सामग्री पर जाएँ

स्कन्दलहरी

विकिस्रोतः तः
स्कन्दलहरी
अज्ञातः
१९५३

॥ स्कन्दलहरी ॥
श्रियै भूया: श्रीमच्छरवणभवस्त्वं शिवसुतः
प्रियप्राप्त्यै भूयाः प्रतनगजवक्रस्य सहज ।
त्वयि प्रेमोद्रेकात् प्रकटवचसा स्तोतुमनसा
मयारब्धं स्तोतुं तदिदमनुमन्यस्व भगवन् ॥ १
निराबाधं राजच्छरदुदितराकाहिमकर
प्ररूढज्योत्स्नाभसितवदनषट्कस्त्रिणयनः ।
पुरः प्रादुर्भूय स्फुरतु करुणापूर्णहृदयः
करोतु स्वास्थ्यं मे कमलदलबिन्दूपमहृदि ॥ १
न लोकेऽन्यं देवं नतजनकृतप्रत्ययविधिं
विलोके भीतानां निखिल भयभीतैकशरणम् ।
कलौ कालेऽप्यन्तर्हरसि तिमिरं भास्कर इव
प्रलुब्धानां भोगेष्वपि निखिलभोगान्वितरसि ॥३
शिव स्वामिन् देव श्रितकलुषनिश्शेषणगुरो
भवध्वान्तध्वंसे मिहिरशतकोटिप्रतिभट।

शिवप्राप्त्यै सम्यक्फलितसदुपायप्रकटन
ध्रुवं तत्कारुण्ये कलिरपिः कृती भूतविभवः॥४
अशक्तानां कर्मस्वपि निखिलनिश्श्रेयसकृतौ
पशुग्रस्तानां पतिरसि विपाशत्वकलने ।
प्रशस्तानां भूम्नां निधिरसि निरोद्धा निजशुचा-
मशक्तानां कर्ता जगति धृतशक्तिः किल भवान् ॥५
विषार्तानां हर्ता विषयिविषयाणां घटयिता
तृषार्तानां काले परममृतवर्षी घन इव ।
सृषाज्ञानार्तानां निखिलविचिकित्सापरिहरो
विषग्रस्तानां त्वं सकलभयहर्ता विलससि ॥६
रसाधिक्यं भक्तेरधिकमधिकं वर्धय विभो
प्रसीद त्वं भूयः प्रकटय चिदानन्दलहरीम् ।
असारे संसारे सदसति न लिप्तं मम मनः
कुसीदं भूयान्मे कुशलवति निश्श्रेयसपथि ॥
महामोहारण्ये विचरति मनस्तनियमय-
न्नहन्तां निश्शेषीकुरु करुणया त्वं स्नपय माम् ।

महीयो माहात्म्यं तव मननमार्गे स्फुरतु मे
महस्स्तोमाकारे त्वयि मतिजुषि स्यात्क्वनु तमः ॥८
वलक्षाभं स्निग्धं वदनकमलेभ्यः प्रसृमरं
मिलत्कारुण्यार्द्रं मृदितभुवनार्तिस्मितमिदम् ।
पुलिन्दापत्यस्य प्रकटपुलकोद्रेकजनकं
दलद्दैन्यं भेदं हरतु सततं नः सुरगुरोः॥
अतीतो ब्रह्मादीन् कृतिमुखकृतः कारणपतीन्
क्षितिस्तोयं वह्निः मरुदसि वियत्तत्त्वमखिलम् ।
पतिः कृत्यानां त्वं परिणतचिदात्मेक्षणवतां
धृतिस्त्वं व्याप्तस्सन् दिशसि निजसायुज्यपदवीम् ॥
सदात्मा त्वच्चित्तः त्वदनुभवबुद्धिस्मृतिपथ:
त्वदालोकस्सर्वं जगदिदमशेषं स्थिरचरम् ।
सदा योगी साक्षाद्भजति तव सारूप्यममलं
त्वदायत्तानां किं न हि सुलभमष्टौ च विभवाः ॥
कति ब्रह्माणो वा कति कमलनेत्रा: कति हरा:
कति ब्रह्माण्डानां कति च शतकोटिष्वधिकृताः।

कृताज्ञास्सन्तस्ते विविधकृतिरक्षाभृतिकरा
अतस्सर्वैश्वर्यं तव यदपरिच्छेद्यविभवम् ॥ १२
नमस्ते स्कन्दाय त्रिदशपरिपालाय महते
नमः क्रोशाभिख्यासुरदलनदक्षाय भवते ।
नमश्शूरक्रूरत्रिदशरिपुदण्डाध्वरकृते
नमो भूयो भूयो नतिकृदवने जागरवते ॥ १३
शिवस्त्वं शकिस्त्वं तदुभयतमैक्यं पृथगसि
स्तवे ध्याने पूजाजपनियममुखेष्वभिरताः ।
भुवि स्थित्वा मोगान् सुचिरमुपभुज्य प्रमुदिता
भवन्ति तत्स्वाने तदनु पुनरावृत्तिविमुखाः॥ १४
गुरोर्विद्यां लब्ध्वा सकलभयहन्त्री जपपरा:
पुरश्चर्यामुख्यक्रमविधिजुषो ध्यननिपुणाः ।
व्रतस्थैः कामस्वैरभिलषितवाञ्छां प्रियभुज-
श्चिरं जीवन्मुक्ता जगति विजयन्ते सुकृतिनः॥१५
शरज्योत्स्नाशुभ्रं स्फटिकनिकुरुम्बामरुचिरं
स्फुरन्मुक्ताहारं धवलवसनं भावयति वः।

प्ररोहत्कारुण्यामृतबहुलधाराभिरभित-
श्चिरं सिक्तात्मा वै स भवति च विच्छिन्ननिगडः॥
वृथा कर्तुं दुष्टान्विविधविषवेगान् शमयितुं
सुधारोचिष्कोटिप्रतिभटरुचिं भावयति यः।
अधः कर्तुं साक्षाद्भवति विनतासूनुमचिरा-
द्विधत्ते सर्पाणां विविधविषदर्पापहरणम् ॥
प्रवालाभापूरे प्रसरति महस्ते जगदिदं
दिवं भूमिं काष्ठास्सकलमपि सञ्चिन्तयति यः।
द्रवीकुर्याञ्चेतस्त्रिदशनिवहानामपि सुखा-
द्भुवि स्त्रीणां पुंसां वशयति तिरश्चामपि मनः ॥१८
नवाम्भोदश्यामं मरतकमणिप्रख्यमथवा
भवन्तं ध्यायेद्यो भवति निपुणो मोहनविधौ ।
दिविष्ठानां भूमावपि विविधदेशेषु वसतां
नृणां देवानां वा वियति चरतां पतगफणिनाम् ॥
॥ इति स्कन्दलहरी सम्पूर्णा ॥

"https://sa.wikisource.org/w/index.php?title=स्कन्दलहरी&oldid=319916" इत्यस्माद् प्रतिप्राप्तम्