विश्रामोपनिषत्

विकिस्रोतः तः


विश्रामोपनिषत्
ॐ पूर्वदले श्वेतवर्णे यदा विश्राम्यते मनः ।।
तदा धैर्यमुदारं च धर्मकीर्तिमतिर्भवेत् ॥ १
अग्निदले रक्तवर्णे यदा विश्राम्यते मनः ।
तदा क्रोधश्च कामश्च मन्दं बुद्धिर्मतिर्भवेत् ॥ २
कृष्णवर्णे दक्षिणदले यदा विश्राम्यते मनः ।
निद्रालस्यभयं देवि मत्सरे च मतिर्भवेत् ॥ ३
नैर्ऋतदले नीलवर्णे यदा विश्राम्यते मनः ।
तदा क्रोधश्च कामश्च मनोभिन्नमतिर्भवेत् ॥ ४
पश्चिमदले कपिलवर्णे यदा विश्राम्यते मनः ।
तदा हास्यविनोदौ च उत्साहे च मतिर्भवेत् ॥ ५
श्यामवर्णे वायुदले यदा विश्राम्यते मनः ।
तदा चिन्तोच्चाटनं च वैराग्ये च मतिर्भवेत् ॥ ६
पीतवर्णोत्तरदले यदा विश्राम्यते मनः ।
तदा शृंगारभोगौ च कल्पनायां मतिर्भवेत् ॥ ७
गौरवर्णेशानदले यदा विश्राम्यते मनः ।
तदा कृमात्मानं धर्मकीर्तिमतिर्भवेत् ॥ ८
सन्धौ सन्धौ मिश्रितानां यदा विश्राम्यते मनः ।
तदा देहो गृहं राज्यं निर्दोषा च मतिर्भवेत् ॥ ९
श्यामवर्णे मध्यदले यदा विश्राम्यते मनः ।
तदा सर्वगुणं ज्ञानं चैतन्यं च मतिर्भवेत् ॥१०
यस्य स्मरणमात्रेण सर्वपापैः प्रमुच्यते ।
ये पठन्ति सदा भक्त्या सायुज्यपदमाप्नुयुः ॥११
इति विश्रामोपनिषत् संपूर्णा

"https://sa.wikisource.org/w/index.php?title=विश्रामोपनिषत्&oldid=328210" इत्यस्माद् प्रतिप्राप्तम्