सामग्री पर जाएँ

अथर्ववेदः/काण्डं २०/सूक्तम् ०७५

विकिस्रोतः तः
← सूक्तं २०.०७४ अथर्ववेदः - काण्डं २०
सूक्तं २०.०७५
परुच्छेपः
सूक्तं २०.०७६ →
दे. इन्द्रः। अत्यष्टिः।

वि त्वा ततस्रे मिथुना अवस्यवो व्रजस्य साता गव्यस्य निःसृजः सक्षन्त इन्द्र निःसृजः ।
यद्गव्यन्त द्वा जना स्वर्यन्ता समूहसि ।
आविष्करिक्रद्वृषणं सचाभुवं वज्रमिन्द्र सचाभुवम् ॥१॥
विदुष्टे अस्य वीर्यस्य पूरवः पुरो यदिन्द्र शारदीरवातिरः सासहानो अवातिरः ।
शासस्तमिन्द्र मर्त्यमयजुं शवसस्पते ।
महीममुष्णाः पृथिवीमिमा अपो मन्दसान इमा अपः ॥२॥
आदित्ते अस्य वीर्यस्य चर्किरन् मदेषु वृषन्न् उशिजो यदाविथ सखीयतो यदाविथ ।
चकर्थ कारमेभ्यः पृतनासु प्रवन्तवे ।
ते अन्यामन्यां नद्यं सनिष्णत श्रवस्यन्तः सनिष्णत ॥३॥