अथर्ववेदः/काण्डं १९/सूक्तम् ४४

विकिस्रोतः तः
← सूक्तं १९.४३ अथर्ववेदः - काण्डं १९
सूक्तं १९.४४
भृगुः।
सूक्तं १९.४५ →
दे. आञ्जनम्,८-९ वरुणः। अनुष्टुप्, .....

19.44
आयुषोऽसि प्रतरणं विप्रं भेषजमुच्यसे ।
तदाञ्जन त्वं शंताते शमापो अभयं कृतम् ॥१॥
यो हरिमा जायान्योऽङ्गभेदो विसल्पकः ।
सर्वं ते यक्ष्ममङ्गेभ्यो बहिर्निर्हन्त्वाञ्जनम् ॥२॥
आञ्जनं पृथिव्यां जातं भद्रं पुरुषजीवनम् ।
कृणोत्वप्रमायुकं रथजूतिमनागसम् ॥३॥
प्राण प्राणं त्रायस्वासो असवे मृड ।
निर्ऋते निर्ऋत्या नः पाशेभ्यो मुञ्च ॥४॥
सिन्धोर्गर्भोऽसि विद्युतां पुष्पम् ।
वातः प्राणः सूर्यश्चक्षुर्दिवस्पयः ॥५॥
देवाञ्जन त्रैककुद परि मा पाहि विश्वतः ।
न त्वा तरन्त्योषधयो बाह्याः पर्वतीया उत ॥६॥
वीदं मध्यमवासृपद्रक्षोहामीवचातनः ।
अमीवाः सर्वाश्चातयन् नाशयदभिभा इतः ॥७॥
बह्विदं राजन् वरुणानृतमाह पूरुषः ।
तस्मात्सहस्रवीर्य मुञ्च नः पर्यंहसः ॥८॥
यदापो अघ्न्या इति वरुणेति यदूचिम ।
तस्मात्सहस्रवीर्य मुञ्च नः पर्यंहसः ॥९॥
मित्रश्च त्वा वरुणश्चानुप्रेयतुराञ्जन ।
तौ त्वानुगत्य दूरं भोगाय पुनरोहतुः ॥१०॥

[सम्पाद्यताम्]

टिप्पणी

तु. पै.सं १५.३.१