अथर्ववेदः/काण्डं १९/सूक्तम् ४५

विकिस्रोतः तः
← सूक्तं १९.४४ अथर्ववेदः - काण्डं १९
सूक्तं १९.४५
भृगुः।
सूक्तं १९.४६ →
दे. आञ्जनम्, मन्त्रोक्ताः। १-२ अनुष्टुप्, .....

19.45
ऋणादृणमिव सं नय कृत्यां कृत्याकृतो गृहम् ।
चक्षुर्मन्त्रस्य दुर्हार्दः पृष्टीरपि शृणाञ्जन ॥१॥
यदस्मासु दुष्वप्न्यं यद्गोषु यच्च नो गृहे ।
अनामगस्तं च दुर्हार्दः प्रियः प्रति मुञ्चताम् ॥२॥
अपामूर्ज ओजसो वावृधानमग्नेर्जातमधि जातवेदसः ।
चतुर्वीरं पर्वतीयं यदाञ्जनं दिशः प्रदिशः करदिच्छिवास्ते ॥३॥
चतुर्वीरं बध्यत आञ्जनं ते सर्वा दिशो अभयास्ते भवन्तु ।
ध्रुवस्तिष्ठासि सवितेव चार्य इमा विशो अभि हरन्तु ते बलिम् ॥४॥
आक्ष्वैकं मणिमेकं कृणुष्व स्नाह्येकेना पिबैकमेषाम् ।
चतुर्वीरं नैर्ऋतेभ्यश्चतुर्भ्यो ग्राह्या बन्धेभ्यः परि पात्वस्मान् ॥५॥
अग्निर्माग्निनावतु प्राणायापानायायुषे वर्चस ओजसे ।
तेजसे स्वस्तये सुभूतये स्वाहा ॥६॥
इन्द्रो मेन्द्रियेणावतु प्राणायापानायायुषे वर्चस ओजसे ।
तेजसे स्वस्तये सुभूतये स्वाहा ॥७॥
सोमो मा सौम्येनावतु प्राणायापानायायुषे वर्चस ओजसे ।
तेजसे स्वस्तये सुभूतये स्वाहा ॥८॥
भगो मा भगेनावतु प्राणायापानायायुषे वर्चस ओजसे ।
तेजसे स्वस्तये सुभूतये स्वाहा ॥९॥
मरुतो मा गणैरवन्तु प्राणायापानायुषे वर्चस ओजसे तेजसे ।
स्वस्तये सुभूतये स्वाहा ॥१०॥

[सम्पाद्यताम्]

टिप्पणी

तु. पै.सं. १५.४.१