सामग्री पर जाएँ

पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८६
यादवाभ्युदये

मुकुलितानाम् । कमलोत्पलानां पद्मेन्दीवराणाम् । निष्पन्नसख्य. उत्पन्नसौहार्दैः । ताद्वेषयसौहार्दवद्भिरिव, विषण्णैः दुःखितः । विमुक्तभोगैः त्यक्तस्त्रीसभोगैश्च सद्भिः । (तेषां कमलोत्पलानाम् ) विबोधवेला विकाससमयः प्रभातकाल: अवधिर्यस्य तदवाधिकः । ' शेषाद्विभाषा' इति कप्रत्ययः । विलापः शोकशब्दः । विदधे चक्रे । कर्मणि लिट् । यथा क्वचिदुत्पन्नसोहदास्तस्य मूर्छादिदुरवस्थायां विषण्णा: ताम्बूलादिभोगान् विहाय तत्प्रबोधपर्यन्त विलपन्ति तद्वदिति भावः । अत्र विरहप्रयुक्तचकवाकविलापे कमलोत्पलसख्यस्य हेतुत्योत्प्रेक्षणात् हेतृत्प्रेक्षालङ्कारः । विशेषणसाम्यात् कमलोत्पलानां मूछितपुरुषत्वप्रतीतेस्समासोक्तिश्वेति तयोरन्योन्यानुप्राणितत्वेन सङ्करः । ननु रात्रौ नीलोत्पलानां विकासः प्रसिद्धः । साहित्यचिन्तामणौ च कविसमयसिद्धपरिगणनप्रस्तावे तथैव कथितम् । 'रात्रावेव नीलोत्पलविकास. । दिवैव कमलविकाराः' इति । कथमत्र तेषां रात्रौ निमीलनमुच्यते । सत्यम् । 'इदमाविःस्मितज्योत्स्न स्निग्धनेत्रोत्पल मुखम् । इति ज्योत्स्नोत्पलायोगादयुक्त नाम रूपकम्' इति उदाहरता दण्डिना रात्री तेषां निमीलनमङ्गीकृतम् । तद्व्याख्यानेऽप्युक्तम् । 'यदा ज्योत्स्ना चन्द्रिका तदोत्पल न विकसतीति ज्योत्स्नोत्पलयोगोऽसङ्गतः' इति । तस्मादुभयथापि कविसमयप्रसिद्धरुपपन्न मेतत् । अत एवोत्तरसर्गेऽपि रात्रौ यमुनावर्णने वक्ष्यति । 'निमिषितासितनीरजलोचना मुकुलिताब्जमुखी सवितुस्सुता' इति । प्रभातवर्णनसर्गे च नीलोत्पलविकासोऽनेकत्र वर्णयिष्यते । श्रीमद्रामायणे च दिवा गङ्गावर्णने दृश्यते । 'क्वचित्फलोत्पलच्छन्नां क्वचित् पद्मवनाश्रिताम् ।' इति ॥ तमिस्रनीलाम्बरसंहताङ्गी श्यामा बभौ किञ्चिदतीत्य सन्ध्याम् ।।