पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/११२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०६८ श्रीमद्वात्मीकिरामायणे उत्तरकाण्डे प्रजाश्च पितृवद्राजन पश्यन्ति त्वां महाबल । पृथिव्या गतिभूतोऽसि प्राणिनामपि राघवा॥१२ स त्वमेवंविधं यज्ञमाहर्तासि कथं नृप । पृथिव्यां राजवंशानां विनाशो यत्र दृश्यते ॥ १३ पृथिव्यां ये च पुरुषा राजन् पौरुषमागताः । सर्वेषां भविता तब संक्षयः सर्वकोपजः ॥ १४ स त्वं पुरुषशार्दूल गुणैरतुलविक्रम । पृथिवी नाईसे हन्तुं वशे हि तव वसते ।। भरतस्य तु तद्वाक्यं श्रुत्वामृतमयं तदा । प्रहर्षमतुलं लेभे रामः सत्यपराक्रमः ॥ उवाच च शुभं वाक्य कैकेय्यानन्दवर्धनम् । श्रीतोऽस्मि परितुष्टोऽस्मि सवाद्य वचनेऽनघ ॥१७ इदं वचनमछीब त्वया धर्मसमाहितम् । व्याहृतं पुरुषव्याघ्र पृथिव्याः परिपालनम् ॥ १८ एष्यदस्मदभिप्रायाद्राजसूयात् ऋतूत्तमात । निवर्तयामि धर्मज्ञ तव सुव्याहतेन च ॥ १९ लोकपीडाकरं कर्म न कर्तव्यं विचक्षणैः । बालानां तु शुभं वाक्यं ग्राह्यं लक्ष्मणपूर्वज ॥२० तस्माच्छणोमि ते वाक्यं साधु युक्तं महामते ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् उत्तरकाण्डे राजसूयाजिहीर्षा नाम त्र्यशीतितमः सर्गः १ २ ३ ४ चतुरशीतितमः सर्गः वृत्रतपोवर्णनम् तथोक्तवति राम तु भरत च महात्मनि । लक्ष्मणोऽथ शुभं वाक्यमुवाच रघुनन्दनम् ।। अश्वमेधो महायज्ञः पावनः सर्वपाप्मनाम । पावनस्तव दुर्धर्षा रोचता रघुनन्दन ॥ श्रूयते हि पुरा वृसं वासवे सुमहात्मनि । ब्रह्महत्त्यावृतः शको हयमेधेन पावितः ॥ पुरा किल महाबाहो देवासुरसमागमे । वृत्रो नाम महानामीदेतेयो लोकममतः ।। विस्तीर्णो योजनशतमुच्छ्रितत्रिगुणं ततः । अनुरागण लोकांखीन् स्नहात् पश्यति सर्वतः ।। ५ धर्मज्ञश्च कृतज्ञश्च बुद्ध था च परिनिष्ठितः । शशास पृथिवीं स्फीतां धर्मेण सुसमाहितः ॥ ६ तस्मिन् प्रशासति तदा सर्वकामदुधा मही । रसवन्ति प्रसूनानि मूलानि च फलानि च ॥७ अकृष्टपच्या पृथिवी सुसंपन्ना महात्मनः । स राज्यं तादृशं मुके स्फीतमद्भुतदर्शनम् ।। तस्य बुद्धिः समुत्पन्ना तपः कुर्यामनुत्तमम् । तपो हि परमं श्रेयः समोहमितरत् सुखम् ॥ ९ स निक्षिप्य सुतं ज्याप्ठ परिषु मधुरेश्वरम । तप उग्रं समातिष्ठत्तापयन् सर्वदेवताः ॥ १० तपस्तप्यति वृत्रे तु वासवः परमासवन । विष्णुं समुपसंक्रम्य वाक्यमेतदुवाच ह ॥ तपस्यता महाबाहो लोका वृत्रेण निर्जिताः । बलवान स हि धर्मात्मा नैनं शक्ष्यामि शासितुम॥ यद्यसौ तप आतिद्भूय एवासुरेश्वरः । यावश्लोका धरिष्यन्ति तावदस्य वशनुगाः ॥ १३ तं चैनं परमोदारमुपेक्षसि महाबल । क्षणं हि न भवेत्रः कुढे त्वयि सुरेश्वर ।। १४ ८ ११