सामग्री पर जाएँ

गणेशपुराणम्/खण्डः १(उपासनाखण्डम्)/अध्यायः ०६

विकिस्रोतः तः
← अध्यायः ०५ गणेशपुराणम्/खण्डः १(उपासनाखण्डम्)
अध्यायः ६
[[लेखकः :|]]
अध्यायः ०७ →

।। अथ षष्ठोऽध्यायः ।।
सूत उवाच ।।
इति तद्वचनं श्रुत्वा च्यवनो भृगुनन्दनः ।
त्वरयास्वमुपादाय कलशं जलसंभृशम् ।।१।।
दुःखित परदुःखेन तूष्णीमेवा गमद्गृहम् ।
तं भृगुः परिपप्रच्छ विलंबकारिणं सुतम् ।।२।।
भृगुरुवाच ।।
किमपूर्वं त्वया दृष्टं लक्ष्यसे च कितो यथा ।
विलम्बश्च कथं जातो वद पुत्र ममाग्रतः ।।३।।
पुत्र उवाच ।।
सौराष्ट्र देशे विख्याते दैवते नगरे मुने ।
सोमकान्त इतिख्यातो राजा राजीवलोचनः ।।४।।
चक्रे राज्यं बहुतिथं धर्मेण पालयन्प्रजाः ।
दुर्भगत्वं गतो दैवात् पुत्र राज्यं निवेश्यसः ।।५।।
पत्न्यासुधर्मयायुक्तो भर्तुराज्ञा भृतापितः ।
सुबल ज्ञानगम्याभ्यां प्रकृतिभ्यामिहागतः ।।६।।
गलत्कुष्ठी कृमियुतो विभ्रमन्दुर्गमं सरः ।
सहस्रभगताप्राप्तो यथेन्द्रो गौतमान्मुनेः ।।७।।
क्वसा सुधर्मा चार्वङ्गी क्व गलत्कुष्ठवान्पतिः ।
इति मे पृच्छतो वृत्तं तदीयं गतवान्क्षणः ।।८।।
तदीयैः करुणावाक्यैर्मनो मे कलिलं त्वभूत् ।
ततोहं कलशं पूर्णं कृत्वा शीघ्रमुपागतः ।।९।।
सूत उवाच ।।
सर्वं चा कथयत्तस्मै तयायत्कथितं वचः ।
श्रुत्वातच्च पुनः पुत्रं च्यवनं भृगुरब्रवीत् ।।१०।।
भृगुरुवाच ।।
सर्वानानयतान् शीघ्रं पुत्र गच्छ ममाज्ञया ।
द्रक्ष्यामि कौतुकं तेषां स्वीयं वा दर्शयामि तान् ।।११।।
सूत उवाच ।।
इत्थं स चोदितः पित्रा च्यवनः करुणानिधिः ।
जगाम सरसो भूमिं सुधर्मां द्रष्टुमुत्सुकः ।।१२।।
तस्मिन्नेव क्षणेमात्यौ फलकन्दभरान्वितौ ।
सुबल ज्ञानगम्यौ तावागतौ राजसंनिधिम् ।।१३।।
ततऊचे स तु मुनिः सुधर्मां चारुलोचनाम् ।
पिता मे स्वाश्रमं सर्वानाकारयति सुव्रते ।।१४।।
इति तद्वचनं श्रुत्वा सुधर्मा शोकविह्वला ।
तदैव सावधानात्तनुःप्राणइवागते ।।१५।।
सुशीला राजपत्नी सा पीत्वा तद्वचनामृतम् ।
अगमत्सासुचार्वङ्गी प्रकृति द्वय संयुता ।।१६।।
सोमकान्तेन पतिना मुनि पुत्रसरःसरा ।
गणेशस्कन्दसहिता शिवेवशिवसंयुता ।।१७।।
शुशुभे मार्गमध्ये सा वाचस्पतिपुरःसरा ।
मन्त्रघोषयुतं प्राप भृगोराश्रम मण्डलम् ।।१८।।
नानापुष्पलताकीर्णं नानापक्षिविनादितम् ।
मार्जारानकुलाः श्येनागजागावोमयूरकाः ।।१९।।
भुजंगा पक्षिणः सिंहाव्याघ्राः क्रीडन्ति यत्र च ।
न च वायुर्भृशं वाति न सूर्यस्तपते भृशम् ।।२०।।
न वर्षति भृशं मेघो वर्षते च तदिच्छया ।
विविशुस्ते हर्षयुता मुनिपुत्र पुरःसराः ।।२१।।
तत्राद्भुतं व्याघ्रमृगाजिनस्थं ददर्श सूर्यप्रतिमं भृगुं तम् ।
राजाथ पत्नी प्रकृति द्वयं च ननाम बद्धाञ्जलिरब्रवीच्च ।।२२।।
राजोवाच ।।
अद्याशिषो मे सफला द्विजेन्द्र द्विजेरिता धर्मचयस्तपोपि ।
आजन्मतोहं परिपूत एष पितुर्जनन्याश्च सुजीवितं मे ।।२३।।
भवदृशिः संप्रति हन्त्ययैनः पूर्वार्जितैः पुण्यचयौः कृतापि ।
आगामि कल्याणकरी मुनीन्द्र कालत्रये जन्म करोति पूतम् ।।२४।।
सौराष्ट्रदेशे खलु देवताख्ये पुरे कृतं राज्यममोघदृष्टे ।
भीतेन पापाद्विजदेवतादि पूजाकृता नीतिमता मुनीन्द्रः ।।२५।।
आकस्मिकं मे दुरितं किमेतत् प्रादुर्बभूवोग्रतरं दुरन्तम् ।
येनाहमीदृक् कुदशां प्रणीतो जाने न किंचित्प्रतिकारमत्र ।।२६।।
अपायतां यान्ति कृता उपाया युष्मत्कृतोपायमुपायमीहे ।
निर्वैरतां यान्ति हि जातिवैरास्तवाश्रमेवां शरणं प्रपन्नः ।।२७।।
सूत उवाच ।।
श्रुत्वेति वचनं तस्य भृगुस्तु करुणायुतः ।
उवाच सोमकान्तं तं ध्यानेनालोक्य सुव्रतः ।।२८।।
भृगुरुवाच ।।
उपायं वच्मि नृपते नचिन्तां कर्तुमर्हसि ।
ममाश्रमगतादुःखं नहिर्विन्दन्ति जन्मिनः ।।२९।।
जन्मान्तर कृतं चैव दुरितं ते नृपोत्तम ।
येने मां गमितोवस्थां कथयिष्ये तदप्यहम् ।।३०।।
कुर्वन्तु भोजनं सर्वे चिरकालं बुभुक्षिताः ।
वनाद्वनान्तरां याताः श्रान्ताः क्लान्ताननाभृशम् ।।३१।।
सूत उवाच ।।
इत्युक्त्वा स्नापयामास सुतैलाभ्यङ्गपूर्वकम् ।
भोजयामास चान्नानि षड्रसानि त्वनेकशः ।।३२।।
बुभुजुस्तेपि विश्रान्ता भृगोरमिततेजसः ।
आज्ञया मुनिवर्यस्य सुस्नाताः सुष्ठ्वलंकृताः ।।३३।।
सुषुपुर्मृदुशय्यायां हित्वा चिन्तां दुरत्ययाम् ।
मुनिना कल्पितायांते स्वराज्यं गमिताइव ।।३४।।
।। इति श्रीगणेशपुराणे उपासनाखण्डे भृगोराश्रमागमनं नाम षष्ठोऽध्यायः ।।६।।