कल्पः/श्रौतसूत्राणि/श्रौतपदार्थनिर्वचनम्

विकिस्रोतः तः

श्रौतपदार्थनिर्वचनम् ।

पृ. १२
इन्द्रो महेन्द्रो वा देवतात्वेन विहितः तत्र सत्यपि पुरोडाशद्रव्ये अधिकं द्रव्यद्वयं विहितं तत्रैकं पयः द्वितीयं दधि तदेतद् द्वयं होमार्थं सम्यग् नयतीति कर्तृत्युत्पत्त्या तादृशो यजमानः सन्नयन्नित्यभिधीयते ।
७८ दधिपयसी च पायसान्नाय्येति सूत्रेण निपातनात् कर्मव्युत्पत्त्या सान्नाय्यपदाभिधेये ॥
७९ सानाय्यदधिपयसोः संपादने गवां संख्या अशक्तत्वात् न्यूना क्रियते चेत् षट्त्वसंख्यातो न्यूना न कार्या षड्भ्यो गोभ्यो न्यनसंख्याका गावो न कर्तव्याः ततो ऽधिकाश्चेदिष्टापत्तिरेव । पूर्वमाहूतया शाखया एतासां गवां वत्सानां दूरीकरणं समन्त्रकं वत्सापाकरणमित्युच्यते ।
८० ततस्तस्याः शाखायाः पर्णानि छित्त्वा यं मूलभागं प्रादेशमात्रं छित्त्वा धृष्ट्याकारं करोति सोन्नाय्यसंस्कारकाले गार्हपत्याङ्गाराणामुदग्दिशि निरूहणादौ उपयोगी स उपवेष इति गीयते ॥
८१ अग्रभागस्तु त्रिभिर्दर्भवेण्याकारण निबद्धः शाखापवित्रपदवाच्यस्तस्य सायंदोहादावुपयोगः ॥
८२ असन्नयतस्तु यजमानस्य शाखाहरणाभावात् व्रतोपायनानन्तरं अध्वर्युः गार्हपत्यस्योत्तरतो विद्यमानमसिदं श्वपरशुं वादत्ते मन्त्रेण । लोहमयक्षुरः छेदनोपयोगी असिद इत्युच्यते ॥
८३ एवं बर्हिश्छेदनाद्युपयोगी श्वसदृशः कुठारः श्वपरशुरित्युच्यते ॥
८४ तयोरन्यतरद् गृहीत्वा मन्त्रेणाहवनीयदेशं गत्वा मन्त्रेण वेदिमवेक्ष्य दर्भदेशं गत्वा प्रस्तरपर्याप्तं दर्भमुष्टिं परिग्रह्णाति असिदादिना छेदनीयदर्भमुष्टेः आसमन्तात् भेदाय भ्रामणं परिग्रहणपदवाच्यम् ॥
८५ छिन्ने दर्भमुष्टौ भूमौ यो मूलभागो दृश्यते स छेदनक्रियाया आधारत्वात् अधिकरणे ल्युटा छेदनपदवाच्यः ।
८६ छेदने भेदने चैव खनने पितृरक्षसोः। रौद्राभिचारणीयेषु उदकस्याभिमन्त्रणमिति वचनात् छेदनभेदनखननपैतृकराक्षसरौद्राभिचारणकर्मसु कृतेषु शुद्ध्यर्थं विहितं दक्षिणकरस्य जलेन प्रक्षालनं उदकोपस्पर्शनमुच्यते ।
८७ तत्र प्रकृतीष्टौ चतस्रो दर्भमुष्टयश्छिद्यन्ते प्रथमा दर्भमुष्टिर्मन्त्रैः संस्कृता वेद्यां जुहूर्यस्यान्निधीयते विधृतिसंज्ञकयोः उदगग्रयोर्दर्भयोरुपरि या च प्रागग्रा स्थापिता भवति सा प्रस्तर इत्युच्यते ।

पृ.१३
८८ अन्यास्तिस्र अमन्त्रकसकलक्रियामात्रसाध्याः वेद्यास्तरणार्थाः हविषां पात्राणां स्थापनयोग्या बर्हिःपदवाच्याः ॥
८९ दर्भत्रयं गृहीत्वा प्रदक्षिणमावेष्ट्य अग्रभागे अन्यद्दर्भत्रयं मूलेन संयोज्य वेष्टनेन ग्रथितमिव कृत्वा तदपि तथैवावेष्य् तदग्रभागे अन्यद्दर्भत्रयं तथैवं कृत्वा पुनस्तदग्रभागे तथा करोति एवं कृते सन्धित्रयं मध्ये संपद्यते तद्दर्भसूत्रं द्विगुणं कृत्वा अन्ते ग्रन्थिः कार्यः अनेन बर्हिर्बध्यते अत एतद् बर्हिःसंनहनं नाम शुल्बनामकम् ॥
९० एवमिध्मबन्धनार्थं इध्मसंनहनं नाम शुल्बनामकम् ।
९१ बर्हिः संभरणानन्तरं अध्वर्युरिध्मदेशं गत्वा असिदेन श्वपरशुना वा इध्मं छिनत्ति तूष्णीं तस्मिन्नेकविंशतिसंख्याकानि काष्ठानि भवन्ति तत्र त्रितयं काष्ठानामाहवनीयस्य पश्चाद् दक्षिणत उत्तरतश्च प्रथममेखलाया उपरि स्थापनार्थं मेखलापारमितायामं परित आहवनीयस्य निधानात पुरस्तात्सूर्यस्य मनसा परिधित्वकल्पनात्परिधिसंज्ञकं भवति ।
९२ अन्यानि काष्ठानि प्रादेशमात्राणि तत्र पञ्चदशसामिधेन्यर्थानि एकमनुयाजार्थं द्वे आहवनीयायतनस्यान्तरूर्ध्वाग्रे दक्षिणोत्तरयोर्भागयो रोपणार्थे एतान्यष्टादश काष्ठानि समित्पदवाच्यानि ॥
९३ क्वचिद्विकृतीष्ट्यादिषु अधिका अपि समिधः सामिधेनीवृद्धा गृह्यन्ते एवमेकविंशतिदारुकः संघ इध्मपदवाच्यः ।
९४ इध्मस्य छेदनकाले यानि काष्ठशकलानि इतस्ततः पतन्ति तानि करणव्युत्पत्त्या इध्मप्रव्रश्चनपदेनाभिधीयन्ते ॥
९५ चतुर्णामप्यृत्विजां भोजने पर्याप्तः दक्षिणाग्नौ सुशृत ओदनः अनु पश्चात् यागानन्तरमृत्विग्भोजनार्थमाह्रियते इति कर्मव्युत्पत्या अन्वाहार्यपदवाच्यः ॥
९६ अन्वाहार्य ओदनो यस्यां स्थाल्यां श्रप्यते सा अन्वाहार्यस्थालीत्युच्यते ॥
९७ मदन्तीनामिका आपो यस्मिन्पात्रे संताप्यन्ते तत्पात्रमपि मदन्तीपदेन व्यवह्रियते ॥
९८ पुरोडाशचरुसंबन्धिव्रीह्यादीन् उलूखले मुसलेनावहृत्य यव

पृ १४
शूर्पेण निस्तुषकरणरूपं फलीकरणं करोति तत्र ये तुषादयः पतन्ति ते करणव्युत्पत्त्या फलीकरणपदवाच्याः ।
९९ तेषां यागानन्तरं दक्षिणाग्नौ जुह्वा चतुर्गृहीतेनाज्येन सह होमो विहितः अतः यागसमाप्तिपर्यन्तं तेषां स्थापनाय निर्मितं अश्वत्थमयं पात्रं फलीकरणपात्रमित्युच्यते ॥
१०० यदा गार्हपत्ये अध्वर्युः पत्नीसंयाजैः प्रचरति तदा देवानां पत्नीयागकाले स्त्रीयहविर्भागग्रहणार्थमागतानां देवानां पत्नीनां स्त्रीत्वाल्लज्जया तिरोधानाय अश्वत्थ काष्ठनिर्मितं तिरोधानकरणयोग्यं कटाकारत्वात् अन्तर्धानकटमित्युच्यते ॥
१०१ अध्वर्युस्तीर्थप्रवेशानन्तरं गार्हपत्यस्योत्तरत उपविश्य इडाजपं कृत्वा देवा गातुविद् इत्यृचं जपति तस्यामृचि यतो वातशब्दो वर्तते श्रुतौ वातशब्देन यागारम्भसमाप्तयोर्वर्णनात् इडा देवहूरिति यजुर्मन्त्रजप इडाजपपदेनोच्यते ॥
१०२ तत आहवनीयस्योतरतस्तिष्ठन् हस्तौ मन्त्रेण संमृशते एतत्कर्म पाण्योः सावधानत्वाय करिष्यमाणकर्मसुप्रेरणारूपं पाणिसंमर्शनमित्युच्यते ॥
१०३ [१]तत आहवनीयदक्षिणाग्निगार्हपत्यान् क्रमेण दर्भैः परिस्तृणाति अग्नेः षोडशभिर्दर्भैः प्राच्यादिषु परिस्तृतिरिति वचनात प्राच्यां प्रथममेखलोपरि चतुर्भिदर्भैस्तथैव दक्षिणस्यां प्रतीच्यामुदीच्यां च क्रमेण स्तरणं परिस्तरणपदार्थः ॥ १०४ ततो गार्हपत्यस्य पुरस्ताद् वेद्यां परिभोजनीयदर्भानास्तीर्य तेषु द्वन्द्वं न्यञ्चि प्रक्षालितानि यज्ञपात्राणि प्राक्संस्थान्युदगपवर्गाणि स्थापयति तदेतत्कर्म पात्रासादनपदार्थः ॥
१०५ ततो ब्रह्मणि स्वायतने उपविष्टे यजमानेन च समन्त्रकद्वितीयवरणेन वृते परिभोजनीयदर्भः संततां पृष्ट्यां गार्हपत्यमध्यादारभ्याहवनीयमध्यपर्यन्तं स्तृणाति मन्त्रेण एतत् कर्म पृष्ट्यास्तरणमित्युच्यते ॥

पृ. ३१
२५१ अध्वर्युः प्रयाजैरिष्ट्वा उदङ्ङुत्याक्रम्य जुहूस्थ्नाज्यशेषेण ध्रुवामभिघार्य क्रमेण हवींष्यभिघार्य उपभृतमभिघारयति तदेतत्प्रयाजशेषाभिघारणमुच्यते ।
२५२ अध्वर्युः ध्रुवाज्यात् स्रुवेण जुह्वां एकवारमाज्यं गृहीत्वा अनुवाक्यापठनार्थं होतारं अनुब्रूहीत्यन्तेन मन्त्रेण संप्रेष्य पुस्त्रिवारं गृह्णाति तदेतत् चतुरवत्तमित्युच्यते॥
२५३ यस्यैव भवति स यजमानश्चतुरवत्ती भवति । .
२५४ जामदग्न्या वत्सविदावार्ष्टिषेणास्तथैव च। भार्गवाश्च्यावना और्वाः पञ्चावत्तिन ईरिता इति वचनात् एतद्वचनोक्तगोत्राणां यजमानानां पञ्चवारमवद्यति एतत्पञ्चावत्तमित्युच्यते ॥
२५५ यजमानश्च पञ्चावत्ती भवति ।
२५६ दो अवखण्डने इति पठितत्वात् स्थापितहविषः होमपरिमितस्य भागस्य ग्रहणार्थं खण्डनं अवदानमित्युच्यते ॥
२५७ अनया रीत्या अवदाय गृहीत्वा अत्याक्रम्य दक्षिणाभिमुख्या स्रुचा आहवनीयस्यैशानभागे आग्नेयमाज्यभागं हुत्वा उदङ्ङुत्याक्रम्य पूर्ववदवदाय गृहीत्वा अत्याक्रम्य उदङ्मुख्या स्रुचा आग्नेयदेशे सौम्यमाज्यभागं जुहोति तत्र आज्यं भागो ययोरिति व्युत्पत्त्या तद्देवते अग्नीषोमौ आज्यभागपदार्थौ ।
२५८ आज्यभागानन्तरं जुह्वामुपस्तीर्य मन्त्रेण दक्षिणहस्तनमस्कारेण पुरोडाशादिरूपं हविरुपस्थाय उपविश्य मन्त्रेण हविरभिमृश्य पञ्चभिरङ्गुलिभिः अङ्गुष्ठमध्यमानामिकाभिर्वा प्रथमपुरोडाशादेः पूर्वार्धात् अवदाय चर्वाविद्रव्यस्य तु मेक्षणेनैवावदाय द्वितीयं पश्चार्धादवदाय पञ्चावत्तिनस्तु मध्यात्पूर्वार्धात्पश्चार्धादिति त्रिरवदाय अभिघारयति एवं रीत्या क्रियमाणं चरुपुरोडाशाद्यवदानमुच्यते ।
२५९ अवत्तं हविरभिघार्य आज्यस्थाल्याज्येन मन्त्रेण अवदानस्थानान्याप्यायति तदेतत् प्रत्यञ्जनमित्युच्यते ॥ .
२६० एवं रीत्या अवदाय अत्याक्रम्य वषट्कृते प्राक्संस्था उदक्संस्था वा प्रधानाहुतीर्जु होति सोऽयं प्रधानयाग इत्युच्यते ॥

पृ.३२
२६१ प्रधानयागे अवदानानन्तरं अत्याक्रमणात्पूर्वं ध्रौवाज्येन स्रुवेण तूष्णीं करिष्यमाणतत्तत्प्रधानहोमदेशे स्विष्टकृद्धोमदेशे च एकामाहुतिं जुहोति सा पुरस्तादाहुतिरित्युच्यते ॥
२६२ एवं प्रत्याक्रमणानन्तरं प्रक्षिप्तस्य हविष उपरि अन्यामाहुतिं जुहोति सा उपरिष्टादाहुतिरित्युच्यते ॥
२६३ प्रधानहोमानन्तरं उपस्तीर्य सर्वेषां हविषां उत्तरार्धात् सकृत्सकृदवदानं पञ्चावत्तिनस्तु द्विरवदानं भवति एवं ततो द्विरभिघारयति अवत्ते स्विष्टकृति स्रुवेण दर्शे अमावास्यादेवताकां पौर्णमासे पौर्णमासीदेवताकामाहुतिं जुहोति स पार्वणहोम इत्युच्यते ॥
२६४ अत्र पुरोडाशादेरुपस्थानाभिमर्शने न भवतः अवदानदेशानां प्रत्यञ्जनं च न भवति एवमवदाय अत्याक्रम्य वषट्शते अग्नौ ऐशानदेशे जुहोति सोऽयं स्विष्टकृद्धोम इत्युच्यते ॥
२६५ होता आज्यभागप्रभृति स्विष्टकृत्पर्यन्तं याज्यापाठे आगुरं उच्चार्य संहितया द्वितीयान्तं देवतानाम उच्चार्य याज्यां संहितया पति तदेतत् देवतानामोच्चारणं देवतादेश इत्युच्यते ॥ .
२६६ स्विष्टकृतं यजेति श्रुत्वा आगुरमुच्चार्य देवतामादिश्य निगदं पठित्वा याज्यासंज्ञामृचं पठति स स्विष्टकृन्निगद इत्युच्यते ॥
२६७ अध्वर्युः स्विष्टकृद्धोमानन्तरं प्रत्याक्रम्य उपरिष्टादाहुतिं हुत्वा जुह्वां जलं गृहीत्वा संक्षाल्य तत्जलं मध्यपरिधेरन्तर्देशे मन्त्रेण उदक्संस्थं प्रक्षिपति तत् अन्तः परिधिनिनयमित्युच्यते ॥
२६८ पुनर्जुहूं जलेन प्रक्षाल्य वह्नौ निष्टप्य पूरयित्वा मन्त्रेण परिधेर्बहिः जलं पूर्ववत् प्रक्षिपति तत् बहिःपरिधिनिनयनमित्युच्यते ।
२६९ तत उपभृति विद्यमानमाज्यं जुह्वां कृत्वा यथायतनं जुहूपभृतौ सादयित्वा मन्त्रेण प्राशित्रहरणे प्रथमप्रधानद्रव्यसंबन्धिनं प्राशित्रमवद्यति स्रुवदण्डेनाभिघार्य प्रणीतानां पश्चिमतः सादयति स भागः प्राशितुः बह्मण: अयमिति विग्रहेण प्राशित्रपदवाच्यः ।
२०० तत इडापात्रं वेद्यां उदगग्रं निधाय तस्मिन् यावन्ति प्रधानद्रव्याणि तावदर्थं सकृदेव उदकसंस्थं आज्यस्थाल्याज्येनोपस्तीर्य प्रथ


 
२४६ श्रीतपदार्थनिर्वचनम् ।
शति । विराडसि सपत्नहा सम्राडसि भ्रातृव्यहा स्वराडस्यभिमातिहा विश्वराडसि विश्वासान्नाष्ट्राणा99 हन्ता । इति । सर्वत्रमन्त्रावृत्तिः। क्रमेणोपरवान् प्रोक्षति। रक्षोहणो वलगहनः प्रोक्षामि वैष्णवान् । इति । मन्त्रावृत्त्या, सर्वान् प्रोक्षति । रक्षोहणो वलगहनो ऽवनयाति वैष्णवान् । इति । तथैव सर्वेष्वपो ऽवनिनयति यवोसि यवयास्मद्द्वेषो यवयारातीः । इति क्रमेण सर्वेषु यवान् प्रस्कन्दयति । रक्षोहणो वलगहनो ऽवस्तृणामि वैष्णवान् । इति सर्वेषूपरवेषु बर्हिषा ऽवस्तृणानि । रक्षोहणो वलगहनो ऽभिजुहोति। वैष्णवान् स्वाहा । इति सर्वेषूपरवेषु हिरण्यं निधाय तदुपरि क्रमेण स्रुवाहुत्या अभिजुहोति । वैष्णवेभ्य उपरवेभ्य इदमिति यजमानः । अयमुपरवसंस्कार इत्युच्यते ॥
१७९ प्रत्येकं सार्धप्रादेशविस्तारे प्रादेशत्रयदीर्घे मिलिते समचतुरस्रे अधिषवणफलके आदाय । रक्षोहणौ वलगहनावुपदधामि वैष्णवी इति संसृष्टे फलके तेषामुपरवाणामुपरि दधाति । तयोरनवसर्पणाय द्वाभ्यां शङ्कुभ्यां पुरस्तात्परिणिहन्ति । द्वाभ्यां पश्चात् । द्वाभ्यामभितः। एवं षड्भिः शङ्कुभिः परिणिहत्य । रक्षोहणौ वलगहनौ पर्यूहामि वैष्णवी । प्रदक्षिणं पुरीषेण पर्यूहति रक्षोहणौ वलगहनौ परिस्तृणामि वैष्णवी । इति तयोरुपरि बर्हिषा ऽवस्तृणाति । रक्षोहणौ बलगहनौ वैष्णवी । इत्यभिमृशति । एतावत्कर्म उपरवेषु फलकप्रतिष्ठापनमुच्यते ॥
१८० ततो यज्ञप्रतिष्ठेति मन्त्रेण तूष्णीं वा फलकयोरानडुहं चर्मास्तीर्य तिरश्चर्मन् फलके ग्रावणोद्वादयति । बृहन्नसि बृहद्ग्रावा बृहतीमिन्द्राय वाचं वद । इति । नीडे चर्मोत्सादयति । ग्रावसुग्रावाणम् । दक्षिणस्य हविर्धानस्याग्रे
 
 
श्रौतपदार्थनिर्वचनम् । २४७
स्तोत्रोपाकरणाय बर्हिर्मुष्टीन् बध्नाति । ततः एहि यजमानेति यजमानमामन्त्र्य आग्नीध्रीयमध्ये स्फ्येनोद्धृत्यावोक्ष्य तत्र चात्वालपुरीषसिकता न्युप्य अरत्निमात्रं परिमण्डले खरं करोति । विभूरसि प्रवाहणो रौद्रेणानीकेन पाहि माग्ने पिपृहि मामाहि99सीः । एतन्मन्त्रपाठस्तूभयोरध्वर्युयजमानयोः । एतदाग्नीध्रीयखर करणमुच्यते ॥
१८९ अन्तः सदसं प्राक् पदद्वयमवशेष्य पृष्ठ्यायान्तथैव होतुः खरं करोति । वह्निरसि हव्यवाहनो रौद्रेणा० हि99सीः .इति । अयं होतृखरो होतृधिष्ण्यमित्युच्यते ॥
१८२ अग्रेणाहवनीयं पर्याहृत्य होतृधिष्ण्याद्दक्षिणतो ऽरत्निमात्रे मैत्रावरुणस्य खरं करोति । श्वात्रोसि प्रचेता रौद्रेणा०सोः । इति अयं खरो मैत्रावरुणधिष्ण्यमित्युच्यते ॥
.१८३ तस्य धिष्णयस्योत्तरतो ऽरत्निमात्रे ब्राह्मणाच्छंसिनः । तुथोऽसि विश्वावेदा रौद्रेणा०सीः । अयं खरो ब्राह्मणाच्छंसिधिष्ण्यमित्युच्यते ॥
१८४ तस्योत्तरतो ऽरत्निमात्रे पोतुः खरं करोति । उशिगसि कवी रौद्रेणा०सी: । इति । अयं खरः पोतृखर इत्युच्यते ॥ .
१८५ तदुत्तरतो ऽरत्निमात्र नेष्टु: खरं करोति । अङ्घारिरसि बम्भारी रौद्रेणा०सीः । इति । अयं खरो नेष्टुधिष्ण्यमित्युच्यते ॥ . .
१८६ तदुत्तरतो ऽरत्निमात्रे अच्छावाकस्य। अवस्यूरसि दुवस्वान् रौद्रेणा०सीः । इति अयं खरो ऽच्छावाकधिष्ण्यमित्युच्यते ॥
१८७ आग्नीध्रीयवन्मार्जालीये खरं करोति । शुन्ध्यूरसि


२४८ श्रौतपदार्थनिर्वचनम् ।
मार्जालीयो रौद्रेणा०सीः । इति अयं खरो मार्जालीयधिष्ण्यमित्युच्यते ॥
१८८ अवशिष्टचात्वालपुरीषसिकता आग्नीध्रीये तूष्णीं निवपति । ततो ऽध्वर्युरौत्तरवेदिकमग्निमुपतिष्ठते । सम्राडसि कृशानू रौद्रेणा०सीः । इति । तत आस्तावमुपतिष्ठते । परिषद्यो ऽसि पवमानो रौद्रेणा०सीः । इति । ततश्चात्वालम् प्रतक्वा ऽसि नभस्वान् रौद्रेणा०सीः। इति । पशुश्रपणमग्निं तत उपतिष्ठते । असम्मृष्टो ऽसि हव्यसूदो रौद्रेणासीः । इति । सदसः पश्चिमद्वारे तिष्ठन् औदुम्बरीमुपतिष्ठते । ऋतधामा ऽसि सुवर्ज्योती रौद्रेणा०सीः। इति । ततो ब्रह्मसदनमुपतिष्ठते । ब्रह्मज्योतिरसि सुवर्धामा रौद्रेणा०सीः । इति । तत्रस्थ एव शालामुखीयम् । 'अजोस्येकपाद्रौद्रेणा०सीः । इति । ततो गार्हपत्यम् । अहिरसि बुध्नियो रौद्रेणा०सीः । इति। इदं औत्तरवेदिकाद्युपस्थानमित्युच्यते ।
१८९ इतः प्रभृत्यध्वर्युः प्रत्यक् सदो नातीयात् । तत्रस्थ एव सम्प्रेष्यति । स्तृणत बर्हिः प्रब्रतं यच्छत समपिव्रताह्वयध्वमास्तावं बहुलं स्तृणीतोन्नेतर्ग्राव्णो वायव्यानि द्रोणकलशे दशापवित्रे समवधाय पत्नीशाले पत्नीꣳसꣳसादयाग्नीदाज्यमधिश्रय प्रतिप्रस्थातः स्रुचः सम्मृड्ढ्याज्येनोदेहि पृषदाज्याय दध्याऽऽहर । इति । अयं प्रैषो महावेद्यां बर्हिरासादनादिप्रैष इत्युच्यते ॥
१९० दक्षिणे वेद्यन्ते महाबर्हिषो मुष्टिं स्तृणाति देव बर्हिरूर्णाम्रदसन्त्वेति प्राकृतमन्त्रेण । महावेदिं बहुलां पुरस्तात्प्रतीचीꣳ स्तृणाति । तूष्णीमर्धस्तनव्रतं प्रददाति । उन्नेता पञ्च ग्राव्णः सप्तदश वायव्यानि प्रादेशमात्राणि उलूखलाकाराणि एकतोमुखानि दश चमसान् परिप्लुपात्रं अद

श्रौतपदार्थनिर्वचनम् । २४९
रहं स्रुगाकारं द्रोणकलशं दशापवित्रे चतस्रः स्थाली: उपग्रहादि यदन्यदुपयुक्तं तत्सर्वं प्रक्षाल्य द्रोणकलशे दशापवित्रे विन्यस्य एतत्सर्वं प्राग्वंशे सादयति। वायव्यानां मध्ये औदुम्बरं चतुःस्रक्ति यत्तद्दधिग्रहपात्रमुच्यते ।
१९१ रास्नाचिह्नितं पात्रमैन्द्रवायमित्युच्यते ।
१९२ पिलकाचिह्नितं मैत्रावरुणमित्युच्यते
१९३ द्विकोणं पात्रमाश्विनमित्युच्यते।
१९४ बैल्वं पात्रं शुक्रपात्रमित्युच्यते ।
१९५ वैकङ्कतं श्लक्ष्णं मन्थिपात्रमित्युच्यते ।
१९६ औदुम्बरं श्लक्ष्णं अदाभ्यसंज्ञकम् ।।
१९७..
१९८ न्यग्रोधकाष्ठनिर्मितानि अतिग्राह्याणीत्युच्यन्ते ।
१९९ उभयतोमुखे द्वे पात्रे ऋतुपात्रसञ्ज्ञके ।
२०० इतराणि पात्राणि नैयग्रोधान्यौदुम्बराणि वा भवन्ति । चमसा नैयग्रोधाः। चतुरस्रो ऽल्पदवण्डो ब्रह्मचमस इत्युच्यते।
२०१ मण्डलाकारः स दण्डो होतृचमस उच्यते ।
२०२ विस्तीर्णाग्रः स दण्डो यजमानचमसो भवति ।।
२०३ त्रिकोणः स दण्ड उद्गातृचमसपदवाच्यः।
२०४ अधोभागे वक्रः स दण्डः प्रशास्तृचमस उच्यते ।
२०५ उपरि वक्र: स दण्डो ब्राह्मणाच्छंसिचमसो भवति।
२०६ तथैव रास्नायुक्तः स, दरडो ऽच्छावाकचमसो भवति।
२०७. तीक्षणाग्रः स दण्ड आग्नीध्रचमसो भवति ।
२०८ अध्वर्युः अग्नीषोमीयपशुशाखाया: पशुवत्पवित्रं करोति । ततः पशुकुम्भी शाखापवित्रं वपाश्रपण्यौ रशने शूलं मैत्रावरुणदण्डं, शालामुखीयस्योत्तरतो दर्भेषु सादयति ।

२५० श्रौतपदार्थनिर्वचनम् ।
शुन्धध्वमिति प्राकृतमन्त्रेण प्रोक्षति । आग्नीध्रः पाणी सम्मृश्याग्नीन् प्रज्वाल्य परिस्तीर्य शालामुखीयस्याग्रे दर्भान् संस्तीर्य तेषु स्फ्यमग्निहोत्रहवणीं जुहूमित्यादि पशुवत्पात्राण्यासाद्य गार्हपत्य आज्यं विलापयति प्रतिप्रस्थाता पाणिसम्मर्शनं कृत्वा ब्रह्माणं दक्षिणत उपवेश्य शालामुखीयादारभ्योत्तरवेदिपर्यन्तं पृष्ठ्यां स्तीर्त्वा पवित्रे कृत्वा यजमान वाचं यच्छेति यजमानं सम्प्रेष्याग्निहोत्रहवणीं प्राकृतमन्त्रेणादाय तथैव प्रतितप्य प्रोक्षणीसंस्कारं कृत्वा पात्राणि प्राकृतमन्त्रेण प्रोक्ष्य आज्यं दधि च तथैव निरुप्य अधिश्रित्योभयं पर्यग्नि करोति ।ततो ऽध्वर्युः पाणी सम्मृश्य मन्त्रेण प्राकृतेन स्फ्यादानादि कृत्वा खरदेशे स्फ्यं स्तब्ध्वा सम्प्रैषमाह । प्रोक्षणीरासादयेत्यादि पशुवत् । आग्नीध्रः प्रोक्षणी: सादयति । अध्वर्युः स्फ्यं प्रकृतिवद्ददाति । प्रतिप्रस्थातोत्तरवेदिसमीपे इध्माबर्हिषी उपसादयति । आग्नीध्रः दक्षिणेन स्रुवं रचाधितिं सव्येन हस्तेन वेदाग्राण्यादाय शालामुखीये अग्नेर्वामिति मन्त्रेण प्रतितप्य स्रुवमन्त्रेणैवोभयं सम्मृज्य प्रतिप्रस्थात्रे प्रयच्छति। प्रतिप्रस्थाता जुह्वादीन् पशुवत्प्रतितप्य सम्मृज्य वेदाग्राणि शालामुखीये प्रक्षिप्य पात्राणि अग्रेणोत्करं तृणेषु सादयित्वा पुनरादाय शालामुखीयसकाशे निदधाति । पत्नी शालामुखीयमाज्यं चावेक्ष यित्वा यजमानमाज्यमवेक्षयति । अध्वर्युः प्रोक्षणीनामुत्तरत आनीयाज्यं स्वयमवेक्ष्योत्पूय प्रोक्षणीश्चोत्पूयाज्यं दधि चादाय ब्रह्मयजमानाभ्यां सह प्राग्वंशं गत्वा वेद्यां स्रुक्षु पशुवदाज्यानि गृहीत्वा परिकर्मिभ्यः प्रदायाऽप उपस्पृश्य ब्रह्मणे सोमं राजानं ददाति । ब्रह्मा राजानमादाय शालामुखीयमग्रेण परिश्रित्योत्तरतो वस्थायान्वगग्निं नयति ।

श्रौतपदार्थनिर्वचनम् । २५१
अध्वर्युः शालामुखीये प्रणयनीयमिध्ममाधाय चात्वालादुपयमनीः कल्पयित्वा पुराणगार्हपत्य आज्यं विलाप्योत्पूय अध्वर्यु यजमानस्तं पत्नी तां पुत्राः तान् पौत्रास्तान् ज्ञातयश्चेति ज्येष्ठानुक्रमेण समन्वारब्धेषु सत्सु प्रचरण्यां' चतुर्गृहीतं गृहीत्वा शालामुखीये जुहोति । त्यꣳ सोम तनूकृद्भ्यो द्वषोभ्योन्यकृतेभ्य , उरुयन्तासि वरूथꣳ स्वाहा इति । सोमायेदमिति यजमानः । ततः स्रुवेण जुहोति । जुषाण अप्तुराज्यस्या वेतु स्वाहा । इति । अग्नय इदमिति यजमानः । पुनश्चतुर्गृहीतं गृहीत्वा समप्रैषमाह । अग्नीषोमाभ्यां प्रणीयमानाभ्यामनुब्रू३हि । इति । अयमग्नीषोमप्रणयनप्रैष उच्यते ॥
 २०९ होत्रा प्रथमायामृचि त्रिरुक्तायामिध्मं शालामुखीयादुद्यम्य पूर्वया द्वारोपनिष्कामन्ति । अन्वग्राज्ञा चाज्यैश्चान्वक् ग्राव्णो वायव्यानि । अयं नो अग्निर्वरिवः कृणोत्वयं मृधः पुर एतु प्रभिन्दन् । अयꣳ शत्रून् जयतु जर्हृषाणो ऽयं वाजं जयतु वाजसातौ । इतिमन्त्रेण । ततः उत्तरेण सदः परीत्याग्नीध्रागारे अग्निं निधाय परिस्तीर्य परिषिच्य चतुर्गृहीतेनाभिजुहोति । अग्ने नय सुपथा राये अस्मान्विश्वानि देव वयुनानि विद्वान् । युयोध्यस्मज्जुहुराणमेनो भूयिष्ठान्ते नम उक्तिं विधेम स्वाहा । इति । अग्नय इदमिति यजमानः । अत्रैवैतत् ग्राव्णो वायव्यानि सादयित्वा उत्तरेणाग्नीध्रीय धिष्ण्यं राज्ञा चान्यैश्च गत्वा । आहवनीये स्रुवाहुतिं जुहोति । उरुविष्णोविक्रमस्वस्वाहा | इति विष्णव इदमिति यजमानः । ब्रह्मा राजानमन्यस्मै प्रदाय मन्त्रेणोपविशति । यजमानश्च स्वायतने । अध्वर्युः प्रोक्षणीरुन्मध्यन्नित्यादि यन्मे अग्न इत्यन्तं पशुषत्करोति । खरे प्रोक्षणादीनि करोति ।
 
२५२ श्रौतपदार्थनिर्वचनम् ।
महावेदिश्रोण्यां प्रोक्षणीर्निनयति । ब्रह्मायथागतमागत्य राजानमुपादत्त । यजमान: अपि उपस्पृश्य यथेतमेत्य ब्रह्मणः सकाशाद्राजानमादाय पूर्वया द्वारा हविर्धानं प्रपादयति । सोमो जिगातु गातुविद्देवानामेति निष्कृतमृतस्य योनिमासदम् । इति । अध्वर्युः अप उपस्पृश्य दक्षिणस्य हविर्धानस्य नीडे कृष्णाजिनमास्तृणाति । अदित्याः सदो ऽसि । इति । यजमानस्तस्मिन् कष्णाजिने राजानं सादयति । अदित्याः सद आसीद । इति । एष वो देव सवितः सोमस्तꣳ रक्षध्वं मा वो ऽदभन् । इति राजानं देवताभ्यः, प्रयच्छति । एतत्त्वं देव सोम देवो देवानुपागा इदमहं मनुष्यो मनुष्यान् सह प्रजया सह रायस्पोषेण । इति तं सोममुपतिष्ठते । नमो देवभ्यः इति समस्योपरि प्राञ्चमञ्जलिं करोति । स्वधा पितृभ्यः इति तस्य दक्षिणतो न्यञ्चमञ्जलिम् । अप उपस्पृश्य । इदमहं निर्वरुणस्य पाशात् । इति ततो निष्क्रम्य । सुवरभिविख्येषं वैश्वानरं ज्योतिः । इत्याहवनीयमुपतिष्ठते । अध्वर्युः । अवान्तरदीक्षां विसृज । इति प्रेष्यति । ततो यजमानः । अग्ने व्रतपते त्वं व्रतानां व्रतपतिरसि या मम तनूस्त्वय्यभूदियꣳ सा मयि या तव तनूर्मय्यभूदेषा सा त्वयि यथायथं नौ व्रतपते व्रतिनोर्व्रतानि । इत्याहवनीयमुपतिष्ठते । अध्वर्युः । स्रस्त्रीष्वमेखलां प्रमुष्टीन् सारय यजमान इति त्वाचक्षतां नामग्राहं ते पितृभिः पितामहैः प्रपितामहैः पुत्रैः पौत्रैः सुब्रह्मण्यः सुब्रह्मण्यामाह्वयतु । इति सम्प्रेष्यति । वपायागान्ते सुब्रह्मण्यः पिता पुत्रीयाह्वानं करोति । यूपावटान्तमिदानीमेव वा करोति। ततो याचति यवमतीरित्यादि यूपप्रक्षालनादि वपामार्जनान्तं पशुवत् । प्रकृतौ निरूढपशौ यत्रेन्द्राग्निपदं

श्रौतपदार्थनिर्वचनम् । २५३
तत्राग्नीषोमपदस्योहः कार्यं इति विशेषः । आहूतायां पितापुत्रीयायां दृढं कुम्भमादायान्तरेण चात्वालात्करावुदङ् उपनिष्क्रम्य स्रोतोभिमुखं स्थित्वा छायातपसोः सन्धौ वसतीवरीसंज्ञा अपो गृह्णाति । हविष्मतीरिमा आपो हविष्मान् देवो अध्वरो हविष्माꣳ आविवासति हविष्माꣳ अस्तु सूर्यः । इति । सूर्ये त्वस्तङ्गते हिरण्यमन्तर्धाय गृह्णाति । आतपच्छायायां स्वदेहच्छायायां वृक्षच्छायायां वा गृह्णाति । इदं वसतीवरीग्रहणमित्युच्यते ॥
२१० ततः प्रदक्षिणमावृत्य वसतीवरीकुम्भं सव्ये निधायान्तरेण चात्वालोत्करावुत्तरेणाग्नीध्रीयं सदश्च गत्वा पूर्वयाद्वारा शालां प्रपाद्य शालामुखीयस्य पश्चात्संसृष्टाः सादयति । अग्नेर्वोपन्नगृहस्य सदसि सादयामि सुम्नाय सुम्निनीः सुम्ने मा धत्त । इति एतद्वसतीवरीसादनमुच्यते ।
२११ ततो ऽग्नीन्पुरोडाशमित्यादि स्वरुहोमवर्जमाज्येडान्तं पशुवत् । औपयाजाऽङ्गारहरणमाग्नीध्रीयादिति विशेषः । वृत्रहाभूयासमिति पुरोडाशयागे यजमानस्यानुमन्त्रणम् । इन्द्रियावी भूयासमित्यङ्गयागे। आज्येडामार्जनान्ते उलूखले मुसल इत्येव हुत्वा ध्रुवामाप्याय्य प्रायश्चित्तानि जुहोति न वा। अथाग्नीषोमीय इत्यत आरभ्य एतदन्तं कर्म अग्नीषोमीयपशुरिति गीयते।
२१२.हृदयशूलं प्रक्षाल्य स्थापयित्वा सम्प्रेष्यति। व्यपक्रामतं मा वोऽभिपरिषम् । इति । अयं बहिर्वेदिभवनप्रैष उच्यते ।
२१३ ततः सर्वै बहिर्वेदि भवन्ति । वसतीवरीरादाय गार्हपत्यस्य पश्चान्मार्गेण नीत्वा दक्षिणया द्वारोपनिष्क्र

२५४ श्रौतपदार्थनिर्वचनम् ।
म्य सव्येंसे निधाय दक्षिणेन मार्जालीयं सदश्च पर्याहृत्योदङ्मुखो दक्षिणतो यूपेन संसृष्टाः सादयति इन्द्राग्नियोर्भागथेयी स्थ । इति पुनरादायोदङ्ङावृत्य दक्षिणेंसे निधाय यथेतमेत्य शालामुखीयस्य पश्चात्संसृष्टा सादयति मित्रावरुणयोर्भागधेयी स्थ इति । पुनरादाय दक्षिणेंसे निधाय पूर्वया द्वारोपनिष्क्रम्य उत्तरेण सद आग्नीयं च परीत्योत्तरतो यूपेन संसृष्टाः सादयति । विश्वेषां देवानां भागधेयी स्थ। इति पुनरादाय प्रदक्षिणमावृत्य सव्येंसे निधाय पुनस्तेनैव मार्गेणागत्याग्नीध्रीयस्य निष्णयस्य पश्चात्संसृष्टाः सादयति । यज्ञे जागृत । इति । इदं वसतीवरीस्थापनमुच्यते।
२१४ अथ सम्प्रेष्यति । या सम्राड् धुक् तस्यै दधि घर्माय दधि कुरुत या यजमानस्य तस्या आमिक्षायै या पत्न्यै तस्या आशिरेपयश्च सक्तूꣳश्च कुरुत शृतातङ्क्यमादित्यग्रहाय दधि कुरुत पुरोडाशीयानि पिष्टानि कुरुत धाना हारियोजनीः कुरुत चतुरोम्भ्रणाꣳस्त्रीनुदञ्चनानयुज एकधनाꣳस्त्र्यवमानेकादश परमान् द्वे रशने द्वे वपाश्रपण्यौ एकतयमिध्माबर्हिरौदुम्बरान्महापरिधीन् कुरुत सुब्रह्मण्यामाह्वयतु । इति । अयं सुत्यासामग्रीसम्पादनप्रैष उच्यते।
२१५ अध्वर्यु पुरुषेष्वन्यतमः सवनीयातिरिक्तानां शाखानां क्रमेण पर्णानि छित्वा अग्रेण शालामुखीयं निधाय मूलतः परिवास्योपवेषान् कृत्वा शालामुखीयस्य पश्चात् प्रज्ञातान्निधाय द्वितीयमन्त्यं च शाखापवित्रं मन्त्रेण प्राकृतेन कृत्वान्यानि षट् शाखापवित्राणि तूष्णीं कृत्वा गार्हपत्यादुत्तरतः षट् दोहनानि षट् शाखापवित्राण्यष्टौ स्थालीश्च सादयित्वा प्राकृतमन्त्रेण प्रोक्ष्य तत्तदुपवेषेणाङ्गारान्निरूह्य तत्तत्पवित्र निधाय तेन तेन दोहनेन दोहयित्वा तप्त्वा उदगुद्वास्यात


  1. कर्कदेवयाज्ञिकादयस्तु कार्यक्रमेणाग्नीनां परिस्तरणमाहुः । तेना दावाहवनीयस्य परिस्तरणं ततो गार्हपत्यदक्षिणाग्न्योरिति क्रमः कर्काद्यनुयायिनाम् ।