औमापतम्

विकिस्रोतः तः

अथ वीणां प्रवक्ष्यामि शृणुष्वायतलोचने॥३७३॥
करण्डकाकृतिर्दण्डो निम्नोन्नतविवर्जितः।
पञ्चमुष्टिश्च षण्मुष्टिः त्रिपुरी सप्तमुष्टिका॥३७४॥
अष्टमुष्ट्यधिका वीणा प्रौढी स्यादाचतुर्दश।
दरी पञ्चदशारम्भं यावदष्टादशाङ्गुलम्॥३७५॥
खदिरो राजवृक्षश्च वीणा स्याद्रक्तचन्दनः।
करभे चाम्रपनसौ सुन्दरी च तथा भवेत्॥३७६॥
एणशृङ्गा[द्] दन्तिदन्ताद्वैशिका नवकल्पना।
सुवर्णकांस्यरजतैः छत्रं च कटकं तथा॥३७७॥
एकतन्त्री तु भारी स्यात् प्रौढी स्याद्वित्रितन्त्रिका।
अनाविधा ब्रह्मवीणा चतुः पंचादितन्त्रिका॥३७८॥
दण्डं जीवस्वरूपः स्यात् करभः (कु)[क?]र्म एव च।
नाभिर्ब्रह्मा वैशिके तु सरस्वत्यभिधीयते॥३७९॥
सरस्वत्यासनं पद्मं अलाबुरिति कथ्यते।
तन्त्री स्याद्वासुकिश्चैव जीवा शाक्तिः परं भवेत्॥३८०॥
दक्षिणाऽनामिका मध्ये वामे मध्यादिवर्जिता।
अङ्गुल्या पञ्चवक्त्राणि मम देवि महेश्वरि॥३८१॥
वीणावादनमायुष्यं श्रीकरं मोक्षदं तथा॥
नादो गीतावसानस्तु बहिः स्यात्स्वरमण्डले॥३८२॥
ग्रामजातिस्वराश्चैव श्रुतयो मूर्च्छनास्तथा।
ताना रागाश्च ते सर्वे जायन्ते स्वरमण्डले॥३८३॥
स्वरमण्डलमाख्यातं सप्तत्रिंशद्युतं शतम्।
ध्रुवा मण्डलमाख्यातं चतुःषष्टिप्रमाणकम्॥३८४॥
तानमण्डलमाख्यातमूनपंचाशदेव च।
द्वात्रिंशन्मण्डले[स्वा?]रौ श्रौतं द्वाविंशतिर्भवेत्॥३८५॥
वारुणेन्द्रं द्वादशैव विपंची नवधा भवेत्॥३८६॥
सप्तभिः परिवादिन्यां वीणाभेदाश्शतं शतम्।
अष्टादशाङ्गुला प्रोक्ता वीणा स्यात्परिवादिनी।३८७॥
विपंचिका त्रिशाखाभिः कथिता परिवादिनी।
ऊनविंशाङ्गुलं दीर्घा विपंची पंचविस्तृता॥३८८॥
द्वाविंशत्यङ्गुलायामा वारणा सप्तविस्तृता।
चान्द्रिका दशविस्तीर्णा वारुणेन्द्रवदायता॥३८९॥
मूर्च्छनां श्रुतिमेरूणां दीर्घं षट्त्रिंशदङ्गुलम्।
अष्टादशाङ्गुलास्तेषां विस्तारः परिकीर्तितः॥३९०॥
चत्वारिंशाङ्गुलायामं चतुर्विंशतिविस्तृतम्।
तानमण्डलमाख्यातं तथैव ध्रुवमण्डलम्॥३९१॥
आयतं षष्टिरङ्गुल्यः षट्त्रिंशद्विस्तृतं तथा।
स्वरमण्डलमाख्यातं देवीदमवधारय॥३९२॥
तन्त्रीसंख्यककीलाः स्युः देवो वीणा महेश्वरी।
- औमापतम् अध्याय २२


"https://sa.wikisource.org/w/index.php?title=औमापतम्&oldid=321122" इत्यस्माद् प्रतिप्राप्तम्