गणेशपुराणम्/खण्डः १(उपासनाखण्डम्)/अध्यायः ०२
← अध्यायः ०१ | गणेशपुराणम्/खण्डः १(उपासनाखण्डम्) अध्यायः २ [[लेखकः :|]] |
अध्यायः ०३ → |
।। अथ द्वितीयोऽध्यायः ।।
सूत उवाच ।।
श्रूयतामृषयः सर्वे सोमकान्तस्य दुष्कृतम् ।
अकस्मादभवेत्तस्य गलत्कुष्ठोतिदुःखदः ।।१।।
धर्मशीलस्यराज्ञोथपूर्वकर्मविपाकतः ।
शुभंवाप्यशुभं कर्म नमुञ्चति नरं क्वचित् ।।२।।
यस्यांयस्यामवस्थायां कृतं भवति कर्म यत् ।
तस्यांतस्यामवस्थायां भुज्यते प्राणिभिर्ध्रुवम् ।।३।।
दुःखसागरमग्नोभूदप्लवोजलधौ यथा ।
वेदनामलभद्बह्वीं भुजङ्गेनेव दंशितः ।।४।।
नानाक्षतसमाकीर्णः स्रवद्रक्तस्ततस्ततः ।
पूयशोणितवान् राजा कृमिभिर्विह्वलीकृतः ।।
अस्थिशेषोभवद्राजा यक्ष्मणे वसमावृतः ।।५।।
चिन्तया व्याकुलीभूतः सर्वेन्द्रियरुजान्वितः ।
ततोमात्यान्जगौराजा मनः संरुद्ध्ययत्नतः ।।६।।
राजोवाच ।।
धिङ्मे राज्यं च रूपं च धिग्बलं जीवितं धनम् ।
केनेदं कर्मबीजेन व्यसनं समुपस्थितम् ।।७।।
कान्त्यासोमोजितो येन सोमकान्तस्ततोभवम् ।
येन मे साधवो दीनाः संत सन्यासिनोपि च ।।८।।
पालिताः पुत्रवज्जानपदालोकास्तथापरे ।
येन मे निर्जिता बाणैः शत्रवोघोररूपिणः ।।९।।
येन मे सकलापृथ्वी कृतास्ववशवर्तिनी ।
सम्यगाराधितोदेवः परमात्मा सदाशिवः ।।१०।।
दुष्टसङ्गतिहीनेन चित्तनिग्रहकारिणा ।
येन मे वपुषापूर्वमिष्टगन्धानिषेविताः ।।११।।
तदिदानीं पूतिगन्धमतोमे जीवितं वृथा ।
अतोहं काननं यास्ये सर्वेषामभ्यनुज्ञया ।।१२।।
हेमकण्ठ सुतं सर्वे बुद्धिविक्रम संयुतम् ।
सिञ्चन्तुराज्यहेतोर्मे पालयन्तु पराक्रमैः ।।१३।।
इदानीं न प्रदर्शिष्ये मुखं लोके कथञ्चन ।
न मे राज्यैर्नदारैर्वा जीवितेन श्रियापिवा ।।१४।।
प्रयोजनं महामात्याः करिष्ये स्वहितं वने ।
सूत उवाच ।।
इत्युक्त्वा निपपातोर्व्यां तरुर्वातहतोयथा ।।१५।।
पूयशोणितधर्मौघैर्व्याप्तोसौ द्विजसत्तमाः ।
कोलाहलो महानासीदमात्यानां च योषिताम् ।।१६।।
हाहाकारश्च लोकानां क्षणमासीत्सुदारुणः ।
वस्त्रप्रोंछनवाताद्यैरौषधैः क्षिप्रकारिभिः ।।१७।।
मन्त्रि मन्त्र प्रयोगैस्तं सचेतनमकारयन् ।
स्वस्थे जाते नृपे तस्मिन्नमात्याः प्राब्रुवन्निदम् ।।१८।।
अमात्याऊचुः ।।
तव प्रसादादमरेन्द्रतुल्यं भुक्तं सुखं सर्वजनेष्वसिद्धम् ।
कथं त्विदानीं त्वदृतेवसामः कथं जीवेम पशुघ्नतुल्याः ।।१९।।
कतोतु राज्यं तव सूनुरेकः प्रभूत कोशो बलबान् रिपुघ्नः ।
विहाय सर्वं सुखमद्यराजन्सहैवयामस्तुवनायगन्तुम् ।।२०।।
सूत उवाच ।।
ततः सुधर्मा वचनं जगाद वने नृपं सेवितुमेकवीरा ।
व्रजेसहानेन प्रधानवर्या प्रशिष्टराज्यं सहमेसुतेन ।।२१।।
दुःखस्य भोक्तानपरोस्ति नैव सुखस्य वा पूर्वकृतस्य जन्तोः ।
यथा यथा कर्मफलं प्रसक्तं तदेव भोग्यं स्वयमेव तादृक् ।।२२।।
मयापि नानाविध भोगवत्या सुखेन राज्यं परिभुक्तमस्य ।
स्त्रीणां हि भत्त्र्रा गमनं सहैव परत्रलोके मुनिभिः प्रदिष्टम् ।।२३।।
ततः पुत्रो हेमकण्ठो विनीतः शोकसङ्कुलः ।
उवाच तस्मिन्समये सोमकान्दमिदंवचः ।।२४।।
हेमकण्ठ उवाच ।।
ननुराज्येन दारैश्च प्राणैर्धनचयैरपि ।
त्वां विना नृपशार्दूल कृत्यं नैवास्ति यत्क्वचित् ।।२५।।
विनास्नेहं यथा दीपो विनाप्राणं यथा तनुः ।
वृथाराज्यं तथा राजं स्त्वां विना धर्मपालक ।।२६।।
सूत उवाच ।।
अमात्यानां सुधर्मायाः पुत्रस्य वचनामृतम् ।
श्रुत्वा हृष्टमना राजा पुत्रं प्रोवाच धर्मतः ।।२७।।
राजोवाच ।।
पितुर्वाक्यरतोनित्यं श्रद्धया श्राद्धकृत्तथा ।
पिण्डदोयो गयायान्तु स पुत्रः पुत्र उच्यते ।।२८।।
धर्मशास्त्रार्थतत्त्वज्ञो नीतिज्ञोखिलदोषकृत् ।
पितृृनुद्धरतेयस्तु पुत्रवान्पुत्र उच्यते ।।२९।।
अतोनीत्यासमायुक्तः कुरुराज्यं ममाज्ञया ।
अमात्ययुक्तः शाधित्वं पुत्रवद्धाखिलाः प्रजाः ।।३०।।
अहं वनं गमिष्यामि गलत्कुष्ठोऽतिगर्हितः ।
पत्न्यासुधर्मयासार्धमनुजानीहि सुव्रत ।।३१।।
।। इति श्रीगणेशपुराणे उपासनाखण्डे द्वितीयोऽध्यायः ।।२।।