सामग्री पर जाएँ

गणेशपुराणम्/खण्डः १(उपासनाखण्डम्)/अध्यायाः ३६-४०

विकिस्रोतः तः
← अध्यायाः ३१-३५ गणेशपुराणम्/खण्डः १(उपासनाखण्डम्)
अध्यायाः ३६-४०
[[लेखकः :|]]
अध्यायाः ४१-४५ →

व्यास उवाच ।
श्रुतं गणेशतीर्थस्य माहात्म्यं कमलासन ।
रुक्मांगदस्य चरितं कौण्डिन्य पुरवासिनाम् ।। १ ।।
तथापि ब्रूहि मे ब्रह्मन् मुकुंदाचरितं शुभं ।
ब्रह्मोवाच ।
गते रूक्मांगदे सा तु जज्वाल मदनाग्निना ।।२।।
दावाग्निना यथा ग्रीष्मे महावनस्थला सुत ।
मुकुंदा नालभच्छर्म वने शीतल मारुते ।।३।।
लतापुष्पमये स्थाने चंद्रचंदनवोऽपि च ।
तस्या न रोचते हास्यं गीतं नृत्यं कथान्तरम् ।।४।।
अन्नं जलं विह्वलापास्सचित्ताया मुनीश्वर ।
क्षुत्तृट् श्रमेण तस्यास्तु क्षणं निद्रा समाययौ ।।५ ।।
तामिंद्रो बुबुधे कांता प्रसुप्ता विजने वने ।
कामातुरा विह्वला च रूक्मांगद कृते सुत ।। ६ ।।
धृत्वा रौक्मांगदं रूपं बुभुजे कामुकां तु ताम् ।
आलिलिंग मुदा शक्रो मुकुंदा जहृषे भृशम् ।।७।।
साऽपि रुक्मांगदं तं तु चुचुम्बे सुभृशं सुत ।
सोऽपि तस्याः कुचौ पीनौ ममर्द दृढमुष्टिना ।।८।।
व्यंशुकां व्यंशुको रेमे निःशंकं स तया सह ।
ततः सा लज्जमानेव स्वगृहं प्रत्यपद्यत ।।९।।
इंद्रो रूक्मांगदो भूतस्तत्रैवान्तर्दधे सुत ।
मेने रुक्मांगदो भुक्तस्ततो गर्भं दधौ तु सा ।। १.३६..१० ।।
सुषुवे नवमे मासि सुवेलायां सुतं शुभम् ।
चारुसर्वानवद्यांगं रूपेण मदनातिगम् ।। ११ ।।
तस्य शब्देन महता धरण्या पतितस्य तु ।
सनादं दशदिग्वृंदमभूत्खं भूरसातलम् ।। १२ ।।
पक्षिणो बभ्रमुः सर्वे उड्डीयोड्डीय सर्वतः ।
वाचक्नविः समायातस्त्यक्त्वा स्वनित्यकर्म च ।। १३ । ।
मुकुंदाचरितं तेन नैव बुद्धं कदाचन।
जातकर्मादिकं सर्वं चकार भृषहर्षितः ।। १४।।
ददौ दानं यथाशक्ति ब्राह्मणेभ्यो यथार्हतः ।
दशाहे तु व्यतीते स नामकर्माकरोन्मुनिः ।। १५ ।।
गृत्समेत्यनुज्ञातो ज्योतिःशास्त्रपरैर्द्विजै ।
ततस्तु पंचमेऽब्देऽस्य व्रतबन्धं चकार ह ।। १ ६।।
वेदव्रतानि चत्वारि चकार बटुकस्य सः ।
सकृन्निगदमात्रेण गृह्णाति ब्रह्मतेजसा ।। ५७।।
वेदशास्त्रनिधिर्जातः स्वकर्म कुशलोऽपि च ।
कदाचित् सुमहूर्ते तु पिता वाचक्नविः सुतम् ।। १ ८। ।
गणानां त्वेति ऋङ्मन्त्रं महांतमुपदिष्टवान् ।
उवाच च महामन्त्रो वैदिकोऽखिल सिद्धिदः ।। १ ९।।
आगमोक्तेषु मन्त्रेषु सर्वेषु श्रेष्ठ एव च ।
ध्यात्वा गजाननं देवं जपैनं स्थिरमानसः ।।१.३६.२ ० ।।
परां सिद्धिं समाप्यैव ख्यातिं लोके गमिष्यसि ।
ततो गृत्समदो विप्रो मन्त्रं प्राप्य पितुर्मुखात् ।। २१ ।।
अनुष्ठानरतो भूत्वा जपध्यान परोऽभवत् ।
एवं बहुतिथे काले गते तु मुनिपुंगवे ।
तस्मिन् मगधदेशे यो राजा मगधसंज्ञितः ।।२२ । ।
चारुरूपा महामानी दानशूरोऽरिमर्दनः ।
नानालंकार शोभाढ्यो महार्हासन संश्रितः ।।२ ३ । ।
सुधर्मासनगो धीरः पुरुहूत इवापरः ।
चतुरंबलोपेतो ज्ञानी पंडितमानदः ।।२४।।
अमात्यौ द्वौ ज्ञाननिधी वाचस्पत्यधिकौ गुणौः।
अम्बिका नाम भार्याऽस्य चारुरूपा गुणाधिका ।।२५।।
पतिव्रता महाभागा शापानुग्रहणे क्षमा ।
तस्य राज्ञः पितुश्राद्धे समाजग्मुर्महर्षयः ।।२ ६।।
राज्ञाहूता वसिष्ठात्रि प्रमुखाः श्रुतिपारगाः ।
आकारितो गृत्समदस्तपस्वी शुचिमानसः ।।२७।।
ततः शास्त्र प्रसंगेन प्रौढि गृत्समदोऽवदत् ।
तमत्रि धिग्धिगित्येवमब्रवीन् मुनिसंन्निधौ ।। २८।।
तपस्वीति भवान्मान्यो न मुनिस्त्वं यतस्तव ।
जन्म रूक्मांगदाज्जातं राजपुत्राद्विचारय ।।२९।।
नास्मत्समक्षो पूजार्हं इतो गच्छ स्वमाश्रमम् ।
इत्यत्रिवचनं श्रुत्वा क्रोधदीप्त इव ज्वलन् ।।१.३६.३ ० ।।
दहन्निव त्रिलोकीं स भक्षयन्निव तान्मुनीन् ।
अपेर त्वपलायन्त सिंहं दृष्ट्वा यथा मृगाः ।। ३१ ।।
उवाच तत्र सदसि वसिष्ठादीन् मुनीन्प्रति ।
गृत्समद उवाच ।
यर्हि रुक्मांगदस्याहं न भवेयं मुनीश्वराः ।
तदा शापाग्निना युष्मान्कुर्यां भस्मावशेषितान् ।।३ २।।
ब्रह्मोवाच ।
इत्युक्त्वा तान्मुनीन् सर्वान् प्रययौ मातरं प्रति ।
पप्रच्छ तां गृत्समदो वद दुष्टेऽतिकामुके ।।३ ३ ।।
मुकुंदे वद मे तात नो चेद् भस्म भविष्यसि ।
आकर्ण्येवं वचस्तस्य चकम्पे भृशविह्वला ।।३४।।
मुकुंदा मारूतेनेव कदली कुड्मलान्विता।
उवाच दीनया वाचा बद्धांजलिपुटा सती ।। ३५ ।।
मुकुंदोवाच ।
मृगयासक्तचित्तोऽभूद्धृष्टसार्थो नृपोत्तमः ।
त्रैलोक्यसुभगो दृष्टो मया रूक्मांगदः शुभः ।। ३ ६।।
अनुष्ठानरते वाचक्नवौ मे भर्तरि प्रिये ।
अनिवार्याः स्त्रिय इति स्मृत्वा वाक्यं विधीरितम् ।। ३७।।
तस्मिन् नृपे सक्तमना जाताऽस्मि स पिता तव ।
श्रुत्वेत्थं वचनं तस्या मौनवान्स ययौ मुनिः ।। ३८। ।
लज्जयाऽधोमुखः शापमभ्यधाज्जननीं प्रति ।।
पुत्र उवाच ।
दुष्टे मूढे पापरते कानने कंटकी भव ।।३ ९।।
असंख्येय फला सर्वे प्राणिभिः परिवर्जिता ।
साऽपि शापं ददौ तस्मै क्रोधाविष्टा सुताय हि ।।१.३६.४०।।
जननी त्वमनादृत्य यतः शप्ता खलु त्वया ।
अतः शपामि त्वां पुत्र त्वत्तः पुत्रोऽति दारुणः ।।४ १ । ।
त्रैलोक्यभयदो दैत्यो भविष्यति महाबलः ।
एवं शशपतुस्तौ तु मातापुत्रौ परस्परम् ।।४२।।
क उवाच ।
सा तदैव शरीरं तत् त्यक्त्वाऽभूद् बदरी वने ।
वर्जिता पक्षिसंघातै जरिजैरंडजैरपि ।।८ ३ ।।
ततोऽन्तरिक्षे वागासीदिन्द्राद् गृत्समदो ह्यभूत्।
स तु गृत्समदो ब्रह्मन्ननुष्ठानाय जग्मिवान् ।।४४।।
इदं गृत्समदाख्यानं यः शृणोति नरोत्तमः ।
न स संकटमाप्नोति वांछितं लभतेऽखिलम् ।।४५।।
इति श्रीगणेशपुराणे उपासनाखंडे गृत्समदोपाख्यानं नाम षट्त्रिशत्तमोऽध्यायः ।।३ ६ ।।

ब्रह्मोवाच।
भ्रमन्मुनि ददर्शाग्रे वनं पुष्पकसंज्ञितम्।
नानाद्रुमलताकीर्णं पुष्पप्राकारशोभितम् ।। १ ।
शोभितं निर्झरजलैर्निर्जरैर्मुनिसत्तमै ।
ननाम तान् गृत्समदो न्यवसच्च तदाज्ञया ।।२।।
तत्र स्नात्वा जपं चक्रे पादांगुष्ठाग्रधिष्टितः ।
स्थिरेण मनसा ध्यायन्देवं विघ्नेश्वरं विभुम् ।।३ ।।
नासाग्र न्यस्तदृष्टिः सन्निरीक्षन्न दिशोदिश ।
जितेन्द्रियो जितश्वासो जितात्मा मारुताशनः ।।४।।
दिव्यवर्षसहस्रं स तपस्तेपे सुदारुणम् ।
उन्मील्य नयनं पश्यद्यदा गृत्समदो मुनिः ।।५ ।।
तदा नेत्रोद्भवो वह्नीस्त्रिदशान्पर्यतापयत् ।
शशंकिरे तदा देवाः कस्यायं पदभाग्भवेत ।।६।।
अपरं गलितं पत्रं भक्षयन्नेकमेव च ।
यत्नमास्थाय परमं स्थाणुभूतोऽति निश्चलः ।।७।।
दशपंचसहस्राणि तेपे निश्चलमानसः ।
ततो विनायको दृष्ट्वा तपनं तस्य दुर्घटम् ।।८।।
अनुग्रहाय तस्याथ प्रादुरासीत् सुदीप्तिमान् ।
यथा धेनुर्वत्सरवं श्रुत्वा धावति सत्वरम् ।।९।।
तथा विनायको देवः शीघ्रं गृत्समदं ययौ ।
भासयंस्तेजसा विश्वं सहस्ररविसन्निभः ।। १.३७.१ ०।।
चलत्कर्णतालो बृहद्दन्तिलीलो मुदा चारूखेलो लसच्चन्द्रभालः ।
बृहत्पद्ममालो जगत्कार्यमूलः करकंजनालो नमत्सविमेलः ।। १ १।।
सिंहारूढो दशभुजो व्यालयज्ञोपवीतवान् ।
कुंकुमागरु कस्तूरी चारूचंदन चर्चितः ।।१२।।
सिद्धिबुद्धि युतः श्रीमान् कोटिसूर्याधिक द्युतिः ।
अनिर्वाच्य स्वरूपोऽपि लोलयाऽऽसीत्पुरो मुने ।। १ ३।।
तत्तेजसा ह्रतं तेजा मुनेस्तस्य महात्मनः ।
ब्रध्नस्य तेजसा यद्वन् नाक्षत्रं चंद्रजं महः ।। १४।।
निमील्य नयने सोऽथ चकम्पे भृशविह्वलः ।
पपात मूर्छितो भूमौ विस्मृत ध्यानमंगलः ।। १५।।
पुनश्च मनसा ध्यायन् गजाननमनामयम् ।
मनसा तर्कयन् विघ्नं निमित्तं व्याकुलो मुनिः ।। १६।।
किमेतत् क्षोभजननं सहसा समुपस्थितम् ।
अद्यप्रभृति यत्तप्तं तत्कथं मे वृथा गतम् ।। १७।।
पाहि देवेश सर्वात्मन् विघ्नादस्माद् भयानकात् ।
त्वामृते शरणं यामि कमन्यं जगदीश्वरम् ।। १८।।
महद्दुःखं सदा देव प्राप्तं केन च हेतुना ।
नास्मत् पंक्तौ पूजनीय इति यद्वहते मनः ।। १९।।
ब्रह्मोवाच ।
इति तद्वचनं श्रुत्वा जगाद स विनायकः ।
गणेश उवाच ।
अनुग्रहाय संप्राप्तं विद्धि मां गणनायकम् । १.३७.२०
सनकादिभिरप्राप्यं चिरं नियममास्थितैः ।
त्यक्त्वा भयं ब्रूहि यत्ते वांछितं मुनिसत्तम ।।२ १।।
एकांगुष्ठेन तपसा तोषितोऽहं त्वयाऽनिशम् ।
ब्रह्मोवाच ।
निशम्येत्थं वचस्तस्य देवदेवस्य शोभनम् ।।२२।।
दंडवत् प्रणनामैनं निजानंद परिप्लुतः ।
उवाच परमप्रीतो वरदं तं विनायकम् ।।२३ ।।
गृत्समद उवाच ।
अद्य मे सफलं जन्म तपसो नियमस्य च ।
अखंडानंदरूपो यो ब्रह्मभूयो निराकृतिः । ।२४। ।
मुंचन्नश्रूणि नेत्राभ्यां मानदेन ननर्त च।
चिदानंदघनो वेद शास्त्राणामप्यगोचरः ।।२५।।
सद्यो दृष्टो मया साक्षादतः किं प्रार्थये विभो ।
तवाज्ञया तथाऽप्येकं प्रार्थये द्विरदानन ।।२६।।
चतुरशीति लक्षासु योनिषु श्रेष्ठतासु च ।
मनुष्याणां महाभाग वर्णास्तत्र महत्तराः ।।२७।।
तत्रापि ब्राह्मणाः श्रेष्ठास्तत्रापि ज्ञानिनः पराः ।
ज्ञानिष्वनुष्ठानपरास्तेषु च ब्रह्मवेदिनः ।।२८।।
ब्रह्मज्ञानं तथा ज्ञानं देहि मे जगदीश्वर ।
त्वयि भक्तिं च सुदृढामविस्मरणमेव च ।।२ ९।।
तव भक्तेषु सर्वेषु श्रेष्ठतां च गजानन ।
अन्यं चैकं वरं याचे तं च मे देहि शंकर ।। १.३७.३० । ।
तव भक्त्यैकनिलयं त्रैलोक्याकर्षण क्षमम् ।
विख्यातं त्रिषु लोकेषु नमस्यं सुरमानुषैः ।।३ १ ।।
एवं मां कुरु विघ्नेश यदि तुष्टोऽखिलार्थकृत्।
वनं च पुष्पकं नाम्ना ख्यातिं यातु सुरेश्वर ।।३ २ ।।*
अस्मिन् स्थित्वा च भक्तानां कामान्पूरय नित्यदा ।
इदं च पुष्पकपुरं चतुर्दिक्षु विशेषतः । । ३३ ।।
गणेशपुरमित्येवं प्रथां यातु गजानन ।
ब्रह्मोवाच ।
इति तद्वचन श्रुत्वा जगाद द्विरदाननः ।।३४।।
गणेश उवाच ।
साधु साधु महाबाहो प्रसन्ने मयि दुर्लभम् ।
भक्तानां त्रिषु लोकेषु न किंचिन् मुनिपुंगव ।। ३ ६।।
त्वया यत्प्रार्थितं विप्र तत्ते सर्वं भविष्यति ।
विप्रत्वं दुर्लभतरं प्रसन्नेन मयार्पितम् ।। ३६ । ।
गणानां त्वेति मन्त्रस्य वैदिकस्य यतस्त्वया । * (ऋ. २.२३.१)
जपः कृतो मुनेस्तस्त्वमृषिरस्य भविष्यसि ।३७।।
ब्रह्मादिषु च देवेषु वसिष्ठादि मुनिष्वपि ।
ख्यातिं यास्यसि सर्वत्र परं श्रैष्ठयमुपागतः ।। ३८।।
सर्वेष्वारब्ध कार्येषु पूर्वं ते मम चापरम् ।
स्मरणं ये करिष्यन्ति तेषां सिद्धिर्भविष्यति ।। ३९। ।
कृते ज्ञानाद्दैवतर्षि च्छन्दसां कर्म निष्फलम् ।
पुत्रश्च बलवान् सर्वं देवानां सुभयंकरः ।।१.३७.४० ।।
भविष्यति महाख्यातिं त्रिषु लोकेषु यास्यति ।
अजेयः सर्वदेवानां विना रुद्रं भविष्यति ।।४ १ ।।
मद्भक्तो मद्गतप्राणो मन्निष्ठो मत्परायणः ।
इदं च नगरं देव युगे पुष्पक संज्ञितम् ।।४२ ।।
त्रेतायां मणिपूरं च भानकं द्वापरेऽपि च ।
कलौ तु भद्रकं नाम ख्यातं लोके भविष्यति ।।४३।।
अत्र स्नानेन दानेन सर्वान्कामानवाप्नुयात् ।
ब्रह्मोवाच ।
एवं दत्वा वरांस्तस्मै तत्रैवान्तर्दधे विभुः । ।४४।।
तस्मिन्नंतर्हिते तत्र स्थापयामास वै मुनिः।
गणेशमूर्ति प्रासादं कारयामास सुन्दरम् ।।४५ ।।
वरदेति च तन्नाम स्थापयामास शाश्वतम् ।
सिद्धिस्थानं च तत्रासीद् गणेशस्य प्रसादतः ।।४६।।
कामान्पुष्णाणि सर्वेषां पुष्पकं क्षेत्रमित्यपि ।
पूजयामास तां मूर्तिं भक्तिभावसमन्वितः ।।४७।।
इमां कथां यः शृणुयान् मुनीन्द्र श्रीविघ्नराजस्य वरप्रकाशाम्।
सभेत कामानरिपलान् गणेश भक्तिं दृढां संसृतिमोचनीं च । ४८ ( १४१३)
इति श्रीगणेशपुराणे उपासनाखंडे वरदाख्यानं नाम सप्तत्रिंशत्तमोध्यायः ।।३७।।

(१.३७.३२ पुष्पके प्रासादे चतुःषष्टिः स्तम्भाः भवन्ति। किमेते ६४ स्तम्भाः ६४ कलानां रूपाः सन्ति, अयं अन्वेषणीयः)

व्यास उवाच ।
ततो गृत्समदस्यासीत् कथं वृत्तिः सुरेश्वर ।
तन्ममाचक्ष्व यत्नेन श्रद्दधानस्य पद्मज ।। १ ।।
ब्रह्मोवाच ।
ततः सर्वे मुनिगणा मानयामासुरादरात् ।
ब्रह्मन् मुनिवरश्रेष्ठं नेमुर्गृत्समदं च तम् ।।२ ।।
वरदानाद् गणेशस्य वव्रुस्तं यज्ञकर्मणि ।
सर्वारम्भे गणेशस्य पूजनादौ च सस्मरः । । ३ ।।
एवं विख्यातिमगमत् स मुनिर्गणनायके ।
भक्तिं परमिकां चक्रे जपन्मंत्रं सुनिश्चलः । ।४।।
कदाचित् स मुनिर्व्यास चुक्षुवे बलमुत्तरम् ।
दिशो नभश्च पृथिवीं नादयन् गिरिगह्वरान् ।।५ ।।
अपश्यत् पुरतो यावत् तावद्बालं भयंकरम् ।
रक्तवर्णं महानादं जपाकुसुमसन्निभम् ।।६।।
तेजोराशिं च मुष्णंतं नेत्रालोकपथं मुहुः ।
दृष्ट्वा स तादृशं बालं चकम्पे भयविह्वलः ।।७।।
तर्कयामास मनसा विघ्नः कोऽयमिहागतः ।।
न जाने गणनाथेन दत्त पुत्रो ममाद्भुतः ।।८।।
पश्यति स्म पुनः सोऽमुं चारुवक्त्रं सुलोचनम् ।
चारु रूक्मांगदं चारु मुकुटं चारुनूपुरम् ।।९।।
चारुणा कटिसूत्रेण राजत्कटितटं सुतम् ।
पप्रच्छ तं मुनिः कोऽसि कस्यासि किं चिकीर्षसि ।। १.३८.१० ।।
क्व च ते पितरौ स्थानं वद तेजोनिधेऽर्भक ।
क उवाच ।
श्रुत्वेत्थं वचनं तस्य जगाद बालको मुनिम् ।। ११ ।।
बालक उवाच ।
भूतभाविभवज्ज्ञानी किं मां त्वं परिपृच्छसि ।
तथाऽप्याज्ञावशो वच्मि क्षुतात्तव जनिर्मम ।। १२ ।।
त्वमेव जनको माता कृपां कुरु ममोपरी ।
पालयस्व पितर्मां त्वं दिनानि कतिचिन्मुने ।। १३ ।।
त्रैलोक्याक्रमणे शक्तो देवेन्द्रं वशवर्तिनम् ।
करिष्यामि न सन्देहो वीक्ष्यसे पौरूषं मम ।। १४।।
ब्रह्मोवाच ।
इत्याकर्ण्य वचस्तस्य भयहर्षं समन्वितः ।
उवाच श्लक्ष्णया वाचा मुनिर्गृत्समदो वचः । । १५ ।।
यद्ययं जातमात्रोऽपि शक्तस्त्रैलोक्य कर्षणे ।
तस्मादस्य प्रदास्यामि स्वं मन्त्रं स्वात्मजस्य हि ।। १६ ।।
येनास्य वांछितं देवः परितुष्टो विनायकः ।
प्रदास्यति जगन्नाथो मम कीर्तिर्भविष्यति ।। १७।।
एवं संचिंत्य मनसा तस्मै स्वं मन्त्रमादिशत् ।
गणानां त्वेति तं चाह कुर्वनुष्ठानमादरात् ।। १ ८।।
जपस्व वैदिकं मंत्रं चित्तं स्थाप्य गजानने ।
संतुष्टस्ते यदा पुत्र सर्वान् कामान् प्रदास्यति ।। १ ९।।
एवं प्राप्त महामंत्रो जगाम तपसे वनम् ।
एकांगुष्ठेनावतस्थे निराहारो जितेन्द्रियः । ।१.३८.२ ० ।।
ध्यायन् गजाननं देवं मनसा निश्चेलन सः ।
जपतस्तस्य वर्षाणि सार्धायुतमितानि च ।। २१ ।।
गतानि तस्य मुखतो बभूवाग्निर्दिशो ज्वलन ।
भयं बभूव देवानां दैत्यानां तलवासिनाम् ।।२२ ।।
ततस्तत् तपसा तुष्ट आविरासीद् गजाननः ।
दिशो वितिमिराः कुर्वंश्छादयन् भानुमंडलम् ।।२ ३ ।।
भ्रामयन् पुष्पकरं चारू सुविषाणं मुदा युतः ।
तद्बृंहित रवं श्रुत्वा बालको विह्वलग्निव ।।२४।।
उन्मील्य नेत्रे सोऽपश्यद्देवं तं पुरतः स्थितम् ।
चतुर्भुजं महाकायं नानाभूषा विभूषितम् ।।२५।।
परशुं कमलं माला मोदकान् बिभ्रतं करैः ।
तेजसा धर्षितस्तस्य धैर्यं कृत्वा ननाम सः ।।२ ६ ।।
बद्धांजलिपुटो भूत्वा प्रार्थयामास तं विभुम् ।
बालक उवाच ।
किं मां धर्षयसे देव भक्तं त्वां शरणागतम् । ।२७।।
भव सौम्यतरो देव देहि मेऽखिलवांछितम् ।
ब्रह्मोवाच ।
इत्याकर्ण्य वचस्तस्य संजहार स्वकं महः ।। २८।।
उवाच परमप्रीतो सावधान भवार्भक ।
यं ध्यायसि दिवारात्रो सोऽहं ते वरदोऽधुना ।।२९।।
ममेदं परमं रूपं स्वप्रकाशं जगन्मयम् ।
न विदुर्ब्रह्म रुद्राद्याः कुतो वेत्स्यन्ति मानवाः ।।१.३८.३ ० ।।
देवाश्च मुनयः सर्वे न च राजर्षयोऽपरे ।
नासुराः सिद्धगन्धर्वा न नागा न च दानवः ।। ३१ ।।
सोऽहं तव तपोबद्धो वरं दातुमिहागतः ।
वरयस्व वरान्मत्तो यान्यांस्त्वं मनसेच्छसि ।। ३२ ।।
स उवाच ततो बालो धन्योऽहं तव दर्शनात् ।
पिता धन्यतरो मेऽद्य सार्थकं जन्म मे तपः ।।३ ३ ।।
स्तुतिं कर्तुं न जानामि बालभावात्सुरेश्वर ।
यतस्त्वं सर्वजगतां कर्ता पाताऽपहारकः ।।३४।।
त्वद् भासा भासयत्येव रविरग्निश्च चन्द्रमाः ।
चराचरं चेतयसे स्वमाहात्म्यान् महामते ।। ३५।।
महिमानं महान्तं ते केशा अपि न यं विदुः ।
यदि मे वरदोऽसि त्वं तन्मे देहि गजानन ।। ३ ६।।
त्रैलोक्याकर्षणे शक्तिं विशिष्टां देहि मे विभो ।
देवदानवगन्धर्व मनुष्योरगराक्षसा ।।३७।।
वश्या मम सदा सन्तु मुनिकिन्नर चारणाः।
मनसा चिन्तितं यन्मे तत्तत् सिध्यतु सर्वदा ।।३ ८।।
इंद्रादयो लोकपालाः सेवां कुर्वन्तु मे सदा ।
इह भोगाननेकान्मे मुक्तिं चान्ते प्रयच्छ च ।। ३ ९।।
अन्यं च ते वरं याचे पुरमेतत् तवाज्ञया ।
प्रथां यातु यतश्चात्र तपमुग्रं तपो मया ।।१.३८.४० ।।
गणेशपुरमिति च ख्यातिं यातु जनेष्टदम् ।।
गणेश उवाच ।
त्रयाणामपि लोकानामाक्रमं त्वं करिष्यसि ।।४१ ।।
सर्वेभ्यो न भयं तेऽस्ति सर्वे वश्याश्च ते सदा ।
आयसं कांचनं रौप्यं मया दत्तं पुरत्रयम् ।।४२ ।।
अभेद्यं सर्वदेवानां कामगं शंकर विना ।
त्रिपुरेति च ते नाम ख्यातिं लोके गमिष्यति ।। ।।४३ ।।
यदैकेन च बाणेन शिवो भेत्स्यति ते पुरम् ।
तदैव यास्यसे मुक्तिं नात्र कार्या विचारणा ।।४४।।
अन्यत्ते वांछितं सर्वं मत्प्रसादाद् भविष्यति ।
ब्रह्मोवाच ।
दत्त्वेत्थं स वरान्देवस्तत्रैवान्तर्दधे विभुः।
विषादमगमद्देव वियोगात् त्रिपुरासुरः ।।४५।।
हर्षं च विपुलं लेभे वरान्प्राप्य यथेप्सितान्।
त्रैलोक्यविजयं कर्तुं यतते स्म ततो बलात् ।।४६।। ( १४५९)
इति श्रीगणेशपुराणे उपासनाखंडे वरप्रदानं नामाष्टत्रिंशत्तमोऽध्याय ।। ३८।।

व्यास उवाच ।
ततः किमकरोद् ब्रह्मस्त्रिपुरो वरदर्पितः ।
तत्सर्वं कौतुकं महयं वक्तुमर्हस्यशेषतः ।। १ ।।
ब्रह्मोवाच ।
ततः काश्मीर पाषाणभवां मूर्तिं गजाननीम ।
स्थापयामास विधिवद् ब्रह्मणैर्मन्त्रकोविदैः।।२।।
महांतं कांचनं दिव्यं मणिमुक्ता विभूषितम् ।
गणेशपुरमध्ये स प्रासादं कृतवान्शुभम् ।। ३ ।।
उपचारैः षोडशभिः पूजयामास तं विभुम् ।
नमस्कारैरसंख्यातैः स्तुतिभिः प्रार्थनैरपि ।।४।।
क्षमाप्य देवदेवेशमनुज्ञोप्य ययौ बहिः ।
ददौ दानान्यनेकानि ब्राह्मणेभ्यो यथार्हतः ।।५ ।।
ततस्तदभवत्स्थानं बंगाले त्रिपुरस्य ह ।
गणेशपुरमित्येवं सर्वेषां सर्वसिद्धिदम् ।। ६ ।।
ततः स त्रिपुरो दैत्यो गजानन वरोद्धतः ।
नृलोकान्पालयामास देवानामाक्रमे रतः ।।७।।
पदातयस्तुरंगाश्च गजाश्च रथिनस्तथा ।
दशदिग्भ्यो ययुस्तं तु सेवार्थं बलवत्तराः । ।८।।
राजानः सेवका जाता आनुकूल्येन तस्य ह ।
प्रतिकूला गता मृत्युं युद्धं कर्तुं मनीश्वराः ॥९॥
एवमाक्रम्य भूखंड ततोऽगादमरावतीम् ।
तत इंद्रो देवगणै नौंनायुद्ध करे वृतः ॥१.३९.१०॥
ऐरावत समारूढो ययौ युद्धाय दंशितः ।
सोऽपि सेनां त्रिधा चक्रे चतुरंगां महाबलः ॥११॥
भीमकायं महादैत्यं वज्रदंष्ट्रं च दानवम् ।
धनुर्युद्धे गदायुद्धे शस्त्रयुद्धे च कोविदम् ॥१२॥
अस्त्रयुद्धे मल्लयुद्धे निष्णातं दैत्यपुंगवम् ।
भीमकायमवोचत्स नृलोकस्याधिपो भव ॥१३॥
कालकूटं वज्रदंष्ट्रं जगाद त्रिपुरो बली ।
त्रिभागयाऽनया याहि सेनया त्वं रसातलम् ॥१४॥
शेषमुख्यान सर्वनागान् वशान्कुरु ममायज्ञा।
अहं त्रिभागया शक्रमाक्रमिष्येऽखिलान्सुरान् ॥१५॥
भौमकायो वज्रदंष्ट्रो यथाज्ञप्तो प्रतस्थतुः ।
चतुरंगबलैर्युक्तः स्वयं नन्दनमाययौ ॥१६॥
दिव्यान् वृक्षान् बभंजुस्ते वार्यमाणास्तु सैनिकाः ।।
तत्र स्थित्वा दैत्यराजो दूतान् शक्राय प्राहिणोत् ।
अत्रा नयन्तु तं शक्रं दर्शनाय त्वरान्विताः
वदन्तु मम वाक्यं वा मृत्युलोकं व्रजाधुना ॥१८॥
तत्र त्वां पालयिष्यामि साम्ना देह्यमरावतीम्
यदि युद्धे च ते बुद्धिस्तदा शीघ्रं प्रयाहि माम् ॥१९॥
ते गत्वा शक्रमाचख्युस्त्रिपुरासुर चेष्टितम् ।
श्रुत्वेत्थं वचनं तेषां वज्राहत इवाचल ।।१.३९.२०।।
चकम्पे चाचलरिपुर्वायुनेव यथा तरुः ।
चिन्तया व्याकुलीभूतः किमेतदिति चिन्तयन् ॥२१॥
क्रोधानलेन जज्बाल संरक्ताखिललोचनः ।
कुर्वन्भस्मेव लोकानां शोषयन्निव वारिधीन् ॥२२॥
उवाच दूतान् गच्छन्तु यान्तु युद्धाय सत्वराः ।
स्वयमैरावतारूढो जगर्ज सुरशत्रुहा ॥२३॥
तेन नादेन महता क्षोभयन्भुवनत्रयम् ।
श्रुत्वा तद्वचनं ते तु गता दूतः यथागतम् ॥२४॥
विबुधाश्चापि सन्नद्धा नानाशस्रासिपाणयः ।
भिण्डिपालकराः केचित् केचिच्छक्त्यृष्टिपाणयः ॥२५॥
मुद्गरासिधराः केचिद्धनुर्बाणकराः परे ।
गदाखेटकराः केचित् केचित्तु दंडपाणयः ॥२६॥
एवं देवगणैर्युक्तो वज्रभृन्निर्ययौ बहिः ।
कृतस्वस्त्ययनो विप्रैर्नाना वादित्र निस्वनैः ॥२७॥
त्रिपुरो दूतवाक्येन ज्ञात्वा युद्धोद्यमं तु तम् ।
सन्नद्धामकरोत्सेनां प्रहृष्टां चतुरंगिणीम् ।।२८॥
असंख्यातां समादाय ह्यारूढोऽभि निर्ययौ ।
परस्परं ददृशतुस्ते सेने वीरभूषणे ॥२९॥
कोलाहलो महानासीद् बृंहितैर्ह्रेषितैरपि ।
क्ष्वेडितै रथघोषैश्च वाद्यघोषैरनेकधा ॥१.३९.३०॥
ततो हुंकारमात्रेण नोदितास्त्रिपुरेण ते ।
वीरा युयुधिरे देवैः स संमर्दो महानभूत् ॥३१॥
नाभूत् स्वपर बोधोऽपि जघ्नुरेव परस्परम् ।
एवं सुतुमुले जन्ये मृतास्ते दानवा बहु ॥३२॥
सुमनसोऽपि पतिता दैत्यशस्त्र प्रपीडिताः।
बभुस्ते सैनिकास्तत्र पुष्पिता इव किंशुकाः ॥३३॥
अशय्याः शयिताः केचिदंघ्रिहीनास्तथाऽपरे।
क्रमेलका गजाध्यक्षा रथाश्वाश्च पदातिनः ॥३४॥
ततः पलायनपरा दैत्या याता दिशो दश ।
सिंहं दृष्ट्वैव सहसा मृगा जीवनकांक्षिणः ॥३५॥
ततो निवार्य तत्सैन्यं वृन्दारकरिपुः स्वयम् ।
क्रोधानल महाज्वालो गर्जन्मेघ इवापरः ॥३६॥
शत्रुसान्निध्यमगमद् भक्षयन्निव रोदसी ।
स्वखड्गेनाहनतीव्रं हस्तं वज्रधरं हरेः ॥३७॥
वज्रं पपात तद्धस्तात् तदद्भुतमिवाभवत् ।
तदा दाया हनद्दैत्यस्तेनैवैरावतं गजम् ॥३८॥
ऐरावतः प्रहारेण पलायनपरो ययौ ।
ततो जघान स हरिर्मुष्टिना दैत्यपुंगवम् ॥३९॥
सक्षणं पतितो भूमौ तत उत्थाय वेगवान् ।
जघान मुष्टिना शक्रं धरण्यां तमपातयत् ॥१.३९.४०॥
तत उत्थाय मघवा दैत्यं प्राह रुषान्वितः ।
इदानीं मल्लयुद्धाय सज्जीभवासुरेश्वर ॥४१॥
ततः स विस्मयाविष्ट उवाच बलगर्वितः ।
किमर्थत्वं निजप्राणे निर्दयोऽसि सुरेश्वर ॥४२॥
कृमिकीटपतंगानां प्राणोऽतीव प्रियो मतः ।
गच्छ देव धरण्यां ते स्थानं दत्तं मया शुभम् ॥४३॥
ब्रह्मोवाच ।
इति तद्वचनं श्रुत्वा जगाद बलवृत्रहा।
यद्यहं जीविताच्वांहि मोचयामि न चेद्रिपो ॥४४॥
तदाऽहं धरणीं यामि त्वदाज्ञा वशगोऽधम ।
त्वमेव हतमूर्धाऽद्य धरणीं यास्यसे खल ॥४५॥
वदत्येवं तु देवेन्द्र दैन्येन्द्रो निजघान तम् ।
मुष्टिना हृदये दुष्टस्ततो युद्धमभूत्तयोः ॥४६॥
चाणूरकृष्णयोर्यद्वत् परस्पर जयैषिणोः ।
हृदयं हृदयेनैव हस्तं हस्तेन जघ्नतुः ।४७॥
जानुभ्यां जानुनी चोरू ताभ्यां तौ च निजघ्नतुः ।
मस्तकं मस्तकेनैव कूर्परं कूर्परेण तु ॥४८॥
पृष्टं पृष्टेन पादाभ्यां पादौ तावभिजघ्नतुः ।
पादौ गृहीत्वा दैत्योऽस्य भ्रामयित्वा मुहुर्मुहुः ॥४९॥
तत्याज दूरतः शक्रं यथा न ज्ञायते क्वचित् ।
आरुरोह स्वयं तं तु चतुर्दन्तं गजेश्वरम् ॥१.३९.५०॥
ततो देवगणाः सर्वे हिमवद् गिरिगह्वरम् ।
ययुः शक्रं विचिन्वन्तो दैत्यसंत्रासतापिताः ॥५१॥
कुत्र वा पतितो देवो द्रक्ष्यामो वा कथं विभुम् ।
एवं संचिंतयन्तस्ते भ्रमंतो ददृशुश्च तम् ॥५२॥
अधोमुखं समायान्तं देवेन्द्रं तं तदैव ह ।
प्रणेमुर्देवसंघास्तमालिलिंगस्तथाऽपरे ॥५३॥
पूजयामासुरपरे बीजयामास कश्चन ।
पादसंवाहनं चास्य चक्रुः केचन भक्तितः ॥५४॥
तत्रैव न्यवसन् सर्वे गुप्तरूपाः सुरास्तदा ।
दैत्यस्त्वैरावतारूढो ययौ ताममरावतीम् ॥५५॥
देवस्थानानि दैत्यानामिंद्रासन गतः स्वयम् ।
ददौ विभज्य प्रत्येकं मानपूर्वं सुरद्विषाम् । ॥५६॥
दिव्य वादित्रनिर्घोषैः शृण्वन् गांधर्वनिस्वनान् ।
किन्नरैः सेव्यमानस्तु रेमे चाप्सरसां गणैः ५७ (१५१६)
इति श्रीगणेशपुराण उपासनाखंडे इन्द्रपराजयो नामैकोन चत्वारिंशोऽध्यायः ॥३९॥

ब्रह्मोवाच ।
आक्रम्य देवधिष्ण्यानि दैत्योऽगाद् ब्रह्मणः पदम् ।
पराक्रमं दैत्यकृतं श्रुत्वा देवमुखात्परा ॥१॥
ब्रह्मा ययौ नाभिपद्मं विष्णुः क्षीरनिधिं ययौ ।
दैत्यस्य मानसौ पुत्रौ प्रचंडश्चंड एव च ॥२॥
प्रचंडं स्थापयामास ब्रह्मलोकेऽधिनायकम् ।
ततश्चंडं च वैकुंठे चकार स्वामिनं स्वयम् ॥३॥
ततः कैलासमगमत् तं च दौर्भ्यामचालयत् ।
भयभीता च गिरिजा लिलिंगे शंकरं भृशम् ॥४॥
ततः कैलासमगमद्युद्धाकांक्षी महासुरः ।
तेन तुष्टो महादेवो दैत्यस्य पौरुषेण च ॥५॥
बहिर्ययौ वरं दातुं निजभक्तं सुखप्रदः ।
ददर्श त्रिपुरं दैत्यं वरं वृण्वित्यथाब्रवीत् ॥६॥
स वव्रे यदि तुष्टोऽसि देहि कैलासमद्य मे ।
गच्छ मन्दारशिखरं यावन्मम मनोरथः ॥७॥
शंकरोऽपि ददौ तस्मै कैलासं स्वल्पकालिने ।
स्वयं जगाम गिरिशो मन्दाराद्रिं गणैर्वृतः ॥८॥
कैलासशिखरारूढो जहर्ष त्रिपुरासुरः।
एवं देवान्वशे कृत्वा पुनरायाद्रसातलम् ॥९॥
भीमकायोऽपि बलवान् भूमंडल गतो बलात् ।
वशे चकार नृपतीन् ऋषीन् सर्वान् बबन्ध च ।। १.४०.१०॥
अग्निकुंडानि सर्वाणि देवतृप्ति कराणि च ।
आश्रमांश्च बभंजाशु तीर्थानि च विशेषतः ॥११॥
तापसांस्त्रासयामास कारागार समाश्रयात् ।
स्वाहा स्वधा वषट्कारान् वेदस्याभ्यसनानि च ॥१२॥
सदाचारान् सदा द्वेष्टि सर्वगर्वसमन्वित ।
वज्रदंष्ट्रोथ सप्तापि पातालानि वशेऽनयत् ॥१३॥
शेषं च वासुकिं चैव तक्षकं सर्वभोगिनः।
निर्विषान् स विषांश्चैव चकार वशवर्तिलः ।
वज्रदंष्ट्रो रत्नजातं बुभुजे प्रेषयच्च तम् ॥१४॥
नागांगनाभिश्च कुतूहलेन रेमे सदाऽसौ समदोऽति हर्षात् ।
भोगान् विमुंजन विविधानि रत्नान्यादाय यातस्त्रिपुरान्तिके सः॥१५॥
पातालवश्यतां शंसन् लेभे मानं ततोधिकम् ॥१६॥
वस्त्राणि च महार्हाणि ग्रामान् दासाननेकशः ।
एवं त्रिलोकान्वशगान् कृत्वा दैत्यो ननन्द ह ॥१७॥
देवाः सर्वे गुहावासाश्चिन्तयामासुरन्वहम् ।
कथमस्य वधः कस्मिन्काले वापि भविष्यति ॥१८॥
कस्माद्वेति न जानीमो लब्धोऽनेन वरं कुतः ।
एवं व्याकुलचित्तेषु सुरेषु मुनिसत्तम ॥१९॥
आययौ नारदस्तत्र त्रैलोक्यचर इच्छया ।
ददर्श दीनान्देवांस्ता नुत्ततार नभः पथात् ॥१.४०.२०॥
दृष्ट्वा सर्वे नारदं तमुत्तस्थु सहसाऽऽदरात् ।
आलिलिंगुश्च नेमुश्च पुपूजुश्च यथाक्रमम् ॥२१॥
विश्रान्तं परिपप्रच्छुस्त्रिपुरस्य वरादिकम् ।
देवा ऊचुः ।
त्रिपुरेण समाक्रान्तं त्रैलोक्यं सचराचराम् ॥२२॥
स्थाथानि नो गृहीतानि केशास्तेनापि निर्जिताः ।
शरणं कं व्रजामोऽद्य कथं तस्य वधो भवेत् ॥२३॥
वराश्च केन दत्ता नो वदास्य त्रिपुरस्य भोः ।
नारद उवाच ।
कथयामि समासेन दैत्यस्य चेष्टितं महत् ॥२४॥
दिव्यवर्षसहस्रं स तताप परमं तपः ।
प्रसादयामास विभुं गणेशं देवनायकम् ॥२५॥
तेनास्मै दुर्धरा दत्ता वराः सर्वभयंकराः ।
देवर्षि पितृभूतेभ्यो यक्षरक्ष पिशाचतः ॥२६॥
न नागेभ्यो भयं दत्तं विनैकं शंकरं विभुम् ।
प्रसादयन्तु देवेशं द्विरदाननमादरात् ॥२७॥
आराधयन्तु सर्वेऽपि विघ्नेशं सर्वसिद्धिदम् ।
देवा ऊचुः।
कथमाराधनं तस्य देवदेवस्य धीमतः ॥२८॥
कर्तव्यं मुनिशार्दूल कृपया तद्वदस्व नः ।
नारद उवाच ।
अहमेकाक्षरं मन्त्रं कथयाम्यखिलान् प्रति ॥२९॥
तेन मन्त्रेण ते सर्वे मया दत्तेन भक्तितः ।
अनुष्ठानं प्रकुर्वन्तु सर्वेऽपि स्थिरमानसाः ॥१.४०.३०॥
यावत् प्रत्यक्षतामेति देवोऽसौ गणनायकः ।
स एव तद्वधोपायं वदिष्यत्यखिलान्प्रति ॥३१॥
नान्योपायं प्रपश्यामि तस्मात् कुर्वन्तु मे वचः ।
ब्रह्मोवाच ।
इत्युक्त्वा नारदः सर्वानुपदिश्य मनुं च तम् ॥३२॥
जगाम तत्क्षणादेव वीणागानरतो मुनिः ।
ततः सर्वे सुरवरा गणेशं ध्यानतत्पराः ॥३३॥
एकपादस्थिताः केचित् केचित्पद्मासनस्थिताः ।
केचिद्वीरासनयुताः केचिन्मीलित लोचना।
निराहारा जितश्वासा जेपुर्मन्त्रं मुनींरितम् ।।३४॥
ततो बहुगते काले करणाब्धिर्गजाननः।
अनुष्ठानं निरीक्ष्यैषां देवानां चिरकालजम ॥३५॥
आविर्बभूव गणपस्तेषामग्रे वरप्रदः ।
उल्लसत् स्वर्णमुकुटश्चारु कुंडलमंडितः ॥३६॥
दन्तन्यस्तकरो राजत् कटिसूत्र वरांगद ।
पाशं सृणिं च परशुं कमलं च भुजैर्दधत् ॥३७॥
रक्तचन्दन कस्तूरी सिन्दूर शशिभूषणः।।
विद्युत्तेजो लसत्कान्तिः कोटिसूर्यसमप्रभः ॥३८॥
दृष्ट्वैवं सहसा देवं विनायकमनामयम् ।
तेजसा धर्षितः सर्वे भयमापुश्च केचन ॥३९॥
प्रणेमुः सहसा केचिद्देवास्तं द्विरदाननम् ।
पूजयामासुरपरे हर्षगदगद भाषिणः ॥१.४०.४०॥
स्वसंकष्ट विनाशाय तुष्टुवु कोऽपि तं विभुम।
प्रसादसुमुखं देवं सुसुखं संकटापहम् ॥४१॥
देवा ऊचुः।
नमो नमस्ते परमार्थरूप नमो नमस्तेऽखिलकारणाय ।
नमो नमस्तेऽखिल कारणाय सर्वेन्द्रियाणामधिवासिनेऽपि ॥४२॥
नमो नमो भूतमयाय तेऽस्तु नमो नमो भूतकृते सुरेश ।
नमो नमः सर्वधियां प्रबोध नमो नमो विश्वलयोद्भवाय ॥४३॥
नमो नमो विश्वभृतेऽखिलेश नमो नमः कारण कारणाय ।
नमो नमो वेदविदामदृश्य नमो नमः सर्ववरप्रदाय ॥४४॥
नमो नमो वागविचारभूत नमो नमो विघ्ननिवारणाय ।
नमो नमोऽभक्त मनोरथघ्ने नमो नमो भक्त मनोरथज्ञ ॥४५॥
नमो नमोऽभक्तमनोरथेश नमो नमो विश्वविधानदक्ष ।
नमो नमो दैत्यविनाशहेतो नमो नमः संकटनाशकाय ॥४६॥
नमो नमः कारुणिकोत्तमाय नमो नमो ज्ञानमयाय तेऽस्तु ।
नमो नमोऽज्ञानविनाशनाय नमो नमो भक्त विभूतिदाय ॥४७॥
नमो नमोऽभक्तविभूति हन्त्रे नयो नमो भक्त विमोचनाय ।
नमो नमोऽभक्त विबन्धनाय नमो नमस्ते प्रविभक्त मूर्ते ॥४८॥
नमो नमस्तत्व विबोधकाय नमो नमस्तत्व विदुत्तमाय ।
नमो नमस्तेऽखिल कर्म साक्षिणे नमो नमस्ते गुणनायकाय ।।४९
ब्रह्मोवाच ।
एवं स्तुतः सुरैर्देवो द्विरदानन ईश्वरः ।
उवाच परमप्रीतो हर्षयत् सुरसत्तमान् ॥१.४०.५०॥
गणेश उवाच ।
स्तोत्रेण तपसा चैव सुराः संतुष्टिमागतः ।
ददामि सकलाभीष्टं तद् वृणुध्वं सुरेश्वराः ॥५१॥
देवा ऊचुः ।
यदि तुष्टोऽसि देवेश त्रिपुरं जहि दानवम् ।
सर्वेषामधिकारान्नो गृहीत्वा यस्तु तिष्ठति ॥५२॥
त्वयैवास्याभयं दत्तं सर्वामरसमूहतः ।
अतः स्म संकटं प्राप्ताः संकटान्मोचयाशु नः ॥५३॥
त्वामेव शरणं प्राप्ता एष एव वरो हि नः ।
गणेश उवाच ।
वारयिष्ये भयं सर्वं तस्माद्घोरतराद्धि वः ॥५४॥
भवत्कृतमिदं स्तोत्रमतिप्रीतिकरं मम् ।
संकष्टनाशनमिति विख्यातं च भविष्यति ॥५५॥
पठतां शृण्वतां चैव सर्वकामप्रदं नृणाम् ।
त्रिसन्ध्यं यः पठेदेतत् संकष्टं नाप्नुयात् क्वचित् ॥५६॥
ब्रह्मोवाच ।
इति दत्त्वा वरं तेषां सुराणां जगदीश्वरः ।
पश्यतां मुनिदेवानां तत्रैवान्तर्दधे विभुः ५७ (१५७३)
इति श्रीगणेशपुराण उपासनाखंडे स्तोत्र निरूपणं नाम चत्वारिंशोऽध्यायः ॥४०॥