं युक्तम् ।
उक्तं हिऽन विधौ परः शब्दार्थऽइति ।
नच विदुषामपान्तरतमःप्रभृतीनां तत्तद्देहसंतारात्सत्यामपि ब्रह्मविद्यायामनिर्मोक्षान्न ब्रह्मविद्या मोक्षस्य हेतुरिति साम्प्रतम् ।
हेतोरपि सति प्रतिबन्धे कार्यानुपजनो न हेतुभावमपकारोति ।
नहि वृन्तफलसंयोगप्रतिबद्धं गुरुत्वं न पतनमजीजनदिति प्रतिबन्धापगमे तत्कुर्वन्न तद्धेतुः ।
नच न सेतुप्रतिबन्धानामपां निम्नदेशानभिसर्पणमिति सेतुभेदे न निम्नमभिसर्पन्ति ।
तद्वदिहापि विद्याकर्माराधनावर्जितेश्वरविहिताधिकारपदप्रतिबद्धा ब्रह्मविद्या यद्यपि न मुक्तिं दत्तवती तथापि तत्परिसमाप्तौ प्रतिबन्धविगमे दास्यति ।
यथा हि प्रारब्धविपाकस्य कर्मणः प्रक्षयं प्रतीक्षमाणश्चरमदेहसमुत्पन्नब्रह्मसाक्षात्कारोऽपि ध्रियतेऽथ तत्प्रक्षयान्मोक्षं प्राप्नोति ।
एवं प्रारब्धाधिकारलक्षणफलविद्याकर्मा पुरुषो वसिष्ठादिर्विद्वानपि तत्क्षयं प्रतीक्षमाणो युगुपत्क्रमेण वा तत्तद्देहपरिग्रहपरित्यागौ कुर्वन्मुक्तोऽप्यनाभोगात्मिकया प्रख्यया सांसारिक अव विहरति ।
तदिदमुक्तम्
सकृत्प्रवृत्तमेव हि ते कर्माशयमधिकारफलदानायेति ।
प्रारब्धविपाकानि तु कर्माणि वर्जयित्वा व्यपगतानिज्ञानेनैवातिवाहितानि ।
न चैते जातिस्मरा इति ।
यो हि परवशो देहं परित्याज्यते देहान्तरं च नीतः पूर्वजन्मानुभूतस्य स्मरति स जन्मवाञ्जातिस्मरश्च ।
गृहादिव गृहान्तरे स्वेच्छया कायान्तरं संचरमाणो न जातिस्मर आख्यायते ।
व्युद्य विवादं कृत्वा ।
व्यतिरेकमाह
यदि ह्युपयुक्ते सकृत्प्रवृत्ते प्रारब्धविपाके कर्मणि कर्मान्तरमप्रारब्धविपाकमिति ।
स्येदेतत् ।
विद्ययाविद्यादिक्लेशनिवृत्तौ नावश्यं निःशेषस्य कर्माशयस्य निवृत्तिनरनादिभवपरम्पराहितस्यानियतविपाककालस्यासङ्ख्येयत्वात्कार्मशयस्येत्यत आह
न चाविद्यादिक्लेशदाहे सतीते ।
नहिसमाने विनाशहेतौ कस्यचिद्विनाशो नापरस्येति शक्यं वदितुम् ।
तत्किमिदानीं प्रवृत्तफलमपि कर्म विनश्येत् ।
तथाच न विदुषो वसिष्ठादेर्देहधारणेत्यत आह
प्रवृत्तफलस्य तु कर्मण इति ।
तस्य तावदेव चिरमिति श्रुतिप्रामाण्यादनागतफलमेव कर्म क्षीयते न प्रवृत्तफलमित्यवगम्यते ।
अपिच नाधिकारवतां सर्वेषामृषीणामात्मतत्त्वज्ञानं तेनाव्यापकोऽप्ययं पर्वपक्ष इत्याह
ज्ञानान्तरेषु चेति ।
तत्किन्तेषामनिर्मोक्ष एव, नेत्याह
ते पश्चादैश्वर्यक्षय इति ।
निर्विण्णा विरक्ताः ।
प्रतिसंचरः प्रलयः ।
अपिच स्वर्गादावनुभवपथमनारोहति शब्दैकसमधिगम्ये विचिकित्सा स्यादपि मन्दधियामामुष्मिकफलत्वं प्रति ।
यथा चार्थवादःऽको हि तद्वेद यदमुष्मिंल्लोकेऽस्ति वा न वेतिऽ ।
अद्वैतज्ञानफलत्वे मोक्षस्यानुभवसिद्धे विचिकित्सागन्धोऽपि नास्तीत्याह
प्रत्यक्षफलत्वाच्चेति ।
अद्वैततत्त्वसाक्षात्कारो हि अविद्यासमारोपितं प्रपञ्चं समूलघातं निघ्नन्घोरं संसाराङ्गारपरितापमुपशमयति पुरुषस्येत्यनुभवादपि स्फुटमुपपतिद्रढिम्नश्च श्रुतिर्दर्शिता ।
तच्चानुभवाद्वामदेवादीनां सिद्धम् ।
ननु तत्त्वमसि वर्तस इति वाक्यं कथमनुभवमेव द्योतयतीत्यत आह
नहि तत्त्वमसीत्यस्येति ।
वर्तमानापदेशस्य भविष्यदर्थता मृतशब्दाध्याहारश्चाशक्य इत्यर्थः ॥३२॥


____________________________________________________________________________________________


३,३.२०.३३

अक्षरधियां त्ववरोधः सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम् । ब्रह्मसूत्र ३,३.३३ ।

अक्षगविषयाणां प्रतिषेधधियां सर्ववेदवर्तिनीनामवरोध उपसंहारः प्रतिषेधसामान्यादक्षरस्य तद्भावप्रत्यभिज्ञानात् ।
आनन्दादयः प्रधानस्येत्यत्रायमर्थो यद्यपि भावरूपेषु विशेषणेषु सिद्धस्तन्त्र्यायतया च निषेधरूपेष्विति सिद्ध एव ।
तथापि तस्यैवैष प्रपञ्चोऽवगन्तव्यः ।
निदर्शनम् ।
जामदग्न्येऽहीन इति ।
यद्यपि शाबरे दत्तोत्तरमत्रोदाहरणान्तरं तथापि

तुल्यन्यायतयैदपि शक्यमुदाहर्तुमित्युदाहरणान्तरं दर्शितम् ।
तत्र शाबरमुदाहरणमस्त्याधानं यजुर्वेदविहितम्ऽय एवं विद्वानग्निमाधत्तऽइति ।
तदङ्गत्वेन यजुर्वेद एवऽय एवं विद्वान्वारवन्तीयं गायति य एवं विद्वान्यज्ञायज्ञीयं गायति य एवं विद्वान्वामदेव्यं गायतिऽइति विहितम् ।
एतानि च

सामानि सामवेदेषूत्पन्नानि ।
तत्रेदं संदिह्यतेकिमेतानि यत्रोत्पद्यन्ते तत्रत्यैनेवोच्चैष्ट्वेन स्वरेणाधाने प्रयोक्तव्यान्यथ यत्र विनियुज्यन्ते तत्रत्येनोपांशुत्वेन स्वरेणऽउच्चैः साम्नोपांशु यजुषा इति श्रुतेः ।
किं तावत्प्राप्तम् ।
उत्पत्तिविधिनैवापेक्षितोपायत्वात्मना विहितत्वादङ्गनां तस्यैव प्राथम्यात्तन्निबन्धन एवोच्चैःस्वरे प्राप्त उच्यते
गुणमुख्यव्यतिक्रमे तदर्थत्वान्मुख्येन वेदसंयोगः ।
अयमर्थःुत्पत्तिविधिर्गुणो विनियोगविधिस्तु प्रधानं, तदनयोर्व्यातिक्रमे विरोधे उत्पत्तिविध्यालोचनेनोच्चैष्ट्वं विनियोगविध्यालोचनेन चोपांशुत्वं सोऽयं विरोधो व्यतिक्रमस्तस्मिन्वयतिक्रमे मुख्येन प्रधानेन नियुज्यमानत्वरूपेण तस्य वारवन्तीयादेर्वेदसंयोगो ग्राह्यो नोत्पद्यमानत्वेन गुणेन ।
कुतः, विनियुज्यमानत्वस्य मुख्यत्वेनोत्पद्यमानत्वस्य गुणत्वेन तदर्थत्वाद्विनियुज्यमानार्थत्वादुत्पद्यमानत्वस्य ।
एतदुक्तं भवतियद्यप्युत्पत्तिविधावपि चातूरूप्यमस्ति विधित्वस्याविशेषात् ।
तन्मात्रनान्तरीयकत्वाच्च चातूरूप्यस्य ।
तथापि वाक्यानामैदंपर्यं भिद्यते ।
एकस्यैव विधेरुत्पत्तिविनियोगाधिकारप्रयोगरूपेषु चतुर्षु मध्ये किञ्चिदेव रूपं केनचिद्वाक्येनोल्लिख्यते यदन्यतोऽप्राप्तम् ।
तत्र यद्यपि सामवेदे सामानि विहितानि तथापि तद्वाक्यानां तदुत्पत्तिमात्रपरता विनियोगस्य याजुर्वैदिकैरेव वाक्यै प्राप्तत्वात् ।
तथाचोत्पत्तिवाक्येभ्यः समीहितार्थाप्रतिलम्भाद्विनियोगवाक्येभ्यश्च तदवगतेस्तदर्थान्येवोत्पत्तिवाक्यानि भवन्तीति तत्र येन वाक्येन विनियुज्यन्ते तस्यैव स्वरस्य साधनत्वंसंस्पर्शिनो ग्रहणं न तु रूपमात्रस्पर्शिन इति ।
भाष्यकारीयमप्युदाहरणमेवमेव योजयितव्यम् ।
उद्रातृवेदोत्पन्नानां मन्त्रणामुद्गात्रा प्रयोगे प्राप्ते

अध्वर्युप्रदानकेऽपि पुरोडाशे विनियुक्तत्वात्प्रधानानुरोधेनाध्वर्युणैव तेषां प्रयोगो नोद्गात्रेति दार्ष्टान्तिके योजयति
एवमिहापीति ॥३३॥


____________________________________________________________________________________________


३,३.२०.३४

इयदामननात् । ब्रह्मसूत्र ३,३.३४ ।
ऽगुहां प्रविष्टावात्मानौऽइत्यत्र सिद्धोऽप्यर्थः प्रपञ्च्यते ।
एकत्र भोक्त्रभोक्त्रोर्वेद्यता, अन्यत्र भोक्त्रोरेवेति वेद्यभेदाद्विद्याभेद इति ।
नच सृष्टिरुपदधातीतिवत्पिबदपिबल्लक्षणापरं पिबन्ताविति नेतुमुचितम् ।
सति मुख्यार्थसंभवे तदाश्रयणायोगात् ।
नच वाक्यशेषानुरोधात्तदाश्रयणम् ।
संदेहे हि वाक्यशेषान्निर्णयो नच मुख्यलाक्षणिकग्रहणविषयो विषयः संभवति, तुल्यबलत्वाभावात् ।
प्रकरणस्य च ततो बलीयसा वाक्येन बाधनात् ।
तस्माद्वेद्यभेदाद्विद्याभेद इति प्राप्त उच्यतेद्वासुपर्णेत्यत्र ऋतं पिबन्तावित्यत्र च द्वित्वसंख्योत्पत्तौ प्रतीयते तेन समानतौत्सर्गिकी ।
पिबन्ताविति द्वयोः पिबन्ता या सा बाधनीया, सा चोपक्रमोपसंहारानुरोधेन न द्वयोरपि तु छत्रिन्यायेन लाक्षाणिकी व्याख्येया ।
येन ह्युपक्रम्यते येन चोपसंस्थियते तदनुरोधेन मध्यं ज्ञेयम् ।
यथा जामित्वदोषसंकीर्तनोपक्रमे तत्प्रतिसमाधानोपसंहारे च संदर्भे मध्यपातिनो विष्णुरूपांशु यष्टव्योऽजामित्वायेत्यादयः पृथग्विधित्वमलभमाना विधित्वमविवक्षित्वार्थवादतया नीतास्तत्कस्य हेतोरेकवाक्यता हि साधीयसी वाक्यभेदादिति ।
तथेहापि तदनुरोधेन पिबदपिबत्समूहपरं लक्षणीयं पिबन्तावित्यनेन ।
तथाच वेद्याभेदाद्विद्याभेद इति ।
अपिच त्रिष्वप्येतेषु वेदान्तेषु प्रकरणत्रयेऽपि पौर्वापर्यपर्यालोचनया परमात्मविद्यैवावगम्यते ।
यद्येवं कथं तर्हि जीवोपादानमस्त्वित्यत आह
तादात्म्यविवक्षयेति ।
नास्यां जीवः प्रतिपाद्यते किन्तु परमात्मनोऽभेदं जीवस्य दर्शयितुमसावनूद्यते ।
परमात्मविद्यायाश्चाभेदविषयत्वान्न भेदाभेदविचारावतारः ।
तस्मादैकविद्यमत्र सिद्धम् ॥३४॥



____________________________________________________________________________________________


३,३.२२.३५

अन्तरा भूतग्रामवत्स्वात्मनः । ब्रह्मसूत्र ३,३.३५ ।
कौषीतकेयकहोलचाक्रायणोषस्तप्रश्नोपक्रमयोर्विद्योर्नैरन्तर्येणाम्नातयोः किमस्ति भेदो न वेति विशये भेद एवेति भ्रूमः ।
कुतःयद्यप्युभयत्र प्रश्नोत्तरयोरभेदः प्रतीयते, तथापि तत्स्यैवैकस्य पुनः श्रुतेरविशेषादानर्थक्यप्रसङ्गाद्यजत्यभ्यासवद्भेदः प्राप्तः ।
न चैकस्यैव ताण्डिनां नवकृत्व उपदेशेऽपि यथा भेदो न भवतिऽस आत्मा तत्त्वमसि श्वेतकेतोऽइत्यत्र तथेहाप्यभेद इति युक्तम् ।
भूय एव मा भगवान् विज्ञापयतु, इति हि तत्र श्रूयते तेनाभेदो युज्यते ।
न चेह तथास्ति ।
तेन यद्यपीह वेद्याभेदोऽवगम्यते

तथाप्येकत्र तस्यैवाशनायादिमात्रात्ययोपाधेरुपासनादेकत्र च कार्यकरणविरहोपाधेरुपासनाद्विद्याभेद एवेति प्राप्ते प्रत्युच्यते ।
नैतदुपासनाविधानपरमपि तु वस्तुस्वरूपप्रतिपादनपरं प्रश्नप्रतिवचनालोचनेनोपलभ्यते ।
किमतो यद्येवम् ।
एतदतो भवतिविधेरप्राप्तप्रापणार्थत्वात्प्राप्तावनुपपत्तिः ।
वस्तुस्वरूपं तु पुनःपुनरुच्यमानमपि न दोषमावहति शतकृत्वोऽपि हि पथ्यं वदन्त्याप्ताः ।
विशेषतस्तु वेदः पितृभ्यामप्यभ्यर्हितः ।
नच सर्वथा पौनरुक्त्यम् ।
एकत्राशनायाद्यत्ययादन्यत्र च कार्यकारणप्रविलयात् ।
तस्मादेका विद्या प्रत्यभिज्ञानात् ।
उभाभ्यामपि विद्याभ्यां भिन्न आत्मा प्रतिपाद्यते इति यो मन्यते पूर्वपक्षैकदेशी तं प्रति सर्वान्तरत्वविरोधो दर्शितः ॥३५॥



____________________________________________________________________________________________


३,३.२२.३६

अन्यथा भेदानुपपत्तिरिति चेन्नोपदेशान्तरवत् । ब्रह्मसूत्र ३,३.३६ ।
अस्य तु पूर्वपक्षतत्त्वाभिप्रायो दर्शितः ।
सुगममन्यत् ॥३६॥



____________________________________________________________________________________________


३,३.२३.३७

व्यतिहारो विशिंषन्ति हीतरवत् । ब्रह्मसूत्र ३,३.३७ ।
उत्कृष्टस्य निकृष्टरूपापत्तेर्नोभयत्रोभयरूपानुचिन्तनम् ।
अपि तु निकृष्टे जीव उत्कृष्टरूपाभेदचिन्तनम् ।
एवं हि निकृष्ट उत्कृष्टो भवतीति प्राप्तम् ।
एवं प्राप्त उच्यतेइतरेतरानुवादेनेतरेतररूपविधानादुभयत्राभयचिन्तनं विधीयते ।
इतरथा तु योऽहं सोऽसावित्येतावदेवोच्येत ।
जीवात्मानमनूद्येश्वरत्वमस्य विधीयेत ।
न त्वीश्वरस्य जीवात्मत्वं योऽसौ सोऽहमिति ।
यथा तत्त्वमसीत्यत्र ।
तस्मादुभयरूपमुभयत्राध्यानायोपदिश्यते ।
नन्वेवमुत्कृष्टस्य निकृष्टत्वप्रसङ्ग इत्युक्तं तत्किमिदानीं सगुणे ब्रह्मण्युपास्यमानेऽस्य वस्तुतो निर्गुणस्य निकृष्टता भवति ।
कस्मैचित्फलाय तथा ध्यानमात्रं विधीयते न त्वस्य निकृष्टतामापादयतीति चेदिहापि व्यतिहारानुचिन्तनमात्रमुपदिश्यते फलाय न तु निकृष्टता भवत्युत्कृष्टस्य ।
अन्वाचयशिष्टं तु तादात्म्यदार्ढ्यं भवन्नोपेक्षामहे ।
सत्यकामादिगुणोपदेशैव तद्गुणेश्वरसिद्धिरिति सिद्धमुभयत्रोभयात्मत्वाध्यानमिति ॥३७॥



____________________________________________________________________________________________


३,३.२४.३८

सैव हि सत्यादयः । ब्रह्मसूत्र ३,३.३८ ।
तद्वै तदेतदेव तदास सत्यमेव स यो हैतन्महद्यक्षं प्रथमजं वेदं सत्यं ब्रह्मेति जयतीमांल्लोकाञ्जित इत्यसावसद्य एवमेतन्महद्यक्षं प्रथमजं वेद सत्यं ब्रह्मेति सत्यं ह्येव ब्रह्म ।
पूर्वोक्तस्य हृदयाख्यस्य ब्रह्मणः सत्यमित्युपासनमनेन संदर्भेण विधीयते ।
तदिति हृदयाख्यं ब्रह्मैकेन तदा परामृशति ।
एतदेवेति वक्ष्यमाणं प्रकारान्तरमस्य परामृशति ।
तत्तादाग्रे आस बभूव ।

किं तदित्यत आहसत्यमेव ।
सच्च मूर्तं त्यच्चामूर्तं च सत्त्यम् ।
तदुपासकस्य फलमाहस यो हैतमिति ।
यः प्रथमजं यक्षं पूज्यं वेद ।
कथं वेदेत्यत आहसत्यं ब्रह्मेतीति ।
स जयतीमान् लोकान् ।
किञ्च जितो वशीकृत इनुशब्द इत्थंशब्दस्यार्थे वर्तते ।
विजेतव्यत्वेन बुद्धिसंनिहितं शत्रुं परामृशतिअसाविति ।
असद्भवेन्नश्येत् ।
उक्तमर्थं निगमयतिय एवमेतदिति ।
एवं विद्वान्कस्माज्जयतीत्यत आहसत्यमेव यस्माद्ब्रह्मेति ।
अतस्तदुपासनात्फलोत्पादोऽपि सत्य इत्यर्थः ।
तद्यत्तत्सत्यं किमसौ ।
अत्रापि तत्पदाभ्यां रूपप्रकारौ परामृष्टौ ।
कस्मिंन्नालम्बने तदुपासनीयमित्यत उत्तरम्स आदित्यो य एष इत्यादिना तस्योपनिषदहरहमिति ।
हन्ति पाप्मानं जहाति च य एवं वेदेत्यन्तेन ।
उपनिषत्रहस्यं नाम ।
तस्य निर्वचनंहन्ति पाप्मानं जहाति चेति ।
हन्तेर्जहातेर्वा रूपमेतत् ।
तथाच निर्वचनं कुर्वन्फलं पापहानिमाहेति ।
तमिमं विषयमाह भाष्यकारः
यो वै हैतमिति ।
सनामाक्षरोपासनामिति ।
तथाच श्रुतिःऽतदेतदक्षरं सत्यमिति स इत्येकमक्षरं तीत्येकमक्षरं यमित्येकमक्षरं प्रथमोत्तमे अक्षरे सत्यं मध्यतोऽनृतं तदेतदनृमुभयतः सत्येन परिगृहीतं सत्यभूयमेव भवति नैवंविद्वांसमनृतं हिनस्तिऽइति ।
तीतीकारानुबन्ध उच्चारणार्थः ।
निरनुबन्धस्तकारो द्रष्टव्यः ।
अत्र हि प्रथमोत्तमे अक्षरे सत्यं मृत्युरूपाभावात् ।
मध्यतो मध्येऽनृतमनृतं हि मृत्युः ।
मृत्य्वनृतयोस्तकारसाम्यात् ।
तदेतदनृतं मृत्युरूपमुभयतः सत्येन परिगृहीतम् ।
अन्तर्भावितं सत्यरूपाभ्याम् ।
अतोऽकिञ्चित्करं तत्सत्यभूयमेव सत्यबाहुल्यमेव भवति ।
शेषमतिरोहितार्थम् ।
सेयं सत्यविद्यायाः सनामाक्षरोपासनता ।
यद्यपि तद्यत्सत्यमिति

प्रकृतानुकर्षेणाभेदः प्रतीयते तथापि फलभेदेन भेदः साध्यभेदेनेव नित्यकाम्यविषयोर्दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत यावज्जीवं दर्शपूर्णमासाभ्यां यजेतेति शास्त्रयोः

सत्यप्यनुबन्धाभेदे भेद इति प्राप्ते प्रत्युच्यतेएकैवेयं विद्या तत्सत्यमिति प्रकृतपरामर्शादभेदेन प्रत्यभिज्ञानात् ।
नच फलभेदः ।
तस्योपनिषदहरहमिति तस्यैव यदङ्गान्तरं रहस्यनाम्नोपासनं तत्प्रशंसार्थोर्ऽथवादोऽयं न फलविधिः ।
यदि पुनर्विद्याविधावधिकारश्रवणाभावात्तत्कल्पनायामार्थवादिकं फलं कल्प्येत ततो जातेष्टाविवागृह्यमाणविशेषतया

संवलिताधिकारकल्पना ततश्च समस्तार्थवादिकफलयुक्तमेकमेवोपासनमिति सिद्धम् ।
परकीयं व्याख्यानमुपन्यस्यति
केचित्पुनरिति ।
वाजसनेयकमप्यक्ष्यादित्यविषयं छान्दोग्यमपीत्युपास्याभेदादभेदः ।
ततश्च वाजसनेयोक्तानां सत्यादीनामुपसंहार इत्यत्रार्थे सैव हि सत्यादय इति सूत्रं व्याख्यातं तदेतद्दूषयति
तन्न साध्विति ।
ज्योतिष्टोमकर्मसंबन्धनीयमुद्गीथव्यपाश्रयेति ।
अनुबन्धाभेदेऽपि साध्यभेदाद्भेद इति विद्याभेदादनुपसंहार इति ॥३८॥


____________________________________________________________________________________________


३,३.२५.३९

कामादीतरत्र तत्र चायतनादिभ्यः । ब्रह्मसूत्र ३,३.३९ ।
छान्दोग्यवाजसनेयविद्ययोर्यद्यपि सगुणनिर्गुणत्वेन भेदः ।
तथाहि छान्दोग्येऽअथ य इहात्मानमनुविद्य व्रजन्ति एतांश्च सत्यान्कामान्ऽइत्यात्मवत्कामानामपि वेद्यत्वं श्रूयते ।
वाजसनेये तु निर्गुणमेव परं ब्रह्मोपदिश्यतेऽविमोक्षाय ब्रूहिऽइति तथापि तयोः परस्परगुणोपसंहारः ।
निर्गुणायां तावद्विद्यायां ब्रह्मस्तुत्यर्थमेव सगुणविद्यासंबन्धिगुणोपसंहारः संभवी ।
सगुणायां च यद्यप्याध्यानाय न वशित्वादिगुणोपसंहारसंभवः ।
नहि निर्गुणायां

विद्यायामाध्यातव्यत्वेनैते चोदिता येनात्राध्येयत्वेन संबध्येरन्नपि तु सत्यकामादिगुणनान्तरीयकत्वेनैतेषां प्राप्तिरित्युपसंहार उच्यते ।
एवं व्यवस्थित एष संक्षेपोऽधिकरणार्थस्यसाम्यबाहुल्येऽप्येकत्राकाशाधारत्वस्यापरत्र चाकाशतादात्म्यस्य श्रवणाद्भेदे विद्ययोर्न परस्परगुणोपसंहार इति पूर्वपक्षः ।
राद्धान्तस्तु सर्वसाम्यमेवोभयत्राप्यात्मोपदेशादाकाशशब्देनैकत्रात्मोक्तोऽन्यत्र च दहराकाशाधारः स एवोक्त इति सर्वसाम्याद्ब्रह्मण्युभयत्रापि सर्वगुणोपसंहारः ।
सगुणनिर्गुणत्वेन तु विद्याभेदेऽपि गुणोपसंहारव्यवस्था दर्शिता ।
तस्मात्सर्वमवदातम् ॥३९॥



____________________________________________________________________________________________


३,३.२६.४०

आदरादलोपः । ब्रह्मसूत्र ३,३.४० ।
अस्ति वैश्वानरविद्यायां तदुपासकस्यातिथिभ्यः पूर्वभोजनम् ।
तेन यद्यपीयमुपासनागोचरा न चिन्ता साक्षात्तथापि तत्संबद्धप्रथमभोजनसंबन्धादस्ति संगतिः ।
विचारगोचरं दर्शयति
छान्दोग्ये वैश्वानरविद्यां प्रकृत्येति ।
विचारप्रयोजकं संदेहमाह
किं भोजनलोप इति ।
अत्र पूर्वपक्षाभावेन संशयमाक्षिपति
तद्यद्भक्तमिति भक्तागमनसंयोगश्रवणादिति ।
उक्तं खल्वेतत्प्रथम एव तन्त्रेऽपदकर्माप्रयोजकं नयनस्य परार्थत्वात्ऽइत्यनेन ।
यथा सोमक्रयार्थानीयमानैकहायनीसप्तमपदपांशुग्रहणमप्रयोजकं न पुनरेकहायन्या नयनं प्रयोजयति ।
तत्कस्य हेतोः ।
सोमक्रयेण तन्नयनस्य प्रयुक्तत्वात्तदुपजीवित्वात्सप्तमपदपांशुग्रहणस्येति ।
तथेहापि भोजनार्थभक्तागमनसंयोगात्प्राणाहुतेर्भोजनाभावे भक्तं प्रत्यप्रयोजकत्वमिति नास्ति पूर्वपक्ष

इत्यपूर्वपक्षमिदमधिकरणमित्यर्थः ।
पूर्वपक्षमाक्षिप्य समाधत्ते
एवं प्राप्ते, न लुप्येतेति तावदाह ।
तावच्छब्दः सिद्धान्तशङ्कानिराकरणार्थः ।
पृच्छति
कस्मात् ।
उत्तरमादरात् ।
तदेव स्फोरयति
तथाहीति ।
जाबाला हि श्रावयन्तिऽपूर्वोऽतिथिभ्योऽश्नीयात्ऽइति ।
अश्नीयादिति च प्राणाग्निहोत्रप्रधानं वचः ।
ऽयथा हि श्रुधिता बाला मातरं पर्युपासते ।
एवं सर्वाणि भूतान्यग्निहोत्रमुपासतेऽइति वचनादग्निहोत्रस्यातिथीन्भूतानि प्रत्युपजीव्यत्वेन श्रवणात्तदेकवाक्यतयेहापि पूर्वोऽतिथिभ्योऽश्नीयादिति प्राणाहुतिप्रधानं लक्ष्यते ।
तदेवं सतिऽयथाह वै स्वयमहुत्वाग्निहोत्रं परस्य जुहुयादित्येवं तत्ऽइत्यतिथिभोजनस्य प्राथम्यं निन्दित्वास्वामिभोजनं स्वामिनः प्राणाग्निहोत्रं प्रथमं प्रापयन्ती प्राणाग्निहोत्रादरं करोति ।
नन्वाथ्रियतामेषा श्रुतिः प्राणहुतिं किन्तु स्वामिभोजनपक्ष एव नाभोजनेऽपीत्यत आह
या हि न प्राथम्यलोपं सहते नतरां सा प्राथम्यवतोऽग्निहोत्रस्य लोपं सहेतेति मन्यते ।
ईदृशः खल्वयमादरः प्राणाग्निहोत्रस्य यदतिथितिभोजनोत्तरकालविहितं स्वामिभोजनं समयादपकृष्यातिथिभोजनस्य पुरस्ताद्विहितम् ।
तद्यदाग्निहोत्रस्य धर्मिणः प्राथम्यधर्मलोपमपि न सहते श्रुतिस्तदास्याः कैव कथा धर्मिलोपं सहत इत्यर्थः ।
पूर्वपक्षाक्षेपमनुभाष्य दूषयति
ननु भोजनार्था इति ।
यथा हि कौण्डपायिनामयनगते अग्निहोत्रे प्रकरणान्तरान्नैयमिकाग्निहोत्राद्भिन्ने द्रव्यदेवतारूपधर्मान्तररहिततया तदाकाङ्क्षे साध्यसादृश्येन नैयमिकाग्निहोत्रसमाननामतया तद्धर्मातिदेशेन रूपधर्मान्तरप्राप्तिरेवं प्राणाग्निहोत्रेऽपि

नैयमिकाग्निहोत्रगतपयःप्रभृतिप्राप्तौ भोजनागतभक्तद्रव्यता विधीयते ।
न चैतावता भोजनस्य प्रयोजकत्वम् ।
उक्तमेतद्यथा भोजनकालातिक्रमात्प्राणाग्निहोत्रस्य न भोजनप्रयुक्तत्वमिति ।
न चैकदेशद्रव्यतयोत्तरार्धात्स्विष्टकृते समवद्यतीतिवदप्रयोजकत्वमेकदेशद्रव्यसाधनस्यापि

प्रयोजकत्वात् ।
यथा जाघन्या पत्नीः संयाजयन्तीति पत्नीसंयाजानां जाघन्येकदेशद्रव्यजुषां जाघनीप्रयोजकत्वम् ।
स हि नामाप्रयोजको भवति यस्य प्रयोजकग्रहणमन्तरेणार्थो न ज्ञायते ।
यथा न प्रयोजकपुरोडाशग्रहणमन्तरेणोत्तरार्धं ज्ञातुं शक्यम् ।
शक्यं तु जाघनीवद्भक्तं ज्ञातुम् ।
तस्माद्यथा जाघन्यन्तरेणापि पशूपादानं परप्रयुक्तशूपजीवनं वा खण्डशो मांसविक्रयिणो मुण्डादिवदाकृतिरूपादीयते ।
एवं भक्तमपि शक्यमुपादातुम् ।
तस्मान्न भोजनस्य लोपे प्राणाग्निहोत्रलोप इति मन्यते पूर्वपक्षी ।
अद्भिरिति तु प्रतिनिध्युपादानमावश्यकत्वासूचनार्थं भाष्यकारस्य ॥४०॥



____________________________________________________________________________________________


३,३.२६.४१

उपस्थितेऽतस्तद्वचनात् । ब्रह्मसूत्र ३,३.४१ ।
तद्धोमीयमिति हि वचन किमपि संनिहितद्रव्यं होमे विनियुङ्क्ते तदः सर्वनाम्नः संनिहितावगममन्तरेणाभिधानापर्यवसानात्तदनेन स्वाभिधानपर्यवसानाय तद्यद्भक्तं प्रथममागच्छेदिति संनिहितमपेक्ष्य निर्वर्तितव्यम् ।
तच्च संनिहितं भक्तं भोजनार्थमित्युत्तरार्धात्स्विष्टकृते समवद्यतीतिवन्न भक्तं वापो वा द्रव्यान्तरं वा प्रयोक्तुमर्हति ।
जाघन्यास्त्ववयवभेदस्य नाग्नीषोमीयपश्वधीनं निरूपणं स्वतन्त्रस्यापि तस्य सूनास्थस्य दर्शनात्तस्मादस्त्येतस्य जाघनीतो विशेषः ।
यच्चोक्तं चोदकप्राप्तद्रव्यबाधया भक्तद्रव्यविधानमिति ।
तदयुक्तम् ।
विध्युद्देशगतस्याग्निहोत्रनाम्नस्तथाभावादार्थवादिकस्य तु सिद्धं किञ्चित्सादृश्यमुपादाय स्तावकत्वेनोपपत्तेर्न तद्भावं विधातुमर्हतीत्याह
न चात्र प्राकृताग्निहोत्रधर्मप्राप्तिरिति ।
अपि

चाग्निहोत्रस्य चोदकतो धर्मप्राप्तावभ्युपगम्यमानायां बहुतरं प्राप्तं बाध्यते ।
नच संभवे बाधनिचयो न्याय्यः ।
कृष्णलचरौ खल्वगत्या प्राप्तबाधोऽभ्युपेयत इत्याहतद्धर्मप्राप्तौ चाभ्युपगम्यमानायामिति ।
चोदकाभावमुपोद्बलयति
अत एव चेहापीति ।
यत एवोक्तेन क्रमेणातिदेशाभावोऽत एव सांपादिकत्वमग्निहोत्राङ्गानाम् ।
तत्प्राप्तौ तु सांपादिकत्वं नोपपद्येत ।
कामिन्यां किल कुचवदनाद्यसता चक्रवाकनलिनादिरूपेण संपाद्यते ।
न तु नद्यां चक्रवाकादय एव चक्रवाकादिना संपाद्यन्ते ।
अतोऽप्यवगच्छामो न चोदकप्राप्तिरिति ।
यत्त्वादरदर्शनमिति तद्भोजनपक्षे प्राथम्यविधानार्थम् ।
यस्मिन्पक्षे धर्मानवलोपस्तस्मिन्धर्मिणोऽपि न त्वेतावता धर्मिनित्यता सिध्यतीति भावः ।
नन्वतिथिभोजनोत्तरकालता स्वामिभोजनस्य विहितेति कथमसौ बाध्यत इत्यत आह
नास्ति वचनस्यातिभारः ।
सामान्यशास्त्रबाधायां विशेषशास्त्रस्यातिभारो नास्तीत्यर्थः ॥४१॥



____________________________________________________________________________________________


३,३.२७.४२

तन्निर्धारणानियमस्तद्दृष्टेः पृथग्ध्यप्रतिबन्धः फलम् । ब्रह्मसूत्र ३,३.४२ ।
यथैवऽयस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं शृणोतिऽइत्येतदनारभ्याधीतमव्यभिचारितक्रतुसंबन्धं जुहूद्वारा क्रतुप्रयोगवचनगृहीतं क्रत्वर्थं सत्फलानपेक्षं सिद्धवर्तमानाप्रदेशप्रतीतं न रात्रिसत्रवत्फलतया स्वीकरोतीति ।
एवमव्यभिचारितकर्मसंबन्धोद्गीथगतमुपासनं कर्मप्रयोगवचनगृहीतं न सिद्धवर्तमानापदेशावगतसमस्तकामवापकत्वलक्षणफलकल्पनायालम् ।
परार्थत्वात् ।
तथाच पारमर्षं सूत्रम्ऽद्रव्यसंस्कारकर्मसु परार्थत्वात्फलश्रुतिरर्थवादः स्यात्ऽइति ।
एवञ्च सति क्रतौ पर्णतानियमवदुपासनानियम इति प्राप्ते उच्यतेयुक्तं पर्णतायां फलश्रुतेरर्थवादमात्रत्वम् ।
नहि पर्णतानाश्रया यागादिवत्फलसंबन्धमनुभवितुमर्हति ।
अव्यापाररूपत्वात् ।
व्यापारस्यैव च फलवत्त्वात् ।
यथाहुःऽउत्पत्तिमतःफलदर्शनात्ऽइति ।
नापि खादिरतायामिव प्रकृतक्रतुसंबद्धो यूप

आश्रयस्तदाश्रयः प्रकृतोऽस्ति अनारभ्याधीतत्वात्पर्णतायाः ।
तस्माद्वाक्येनैव जुहूसंबन्धद्वारेण पर्णतायाः क्रतुराश्रयो ज्ञापनीयः ।
न चातत्परं वाक्यं ज्ञापयितुमर्हतीति तत्र वाक्यतात्पर्यमवश्याश्रयणीयम् ।
तथाच तत्परं सन्न पर्णतायाः फलसंबन्धमपि गमयितुमर्हति ।
वाक्यभेदप्रसङ्गात् ।
उपासनानां तु व्यापारात्मत्वेन स्वत एव फलसंबन्धोपपत्तेः उद्गीथाद्याश्रयणं फले विधानं न विरुध्यते विशिष्टविधानात् ।
फलाय खलूद्गीथसाधनकमुपासनं विधीयमानं न वाक्यभेदमावहति ।
ननु कर्माङ्गोद्गीथसंस्कार उपासनं प्रोक्षणादिवद्वितीयाश्रुतेरुद्गीथमिति ।
तथा चाञ्जनादिष्विव संस्कारेषु फलश्रुतेरर्थवादत्वम् ।
मैवम् ।
नह्यत्रोद्गीथस्योपासनं किन्तु तदवयवस्योङ्कारस्येत्युक्तमधस्तात् ।
न चोङ्कारः कर्माङ्गमपि तु कर्माङ्गोद्गीथावयवः ।
न चानुपयोगमीप्सितम् ।
तस्मात्सक्तून्

जुहोतीतिवद्विनियोगभङ्गेनोङ्कारसाधानादुपासनात्फलमिति संबन्धः ।
तस्माद्यथा क्रत्वाश्रयाण्यपि गोदोहनादीनि फलसंयोगादनित्यानि एवमुद्गीथाद्युपासनानीति द्रष्टव्यम् ।
शेषमुक्तं भाष्ये ।
न चेदं फलश्रवणमर्थवादमात्रमिति ।
अर्थवादमात्रत्वेऽत्यन्तपरोक्षा वृत्तिर्यथा न तथा फलपरत्वे ।
न तु वर्तमानापदेशात्साक्षात्फलप्रतीतिः ।
अत एव प्रयाजादिषु नार्थवादाद्वर्तमानापदेशात्फलकल्पना ।
फलपरत्वे त्वस्य

न शक्यं प्रयाजादीनां पारार्थ्येनाफलत्वं वक्तुमिति ॥४२॥



____________________________________________________________________________________________


३,३.२८.४३

प्रदानवदेव तदुक्तम् । ब्रह्मसूत्र ३,३.४३ ।
तत्तच्छ्रुत्यर्थालोचनया वायुप्राणयोः स्वरूपाभेदे सिद्धे तदधीननिरूपणतया तद्विषयोपासनाप्यभिन्ना न चाध्यात्माधिदैवगुणभेदाद्भेदः ।
नहि गुणभेदे गुणवतो भेदः ।
नह्यग्निहोत्रं जुहोतीत्युत्पन्नस्याग्निहोत्रस्य तण्डुलादिगुणभेदाद्भेदो भवति ।
उत्पद्यमानकर्मसंयुक्तो हि गुणभेदः कर्मणो भेदकः ।
यथामिक्षावाजिनसंयुक्तयोः कर्मणोः ।
नोत्पन्नकर्मसंयुक्तः ।
अध्यात्माधिदैवोपदेशेषु चोत्पन्नोपासनासंयोगः ।
तथोपक्रमोपसंहारालोचनया विद्यैकत्वविनिश्चयादेकैव सकृत्प्रवृत्तिरिति पूर्वपक्षः ।
राद्धान्तस्तुसत्यं विद्यैकत्वं तथापि गुणभेदात्प्रवृत्तिभेदः ।
सायंप्रातःकालगुणभेदाद्यथैकस्मिन्नप्यग्निहोत्रे प्रवृत्तिभेदः एवमिहाप्यध्यात्माधिदैवगुणभेदादुपासनस्यैकस्यापि प्रवृत्तिभेद इति सिद्धम् ।
आध्यानार्थो ह्ययमध्यात्माधिदैवविभागोपदेश इति ।
अग्निहोत्रस्येवाध्यानस्य कृते तधितण्डुलादिवदयं पृथगुपदेशः ।
एतेन व्रतोपदेश इति ।
एतेन तत्त्वाभेदेन ।
एवकारश्च वागादिव्रतनिराकरणार्थः ।
नन्वेतस्यै देवतायै इति देवतामात्रं श्रूयते न तु वायुस्तत्कथं वायुप्राप्तिमाहेत्यत आह
देवतेत्यत्र वायुरिति ।
वायुः खल्वग्न्यादीन्संवृणुत इत्यग्न्यादीनपेक्ष्यानवच्छिन्नोऽग्न्यादयस्तुतेनैवावच्छिन्ना इति संवर्णगुणतया वायुरनवच्छिन्ना देवता ।
सर्वेषामभिगमयन्निति ।
मिलितानां श्रवणाविशेषादिन्द्रस्य देवताया अभेदात्रयाणामपि पुरोडाशानां सहप्रदानाशङ्कायामुत्पत्तिवाक्य एव राजाधिराजस्वराजगुणभेदाद्याज्यानुवाक्याव्यत्यासविधानाच्च यथान्यासमेव देवतापृथक्त्वात्प्रदानपृथक्त्वं भवति ।
सहप्रदाने हि व्यत्यासविधानमनुपपन्नम् ।
क्रमवति प्रदाने व्यत्यासविधिरर्थवान् ।
तथाविधस्यैव क्रमस्य विवक्षितत्वात् ।
सुगममन्यत् ॥४३॥


____________________________________________________________________________________________


३,३.२९.४४

लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि । ब्रह्मसूत्र ३,३.४४ ।

इह सिद्धान्तेनोपक्रम्य पूर्वपक्षयित्वा सिद्धान्तयति ।
तत्र

यद्यपि भूयांसि सन्ति लिङ्गानि मनश्चिदादीनां स्वातन्त्र्यसूचकानि तथापि न तानि स्वातन्त्र्येण स्वातन्त्र्यं प्रति प्रापकाणि ।
प्रमाणप्रापितं तु स्वातन्त्र्यमुपोद्बलयन्ति ।
न चात्रास्ति स्वातन्त्र्यप्रापकं प्रमाणम् ।
न चेदं सामर्थ्यलक्षणं लिङ्गं येनास्य स्वातन्त्र्येण प्रापकं भवेत् ।
तद्धि सामर्थ्यमाभिधानस्य वार्थस्य वा स्यात् ।
तथा पूषाद्यनुमन्त्रणमन्त्रस्य पूषानुमन्त्रणे, यथा वाऽपशुना यजेतऽइत्येकत्वसंख्याया अर्थस्य संख्येयावच्छेतसामर्थ्यम् ।
न चेदमन्यस्यार्थदर्शनलक्षणं लिङ्गं तथा ।
स्तुत्यर्थत्वेनास्य विध्युद्देशेनैकवाक्यतया विधिपरत्वात् ।
तस्मादसति सामर्थ्यलक्षणे विरोद्धरि प्रकरणप्रत्यूहं मनश्चिदादीनां क्रियाशेषतामवगमयति ।
नच ते हैते विद्याचित एवेत्यवधारणश्रुतिः क्रियानुप्रवेशं वारयति ।
येन श्रुतिविरोधे सति न प्रकरणं भवेत्, बाह्यसाधनतापाकरणार्थत्वादवधारणस्य ।
नच विद्यया हैवैत एवंविदश्चिता भवन्तीति पुरुषसंबन्धमापादयद्वाक्यं प्रकरणमपबाधितुमर्हति ।
अन्यार्थदर्शनं खल्वेतदपि ।
नच तत्स्वातन्त्र्येण प्रापकमित्युक्तम् ।
तस्मात्तदपि न प्रकरणविरोधायालमिति सांपादिका अप्येते अग्नयः प्रकरणात्क्रियानुप्रवेशिन एव मानसवत् ।
द्वादशाहे तु श्रूयतेऽअनया त्वा पात्रेण समुद्रं रसया प्राजापत्यं मनोग्रहं गृह्णामिऽइति ।
तत्र संशयःकिं मानसं द्वादशाहा दहरन्तरमुत तन्मध्यपातिनो दशमस्याह्नाङ्गमिति ।
तत्र वाग्वै द्वादशाहो मनो मानसमिति मानसस्य द्वादशाहाद्भेदेन व्यपदेशाद्वाङ्मनसभेदवद्भेदः ।
निर्धूतानि द्वादशाहस्य गतरसानि छन्दांसि तानि मानसेनैवाप्यायन्तीति च द्वादशाहस्य मानसेन स्तूयमानत्वाद्भेदे च सति

स्तुतिस्तुत्यभावस्योपपत्तेर्द्वादशाहादहरन्तरं न तदङ्गं, पत्नीसंयाजान्तत्वाच्चाह्नां पत्नीः संयाज्य मानसाय प्रसर्पन्तीति च मानसस्य पत्नीसंयाजस्य परस्ताच्छ्रुतेः ।
त्रयोदशाहेऽप्यवयुज्य द्वादशसंख्यासमवायात्कथञ्चिज्जघन्ययापि वृत्त्या द्वादशाहसंज्ञाविरोधाभावादिति प्राप्तेऽभिधीयतेप्रमाणान्तरेण हि

त्रयोदशत्वेऽह्नां सिद्धे द्वादशाह इति जघन्यया वृत्त्योन्नीयेत ।
न त्वस्ति तादृशं प्रमाणान्तरम् ।
नच व्यपदेशभेदोऽहरन्तरत्वं कल्पयितुमर्हति ।
अङ्गाङ्गिभेदेनापि तदुपपत्तेः ।
अत एव च स्तुत्यस्तावकभावस्याप्युपपत्तिः ।
देवदत्तस्येव दीर्घैः केशैः ।
पत्नीसंयाजान्तता तु यद्यप्यौत्सर्गिकी तथापि दशमस्याह्नो विशेषवचनान्मानसानि ग्रहणासादनहवनादीनि पत्नीसंयाजात्पराञ्चि भविष्यन्ति ।
किमिव हि न कुर्याद्वचनमिति ।
एष वै दशमस्याह्नो विसर्गो यन्मानसमिति वचनाद्दशमाहरङ्गता गम्यते ।
विसर्गेऽन्तोऽन्तवतो धर्मो न स्वतन्त्र इति दशमेऽहनि मानसाय प्रमर्पन्तीति दशमस्याह्न आधारत्वनिर्देशाच्च तदङ्गं मानसं नाहरन्तरमिति सिद्धम् ।
तदिह द्वादशाहसंबन्धिनो दशमस्याह्नोऽङ्गं मानसमितिं धर्ममीमांसासूत्रकृतोक्तम् ।
दशरात्रगस्यापि दशमस्याह्नोऽङ्गमिति भगवन्भाष्यकारः ।
श्रुत्यन्तरबलेनाह
यथा दशरात्रस्य दशमेऽहन्यविवाक्य इति ।
अविवाक्य इति दशमस्याह्नो नाम ॥४४॥



____________________________________________________________________________________________

३,३.२९.४५

पूर्वविकल्पः प्रकरणात्स्यात्क्रियामानसवत् । ब्रह्मसूत्र ३,३.४५ ।
॥ ४५ ॥


____________________________________________________________________________________________


३,३.२९.४६

अतिदेशाच्च । ब्रह्मसूत्र ३,३.४६ ।

नहि सांपादिकानामग्नीनामिष्टकासु चितेनाग्निना किञ्चिदस्ति सादृश्यमन्यत्र क्रियानुप्रवेशात् ।
तस्मादपि न स्वतन्त्र इति प्राप्तेऽभिधीयते ॥४६॥


____________________________________________________________________________________________


३,३.२९.४७

विद्यैव तु निर्धारणात् । ब्रह्मसूत्र ३,३.४७ ।
मा भूदन्येषां श्रुतविध्युद्देशानामन्यार्थदर्शनानामप्राप्तप्रापकत्वमेतेषु त्वश्रुतविध्युद्देशेषुऽवचनानि त्वपूर्वत्वात्ऽइति न्यायाद्विधिरुन्नेतव्यः ।
तथा चैतेभ्यो यादृशोर्ऽथः प्रतीयते तदनुरूप एव स भवति ।
प्रतीयते चैतेभ्यो मनश्चिदादीनां सान्तत्यं चावधारणं च फलभेदसमन्वयश्च पुरुषसंबन्धश्च ।
न चास्य गोदोहनादिवत्क्रत्वर्थाश्रितत्वं येन पुरुषार्थस्य कर्मपारतन्त्र्यं भवेत् ।
नच विद्याचित एवेत्यवधारणं बाह्यसाधनापाकरणार्थम् ।
स्वभावत एव विद्याया बाह्यानुपेक्षत्वसिद्धेः ।
तस्मात्परिशेषान्मानसग्रहवत्क्रियानुप्रवेशशङ्कापाकरणार्थमवधारणम् ।
न चैवमर्थत्वे संभवति ।
द्योतकत्वमात्रेण निपातश्रुतिः पीडनीया ।
तस्माच्छ्रुतिलिङ्गवाक्यानि प्रकरणमपोद्य स्वातन्त्र्यं मनश्चिदादीनामवगमयन्तीति सिद्धम् ।
अनुबन्धातिदेशश्रुत्यादिभ्य एवमेव विज्ञेयम् ।
ते च भाष्य एव स्फुटाः ।
यदुक्तं पूर्वपक्षिणा क्रत्वङ्गत्वे पूर्वेणेष्टकाचितेन मनश्चिदादीनां विकल्प इति ।
तदुतल्यकार्यत्वेन दूषयतिनच सत्येव क्रियासंबन्ध इति ।
अपिच पूर्वापरयोर्भागयोर्विद्याप्राधान्यदर्शनात्तन्मध्यपातिनोऽपि तत्सामान्याद्विद्याप्रधानत्वमेव लक्ष्यते न कर्माङ्गत्वमित्याह सूत्रेण
परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुबन्धः ।
स्फुटमस्य भाष्यम् ।
अस्ति राजसूयःऽराजा स्वाराज्यकामो राजसूयेन यजेतऽइति ।
तं प्रकृत्यामनन्ति अवेष्टिं नामेष्टिम् ।
आग्नेयोऽष्टाकपालो हिरण्यं दक्षिणेत्येवमादि तां प्रकृत्याधीयते ।
यदि ब्राह्मणो यजेत बार्हस्पत्यं मध्ये निधायाहुतिं हुत्वाभिधारयेद्यदि वैश्यो वैश्वदेवं यदि राजन्य ऐन्द्रमिति ।
तत्र संदिह्यते
किं ब्राह्मणादीनां प्राप्तानां निमित्तार्थेन श्रवणमुत ब्राह्मणादीनामयं यागो विधीयत इति ।
तत्र यदि प्रजापालनकण्टकोद्धरणादि कर्म राज्यं तस्य कर्ता राजेति राजशब्दस्यार्थस्ततो राजा राजसूयेन यजेतेति राज्यस्य कर्तू राजसूयेऽधिकारः ।
तस्मात्संभवन्त्यविशिषेण ब्राह्मणक्षत्रियवैश्या राज्यस्य कर्तार इति सिद्धं सर्वमेवैते राजसूये प्राप्ता इतिऽयदि ब्राह्मणो यजेतऽइत्येवमादयो निमित्तार्थाः श्रुतयः ।
अथ तु राज्ञः कर्म राज्यमिति राजकर्तृयोगात्तत्कर्म राज्यं ततः को राजेत्यपेक्षायामार्येषु तत्प्रसिद्धेरभावात्पिकनेमतामरसादिशब्दार्थावधारणाय म्लेच्छप्रसिद्धिरिवान्ध्राणां क्षत्रियजातौ राजशब्दप्रसिद्धिस्तदवधारणकारणमिति क्षत्रिय एव राजेति न ब्राह्मणवैश्ययोः प्राप्तिरिति राजसूयप्रकरणं भित्त्वा ब्राह्मणादिकर्तृकाणि पृथगेव कर्माणि प्राप्यन्त इति न नैमित्तिकानि ।
तत्र किं तावत्प्राप्तं, नैमित्तिकानीति ।
राज्यस्य कर्ता राजेत्यार्याणामान्ध्राणां चाविवादः ।
तथाहिब्राह्मणादिषु प्रजापालनकर्तृषु कनकदण्डातपत्रश्वेतचामरादिलाञ्छनेषु राजपदमान्ध्राश्चार्याश्चाविवादं प्रयुञ्जाना दृश्यन्ते ।
तेनाविप्रतिपत्तेर्विप्रतिपत्तावप्यार्यान्ध्रप्रयोगयोर्यववराहवदायर्प्रसिद्धेरान्ध्रप्रसिद्धितो बलीयसीत्वात् ।
बलवदार्यप्रसिद्धिविरोधे त्वतन्मूलायाः पाणिनीयप्रसिद्धेःऽविरोधे त्वनपेक्षं स्यात्ऽइति न्यायेन बाधनात्तदनुगुणतया वा कथञ्चिन्नखनकुलादिवदन्वाख्यानामात्रपरतया नीयमानत्वाद्रज्यस्य कर्ता राजेति सिद्धे निमित्तार्थाः श्रुतयः ।
तथाच यदिशब्दोऽप्याञ्जसः स्यादिति प्राप्तम् ।
एवं प्राप्त उच्यतेऽरूपतो न विशेषोऽस्ति ह्यार्यम्लेच्छप्रयोगयोः ।
वैदिकाद्वाक्यशेषात्तु विशेषस्तत्र दर्शितःऽ ॥
तदिह राजशब्दस्य कर्मयोगाद्वा कर्तरि प्रयोगः कर्तृप्रयोगाद्वा कर्मणीति विशये वैदिकवाक्यशेषवदभियुक्ततरस्यात्रभवतः पाणिनेः स्मृतेर्निर्णीयते प्रसिद्धिरान्ध्रणामनादिरादिमती चार्याणां प्रसिद्धिर्गोगाव्यादिशब्दवत् ।
नच संभावितादिमद्भावा प्रसिद्धिः पाणिनिम्सृतिमपोद्यानादिप्रसिद्धिमादिमतीं कर्तुमुत्सहते ।

गाव्यादिशब्दप्रसिद्धेरनादित्वेन गवादिपदप्रसिद्धेरप्यादिमत्त्वापत्तेः ।
तस्मात्पाणिनीयस्मृत्यनुमतान्ध्रप्रसिद्धिबलीयस्त्वेन क्षत्रियत्वजातौ राजशब्दे मुख्ये तत्कर्तर्यतज्जातौ राजशब्दो गौण इति क्षत्रियस्यैवाकाराद्राजसूये तत्प्रकरणमपोद्यावेष्टेरुत्कर्षः ।
अन्वयानुरोधी यदिशब्दो न त्वपूर्वविधौ सति तमन्यथयितुमर्हति ।
अत एवाहुःऽयदि शब्दपरित्यागो रुच्यध्यहारकल्पनाऽइति ।
इयं च राजसूयादधिकारान्तरमेतयान्नाद्यकामं याजयेदिति नास्तीतिकृत्वा चिन्ता ।
एतस्मिंस्त्वधिकारेऽन्नाद्यकामस्य त्रैवर्णिक्य संभवात्प्राप्तेर्निमित्तार्थता ब्राह्मणादिश्रवणस्य दुर्वारैवेति ॥४७॥


____________________________________________________________________________________________


३,३.२९.४८

दर्शनाच्च । ब्रह्मसूत्र ३,३.४८ ।
॥ ४८ ॥


____________________________________________________________________________________________


३,३.२९.४९

श्रुत्यादिबलीयस्त्वाच्च न बाधः । ब्रह्मसूत्र ३,३.४९ ।
॥ ४९ ॥


____________________________________________________________________________________________


३,३.२९.५०

अनुबन्धादिभ्यः प्रज्ञान्तरपृथक्त्ववद्दृष्टश्च तदुक्तम् । ब्रह्मसूत्र ३,३.५० ।
॥ ५० ।


____________________________________________________________________________________________


३,३.२९.५१

न सामान्यादप्युपलब्धेर्मृत्युवन्न हि लोकापत्तिः । ब्रह्मसूत्र ३,३.५१ ।
॥ ५१ ॥


____________________________________________________________________________________________


३,३.२९.५२

परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुबन्धः । ब्रह्मसूत्र ३,३.५२ ।
॥ ५२ ॥


____________________________________________________________________________________________


३,३.३०.५३

एक आत्मनः शरीरे भावात् । ब्रह्मसूत्र ३,३.५३ ।
अधिकारणतात्पर्यमाह
इहेति ।
समर्थनप्रयोजनमाह
बन्धमोक्षेति ।
असमर्थने बन्धमोक्षाधिकाराभावमाह
न ह्यसतीति ।
अधस्तनतन्त्रोक्तेन पौनरुक्त्यं चोदयति
नन्विति ।
परिहरति
उक्तं भाष्यकृतेति ।
नसूत्रकारेण तत्रोक्तं येन पुनरुक्तं भवेदपि तु भाष्यकृतेत्यत्रत्यस्यैवार्थस्यापकर्षः प्रमाणलक्षणोपयोगितया तत्र कृत इति ।
यत इह सूत्रकृद्वक्ष्यत्यत एव भगवतोपवर्षेणोद्धारोऽपकर्षस्य कृतः ।
विचारस्यास्य पूर्वोत्तरतन्त्रशेषत्वमाह
इह चेति ।
पूर्वाधिकरणसंगतिमाह
अपिचेति ।
नन्वात्मास्तित्वोपपत्तय एवात्रोच्यन्तां किं तदाक्षेपेणेत्यत आहआक्षेपपूर्विका हीति ।
आक्षेपमाह
अत्रैके देहमात्रात्मदर्शिन इति ।
यद्यपि समस्तव्यस्तेषु पृथिव्यप्तेजोवायुषु न चैतन्यं दृष्टं तथापि कायाकारपरिणतेषु भविष्यति ।
नहि किण्वादयः समस्तव्यस्ता न मदना दृष्टा इति मदिराकारपरिणता न मदयन्ति ।
अहमिति चानुभवे देह एव गौराद्यकारः प्रथते ।
न तु तदतिरिक्तः तदधिष्ठानः कुण्ड एव दधीति ।
अत एवाहं स्थूलो गच्छामीत्यादिसामानाधिकरण्योपपत्तिरहमः स्थूलादिभिः ।
न जातु दधिसमानाधिकरणानि मधुरादीनि कुण्डस्यैकाधिकरण्यमनुभवन्ति सितं मधुरं कुण्डमिति ।
न चाप्रत्यक्षमात्मतत्त्वमनुमानादिभिः शक्यमुन्नेतुम् ।
न खल्वप्रत्यक्षं प्रमाणमस्ति ।
उक्तं हिऽदेशकालादिरूपाणां भेदाद्भिन्नासु शक्तिषु ।
भवानामनुमानेन प्रसिद्धिरतिदुर्लभाऽइति ।
यदा च उपलब्धिसाध्यनान्तरीयकभावस्य लिङ्गस्येयं गतिस्तदा कैव कथा दृष्टव्यभिचारस्य शब्दस्यार्थापत्तेश्चात्यन्तपरोक्षार्थगोचराया उपमानस्य च सर्वैकदेशसादृश्यविकल्पितस्य ।
सर्वसारूप्ये तत्त्वात् ।
एकदेशसारूप्ये चातिप्रसङ्गात्सर्वस्य सर्वेणोपमानात् ।
सौत्रस्तु हेतुर्भाष्यकृता

व्याख्यातः ।
चेष्टा हिताहितप्राप्तिपरिहारार्थो व्यापारः ।
स च शरीराधीनतया दृश्यमानः शरीरधर्म एवं प्राणः श्वासप्रश्वासादिरूपः शरीरधर्म एव ।
इच्छाप्रयत्नादयश्च यद्यप्यान्तराः तथापि शरीरातिरिक्तस्य तदाश्रयानुपलब्धेः सति शरीरे भावातन्तः शरीराश्रया एव, अन्यथा दृष्टहानादृष्टकल्पनाप्रसङ्गात् ।
शरीरातिरिक्त आत्मनि

प्रमाणाभावाच्छरीरे च संभवाच्छरीरमेवेच्छादिमदात्मेति प्राप्त उच्यते ॥५३॥



____________________________________________________________________________________________


३,३.३०.५४

व्यतिरेकस्तद्भावभावित्वान्न तूपलब्धिवत् । ब्रह्मसूत्र ३,३.५४ ।
नाप्रत्यक्षं प्रमाणमिति ब्रुवाणः प्रष्टव्यो जायते कुतो भवाननुमानादीनामप्रामाण्यमवधारितवानिति ।
प्रत्यक्षं हि लिङ्गादिरूपमात्रग्राहि नाप्रामाण्यमेषां विनिश्चेतुमर्हति ।
नहि धूमज्ञानमिवैषामिन्द्रियार्थसन्निकर्षादप्रामाण्यज्ञानमुदेतुमर्हति ।
किन्तु देशकालावस्थारूपभेदेन व्यभाचिरोत्प्रेक्षया ।
न चैतावान्प्रत्यक्षस्य व्यापारः संभवति ।
यथाहुःनहीदमियतो व्यापारान्कर्तुं समर्थं संनिहितविषयबलेनोत्पत्तेरविचारकत्वादिति ।
तस्मादस्मिन्ननिच्छतापि प्रमाणान्तरमभ्युपेयम् ।
अपिच प्रतिपन्नं पुमांसमपहायाप्रतिपन्नसंदिग्धाः प्रेक्षावद्भिः प्रतिपाद्यन्ते ।
न चैषामित्थंभावो भवत्प्रत्यक्षगोचरः ।
न खल्वेते गौरत्वादिवत्प्रत्यक्षगोचराः किन्तु वचनचेष्टादिलिङ्गानुमेयाः ।
नच लिङ्गं प्रमाणं यत एते सिध्यन्ति ।
न पुंसामित्थंभावमविज्ञाय यं कञ्चन पुरुषं प्रतिपिपातयिषतोऽनवधेयवचनस्य प्रेक्षावत्ता नाम ।
अपिच पशवोऽपि हिताहितप्राप्तिपरिहारार्थिनः कोमलशष्पश्यामलायां भुवि प्रवर्तन्ते ।
परिहरन्ति चाश्यानतृणकण्टकाकीर्णाम् ।
नास्तिकस्तु पशोरपि पशुरिष्टनिष्टसाधनमविद्वान् ।
न खल्वस्मिन्नुमानगोचरप्रवृत्तिनिवृत्तिगोचरे प्रत्यक्षं प्रभवति ।
नच परप्रत्यायनाय शब्दं प्रयुञ्जीत शाब्दस्यार्थस्याप्रत्यक्षत्वात् ।
तदेव मा नाम भून्नास्तिकस्य जन्मान्तरमस्मिन्नेव जन्मन्युपस्थितोऽस्य मूकत्वप्रवृत्तिनिवृत्तिविरहरूपो महान्नरकः ।
पराक्रान्तं चात्र सूरिभिः ।
अत्यन्तपरोक्षगोचराप्यन्यथानुपपद्यमानार्थप्रभवार्थापत्तिः ।
भूयःसामान्ययोगेन चोपमानमुपपादितं प्रमाणलक्षणे ।
तदत्रास्तु तावत्प्रमाणान्तरं प्रत्यक्षमेवाहंप्रत्ययः शरीरातिरिक्तमालम्बत इत्यन्वयतिरेकाभ्यामवधार्यते ।
योगव्याघ्रवत्स्वप्नदशायां च शरीरान्तरपरिग्रहाभिमानेऽप्यहङ्कारास्पदस्य प्रत्यभिज्ञायमानत्वमित्युक्तम् ।
सूत्रयोजना तु न त्वव्यतिरिक्तः किन्तु व्यतिरिक्त आत्मा देहात् ।
कुतस्तद्भावाभावित्वात् ।
चैतन्यादिर्यदि शरीरगुणः ततोऽनेन विशेषगुणेन भवितव्यम् ।
न तु संख्यापरिमाणसंयोगादिवत्सामान्यगुणेन ।
तथाच ये भूतविशेषगुणास्ते यावद्भूतभाविनो दृष्टा यथा रूपादयः ।
नह्यस्ति संभवः भूतं च रूपादिरहितं चेति ।
तस्माद्भूतविशेषगुणरूपादिवैधर्म्यान्न चैतन्यं शरीरगुणः ।
एतेनेच्छादीनां शरीरविशेषगुणत्वं प्रत्युक्तम् ।
प्राणचेष्टादयो यद्यपि देहधर्मा एव तथापि न देहमात्रप्रभवाः ।
मृतावस्थायामपि प्रसङ्गात् ।
तस्माद्यस्यैते अधिष्ठानाद्देहधर्मा भवन्ति स देहातिरिक्त आत्मा ।
अदृष्टकारणत्वेऽभ्युपगम्यमाने तस्यापि देहाश्रयत्वानुपपत्तेरात्मैवाभ्युपेतव्य इति ।
वैधर्म्यान्तरमाह
देहधर्माश्चेति ।
स्वपरप्रत्यक्षा हि देहधर्मा दृष्टा यथा रूपादयः ।
इच्छादयस्तु स्वप्रत्यक्षा एवेति देहधर्मवैधर्म्यम् ।
तस्मादपि देहातिरिक्तधर्मा इति ।
तत्र यद्यपि चैतन्यमपि भूतविशेषगुणस्तथापि यावद्भूतमनुवर्तेत ।
नच मदशक्त्या व्यभिचारः ।
सामर्थ्यस्य सामान्यगुणत्वात् ।
अपिच मदशक्तिः प्रतिमदिरावयवं मात्रयावतिष्ठते तद्वद्देहेऽपि चैतन्यं तदवयवेष्वपि मात्रया भवेत् ।
तथा चैकस्मिन्देहे बहवश्चेतयेरन् ।
नच बहूनां चेतनानामन्योन्याभिप्रायानुविधानसंभव इति एकपाशनिबद्धा इव बहवो विहङ्गमाः विरुद्धादिक्रियाभिमुखाः समर्था अपि न हस्तमात्रमपि देशमतिपतितुमुत्सहन्ते ।
एवं शरीरमपि न किञ्चित्कर्तुमुत्सहते ।
अपि च नान्वयमात्रात्तद्धर्मधर्मिभावः ।
शक्यो विनिश्चेतुं, मा भूदाकाशस्य सर्वो धर्मः सर्वेष्वन्वयात् ।
अपि त्वन्वयव्यतिरेकाभ्याम् ।
संदिग्धश्चात्र व्यतिरेकः ।
तथाच साधकत्वमन्वयमात्रस्येत्याह
अपिच सति हि तावदिति ।
दूषणान्तरं विवक्षुराक्षिपति
किमात्मकं चेति ।
स एवैकग्रन्थेनाः
नहीति ।
नास्तिक आह
यदनुभवनमिति ।
यथा हि भूतपरिणामभेदो रूपादिर्न तु भूतचतुष्टयादर्थान्तरमेवं भूतपरिणामभेद एव चैतन्यं न तु भूतेभ्योर्ऽथान्तरं, येनऽपृथिव्यापस्तेजो वायुरिति तत्त्वानिऽइति प्रतिज्ञाव्याघातः स्यादित्यर्थः ।
एतदुक्तं भवतिचतुर्णामेव भूतानां समस्तं जगत्परिणामो न त्वस्ति तत्त्वान्तरं यस्य परिणामो रूपादयोऽन्यद्वा परिणामान्तरमिति ।
अत्रोक्ताभिस्तावदुपपत्तिभिर्देहधर्मत्वं निरस्तं तथाप्युपपत्त्यन्तराभिधित्सयाह
चेत्तर्हीति ।
भूतधर्मा रूपादयो जडत्वाद्विषया एव दृष्टा न तु विषयिणः ।
नच केषाञ्चिद्विषयाणामपि विषयित्वं भविष्यतीति वाच्यम् ।
स्वात्मनि वृत्तिविरोधात् ।
न चोपलब्धावेव प्रसङ्गस्तस्या अजडायाः स्वयंप्रकाशत्वाभ्युपगमात् ।
कृतोपपादनं चैतत्पुरस्तात् ।
उपलब्धिवदिति सूत्रावयवं योजयति
यथैवास्या इति ।
उपलब्धिग्राहिण एव प्रमाणाच्छरीव्यतिरेकोऽप्यवगम्यते ।
तस्यास्ततः स्वयंप्रकाशप्रत्ययेन भूतधर्मेभ्यो जडेभ्यो वैलक्षण्येन व्यतिरेकनिश्चयात् ।
अस्तु तर्हि व्यतिरेकादुपलब्धिर्भूतेभ्यः स्वतन्त्रा तथाप्यात्मनि प्रमाणाभाव इत्यत आह
उपलब्धिस्वरूप एव च न आत्मेति ।
आजानतस्तावदुपलब्धिभेदो नानुभूयत इति विषयभेदादभ्युपेयः ।
न चोपलब्धिव्यतिरेकिणां विषयाणां प्रथा संभवतीत्युपपादतम् ।
नच विषयभेदग्राहि प्रमाणमस्तीति चोपपादितं ब्रह्मतत्त्वसमीक्षायामस्माभिः ।
एवं च सति विषयरूपतद्भेदादेव सुदुर्लभाविति दूरनिरस्ता विषयभेदादुपलब्धिभेदसंकथा ।
तेनोपलब्धेरुपलब्धृत्वमपि न तात्त्विकम् ।
किन्त्वविद्याकल्पितम् ।
तत्राविद्यादशायामप्युपलब्धेरभेद इत्याह
अहमिदमद्राक्षमिति चेति ।
न केवलं तात्त्विकाभेदान्नित्यत्वमतात्त्विकादपि नित्यत्वमेवेति तस्यार्थः ।
स्मृत्याद्युपपत्तेश्च ।
नानात्वे हि नान्येनोपलब्धेऽन्यस्य पुरुषस्य स्मृतिरुपपद्यत इत्यर्थः ।
निराकृतमप्यर्थं निराकरणान्तरायानुभाषते
यत्तूक्तमिति ।
यो हि देहव्यापारादुपलब्धिरुत्पद्यते तेन देहधर्म इति मन्यते तं प्रतीदं दूषणम्
न चात्यन्तं देहस्येति ।
प्रकृतमुपसंहरति
तस्मादनवद्यमिति ॥५४॥



____________________________________________________________________________________________


३,३.३१.५५

अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् । ब्रह्मसूत्र ३,३.५५ ।
स्वरादिभेदात्प्रतिवेदमुद्गीथादयो भिद्यन्ते ।
तदनुबद्धास्तु प्रत्ययाः प्रतिशाखं विहिता भेदेन ।
तत्र संशयःकिं यस्मिन्वेदे यदुद्गीथादयो विहितास्तेषामेव तद्वेदविहिताः प्रत्यया उतान्यवेदविहितानामप्युद्गीथादीनां ते प्रत्यया इति ।
किं तावत्प्राप्तम् ।
ऽओमित्यक्षरमुद्गीथमुपास्तिऽइत्युद्गीथश्रवणेनोद्गीथसामान्यमवगम्यते ।
निर्विशेषस्य च तस्यानुपपत्तेर्विशेषकाङ्क्षायां स्वशाखाविहितस्य विशेषस्य संनिधानात्तेनैवाकाङ्क्षाविनिवृत्तेर्न शाखान्तरीयमुद्गीथान्तरमपेक्षते ।
न चैवं संनिधानेन श्रुतिपीडा, यदि हि श्रुतिसमर्पितमर्थमपबाधेन ततः श्रुतिं पीडयेन्न चैतदस्ति ।
नह्युद्गीथश्रुत्यभिहितलक्षितौ सामान्यविशेषौ बाधितौ स्वशाखागतयोः स्वीकरणाच्छाखान्तरीयास्वीकारेऽपि ।
यथाहुःऽजातिव्यक्ती गृहीत्वेह वयं तु श्रुतलक्षिते ।
कृष्णादि यदि मुञ्चामः का श्रुतिस्तत्र पीड्यतेऽ ॥
एवं प्राप्तम् ।
एवं प्राप्त उच्यतेउद्गीथाङ्गवबद्धास्तु प्रत्यया नानाशाखासु प्रतिवेदमनुवर्तेरन्न प्रतिशाखं व्यवतिष्ठेरन् ।
उद्गीथमित्यादिसामान्यश्रुतेरविशेषातेतदुक्तं भवतियुक्तं शुक्लं पटमानयेत्यादौ पटश्रुतिमविशेषप्रवृत्तामपि संनिधानाच्छुक्लश्रुतिर्बाधत इति ।
विशिष्टार्थप्रत्यायनप्रत्युक्तत्वात्पदानां समभिव्याहारस्य ।
अन्यथा तदनुपपत्तेः ।
नच स्वार्थमस्मारयित्वा विशिष्टार्थप्रत्यायनं पदानामिति विशिष्टार्थप्रयुक्तं स्वार्थस्मारणं न स्वप्रयोजकमपवाधितुमुत्सहते ।
मा च वाधिप्रयोजकाभावेन स्वार्थस्मारणमपीति युक्तमविशेषप्रवृत्ताया अपि श्रुतेरेकस्मिन्नेव विशेषे अवस्थापनम् ।
इह तूद्गीथश्रुतेरविशेषेण विशिष्टार्थप्रत्यायकत्वात् ।
संकोचे प्रमाणं किञ्चिन्नास्ति ।
नच संनिधिमात्रमपबाधितुमर्हति ।
श्रुतिसामान्यद्वारेण च सर्वविशेषगामिन्याः श्रुतेरेकस्मिन्नवस्थानं पीडैव ।
तस्मात्सर्वोद्गीथविषयाः प्रत्यया इति ॥५५॥



____________________________________________________________________________________________


३,३.३१.५६

मन्त्रादिवद्वाविरोधः । ब्रह्मसूत्र ३,३.५६ ।
विरुद्धमिति नः संप्रत्ययो यत्प्रमाणेन नोपलभ्यते ।
उपलब्धं च मन्त्रादिषु शाखान्तरीयेषि शाखान्तरीयकर्मसंबन्धित्वम् ।
तद्वदिहापीति दर्शनादविरोधः ।
एतच्च दर्शितं भाष्येण सुगमेनेति ॥५६॥



____________________________________________________________________________________________


३,३.३२.५७

भूम्नः क्रतुवज्ज्यायस्त्वं तथा हि दर्शयति । ब्रह्मसूत्र ३,३.५७ ।

वैश्वानरविद्यायां छान्दोग्ये किं व्यस्तोपासनं समस्तोपासनं च उता समस्तोपासनमेवेति ।
तत्र दिवमेव भगवो राजन्निति होवाचेति प्रत्यकमुपासनश्रुतेः प्रत्येकं च फलवत्त्वाम्नानात्समस्तोपासने च फलवत्त्वश्रुतेरुभयथाप्युपासनम् ।
नच यथा वैश्वानरीयेष्टौ यदष्टाकपालो भवतीत्यादीनामवयुज्यवादानां प्रत्येकं फलश्रवणेऽप्यर्थवादमात्रत्वं वैश्वानरं द्वादशकपालं निर्वपेदित्यस्यैव तु फलवत्त्वमेवमत्रापि भवितुमर्हति ।
तत्र हि द्वादशकपालं निर्वपेदिति ।
विधिभक्तिश्रुतिर्यदष्टाकपालो भवतीत्यादिषु वर्तमानापदेशः ।
नच वचनानि त्वपूर्वत्वादिति विधिकल्पना ।
अवयुज्यवादेन स्तुत्याप्युपपत्तेः ।
इह तु समस्ते व्यस्ते च वर्तमानापदेशस्याविशेषादगृह्यमाणविशेषतया उभयत्रापि विधिकल्पनायाः फलकल्पनायाश्च भेदात् ।
निन्दायाश्च समस्तोपासनारम्भे व्यस्तोपासनेऽप्युपपत्तेः ।
श्यामो वाश्वाहुतिमभ्यवहरतीतिवदुभयविधमुपासनमिति

प्राप्त उच्यतेसमस्तोपासनस्यैव ज्यायस्त्वं न व्यस्तोपासनस्य ।
यद्यपि वर्तमानापदेशत्वमुभयत्राप्यविशिष्टं तथापि पौर्वापर्यालोचनया समस्तोपासनपरत्वस्यावगमः ।
यत्परं हि वाक्यं तदस्यार्थः ।
तथाहिप्राचीनशालप्रभृतयो वैश्वानरविद्यानिर्णयायाश्वपतिं कैकेयमाजग्मुः ।
ते च तत्तदेकदेशोपासनमुपन्यस्तवन्तः ।
तत्र कैकेयस्तत्तदुपासननिन्दापूर्वं तन्निवारणेन समस्तोपासनमुपसंजहार ।
तथा चैकवाक्यतालाभाय वाक्यभेदपरिहाराय च समस्तोपासनपरतैव संदर्भस्य लक्ष्यते ।
तस्माद्बहुफलसंकीर्तनम् ।
प्रधानस्तवनाय ।
समस्तोपासनस्यैव तु फलवत्त्वमिति सिद्धम् ।
एकदेशिव्याख्यानमुपन्यस्य दूषयति
केचित्त्वत्रेति ।
संभवत्येकवाक्यत्वे वाक्यभेदस्यान्याय्यत्वात्नेदृशं सूत्रव्याख्यानं समञ्जसमित्यर्थः ॥५७॥



____________________________________________________________________________________________


३,३.३३.५८

नानाशब्दादिभेदात् । ब्रह्मसूत्र ३,३.५८ ।
सिद्धं कृत्वा विद्याभेदमधस्तनं विचारजातमभिनिर्वर्तितम् ।
संप्रति तु सर्वासामीश्वरगोचराणां विद्यानां किमभेदो भेदो वा, एवं प्राणादिगोचरास्विति विचारयितव्यम् ।
ननु यथा प्रत्ययाभिधेयाया अपूर्वभावनाया आजानतो भेदभावेऽपि धात्वर्थेन निरूप्यमाणत्वात्तस्य च यागादेर्भेदात्प्रकृत्यर्थयागादिधात्वर्थानुबन्धभेदाद्भेदः ।
तदनुरक्ताया एव तस्याः प्रतीयमानत्वात् ।
एवं विद्यानामपि रूपतो वेद्यस्येश्वरस्याभेदेऽपि तत्तत्सत्यसंकल्पत्वादिगुणोपधानभेदाद्विद्याभेद इति नास्त्यभेदाशङ्का ।
उच्यतेयुक्तमनुबन्धभेदात्कार्यरूपाणामपूर्वभावनानां भेद इति ।
इह ब्रह्मणः सिद्धरूपत्वाद्गुणानामपि सत्यसंकल्पत्वादीनां तदाश्रयाणां सिद्धतया सर्वत्राभेदो विद्यासु ।
नहि विशालवक्षाश्चकोरेक्षणः क्षत्रिययुवा दुश्चयवनधर्मेति एकत्रोपदिष्टोऽन्यत्र सिंहास्यो वृषस्कन्धः स एवोपदिश्यमानश्चकोरेक्षणत्वाद्यपजहाति न खलु प्रत्युपदेशं वस्तु भिद्यते ।
तस्य सर्वत्र तादवस्थ्यात् ।
अतादवस्थ्ये वा तदेव न भवेत् ।
नहि वस्तु विकल्प्यत इति ।
तस्माद्वेद्याभेदाद्विद्यानां भेद इति प्राप्तम् ।
एवं प्राप्त उच्यतेभवेदेतदेवं यदि वस्तुनिष्ठान्युपासनवाक्यानि किन्तु तद्विषयामुपासनाभावनां विदधति ।
सा च कार्यरूपा ।
यद्यपि चोपासनाभावना उपासनाधीननिरूपणोपासनं चोपास्याधीननिरूपणमुपास्यं चेश्वरादि व्यवस्थितरूपम्, तथाप्युपासनविषयीभावोऽस्य कदाचित्कस्यचित्केनचिद्रूपेणेत्यपरिनिष्ठित एव ।
यथैकः स्त्रीकायः केनचिद्भक्ष्यतया केनचिदुपगन्तव्यतया केनचिदपत्यतया केनचिन्मातृतया केनचिदुपेक्षणीयतया विषयीक्रियमाणः पुरुषेच्छातन्त्रः ।
एवमिहापि उपासनानि पुरुषेच्छातन्त्रतया विधेयतां नातिक्रामन्ति ।

नच तत्तद्गुणतयोपासनानि गुणभेदान्न भिद्यन्ते ।
न चाग्निहोत्रमिवोपसनां विधाय दधितण्डुलादिगुणवदिह सत्यसंकल्पत्वादिगुणविधिर्येनैकशास्त्रत्वं स्यात् ।
अपि तूत्पत्तावेवोपासनानां तत्तद्गुणविशिष्टानामवगमात् ।
तत्रागृह्यमाणविशेषतया सर्वासां भेदस्तुल्यः ।
नच समस्तशाखाविहितसर्वगुणोपसंहारः शक्यानुष्ठानस्तस्माद्भेदः ।
न चास्मिन्पक्षे सामाना सन्तः सत्यकामादयैति ।
केचित्खलु गुणाः कासुचिद्विद्यासु समानास्तेनैकविद्यात्वे आवर्तयितव्याः ।
एकत्रोक्तत्वात् ।
विद्याभेदे तु न पौनरुक्त्यमेकस्यां विद्यायामुक्ता विद्यान्तरे नोक्ता इति विद्यान्तरस्यापि तद्गुणत्वाय वक्तव्या अनुक्तानामप्राप्तेरिति ॥५८॥



____________________________________________________________________________________________


३,३.३४.५९

विकल्पोऽविशिष्टफलत्वात् । ब्रह्मसूत्र ३,३.५९ ।

अग्निहोत्रदर्शपूर्णमासादिषु पृथगधिकाराणामपि समुच्चयो दृष्टो नियमवांस्तेषां नित्यत्वादुपासनास्तु काम्यतया न नित्यास्तस्मान्नासां समुच्चयनियमः ।
तेन समानफलानां दर्शपूर्णमासज्योतिष्टोमादीनामिव न नियमवान्विकल्पः फलभूमार्थिनः समुच्चयस्यापि संभवादिति पूर्वः पक्षः ।
उपासनानाममूषामुपास्यसाक्षात्करणसाध्यत्वात्फलभेदस्यैकेनोपासनेनोपास्यसाक्षात्करणे तत एव फलप्रतिलाभे तु कृतमुपासनान्तरेण ।
नच साक्षात्करणस्यातिशयसंभवस्योपायसहस्रैरपि तादवस्थ्यात्तन्मात्रसाध्यत्वाच्च फलावाप्तेः ।
उपासनान्तराभ्यासे च चित्तैकाग्रताव्याघातेन कस्य चिदुपासनानिष्पत्तेरिह विकल्प एव नियमवानिति राद्धान्तः ॥५९॥



____________________________________________________________________________________________


३,३.३५.६०

काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावात् । ब्रह्मसूत्र ३,३.६० ।

यासूपासनासु विनोपास्यसाक्षात्कारणमदृष्टेनैव काम्यसाधनं तासां काम्यदर्शपौर्णमासादिवत्पुरुषेच्छावशेन

विकल्पसमुच्चयाविति साम्प्रतम् ॥६०॥



____________________________________________________________________________________________


३,३.३६.६१

अङ्गेषु यथाश्रयभावः । ब्रह्मसूत्र ३,३.६१ ।
तन्निर्धारणानियमस्तद्दृष्टेः पृथग्ध्यप्रतिबन्धः फलमित्यत्रोपसनासु फलश्रुतेः पर्णमयीन्यायेनार्थवादतयोपासनानां क्रत्वर्थत्वेन समुच्चयनियममाशङ्क्य पुरुषार्थतयैकप्रयोगवचनग्रहणाभावे समुच्चयनियमो निरस्तः ।
इह तु सत्यपि पुरुषार्थत्वे कस्मान्नैकप्रयोगवचनग्रहणं भवतीति पूर्वोक्तमर्थमाक्षिपन् प्रत्यवतिष्ठते ।
यद्यपि हि काम्या एता उपासनास्तथापि न स्वतन्त्रा भवितुमर्हन्ति ।
तथा सति हि क्रत्वर्थानाश्रिततया क्रतुप्रयोगाद्बहिरप्यमूषां प्रयोगः प्रसज्यते ।
नच प्रयुज्यन्ते तत्कस्य होतोः ।
क्रत्वर्थाश्रितानामेव तासां तत्तत्फलोद्देशेन विधानादिति ।
एवं चाश्रयतन्त्रत्वादाश्रितानां प्रयोगवचनेनाश्रयाणां समुच्चयनियमेनाश्रितानामपि समुच्चयनियमो युक्त इतरथा तदाश्रितत्वानुपपत्तेः ।
स च प्रयोगवचन उपासनाः समुच्चिन्वंस्तत्तत्फलकामनानामवश्यंभावमाक्षिपति तदभावे तासां समुच्चयनियमाभावादिति मन्वानस्य पूर्वः पक्षः ।
राद्धान्तस्तु यथाविहितोद्दिष्टपदार्थनुरोधी प्रयोगवचनो न पदार्थस्वभावानन्यथयितुमर्हति ।
किन्तु तदविरोधेनावतिष्ठते ।
तत्र क्रत्वर्थानां नित्यवदाम्नानात्तथाभावस्य च संभवान्नियमेनैतान्त्समुच्चिनोतु ।
कामावबद्धास्तूपासनाः कामानामनित्यत्वान्न समुच्चयेन नियन्तुमर्हति ।
नहि कामा विधीयन्ते येन समुच्चीयेरन्नपि तूद्दिश्यन्ते ।
मानान्तरानुसारी चोद्देशो न तद्विरोधेनोद्देश्यमन्यथयती ।
तथा सत्युद्देशानुपपत्तेः ।

तस्मात्कामानामनित्यत्वात्तदवबद्धानामुपासनानामप्यनित्यत्वम् ।
नित्यानित्यसंयोगविरोधात्सत्यपि तदाश्रयाणां नित्यत्वे इदमेव चाश्रयतन्त्रत्वमाश्रितानां यदाश्रये सत्येव वृत्तिर्नासतीति ।
न तु तत्र वृत्तिरेव नावृत्तिरिति तदिदमुक्तमाश्रयतन्त्राण्यपि हीति ॥६१॥



____________________________________________________________________________________________


३,३.३६.६२

शिष्टेश्च । ब्रह्मसूत्र ३,३.६२ ।
॥ ६२ ॥


____________________________________________________________________________________________


३,३.३६.६३

समाहारात् । ब्रह्मसूत्र ३,३.६३ ।

होतृषदनाद्धैवापि दुरुद्गीथमनुसमाहरतीति ।
अपिर्भिन्नकमो दिरुद्गीथमपीति ।
वेदान्तरोहितप्रणवोद्गीथैकत्वप्रत्ययसामर्थ्याद्धोतृकर्मणः शंसनादुद्गाता प्रतिसमादधाति किं तदित्यत आह दुरुद्गीथमपि वेदान्तरोदिते चौद्गात्रे कर्मणि उत्पन्नं क्षतम् ।
एवं ब्रुवन्वेदान्तरोदितस्य प्रत्यस्येत्यादि योजनीयम् ॥६३॥



____________________________________________________________________________________________


३,३.३६.६४

गुणसाधारण्यश्रुतेश्च । ब्रह्मसूत्र ३,३.६४ ।

अस्य सूत्रस्यान्वयमुखेन व्यतिरेकमुखेन च व्याख्या ।
शेषमतिरोहितार्थम् ॥६४॥



____________________________________________________________________________________________


३,३.३६.६५

न वा तत्सहभावाश्रुतेः । ब्रह्मसूत्र ३,३.६५ ।

॥६५॥


____________________________________________________________________________________________


३,३.३६.६६

दर्शनाच्च । ब्रह्मसूत्र ३,३.६६ ।
॥६६॥


इति श्रीवाचस्पतिमिश्रविरचिते शारीरकभगवत्पादभाष्यविभागे भामत्यां तृतीयाध्यायस्य तृतीयः पादः ॥३॥



____________________________________________________________________________________________
____________________________________________________________________________________________



तृतीयाध्याये चतुर्थः पादः ।


____________________________________________________________________________________________


३,४.१.१

पुरुषार्थोऽतः शब्दादिति बादरायणः । ब्रह्मसूत्र ३,४.१ ।
स्थितं कृत्वोपनिषदामपवर्गाख्यपुरुषार्थसाधनात्मज्ञानपरत्वमुपासनानां च तत्तत्पुरुषार्थसाधनत्वमधस्तनं विचारजातमभिनिर्वर्तितम् ।
सम्प्रति तु किमौपनिषदात्मतत्त्वज्ञानमपवर्गसाधनतया पुरुषार्थमाहो क्रतुप्रयोगापेक्षितकर्तृप्रतिपादकतया क्रत्वर्थमिति मीमांसामहे ।
यदा च क्रत्वर्थं तदा यावन्मात्रं क्रतुप्रयोगविधिनापेक्षितं कर्तृत्वमामुष्मिकफलोपभोक्तृत्वं च न चैतदनित्यत्वे घटते कृतविप्रणाशाकृताभ्यागमप्रसङ्गादतो नित्यत्वमपि, तावन्मात्रमुपनिषत्सु विवक्षितम् ।
इतोऽन्यदनपेक्षितं विपरीतं च नोपनिषदर्थः स्यात् ।
यथा शुद्धत्वादि ।
यद्यपि जीवानुवादेन तस्य ब्रह्मत्वप्रतिपादनपरत्वमुपनिषदामिति महता प्रबन्धेन तत्र तत्र प्रतिपादितं तथाप्यत्र केषाञ्चित्पूर्वपक्षशङ्काबीजानां निराकरणे तदेव स्थूणानिखननन्यायेन निश्चलीक्रियत इत्यप्यस्ति विचारप्रयोजनम् ।
तत्र यद्यपि प्रोक्षणादिवदात्मज्ञानं न कञ्चित्क्रतुमारभ्याधीतम्, यद्यपि च कर्तृमात्रं नाव्यभिचारितक्रतुसंबन्धं कर्तृमात्रस्य लौकिकेष्वपि कर्मसु दर्शनाद्येन पर्णतादिवदनारभ्याधीतमप्यव्यभिचरितक्रतुसंबन्धजुहूद्वारेण वाक्येनैव क्रत्वर्थमापद्यते तथापि यादृश आत्मा कर्तामुष्मिकस्वर्गादिफलभोगभागीदेहाद्यतिरिक्तो वेदान्तैः प्रतिपाद्यते न तादृशस्यास्ति लौकिकेषु कर्मसूपयोगः ।
तेषामैहिकफलानां शरीरानतिरिक्तेनापि यादृशतादृशेन कर्त्रोपपत्तेः ।
आमुष्मिकफलानां तु वैदिकानां कर्मणां तमन्तरेणासंभवात्तत्संबन्ध एवायमौपनिषदः कर्तेति तदव्यभिचारात्तान्यनुस्मारयज्जुह्वादिवद्वाक्येनैव तज्ज्ञानं पर्णतावत्क्रत्वैदमर्थ्यमापद्यत इति फलश्रुतिरर्थवादः ।
तदुक्तम्ऽद्रव्यसंस्कारकर्मसु परार्थत्वात्फलश्रुतिरर्थवादः स्यात्ऽइति औपनिषदात्मज्ञानसंस्कृतो हि कर्ता पारलौकिकफलोपभोगयोग्योऽस्मीति विद्यावाच्छ्रद्धावान्क्रतुप्रयोगाङ्गं नान्यथा प्रोक्षिता इव व्रीहयः क्रत्वङ्गमिति ।
प्रियादिसूचितस्य च संसारिण एवात्मनो द्रष्टव्यत्वेन प्रतिज्ञापनादपहतपाप्मत्वादि तु तद्विशेषणं तस्यैव स्तुत्यर्थम् ।
न तु तत्परत्वमुपनिषदाम् ।
तस्मात्क्रत्वर्थमेवात्मज्ञानं कर्तृसंस्कारद्वारा न पुनः पुरुषार्थमिति ।
एतदुपोद्बलनार्थं च ब्रह्मविदामाचारादिः श्रुत्यवगत उपन्यस्तः ।
न केवलं वाक्यादात्मज्ञानस्य क्रत्वर्थत्वम् ।
तृतीयाश्रुतेश्च ।
न त्वेतत्प्रकृतोद्गीथविद्याविषयं यदेव विद्ययेति सर्वनामावधारणाभ्यां व्याप्तेरधिगमत् ।
यथा य एव धूमवान्देशः स वह्निमानिति ।
समन्वारम्भवचनं च फलारम्भे विद्याकर्मणोः साहित्यं दर्शयति ।
तच्च यद्यप्याप्नेयादियागषट्कवत्समप्रधानत्वेनापि भवति तथाप्युक्तया युक्त्या विद्यायाः कर्म प्रत्यङ्गभावेनैव नेतव्यम् ।
वेदार्थज्ञानवतः कर्मविधानादुपनिषदोऽपि वेदार्थ इति तज्ज्ञानमपि कर्माङ्गमिति ॥१॥


____________________________________________________________________________________________



३,४.१.२

शेषत्वात्पुरुषार्थवादो यथान्येष्विति जैमिनिः । ब्रह्मसूत्र ३,४.२ ।
॥ २ ॥


____________________________________________________________________________________________


३,४.१.३

आचारदर्शनात् । ब्रह्मसूत्र ३,४.३ ।
॥ ३ ॥


____________________________________________________________________________________________


३,४.१.४

तच्छ्रुतेः । ब्रह्मसूत्र ३,४.४ ।
॥ ४ ॥


____________________________________________________________________________________________


३,४.१.५

समन्वारम्भणात् । ब्रह्मसूत्र ३,४.५ ।
॥ ५ ॥


____________________________________________________________________________________________


३,४.१.६

तद्वतो विधानात् । ब्रह्मसूत्र ३,४.६ ।
॥ ६ ॥


____________________________________________________________________________________________


३,४.१.७

नियमाच्च । ब्रह्मसूत्र ३,४.७ ।
सुगमम् ॥७॥



____________________________________________________________________________________________


३,४.१.८

सिद्धान्तयति
अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात् । ब्रह्मसूत्र ३,४.८ ।
यदि शरीराद्यतिरिक्तः कर्ता भोक्तात्मेत्येतन्मत्र उपनिषदः पर्यवसिताः स्युस्ततः स्यादेवं, न त्वेतदस्ति ।
तास्त्वेवंभूतजीवानुवादेन तस्य शुद्धबुद्धोदासीनब्रह्मरूपताप्रतिपादनपरा इति तत्र तत्रासकृदावेदितम् ।
अनधिगतार्थबोधनस्वरसता हि शब्दस्य प्रमाणान्तरसिद्धानुवादेन ।
तथा चौपनिषदात्मज्ञानस्य क्रत्वनुष्ठानविरोधिनः क्रतुसंबन्ध एव नास्ति ।
किमङ्ग पुनः तदव्यभिचारस्ततश्च क्रतुशेषता ।
तथाच नापवर्गफलश्रुतेरर्थवादमात्रत्वमपि तु फलपरत्वमेव ।
अत एव प्रियादिसूचितेन संसारिणात्मनोपक्रम्य तस्यैवात्मनोऽधिकोपदिदीक्षायां परमात्मनात्यन्ताभेद उपदिश्यते ।
यथा समारोपितस्य भुजगस्य रज्जुरूपादत्यन्ताभेदः प्रतिपाद्यते योऽयं सर्पः सा रज्जुरिति ।
यथा विद्यायाः कर्माङ्गत्वे दर्शनमुपन्यस्तमेवकर्माङ्गत्वे दर्शनमुक्तम् ।
तत्र कर्माङ्गत्वदर्शनानामन्यथासिद्धिरुक्ता केवलविद्यादर्शनानां तु नान्यथासिद्धिः ॥८॥



____________________________________________________________________________________________


३,४.१.९

तुल्यं तु दर्शनम् । ब्रह्मसूत्र ३,४.९ ।
॥ ९ ॥


____________________________________________________________________________________________


३,४.१.१०

असार्वत्रिकी । ब्रह्मसूत्र ३,४.१० ।
व्याप्तिरप्युद्गीथविद्यापेक्षया तस्या एव प्रकृतत्वान्न त्वशेषापेक्षया ।
यथ सर्वे ब्राह्मणा भोज्यन्तामिति निमन्त्रितापेक्षया तेषामेव प्रकृतत्वात् ॥१०॥



____________________________________________________________________________________________


३,४.१.११

विभागः शतवत् । ब्रह्मसूत्र ३,४.११ ।
सुगमम् ।
अविभागेऽपि न दोष इत्याहन चेदं समन्वारम्भवचनमिति ।
संसारिविषया विद्याविहितायथोद्गीथविद्या ।
प्रतिषिद्धा च यथासच्छास्त्राधिगमनलक्षणा ॥११॥



____________________________________________________________________________________________


३,४.१.१२

अध्ययनमात्रवतः । ब्रह्मसूत्र ३,४.१२ ।
अध्ययनमात्रवत एव कर्मविधिर्नतूपनिषदध्ययनवतः ।
एतदुक्तं भवतियदध्ययनमर्थावबोधपर्यन्तं कर्मसूपयुज्यते यथा कर्मविधिवाक्यानां तन्मात्रवत एवाधिकारः कर्मसु नोपनिषदध्यनवतः तदध्ययनस्य कर्मस्वनुपयोगादिति ।
अध्ययनमात्रवत एवेति मात्रग्रहणेनार्थज्ञानं वा व्यवच्छिन्नमिति मन्वानो भ्रान्तश्चोदयतिनन्वेवं सतीति ।
स्वाभिप्रायमुद्घाटयन्समाधत्तेन वयमिति ।
उपनिषदध्ययनापेक्षं मात्रग्रहणं नार्थबोधापेक्षमित्यर्थः ॥१२॥



____________________________________________________________________________________________


३,४.१.१३

नाविशेषात् । ब्रह्मसूत्र ३,४.१३ ।
कुर्वन्नेवेह कर्माणीत्यविद्यावद्विषयमित्यर्थः ॥१३॥



____________________________________________________________________________________________


३,४.१.१४

विद्यावद्विषयत्वेऽप्यविरोधो विद्यास्तुत्यर्थत्वादित्याह
स्तुतयेऽनुमतिर्वा । ब्रह्मसूत्र ३,४.१४ ।
॥१४॥



____________________________________________________________________________________________


३,४.१.१५

कामकारेण चैके । ब्रह्मसूत्र ३,४.१५ ।
अपिच विद्याफलं प्रत्यक्षं दर्शयन्ती श्रुतिः कालान्तरभाविफलकर्माङ्गत्वं विद्याया निराकरोतीत्याहकामकारेण चैके ।
कामकार इच्छा ॥१५॥


____________________________________________________________________________________________



३,४.१.१६

उपमर्दं च । ब्रह्मसूत्र ३,४.१६ ।
अधिकोपदेशादित्यनेनात्मन एव शुद्धबुद्धोदासीनत्वादय उक्ताः ।
इह तु समस्तक्रियाकारकफलविभागोपमर्दं चेति ॥१६॥



____________________________________________________________________________________________


३,४.१.१७

ऊर्ध्वरेतःसु च शब्दे हि । ब्रह्मसूत्र ३,४.१७ ।
सुबोधम् ॥१७॥



____________________________________________________________________________________________


३,४.२.१८

परामर्शं जैमिनिरचोदना चापवदति हि । ब्रह्मसूत्र ३,४.१८ ।
सिद्ध ऊर्ध्वरेतसामाश्रमित्वे तद्विद्यानामकर्माङ्गतयापवर्गार्थं स्यात् ।
आश्रमित्वं त्वेषामन्यार्थपरामर्शमात्रान्न सिध्यति ।

विध्यभावात् ।
स्मृत्याचारप्रसिद्धिश्च तेषां प्रत्यक्षश्रुतिविरोधादप्रमाणम् ।
निन्दति हि प्रत्यक्षा श्रुतिराश्रमान्तरंऽवीरहा वा एष देवानाम्ऽइत्यादिका ।
प्रत्यक्षश्रुतिविरोधे च स्मृत्याचारयोरप्रामाण्यमुक्तंऽविरोधे त्वनपेक्षं स्यादसति ह्यनुमानम्ऽइति ।
तदेतत्सर्वमाहत्रयो धर्मस्कन्धा इत्यादिना ।
अनधिकृतविषया वेति ।
अन्धपङ्ग्वादयो हि ये नैमित्तिककर्मानधिकृतास्तान्प्रत्याश्रमान्तरविधिरिति ।
अपिचापवदिति हि ।
न केवलमन्यपरतया परामर्शस्याश्रमान्तरं न लभ्यते अपि त्वाश्रमान्तरनिन्दाद्वारेणापवादादपीत्यर्थः ।
स्यादेतत् ।
भवत्वेष परामर्शोऽन्यार्थः ।
ये चेमेऽरण्य इत्यादिभ्यस्त्वाश्रमान्तरं सेतस्यतीत्यत आहये चेमेऽरण्य इति ।
अस्यापि देवपथोपदेशपरत्वान्नैतत्परत्वमित्यर्थः ।
न चान्यपरादपि स्फुटतराश्रमान्तरप्रत्यत इत्याहसंदिग्धं चेति ।
नहि तप एव द्वितीय इत्यत्राश्रमान्तराभिधायी कश्चिदस्ति शब्द इति ।
नन्वेतमेव प्रव्राजिन इति वचनादाश्रमान्तरं सेत्स्यतीत्यत आहतथैतमेवेति ।
एतदपि लोकसंस्तनवनपरमिति ।
अधिकरणारम्भमाक्षिप्य नास्ति प्रत्यक्षवचनमितिकृत्वा चिन्तेयमिति समाधत्तेननु ब्रह्मचर्यादेवेति ॥१८॥



____________________________________________________________________________________________


३,४.२.१९

अनुष्ठेयं बादरायणः साम्यश्रुतेः । ब्रह्मसूत्र ३,४.१९ ।
भवत्वन्यार्थः परामर्शस्तथाप्येतस्मादाश्रमान्तराणि प्रतीयमानानि च नापाकरणमर्हन्ति ।
एवं तान्यपाक्रियेरन्यद्यस्मान्न प्रतीयेरन् ।
प्रतीयमानानि वा श्रुत्या बाध्येरन् ।
न तावन्न प्रतीयन्ते ।
तथाहित्रयो धर्मस्कन्धा इति स्कन्धत्रित्वं प्रतिज्ञातम् ।
तत्र स्कन्धशब्दो यद्याश्रमपरो न स्यादपि तु समूहवचनस्ततो धर्माणां यज्ञादीनां प्रातिस्विकोत्पत्तीनां किमपेक्ष्य त्रित्वसङ्ख्या सुव्यवस्थाप्येत ।
एकैकाश्रमोपसंगृहीतास्त्वाश्रमाणां त्रित्वाच्छक्यास्त्रित्वे व्यवस्थापयितुमित्याश्रमत्रित्वप्रतिज्ञोपपत्तिः ।
तत्र यज्ञादिलिङ्गो गृहाश्रम एको धर्मस्कन्धो ब्रह्मचारीति द्वितीयस्तप इति च, तपःप्रधानात्तु वानप्रस्थाश्रमान्नान्यः, ब्रह्मसंस्थ इति च पारिशेष्यात्परिव्राडिति वक्ष्यति ।
तस्मादन्यपरादपि परामर्शादश्रमान्तराणि प्रतीयमानानि देवताधिकरणन्यायेन न शक्यन्तेऽपाकर्तुम् ।
नच प्रत्यक्षश्रुतिविरोधो वीरहा वेत्यादेः प्रतिपन्नगार्हस्थ्यं प्रमादादज्ञानाद्वाग्निमुद्वासयितुं प्रवृत्तं प्रत्युपपत्तेः ।
एवञ्च अविरोधे सिद्धवत्परामर्शादश्रमान्तराणां शास्त्रान्तरसिद्धिं वा कल्पयिष्यामो यथोपवीतविधिपरे वाक्येऽउपव्ययते देवलक्ष्ममेव तत्कुरुतेऽइत्यत्र निवीतं मनुष्याणां प्राचीनावीतं पितृणामिति शास्त्रान्तरसिद्धयोर्निवीतप्राचीनावीतयोः परामर्श इति ॥१९॥



____________________________________________________________________________________________


३,४.२.२०

विधिर्वा धारणवत् । ब्रह्मसूत्र ३,४.२० ।
यद्यपि ब्रह्मसंस्थत्वस्तुतिपरतयास्य संदर्भस्यैकवाक्यता गम्यते ।
संभवान्त्यां चैकवाक्यतायां वाक्यभेदोऽन्याय्यः ।
तथाप्याश्रमान्तराणां पूर्वसिद्धेरभावात्परामर्शानुपपत्तेः, अपरामर्शे च स्तुतेरसंभवेन किंपरतया एकवाक्यतास्त्विती तां भङ्क्त्वा धारणवद्वरमपूर्वत्वाद्विधिरेवास्तु ।
यथाऽअधस्तात्समिधं धारयन्ननुद्रवेदुपरि हि देवेभ्यो धारयतिऽइत्यत्र सत्यामप्यधोधारणेनैकवाक्यताप्रतीतौ विधीयत एवोपरिधारणमपूर्वत्वात् ।
तथोक्तम्ऽविधिस्तु धारणेऽपूर्वत्वात्ऽइति ।
तथेहाप्याश्रमान्तरपरामर्शश्रुतिर्विधरेवेति कल्प्य्ते ।
संप्रति परामर्शेऽपीतरेषामाश्रमाणां ब्रह्मसंस्थता संस्तवसामर्थ्यादेव विधातव्या ।
न खल्वविधेयं संस्तूयते तदर्थत्वात्संस्तवस्येत्याहयदापीति ।
अत्रावान्तरविचारमारभतेसा च किं चतुर्ष्विति ।

विचारप्रयोजनमाहयदि चेति ।
ननु अनाश्रम्येव ब्रह्मसंस्थो भविष्यतीत्यत आहअनाश्रयमित्वेति ।
तत्र पूर्वपक्षमाहतत्र तपःशब्देनेति ।
अयमभिसंधिः ।
यदि तावद्ब्रह्मसंस्थ इति पदं प्रत्यस्तमितावयवार्थं परिव्राजकेऽश्वकर्णादिपदवद्रूढं तदाश्रमप्राप्तिमात्रेणैवामृतीभाव इति न तद्भावाया ब्रह्मज्ञानमपेक्षेत ।
तथाच नान्यः पन्था विद्यतेऽयनायेति विरोधः ।
नच संभत्यवयवार्थे समुदायशक्तिकल्पना ।
तस्माद्ब्रह्मणि संस्थास्येति ।
ब्रह्मसंस्थः ।
एवञ्च चतुर्ष्वाश्रमेषु यस्यैव ब्रह्मणि निष्ठत्वमाश्रमिणः स ब्रह्मसंस्थोऽमृतत्वमेतीति युक्तम् ।
तत्र तावद्ब्रह्मचारिगृहस्थौ स्वशब्दाभिहितौ तपःपदेन च तपःप्रधानतया भिक्षुवानप्रस्थावुपस्थापितौ ।
भिक्षुरपि हि समाधिकशौचाष्टग्रासीभोजननियमाद्भवति वानप्रस्थवत्तपःप्रधानः ।
नच गृहस्थादेः कर्मिणो ब्रह्मनिष्ठत्वासंभवः ।
यदि तावत्कर्मयोगः कर्मिता सा भिक्षोरपि कायवाङ्मनोभिरस्ति ।
अथ ये न ब्रह्मार्पणेन कर्म कुर्वन्ति किन्तु कामार्थितया ते कर्मिणः ।
तथा सति गृहस्थादयोऽपि ब्रह्मार्पणेन कर्म कुर्वाणा न कर्मिणः ।
तस्माद्ब्रह्मणि तात्पर्यं ब्रह्मनिष्ठता न तु कर्मत्यागः ।
प्रमाणविरोधात् ।
तपसा च द्वयोराश्रमयोरेकीकरणेन त्रय इति त्रित्वमुपपद्यते ।
एवञ्च त्रयोऽप्याश्रमा अब्रह्मसंस्थाः सन्तः पुण्यलोकभाजो भवन्ति यः पुनरेतेषु ब्रह्मसंस्थः सोऽमृतत्वभागिति ।
नच येषां पुण्यलोकभाक्त्वं तेषामेवामृतत्वमिति विरोधः ।
यथा देवदत्तयज्ञदत्तौ मन्दप्रज्ञावभूतां संप्रति तयोर्यज्ञादत्तस्तु शास्त्राभ्यासात्पटुप्रज्ञो वर्तते इति तथेहापि य एवाब्रह्मसंस्थाः ।
पुण्यलोकभाजस्त एव ब्रह्मसंस्था अमृतत्वभाज इत्यवस्थाभेदादविरोधः ।
तथाच ब्रह्मसंस्थ इति यौगिकं पदं प्रकृतविषयं भविष्यति ।
यथा आग्नेय्याग्नीध्रमुपतिष्ठत इत्यत्र विनियुक्तापि प्रकृतैवाग्नेयी गृह्यते ।
नच विनियुक्तविनियोगविरोधः ।
यदि ह्यत्राग्नोत्युपदिश्येत ततो यथा प्रतीता तथोद्दिश्येत ।
विनियुक्ता च प्रतीतिर्भवेदिति विनियुक्तविनियोगविरोधः ।
इह तु आग्नीध्रोपस्थाने सा विधेयत्वेन विनियुज्यते ।
न तूद्दिश्यते ।
विधेयत्वेन च विनियोगे आग्नेयीपदार्थापेक्षणात्प्रकृतातिक्रमे प्रमाणाभावात् ।
तावता च शास्त्रोपपत्तेर्नाप्रकृतानामपि ग्रहणसंभवः ।
नच यातयामतया न विनियोगः ।
वाचस्तोमे सर्वेषामेव मन्त्राणां विनियोगादन्यत्राप्यविनियोगप्रसङ्गात् ।
तथेहापि प्रकृता एवाश्रमा बुद्धिविपरिवर्तिनः परामृश्यन्ते नानुक्तः परिव्राडेवेति पूर्वः पक्षः ।
राद्धान्तमुपक्रमतेतदयुक्तम् ।
नहि सत्यां गतौ वानप्रस्थविशेषणेनेति ।
यथोपक्रान्तं तथैव परिसमापनमुचितम् ।
यत्संख्याकाश्च ये प्रसिद्धास्ते तत्संख्याका एव कीर्त्यन्ते इति चोचितम् ।
न तु सत्यां गतावुत्सर्गस्यापवादो युज्यते ।
अशाधारणेनैकैकेन लक्षणेनैकेक आश्रमो वक्तुमुपक्रान्त इति तथैव समापनमुचितम् ।
न तु साधारणासाधारणाभ्यामुपक्रमसमाप्ती श्लिष्येते ।
नच तपो नाम नासाधारणं वानप्रस्थानामित्यत आहतपश्चासाधारण इति ।
न खलु पराकादिभिः कायक्लेशप्रधानो यथा वानप्रस्थस्तथा भिक्षुः सत्यप्यष्टग्रासादिनियमे ।
नच शौचसन्तोषशमदमादयस्तपः पक्षे वर्तन्ते तत्र वृद्धानां तपःप्रसिद्धेरसिद्धेः ।
अत एव वृद्धास्तपसो भेदेन शौचादीनाचक्षतेऽशौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाःऽइति ।
सिद्धसंख्याभेदेषु च संख्यान्तराभिधानमाश्लिष्टमित्याहचतुष्ट्वेन चेति ।
अपिच भेदव्यपदेशोऽत्रेति ।
त्रय एत इति किं भिक्षुरपि परामृश्यते किन्त्वा भिक्षुवर्जं त्रय एव ।
न तावन्त्रय इति भिक्षुसंग्रहे तद्वर्जनमेते त्रय इत्यत्र वर्तुं शक्यम् ।
एत इति प्रकृतानां साकल्येन परामर्शाद्भिक्षुसंग्रहे च न तस्य पुण्यलोकत्वमब्रह्मसंस्थात्वाभावाद्भिक्षोः ।
तेन तस्य ब्रह्मसंस्थस्य सदा पुण्यलोकत्वममृतत्वं चेति विरोधः ।
त्रिषु च ब्रह्मसंस्थपदे यदेति संबन्धनीयम् ।
भिक्षौ च सदेति वैषम्यम् ।
तदिदमुक्तम्पृथक्त्वे चेति ।
पूर्वपक्षाभासं स्मारयतिकथं पुनर्ब्रह्मसंस्थशब्दो योगादिति ।
तन्निराकरोतिअत्रोच्यत इति ।
अयमभिसंधिः ।
सत्यं यौगिकः शब्दः सति प्रकृतसंभवे न तदतिपत्त्याप्रकृते वर्तितुमर्हति ।
असति तु संभवे मा भूत्प्रमादपाठ इत्यप्रकृते वर्तयितव्यः, दर्शितश्चात्रासंभवेऽधस्तादिति ।
एष हि ब्रह्मसंस्थतालक्षणो धर्मो भिक्षोरसाधारण आश्रमान्तराणि तत्संस्थान्यतत्संस्थानि च भिक्षुस्तत्संस्थ इत्येव ।
तत्संस्थता हि स्वाभावं व्यवच्छिन्दन्ती विरोधाद्यस्तत्संस्थ एव तत्राञ्जसी नान्यत्र ।
शमदमादिस्तु तदीय इति ।
स्वाङ्गमव्यवधायकमित्यर्थः ।
ब्रह्मसंस्थत्वमसाधारणं परिव्राजकधर्मं श्रुतिरादर्शयतीत्याहतथाच न्यास इति ब्रह्मेति ।
सर्वसङ्गपरित्यागो हि न्यासः स ब्रह्मा कुत इत्यत आहब्रह्मा हि परः ।
अतः परो न्यासो ब्रह्मेति ।
किमपेक्ष्य परः संन्यास इत्यत आहतानि वा एतान्यवराणि तपांसि न्यास एवात्यरेचयदिति ।
एतदुक्तं भवतिब्रह्मपरतया सर्वेषणापरित्यागलक्षणो न्यासो ब्रह्मेति ।
तथा चेदृशं न्यासलक्षणं ब्रह्मसंस्थत्वं भिक्षोरेवासाधारणं नेतरेषामाश्रमिणाम् ।
ब्रह्मज्ञानस्य शब्दजनितस्य यः परिपाकः साक्षात्कारोऽपवर्गसाधनं तदङ्गतया पारिव्राज्यं विहितम् ।
न त्वनधिकृतं प्रतीत्यर्थः ॥२०॥



____________________________________________________________________________________________


३,४.३.२१

स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् । ब्रह्मसूत्र ३,४.२१ ।
यद्यत्र संनिधान उपासनाविधिर्नास्ति ततः प्रदेशान्तरस्थितोऽपि विधिव्यभिचारिततद्विधिसंबन्धेनोद्गीथेनोपस्थापितः स एष रसानां रसतम इत्यादिना पदसंदर्भेणैकवाक्यभावमुपगतः स्तूयते ।
नहि समभिव्याहृतैरेवैकवाक्यता भवतीति कश्चिन्नियमहेतुरस्ति ।
अनुषङ्गातिदेशलब्धैरपि विध्यसमभिव्याहृतैरर्थवादैरेकवाक्यताभ्युपगमात् ।
यदि तूद्गीथमुपासीत सामोपासीतेत्यादिविधिसमभिव्याहारः श्रुतस्तथापि तस्यैव विधेः स्तुतिर्न तूपासनाविषयसमर्पणपर ओमित्येतदक्षरमुद्गीथमित्यनेनैवोपासनाविषयसमर्पणादिति प्राप्तेऽभिधीयतेन तावद्दूरस्थेन कर्मविधिवाक्येनैकवाक्यतासंभवः ।
प्रतीतसमभिव्याहृतानां विधिनैकवाक्यतया स्तुत्यर्थत्वमर्थवादानां रक्तपटन्यायेन भवति ।
न तु स्तुत्या विना काचिदनुपपत्तिर्विधेः ।
यथाहुःऽअस्ति तु तदित्यतिरेके परिहारःऽइति ।
अत एव विधेरपेक्षाभावात्प्रवर्तनात्मकस्यानुषङ्गतिदेशादिभिरर्थवादप्राप्त्यभिधानमसमञ्जसम् ।
नहि कर्त्रपेक्षितोपायामवगतायां प्राशस्त्यप्रत्ययस्यास्ति कश्चिदुपयोगः ।
तस्माद्दूरस्थस्य कर्मविधेः स्तुतावानर्थक्यम् ।
तेनैकवाक्यतानुपपत्तेः संनिहितस्य तूपासनाविधेः किं विषयसमर्पणेनोपयुज्यतामुत स्तुत्येति विशये विषयसमर्पणेन यथार्थवत्त्वं नैवं स्तुत्या बहिरङ्गत्वात् ।
अगत्या हि सा ।
तस्मादुपासनार्था इति सिद्धम् ।
ऽकुर्यात्क्रियेत कर्तव्यं भवेत्स्यादिति पञ्चमम् ।
एतत्स्यात्सर्ववेदेषु नियतं विधिलक्षणम् ॥
ऽभावनायाः खलु कर्तृसमीहितानुकूलत्वं विधिर्निषेधश्च कर्तुरहितानुकूलत्वम् ।
यथाहुःऽकर्तव्यश्च सुखफलोऽकर्तव्यो दुःखफलःऽइति ।
एतच्चास्माभिरुपपादितं न्यायकणिकायाम् ।
क्रिया च भावना तद्वचनाश्च करोत्यादयः ।
यथाहुःकृभ्वस्तयः क्रियासामान्यवचना इति ।
अत एव कृभ्वस्तीनुदाहृतवान् ।
सामान्योक्तौ तद्विशेषाः पचेदित्यादयोऽपि गम्यन्त इति तत्र कुर्यादित्याक्षिप्तकर्तृका भावना ।
क्रियेतेति आक्षिप्तकर्मिका भावना ।
कर्तव्यमिति तु कर्मभूतद्रव्योपसर्जनभावना ।
एवं दण्डी भवेद्दण्डिना भवितव्यं दण्डिना भूयेतेत्येकधात्वर्थविषया विध्युपहिता भावना उदाहार्याः ।
भवतिश्चैष जन्मनि ।
यथा कुलालव्यापाराद्घटो भवति बीजादङ्कुरो भवतीति प्रयुञ्जते ।
नच बीजादङ्कुरोऽस्तीति प्रयुञ्जते ।
तस्मादस्ति सत्तायां न जन्मनीति ॥२१॥



____________________________________________________________________________________________


३,४.३.२२

भावशब्दाच्च । ब्रह्मसूत्र ३,४.२२ ।
॥ २२ ॥


____________________________________________________________________________________________


३,४.४.२३

पारिप्लवार्था इति चेन्न विशेषितत्वात् । ब्रह्मसूत्र ३,४.२३ ।
यद्यपि उपनिषदाख्यानानि विद्यासंनिधौ श्रुतानि तथापिऽसर्वाण्याख्यानानि पारिप्लवेऽइति सर्वश्रुत्या निःशेषार्थतया दुर्बलस्य संनिधेर्बाधितत्वात्पारिप्लवार्थान्येवाख्यानानि ।
नच सर्वा दाशतयीरनुब्रूयादिति विनियोगेऽपि दाशतयीनां प्रातिस्विकविनियोगात्तत्र तत्र कर्मणि यथा विनियोगो न विरुध्यते तथेहापि सत्यपि पारिप्लवे विनियेगे संनिधानाद्विद्याङ्गत्वमपि भविष्यतीति वाच्यम् ।
दाशतयीषु प्रातिस्विकानां विनियोगानां समुदायविनियोगस्य च तुल्यबलत्वादिह तु संनिधानात्श्रुतेर्बलीयस्त्वात् ।
तस्मात्पारिप्लवार्थान्येवाख्यानानीति प्राप्त उच्यतेनैषामाख्यानानां पारिप्लवे विनियोगः ।
किन्तु पारिप्लवमाचक्षीतेत्युपक्रम्य यान्याम्नातानि मनुर्वैवस्वतो राजेत्यादीनि तेषामेव तत्र विनियोगः, तान्येव हि पारिप्लवेन विशेषितानि ।
इतरथा पारिप्लवे सर्वाण्याख्यानानित्येतावतैव गतत्वात्पारिप्लवमाचक्षीतेत्यनर्थकं स्यात् ।
आख्यानविशेषणत्वे त्वर्थवत् ।
तस्माद्विशेषाणानुरोधात्सर्वशब्दस्तदपेक्षो न त्वशेषवचनः ।
यथा सर्वे ब्राह्मणा भोजयितव्या इत्यत्र निमन्त्रितापेक्षः सर्वशब्दः ।
तथा चोपनिषदाख्यानानां विद्यासंनिधिरप्रतिद्वन्दीं विद्यैकवाक्यतां सोऽरोदीदित्यादीनामिव विद्येकवाक्यत्वं गमयतीति सिद्धम् ।
प्रतिपत्तिसौकर्याच्चेत्युपाख्यानेन हि बाला अप्यवधीयन्ते यथा तन्त्रोपाख्यायिकयेति ॥२३॥


____________________________________________________________________________________________



३,४.४.२४

तथा चैकवाक्यतोपबन्धात् । ब्रह्मसूत्र ३,४.२४ ।
॥ २४ ॥


____________________________________________________________________________________________


३,४.५.२५

अत एव चाग्नीन्धनाद्यनपेक्षा । ब्रह्मसूत्र ३,४.२५ ।
विद्यायाः क्रत्वर्थत्वे सति तथा क्रतूपकरणाय स्वकार्याय क्रतुरपेक्षितः ।
तदभावे कस्योपकारो विद्ययेति ।
यदा तु पुरुषार्था तदा नानया क्रतुरपेक्षितः स्वकार्ये निरपेक्षाया एव तस्याः सामर्थ्यात् ।
अग्नीन्धानादिना चाश्रमकर्माण्युपलक्ष्यन्ते तदाहअग्नीन्धनादीन्याश्रमकर्माणि विद्यया स्वार्थसिद्धौ नापेक्षितव्यानीति ।
स्वार्थसिद्धौ नापेक्षितव्यानि न तु स्वसिद्धाविति ।
एतच्चाधिकमुपरिष्टाद्वक्ष्यते ।
तद्विवक्षया चैतत्प्रयोजनं पूर्वतनस्याधिकरणस्योक्तम् ॥२५॥



____________________________________________________________________________________________


३,४.५.२६

अधिकविवक्ष्येति यदुक्तं तदधिकमाह
सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् । ब्रह्मसूत्र ३,४.२६ ।
यथा स्वार्थसिद्धौ नापेक्ष्यन्ते आश्रमकर्माणि एवमुत्पत्तावपि नापेक्ष्येरन्निति शङ्का स्यात् ।
नच विविदिषन्ति यज्ञेनेत्यादिविरोधः ।
नह्येष विधिरपि तु वर्तमानापदेशः ।
स च स्तुत्याप्युपपद्यते ।
अपिच चतस्रः प्रतिपत्तयो ब्रह्मणि ।
प्रथमा तावदुपनिषद्वाक्यश्रवणमात्राद्भवति यां किलाचक्षते श्रवणमिति ।
द्वितीया मीमांसासहिता तस्मादेवोपनिषद्वाक्याद्यामाचक्षते ।
मननमिति ।
तृतीया चिन्ता ।
सन्ततिमयी यामाचक्षते निदिध्यासनमिति ।
चतुर्थी साक्षात्कारवती वृत्तिरूपा नान्तरीयकं हि तस्याः कैवल्यमिति ।
तत्राद्ये तावत्प्रतिपत्ति विदितपदतदर्थस्य विदितवाक्यगतिगोचरन्यायस्य च पुंस उपपद्येते एवेति न तत्र कर्मापेक्षा ।
ते एव च चिन्तामयीं तृतीयां प्रतिपत्तिं प्रसुवाते इति न तत्रापि कर्मापेक्षा ।
सा चादरनैरन्तर्यदीर्घकालसेविता साक्षात्कारवतीमाधत्त एव प्रतिपत्तिं चतुर्थीमिति न तत्राप्यस्ति कर्मापेक्षा ।
तन्नान्तरीयकं च कैवल्यमिति न तस्यापि कर्मापेक्षा ।
तदेवं प्रमाणतश्च प्रमेयत उत्पत्तौ च कार्ये च न ज्ञानस्य कर्मापेक्षेति बीजं शङ्कायाम् ।
एवं प्राप्त उच्यतेउत्पत्तौ ज्ञानस्य कर्मापेक्षा विद्यते विविदिषोत्पादद्वाराऽविविदिषन्ति यज्ञेनऽइति श्रुतेः ।
न चेदं वर्तमानापदेशत्वात्स्तुतिमात्रमपूर्वत्वादर्थस्य ।
यथा यस्य पर्णमयी जुहूर्भवतीति पर्णमयताविधिरपूर्वत्वान्न त्वयं वर्तमानापदेशः, अनुवादानुपपत्तेः ।
तस्मादुत्पत्तौ विद्यया शमादिवत्कर्माण्यपेक्ष्यन्ते ।
तत्राप्येवंविदिति विद्यास्वरूपसंयोगादन्तरङ्गाणि विद्योत्पादे शमादीनि, बहिरङ्गाणि कर्माणि विविदिषासंयोगात् ।

तथाहिआश्रमविहितनित्यकर्मानुष्ठानाद्धर्मसमुत्पादस्ततः पाप्मा विलीयते ।
स हि तत्त्वतोऽनित्याशुचिदुःखानात्मनि संसारे सति नित्यशुचिमुखात्मलक्षणेन विभ्रमेण मलिनयति चित्तसत्त्वमधर्मनिबन्धनत्वाद्विभ्रमाणाम् ।
अतः पाप्मनः प्रक्षये प्रत्यक्षोपपत्तिद्वारापावरणे सति प्रत्यक्षोपपत्तिभ्यां संसारस्य तात्त्विकीमनित्याशुचिदुःखरूपतामप्रत्यूहं विनिश्चिनेति ।
ततोऽस्मिन्ननभिरतिसंज्ञं वैराग्यमुपजायते ।
ततस्तज्जिहासास्योपावर्तते ।
ततो हानोपायं पर्येषते पर्येषमाणश्चात्मतत्त्वज्ञानमस्योपाय इति शास्त्रादाचार्यवचनाच्चोपश्रुत्य तज्जिज्ञासत इति विविदिषोपहारमुखेनात्मज्ञानोत्पत्तावस्ति कर्माणामुपयोगः ।
विविदिषुः खलु युक्त एकाग्रतया श्रवणमनने कर्तुमुत्सहते ।
ततोऽस्यऽतत्त्वमसिऽइतिवाक्यन्निर्विचिकित्सं ज्ञानमुत्पद्यते ।
नच निर्विचिकित्सं तत्त्वमसीति वाक्यार्थमवधारयतः कर्मण्यधिकारोऽस्ति ।
येन भावनायां वा भावनाकार्ये वा साक्षात्कारे कर्मणामुपयोगः ।
एतेन वृत्तिरूरपसाक्षात्कारकार्येऽपवर्गे कर्मणामुपयोगो दूरनिरस्तो वेदितव्यः ।
तस्माद्यथैव शमदमादयो यावज्जीवमनुवर्तन्ते एवमाश्रमकर्मापीत्यसमीक्षिताभिधानम् ।

विदुषस्तत्रानधिकारादित्युक्तम् ।
दृष्टार्थेषु तु कर्मसु प्रतिषिद्धवर्जनमनधिकारेऽप्यसक्तस्य स्वारसिकी प्रवृत्तिरुपपद्यत एव ।
नहि तत्रान्वयव्यतिरेकसमधिगमनीयफलेऽस्ति विध्यपेक्षा ।
अतश्चऽभ्रान्त्या चेल्लौकिकं कर्म वैदिकं च तथास्तु तेऽइति प्रलापः ।
शमदमादीनां तु विद्योत्पादायोपात्तानामुपरिष्टादवस्थास्वाभाव्यादनपेक्षितानामप्यनुवृत्तिः ।
उपपादितं चैतदस्माभिः प्रथमसूत्र इते नेह पुनः प्रत्याप्यते ।
तस्माद्विविदिषोत्पादद्वाराश्रमकर्मणां विद्योत्पत्तावुपयोगो न विद्याकार्य इति सिद्धम् ।
शेषमतिरोहितार्थम् ॥२६॥


____________________________________________________________________________________________



३,४.६.२७

शमदमाद्युपेतस्स्यात्तथापि तु तद्विधेस्तदङ्गतया तेषामप्यवश्यानुष्ठेयत्वात् । ब्रह्मसूत्र ३,४.२७ ।
॥ २७ ॥


____________________________________________________________________________________________


३,४.७.२८

सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् । ब्रह्मसूत्र ३,४.२८ ।
प्राणसंवादे सर्वेन्द्रियाणां श्रूयते ।
एष किल विचारविषयःसर्वाणि खलु वागादीन्यवजित्य प्राणो मुख्य उवाचैतानि किं मेऽन्नं भविष्यतीति, तानि होचुः ।
यदिदं लोकेऽन्नमा च श्वभ्य आ च शकुनिभ्यः सर्वप्राणिनां यदन्नं तत्तवान्नमिति ।
तदनेन संदर्भेण प्राणस्य सर्वमन्नमित्यनुचिन्तनं विधायाह श्रुतिःऽन ह वा एवंविदि किञ्चनानन्नं भवतिऽइति ।
सर्वं प्राणस्यान्नमित्येवंविदि न किञ्चिनानन्नं भवतीति ।
तत्र संशयःकिमेतत्सर्वान्नाभ्यनुज्ञानं शमादिवदेतद्विद्याङ्गतया विधीयत उत स्तुत्यर्थं संकीर्त्यत इति ।
तत्र यद्यपि भवतीति वर्तमानापदेशान्न विधिः प्रतीयते ।
तथापि यथा यस्य पर्णमयी जुहूर्भवतीति वर्तमानापदेशादपि पलाशमयीत्वविधिप्रतिपत्तिः पञ्चमलकारापत्त्या तथेहापि प्रवृत्तिविशेषकरतालाभे विधिप्रतिपत्तिः ।
स्तुतौ हि अर्थवादमात्रं न तथार्थवद्यथा विधौ ।
भक्ष्याभक्ष्यशास्त्रं च सामान्यतः प्रवृत्तमनेन विशेषशास्त्रेण बाध्यते ।
गम्यागम्यविवेकशास्त्रमिव सामान्यतः प्रवृत्तं वामदेवविद्याङ्गभूतसमस्तस्त्र्यपरिहारशास्त्रेण विशेषविषयेणेति प्राप्त उच्यतेअशक्तेः कल्पनीयत्वाच्छास्त्रान्तरविरोधतः ।
प्राणस्यान्नमिदं सर्वमिति चिन्तनसंस्तवः ॥
न तावत्कौलेयकमर्यादमन्नं मनुष्यजातिना युगपत्पर्यायेण वा शक्यमत्तुम् ।
इभकरभकादीनामन्नस्य शमीकरीरकण्टकवटकाष्ठादेरेकस्यापि अशक्यादनत्वात् ।
न चात्र लिङ्ग इव स्फुटतरा विधिप्रतिपत्तिरस्ति ।
नच कल्पनीयो विधिरपूर्वत्वाभावात् ।
स्तुत्यापि च तदुपपत्तेः ।
नच सत्यां गतौ सामान्यतः प्रवृत्तस्य शास्त्रस्य विषयसंकोचो युक्तः ।
तस्मात्सर्वं प्राणस्यान्नमित्यनुचिन्तनविधानस्तुतिरिति साम्प्रतम् ।
शक्यत्वे च प्रवृत्तिविशेषकरतोपयुज्यते नाशक्यविधानत्वे ।
प्राणात्यय इति चावधारणपरं प्राणात्यय एव सर्वान्नत्वम् ।
तत्रोपाख्यानाच्च स्फुटतरविधिस्मृतेश्च सुरावर्जं विद्वांसमविद्वांसं प्रति विधानात् ।
न त्वन्यत्रेति ।
इभ्येनहस्तिपकेनसामिस्वादितानर्धभक्षितान् ।
स हि चाक्रायणो हस्तिपकोच्छिष्टान्कुल्माषान्भुञ्जानो हस्तिपकेनोक्तः ।
कुल्माषानिव मदुच्छिष्टमुदकं कस्मान्नानुपिबसीति ।
एवमुक्तस्तदुदकमुच्छिष्टदोषात्प्रत्याचचक्षे ।
कारणं चात्रोवाच ।
न वाजीविष्यं न जीविष्यामीतीमान्कुल्माषानखादम् ।
कामो म उदकपानमिति स्वातन्त्र्यं मे उदकपाने नदीकूपतडागप्रापादिषु यथाकामं प्राप्नोमीति नोच्छिष्टोदकाभावे प्राणात्यय इति तत्रोच्छिष्टभक्षणदोष इति मटचीहतेषु कुरुषु ग्लायन्नशनायया मुनिर्निरपत्रप इभ्येन सामिजग्धान्खादयामास ॥२८॥



____________________________________________________________________________________________


३,४.७.२९

अबाधाच्च । ब्रह्मसूत्र ३,४.२९ ।
॥ २९ ॥


____________________________________________________________________________________________


३,४.७.३०

अपि च स्मर्यते । ब्रह्मसूत्र ३,४.३० ।
॥ ३० ॥


____________________________________________________________________________________________


३,४.७.३१

शब्दश्चातोऽकामकारे । ब्रह्मसूत्र ३,४.३१ ।
॥ ३१ ॥


____________________________________________________________________________________________


३,४.८.३२

विहितत्वाच्चाश्रमकर्मापि । ब्रह्मसूत्र ३,४.३२ ।
नित्यानि ह्याश्रमकर्माणि यावज्जीवश्रुतेर्नित्येहितोपायतयावश्यं कर्तव्यानि ।
विविदिषन्तीति च विद्यासंयोगाद्विद्यायाश्चावश्यंभावनियमाभावादनित्यता प्राप्नोति ।
नित्यानित्यसंयोगश्चैकस्य न संभवति, अवश्यानवश्यंभावयोरेकत्र विरोधात् ।
नच वाक्यभेदाद्वास्तवो विरोधः शक्योऽपनेतुम् ।
तस्मादनध्यवसाय एवात्रेति प्राप्तम् ।
एतेनऽएकस्य तूभयत्वे संयोगपृथक्त्वम्ऽइत्याक्षिप्तम् ।
एवं प्राप्तेऽभिधीयतेसिद्धे हि स्याद्विरोधोऽयं न तु साध्ये कथञ्चन ।
विध्यधीनात्मलाभेऽस्मिन् यथाविधि मता स्थितिः ॥
सिद्धं हि वस्तु विरुद्धधर्मयोगेन बाध्यते ।
न तु साध्यरूपं यथा षोडशिन एकस्य ग्रहणाग्रहणे ।
ते हि विध्यधीनत्वाद्विकल्पेते एव ।
न पुनः सिद्धे विकल्पसंभवः ।
तदिहैकमेवाग्निहोत्राख्यं कर्म यावज्जीवश्रुतेर्निमित्तेन युज्यमानं नित्येहितोपात्तदुरितप्रक्षयप्रयोजनमवश्यकर्तव्यं, विद्याङ्गतया च विद्यायाः कादाचित्कतयानवश्यं भावेऽपिऽकाम्यो वा नैमित्तिको वा नित्यमर्थं विकृत्य निविशतेऽइति न्यायादनित्याधिकारेण निविशमानमपि न नित्यमनित्ययति, तेनापि तत्सिद्धेरिति संयोगपृथक्त्वान्न नित्यानित्यसंयोगविरोध एकस्य कार्यस्येति सिद्धम् ।
सहकारित्वं च कर्मणां न कार्ये विद्यायाः किं तूत्पत्तौ ।
कोर्ऽथो विद्यासहकारीणि कर्माणीति ।
अयमर्थःसत्सु कर्मसु विद्यैव स्वकार्ये व्याप्रियते ।
यथाऽसहैव दशभिः पूत्रैर्भारं वहति गर्दभीऽइति सात्स्वेव दशपुत्रेषु सैव भारस्य वाहिकेति ।
अविधिलक्षणत्वादिति ।
विहितं हि दर्शपौर्णमासाद्यङ्गैर्युज्यते न त्वविहितम् ।
ग्राहकग्रहणपूर्वकत्वादङ्गभावस्य विधैश्च ग्राहकत्वात् ।
अविहिते च तदनुपपत्तेः ।
चतसृणामपि च प्रतिपत्तीनां ब्रह्मणि विधानानुपपत्तेरित्युक्तं प्रथमसूत्रे ।
द्रष्टव्यो निदिध्यासितव्य इति च विधिसरूपं न विधिरित्यप्युक्तम् ।
उत्पत्तिं प्रति हेतुभावस्तु सत्त्वशुद्ध्या विविदिषोपजनद्वारेत्यधस्तादुपपादितम् ।
असाध्यत्वाच्च विद्याफलस्यापवर्गस्य स्वरूपावस्थानलक्षणो हि सः ।
नच स्वं रूपं ब्रह्मणः साध्यं नित्यत्वात् ।
शेषमतिरोहितार्थम् ॥३२॥



____________________________________________________________________________________________


३,४.८.३३

सहकारित्वेन च । ब्रह्मसूत्र ३,४.३३ ।
॥ ३३ ॥


____________________________________________________________________________________________


३,४.८.३४

सर्वथापि त एवोभयलिङ्गात् । ब्रह्मसूत्र ३,४.३४ ।
यथा मासमग्निहोत्रं जुह्वतीति प्रकरणान्तरात्कर्मभेद एवमिहापिऽतमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेनऽइतिक्रतुप्रकरणमतिक्रम्यश्रवणात्प्रकरणान्तरात्तद्बुद्धिव्यवच्छेदे सति कर्मान्तरमिति प्राप्त उच्यतेसत्यपि प्रकरणान्तरे तदेव कर्म, श्रुतेः स्मृतेश्च संयोगभेदः परं यथाऽअग्निहोत्रं जुहुयात्स्वर्गकामःऽऽयावज्जीवमग्निहोत्रं जुहुयात्ऽइति तदेवाग्निहोत्रमुभयसंयुक्तम् ।
नहि प्रकरणान्तरं साक्षाद्भेदकम् ।
किन्तु अज्ञातज्ञापनस्वरसो विधिः प्रकरणैक्ये स्फुटतरप्रत्यभिज्ञाबलेन स्वरसं जह्यात् ।
प्रकरणान्तरेण तु विघटुतप्रत्यभिज्ञानः स्वरसमजहत्कर्म भिनत्ति ।
इह तु सिद्धवदुत्पन्नरूपाण्येव यज्ञादीनि विविदिषायां विनियुञ्जानो न जुह्वतीत्यादिवदपूर्वमेषां रूपमुत्पादयितुमर्हति ।
नच तत्रापि नैयमिकाग्निहोत्रे मासविधिर्नापूर्वाग्निहोत्रोत्पत्तिरिति सांप्रतम् ।
होम एव साक्षाद्विधिश्रुतेः ।
कालस्य चानुपादेयस्याविधेयत्वात् ।
काले हि कर्म विधीयते न कर्मणि काल इत्युत्सर्गः ।
इह तु विविदिषायां विधिश्रुतिः न यज्ञादौ ।
तानि तु सिद्धान्येवानूद्यन्त इत्यैककर्म्यात्संयोगपृथक्त्वं सिद्धम् ।
स्मृतिमुक्त्वा लिङ्गदर्शनमुक्तम् ॥३४॥



____________________________________________________________________________________________


३,४.८.३५

अनभिभवं च दर्शयति । ब्रह्मसूत्र ३,४.३५ ।
॥ ३५ ॥


____________________________________________________________________________________________


३,४.९.३६

अन्तरा चापि तु तद्दृष्टेः । ब्रह्मसूत्र ३,४.३६ ।
यदि विद्यासहकारीण्याश्रमकर्माणि हन्त भो विधुरादीनामनाश्रमिणामनधिकारो विद्यायाम्, अभावात्सहकारिणामाश्रमकर्मणामिति प्राप्त उच्यतेनात्यन्तमकर्माणो रैक्वविधुरवाचक्रवीप्रभृतयः ।
सन्ति हि तेषामनाश्रमित्वेऽपि जपोपवासदेवताराधनादीनि कर्माणि ।
कर्मणां च सहकारित्वमुक्तमाश्रमकर्मणामुपलक्षणत्वादिति न तेषामनधिकारो विद्यासु ।

जन्मान्तरानुष्ठितेरपि चेति ।
न खलु विद्याकार्ये कर्मणामपेक्षा ।
अपितु उत्पादे ।
उत्पादयन्ति च विविदिषोपहारेण कर्माणि विद्याम् ।
उत्पन्नविविदिषाणां पुरुषधौरेयाणां विधुरसंवर्तप्रभृतीनां कृतं कर्मभिः ।
यद्यपि चेह जन्मनि कर्माण्यननुष्ठितानि तथापि विविदिषातिशयदर्शनात्प्राचि भवेऽनुष्ठितानि तैरिति गम्यत इति ।
ननु यथाधीतवेद एव धर्मजिज्ञासायामधिक्रियते नानधीतवेद इह जन्मनि ।
तथेह जन्मन्याश्रमकर्मोत्पादितविविदिष एव विद्यायामधिकृतो नेतर इत्यनाश्रमिणामनधिकारो विधुरप्रभृतीनामित्यत आहदृष्टार्था चेति ।
अविद्यानिवृत्तिर्विद्याया दृष्टोर्ऽथः ।
स चान्वव्यतिरेकसिद्धो न नियममपेक्षत इत्यर्थः ।
प्रतिषेधो विधातस्तस्याभाव इत्यर्थः ॥३६॥



____________________________________________________________________________________________


३,४.९.३७

अपि च स्मर्यते । ब्रह्मसूत्र ३,४.३७ ।
॥ ३७ ॥


____________________________________________________________________________________________


३,४.९.३८

विशेषानुग्रहश्च । ब्रह्मसूत्र ३,४.३८ ।
॥ ३८ ॥

____________________________________________________________________________________________



३,४.१०.३९

अतस्त्वितरज्ज्यायो लिङ्गाच्च । ब्रह्मसूत्र ३,४.३९ ।
यद्यनाश्रमिणामप्यधिकारो विद्यायां कृतं तर्ह्याश्रमैरतिबहुलायासैरित्याशङ्क्याहअतस्त्वितरज्ज्यायो लिङ्गाच्च ।
स्वस्थेनाश्रमित्वमास्थेयम् ।
दैवात्पुनः पत्न्यादिवियोगातः सत्यनाश्रमित्वे भवेदधिकारो विद्यायामिति श्रुतिस्मृतिसंदर्भेण विविदिषन्ति यज्ञेनेत्यादिना ज्यायस्त्वावगतेः श्रुतिलिङ्गात्स्मृतिलिङ्गाच्चावगम्यते ।
तेनैति पुण्यकृदिति श्रुतिलिङ्गम्, अनाश्रमी न तिष्ठेतेत्यादि च स्मृतिलिङ्गम् ॥३९॥



____________________________________________________________________________________________


३,४.१०.४०

तद्भूतस्य तु नातद्भावो जैमिनेरपि नियमात्तद्रूपाभावेभ्यः । ब्रह्मसूत्र ३,४.४० ।
आरोहवत्प्रत्यवरोहोऽपि कदाचिदूर्ध्वरेतसां स्यादिति मन्दाशङ्कानिवारणार्थमिदमधिकरणम् ।
पूर्वधर्मेषु यागहोमादिषु ।
रागतो वा गृहस्थोऽहं पत्न्यादिपरिवृतः स्यामिति ।
नियमं व्याचष्टेतथाहिअत्यन्तमात्मानमिति ।
अतद्रूपतामारोहतुल्यताभावं व्याचष्टेयथाच ब्रह्मचर्यं समाप्येति ।
अभावं शिष्टाचाराभावं विभजतेन चैवमाचाराः शिष्टा इति ।
अतिरोहितार्थमन्यत् ॥४०॥


____________________________________________________________________________________________


३,४.११.४१

न चाधिकारिकमपि पतनानुमानात्तदयोगात् । ब्रह्मसूत्र ३,४.४१ ।
प्रायश्चित्तं न पश्यामीति नैष्ठिकं प्रति प्रायश्चित्ताभावस्मरणान्नैरृतगर्दभालम्भः प्रायश्चित्तमुपकुर्वाणकं प्रति ।
तस्माच्छिन्नशिरस इव पुंसः प्रतिक्रियाभाव इति पूर्वः पक्षः ।
सूत्रयोजना तुन चाधिकारिकमधिकारलक्षणे प्रथमकाण्डे निर्णीतम्ऽअवकीर्णिपशुश्च तद्वदाधानस्याप्राप्तकालत्वात्ऽइत्यनेन यत्प्रायश्चित्तं तन्न नैष्ठिके भवितुमर्हति ।
कुतःारूढो नैष्ठिकमिति स्मृत्या पतनश्रुत्यनुमानात्तत्प्रायश्चित्तायोगात् ॥४१॥



____________________________________________________________________________________________


३,४.११.४२

उपपूर्वमपि त्वेके भावमशनवत्तदुक्तम् । ब्रह्मसूत्र ३,४.४२ ।
श्रुतिस्तावत्सरसतोऽसङ्कुचद्वृत्तिर्ब्रह्मचारिमात्रस्य नैष्ठिकस्योपकुर्वाणस्य चाविशेषेण प्रायश्चित्तमुपदिशति साक्षात् ।
प्रायश्चित्तं न पश्यामीति तु स्मृतिः ।
तस्यामपि च साक्षात्प्रायश्चित्तं न कर्तव्यमिति प्रायश्चित्तनिषेधो न गम्यते, न पश्यामीति तु दर्शनाभावेन सोऽनुमातव्यः ।
तथा च स्मृतिर्निषेधार्थेति अनुमाय तदर्था श्रुतिरनुमातव्या ।
श्रुतिस्तु सामान्यविषया विशेषमुपसर्पन्ती शीघ्रप्रवृत्तिरिति ।
स्मार्तं प्रायश्चित्तादर्शनं तु यत्नगौरवार्थम् ।
एतदुक्तं भवतिकृतनिर्णेजनैरपि एतैर्न संख्यानं कर्तव्यमिति ।
सूत्रार्थस्तुउपपूर्वमपि पातकं नैष्ठिकस्यावकीर्णित्वं न महापातकमपिरेवकारार्थे अत एके प्रायश्चित्तभावमिच्छन्तीति ।
आचार्याणां विप्रतिपत्तौ विशेषाभावात्साम्यं भवेत् ।
शास्त्रस्था या वा प्रसिद्धिः सा ग्राह्या शास्त्रमूलत्वात् ।
उपपादितं च प्रायश्चित्तभावप्रसिद्धेः शास्त्रमूलत्वमिति ।
सुगममितरम् ॥४२॥



____________________________________________________________________________________________


३,४.१२.४३

बहिस्तूभयथापि स्मृतेराचाराच्च । ब्रह्मसूत्र ३,४.४३ ।
यदि नैष्ठिकादीनामस्ति प्रायश्चित्तं तत्किमेतैः कृतनिर्णेजनैः संव्यवहर्तव्यमुत नेति ।
तत्र दोषकृतत्वादसंव्यवहारस्य प्रायश्चित्तेन तन्निबर्हणादनिबर्हणो वा तत्करणवैयर्थ्यात्संव्यवहार्या एवेति प्राप्त उच्यतेबहिस्तूभयथापि स्मृतेराचाराच्च ।
निषिद्धकर्मानुष्ठानजन्यमेनो लोकद्वयेऽप्यशुद्धिमापादयति द्वैधं कस्यचिदेनसो लोकद्वयेऽप्यशुद्धिरपनीयते प्रायश्चित्तैरेनोनिबर्हणं कुर्वाणैः ।
कस्याचित्तु परलोकाशुद्धिमात्रमपनीयते प्रायश्चित्तैरेनोनिबर्हणं कुर्वाणैरिहलोकाशुद्धिस्त्वेनसापादिता न शक्यापनेतुम् ।
यथा स्त्रीबालादिघातिनाम् ।
यथाहुःऽविशुद्धानपि धर्मतो न संपिबेत्ऽइति ।
तथा चऽप्रायश्चित्तैरपैत्येनो यदज्ञानकृतं भवेत्ऽकामतः कृतमपि ।
बालघ्नादिस्तु कृतनिर्णेजनोऽपि वचनादव्यवहार्य इह लोके जायत इति ।
वचनं च बालघ्नांश्चेत्यादि ।
तस्मात्सर्वमवदातम् ॥४३॥



____________________________________________________________________________________________


३,४.१३.४४

स्वामिनः फलश्रुतेरित्यात्रेयः । ब्रह्मसूत्र ३,४.४४ ।
प्रथमे काण्डे शेषलक्षणे तथाकाम इत्यत्रर्त्विक्संबन्धे कर्मणः सिद्धे किं कामो याजमान उतार्त्विज्य इति संशय्यार्त्विज्येऽपि कर्मणि याजमान एव कामो गुणफलेष्विति निर्णीतमिह त्वेवञ्जातीयकानि चाङ्गसंबद्धानि उपासनानि किं याजमानन्येवोतार्त्विज्यानीति विचार्यत इति न पुनरुक्तम् ।
तत्रोपासकानां फलश्रवणादनधिकारिणस्तदनुपपत्तेर्यजमानस्य च कर्मजनितफलोपभोगभाजोऽधिकारादृत्विजां च तदनुपपत्तेर्वचनाच्च राजाज्ञास्थानीयात्क्वचिदृत्विजां फलश्रुतेरसति वचने यजमानस्य फलवदुपासनं तस्य फलश्रुतेः तं ह बको दाल्भ्यो विदाञ्चकारेत्यादेरुपासनस्य च सिद्धविषयतयान्यायापवादसामर्थ्यभावाद्याजमानमेवोपासनाकर्मेति प्राप्त उच्यते ॥४४॥



____________________________________________________________________________________________


३,४.१३.४५

आर्त्विज्यमित्यौडुलोमिः तस्मै हि परिक्रीयते । ब्रह्मसूत्र ३,४.४५ ।
उपाख्यानात्तावदुपासनमौद्गात्रमवगम्यते ।
तद्बलवति सति बाधकेऽन्यथोपपादनीयम् ।
न चर्त्विक्कर्तृक उपासने यजमानगामिता फलस्यासंभविनी तेन हि स परिक्रीतस्तद्गामिनो फलाय घटते ।
तस्मान्न व्यसनितामात्रेणोपाख्यानमन्यथयितुं युक्तमिति राद्धान्तः ॥४५॥



____________________________________________________________________________________________


३,४.१३.४६

श्रुतेश्च । ब्रह्मसूत्र ३,४.४६ ।
॥ ४६ ॥


____________________________________________________________________________________________


३,४.१४.४७

सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् । ब्रह्मसूत्र ३,४.४७ ।
तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्य निश्चयेन ।
लब्ध्वा बाल्येन तिष्ठासेद्बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिरमौनं च मौनं च निर्विद्याथ ब्राह्मण इति ।
यत्र हि विधिविभक्तिः श्रूयते स विधेयः ।
बाल्येन तिष्ठासेदित्यत्र च सा श्रूयते न श्रूयते तु मौने ।
तस्माद्यथाथ ब्रह्मण इत्येतदश्रूयमाणविधिकमविधेयमेवं मौनमपि ।
न चापूर्वत्वाद्विधेयं, तस्माद्ब्राह्णः पाण्डित्यं निर्विद्येति पाण्डित्यविधानादेव मौनसिद्धेः पाण्डित्यमेव मौनमिति ।
अथवा भिक्षुवचनोऽयं मुनिशब्दस्तत्र दर्शनात्ऽगार्हस्थ्यमाचार्यकुलं मौनं वानप्रस्थम्ऽइत्यत्र ।
तस्यान्यतो विहितस्यायमनुवादः ।
तस्माद्बाल्यमेवात्र विधीयते मौनं तु प्राप्तं प्रशंसार्थमनूद्यत इति युक्तम् ।
भवेदेवं यदि पण्डितपर्यायो मुनिशब्दो भवेत् ।
अपि तु ज्ञानमात्रं पाण्डित्यं ज्ञानातिशयसंपत्तिस्तु मौनं तत्रैव तत्प्रसिद्धेः ।
आश्रमभेदे तु तत्प्रवृत्तिर्गार्हस्थ्यादिपदसंनिधानात् ।
तस्मादपूर्वत्वान्मौनस्य बाल्यपाण्डित्यापेक्षया तृतीयमिदं मौनं ज्ञानातिशयरूपं विधीयते ।
एवं च निर्वेदनीयत्वमपि विधान आञ्जसं स्यादित्याहनिर्वेदनीयत्वनिर्देशादिति ।
कस्येदं मौनं विधीयते विद्यासहकारितयेत्यत आहतद्वतो विद्यावतः संन्यासिनोभिक्षोः ।
पृच्छतिकथमिति ।
विद्यावत्ता प्रतीयते न संन्यासितेत्यर्थः ।
उत्तरन्तदधिकारात्भिक्षोस्तदधिकारात् ।
तद्दर्शयतिआत्मानं विदित्वेति ।
सूत्रावयवं योजयितुं शङ्कतेनन्विति ।
परिहरतिअत आहपक्षेणेति ।
विद्यावानिति न विद्यातिशयो विवक्षितः ।
अपि तु विद्योदयायाभ्यासो प्रवृत्तो न पुनरुत्पन्नविद्यातिशयः ।
तथाचास्य पक्षे कदाचिद्भेददर्शनात्संभव इत्यर्थः ।
विध्यादिर्विधिमुख्यः प्रधानमिति यावत् ।
अत एव समिदादिर्विध्यन्तः स हि विधिः प्रधानविधेः पश्चादिति ।
तत्राश्रूयमाणविधित्वेऽपूर्वत्वाद्विधिरास्थेय इत्यर्थः ॥४७॥



____________________________________________________________________________________________


३,४.१४.४८

ननु यद्ययमाश्रमो बाल्यप्रधानः कस्मात्पुनर्गार्हस्थ्येनोपसंहरतीति चोदयतिएवं बाल्यादिविशिष्टेति ।

उत्तरं पठति
कृत्स्नभावात्तु गृहिणोपसंहारः । ब्रह्मसूत्र ३,४.४८ ।
छान्दोग्ये बहुलायाससाध्यकर्मबहुलत्वाद्गार्हस्थ्यस्य चाश्रमान्तरधर्माणां च केषाञ्चिदहिंसादीनां समवायात्तेनोपसंहारो न पुनस्तेन समापनादित्यर्थः ॥४८॥



____________________________________________________________________________________________


३,४.१४.४९

एवं तदाश्रमद्वयोपन्यासेन क्वचित्कदाचिदितराभावशङ्का मन्दबुद्धेः स्यादिति तदपाकरणार्थं सूत्रम्
मौनवदितरेषामप्युपदेशात् । ब्रह्मसूत्र ३,४.४९ ।
वृत्तिर्वानप्रस्थानामनेकविधैरेवं ब्रह्माचारिणोऽपीति वृत्तिभेदोऽनुष्ठातारो वा पुरुषा भिद्यन्ते, तस्माद्द्वित्वेऽपि बहुवचनमविरुद्धम् ॥४९॥



____________________________________________________________________________________________


३,४.१५.५०

अनाविष्कुर्वन्नन्वयात् । ब्रह्मसूत्र ३,४.५० ।
बाल्येनेति यावद्बालचरितश्रुतेः कामचारवादभक्षतायाशचात्यन्तबाल्येन प्रसिद्धेः शौचादिनियमविधायिनश्च सामान्यशास्त्रस्यानेन विशेषशास्त्रेण बाधनात्सकलबालचरितविधानमिति प्राप्तेऽभिधीयतेविद्याङ्गत्वेन बाल्यविधानात्समस्तबालचर्यायां च प्रधानविरोधप्रसङ्गाद्यत्तदनुगुणमप्रौढेन्द्रियत्वादि भावशुद्धिरूपं तदेव विधीयते ।
एवं च शास्त्रान्तराबाधेनाप्युपपत्तौ न शास्त्रान्तरबाधनमन्याय्यं भविष्यतीति ॥५०॥



____________________________________________________________________________________________


३,४.१६.५१

ऐहिकमप्यप्रस्तुतप्रतिबन्धे तद्दर्शनात् । ब्रह्मसूत्र ३,४.५१ ।
संगतिमाहसर्वापेक्षा चेति ।
किं श्रवणादिभिरिहैव वा जन्मनि विद्या साध्यते उतानियम इह वामुत्र वेति ।
यद्यपि कर्माणि यज्ञादीन्यनियतफलानि तेषां च विद्योत्पादसाधनत्वेन विद्योत्पादस्यानियमः प्रतिभाति ।
तथाच गर्भस्थस्य वामदेवस्यात्मप्रतिबोधश्रवणात्ऽअनेकजन्मसंसिद्धस्ततो याति परां गतिम्ऽइति च स्मरणादामुष्मिकत्वमप्यवगम्यते ।
तथापि यज्ञादीनां प्रमेयाणामप्रमाणत्वाच्छ्रवणादेश्च प्रमाणत्वात्तेषामेव साक्षाद्विद्यासाधनत्वम् ।
यज्ञादीनां सत्त्वशुद्ध्याधानेन वा विद्योत्पादकश्रवणादिलक्षणप्रमाणप्रवृत्तिविघ्नोपशमेन वा विद्यासाधनत्वाम् ।
श्रवणादीनां त्वनपेक्षाणामेव विद्योत्पादकत्वम् ।
नच प्रमाणेषु प्रवर्तमानाः प्रमातार ऐहिकमपि चिरभाविनं प्रमोत्पादं कामयन्ते किन्तु तादात्विकमेव प्रागेव तु पारलौकिकम् ।
नहि कुम्भलादिदृक्षुश्चक्षुषी समुन्मीलयति कालान्तरीयाय कुम्भदर्शनाय किन्तु तादात्विकाय ।
तस्मादैहिक एव विद्योत्पादो नानियतकालः ।
श्रुतिस्मृती च पारलौकिकं विद्योत्पादं स्तुत्या ब्रूतः ।
इत्थंभूतानि नाम श्रवणादीन्यावश्यकफलानि यत्कालान्तरेऽपि विद्यामुत्पादयन्तीति ।
एवं प्राप्त उच्यतेयत एवात्र विद्योत्पादे श्रवणादिभिः कर्तव्ये यज्ञादीनां सत्त्वशुद्धिद्वारेण वा विघ्नोपशमद्वारा वोपयोगोऽत एव तेषां यज्ञादीनां कर्मान्तरप्रतिबन्धाप्रतिबन्धाभ्यामनियतफलत्वेन तदपेक्षाणां श्रवणादीनामप्यनियतफलत्वं न्याय्यमनपहतविघ्नानां श्रवणादीनामनुत्पादकत्वादविशुद्धसत्त्वाद्वा पुंसः प्रत्यनुत्पादकत्वात् ।
तथाच तेषां यज्ञाद्यपेक्षाणां तेषां चानियतफलत्वेन श्रवणादीनामप्यनियतफलत्वं युक्तमेवं श्रुतिस्मृतिप्रतिबन्धो न स्तुतिमात्रत्वेन व्याख्येयो भविष्यति ।
पुरुषाश्च विद्यार्थिनः साधनसामर्थ्यानुसारेण तदनुरूपमेव कामयिष्यन्ते तदिदमुक्तमभिसंधेर्निरङ्कुशत्वादिति ॥५१॥



____________________________________________________________________________________________


३,४.१७.५२

एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः । ब्रह्मसूत्र ३,४.५२ ।
यज्ञाद्युपकृतविद्यासाधनश्रवणादिवीर्यविशेषात्किल तत्फले विद्यायामैहिकामुष्मिकत्वलक्षण उत्कर्षो दर्शितः ।
तथा च यथा साधनोत्कर्षनिकर्षाभ्यां तत्फलस्य विद्याया उत्कर्षनिकर्षावेवं विद्याफलस्यापि मुक्तेरुत्कर्षनिकर्षौ संभाव्येते ।
नच मुक्तावैहिकामुष्मिकत्वलक्षणो विशेष उपपद्यते ब्रह्मोपासनापरिपाकलब्धजन्मनि विद्यायां जीवतो मुक्तेरवश्यंभावनियमात्सत्यप्यारब्धविपाककर्माप्रक्षये ।
तस्मान्मुक्तावेव रूपतो निकर्षोत्कर्षौ स्याताम् ।

अपिच सगुणानां विद्यानामुत्कर्षनिकर्षाभ्यां तत्फलानामुत्कर्षनिकर्षौ दृष्टाविति मुक्तेरपि विद्याफलत्वाद्रूपतश्चोत्कर्षनिकर्षौ स्यातामिति प्रापत उच्यतेन मुक्तेस्तत्र तत्रैकरूप्यश्रुतेरुपपत्तेश्च ।
साध्यं हि साधनविशेशषाद्विशेषवद्भवति ।
नच मुक्तिर्ब्रह्मणो नित्यस्वरूपावस्थानलक्षणा नित्या सती साध्या भवितुमर्हति ।
नच सवासननिःशेषक्लेशकर्माशयप्रक्षयो विद्याजन्म {टिप्पणी १ इरोधिकार्योदय एव पूर्वप्रध्वसमिति मतमाश्रित्य क्लेशादिक्षयो विद्याजन्मेति सामानाधिकरण्यम् ।}
विशेषवान्, येन तद्विशेषान्मोक्षो विशेषवान्भवेत् ।
नच सावशेषः क्लेशादिप्रक्षयो मोक्षाय कल्पते ।
नच चिराचिरोत्पादानुत्पादावन्तरेण विद्यायामपि रूपतो भेदः कश्चिदुपलक्ष्यते तस्या अप्येकरूपत्वेन श्रुतेः ।
सगुणायास्तु विद्यायास्तत्तद्गुणावापोद्धामाभ्यां तत्कार्यस्य फलस्योत्कर्षनिकर्षौ युज्येते ।
न चात्र विद्यात्वं सामान्यतो दृष्टं भवति ।
आगमतत्प्रभवयुक्तिबाधितत्वेन कालात्ययापदिष्टत्वात् ।
तस्मात्तस्या मुक्त्यवस्थाया ऐकरूप्यावधृतेर्मुक्तिलक्षणस्य फलस्याविशेषो युक्त इति ॥५२॥



इति श्रीवाचस्पतिमिश्रविरचिते शारीरकभगवत्पादभाष्यविभागे भामत्यां तृतीयाध्यायस्य चतुर्थः पादः ॥


॥ इति तृतीयाध्यायस्य निर्गुणविद्याया अन्तरङ्गसाधनविचाराख्यश्चतुर्थः पादः ॥

"https://sa.wikisource.org/w/index.php?title=भामती/तृतीयः_अध्यायः&oldid=329557" इत्यस्माद् प्रतिप्राप्तम्