गणेशपुराणम्/खण्डः २(क्रीडाखण्डम्)/अध्यायाः ०३६-०४०

विकिस्रोतः तः
← अध्यायाः ३१-३५ गणेशपुराणम् - खण़्डः २(क्रीडाखण्डम्)
अध्यायाः ३६-४०
[[लेखकः :|]]
अध्यायाः ४१-४५ →

अध्याय ३६ प्रारंभ :-
गृत्समद् उवाच ।
सहयाद्रिपर्वते देवो न्यवसद्गिरिजायुतः ।
स्वगणैर्मुनिभिर्युक्तः पुण्यक्षेत्रे महाबले ॥१॥
दिदृक्षुः प्रययौ तत्र ब्रह्मा लोकपितामहः ।
पत्नीद्वयसमायुक्तो देवगन्धर्वकिन्नरैः ॥२॥
दृष्टवा तु शंकरं पूज्य स्वाभिप्रायं न्यवेदयत् ।
आकारयामास तदा परमर्षीत्सदाशिवः ॥३॥
जमदग्निं वसिष्ठं च मार्कण्डेयं च नारदम् ।
कपिलं पुलहं कण्वं विश्वामित्रं त्रितं द्वितम् ॥४॥
त आययुः शिवाहूता अन्ये सर्वे दिदृक्षवः ।
उषःकाले मुहूर्तं ते निष्काश्य प्रारभन्मखम् ॥५॥
त्वरावन्तोऽथ विस्मृत्य पूजां वैनायकीं शुभाम् ।
सावित्रीं गृहकार्येषु सक्तां त्यक्त्वा मुनीश्वराः ॥६॥
गायत्रीमुपवेश्यैव पुण्याहवाचनं च ते ।
कारयित्वाऽभ्युदयिकं मातृपूजनपूर्वकम् ॥७॥
अस्थापयन्नग्निकुण्डे यावद्वैश्वानरं च ते ।
सावित्री तावदायातारम्भं दृष्ट्वा रुषान्विता ॥८॥
उवाच क्रोधरक्ताक्षी वीक्ष्य सर्वान्सभासदः ।
सावित्र्युवाच ।
मामनादृत्य यागोऽयं समारब्धो न सेत्स्यति ॥९॥
ऋषिरुवाच ।
मुञ्चन्ती मुखतो ज्वाला दग्धुकामा चराचरम् ।
शशाप सा देवमुनीन्जडा यूयं भविष्यथ ॥२.३६.१०॥
नियुक्त्वाऽनधिकारां तां गायत्रीं सर्व एव यत् ।
ततो देवाः प्रणम्यौच्चैः प्रार्थयामासुरुत्सुकाः ॥११॥
सावित्रीं सर्वजननी डलयोरैक्यतः शुभे ।
जलरूपा भविष्यामो नदीनदस्वरूपिणः ॥१२॥
तथेत्युक्ते तया देव्या नदीरूपत्वमागताः ।
वेण्या नाम्ना महेशोऽभूत्कृष्णः कृष्णाऽभवन्नदी ॥१३॥
तत्तन्नाम्ना बभूवुस्ते सरितः सर्वदेवताः ।
यत्र पूर्वं विघ्नराजो नार्च्यते ज्ञानदुर्बलैः ॥१४॥
तत्र विघ्ना भवन्त्येवं शंकरस्य यथा पुरा ।
पुरत्रयवधे जाता विघ्नास्तस्याप्रपूजनात् ॥१५॥
ब्रह्मा चिन्तां परां प्राप मखविघ्न उपस्थिते ।
मन्निमित्तं सुराः सर्वे धुनीरूपमुपागताः ॥१६॥
विमानं सर्वलोकेषु गमितः केन कर्मणा ।
संकल्पबाधश्च कथमद्य प्राप्तो दुरत्ययः ॥१७॥
विघ्नहर्ता जगन्नाथो न स्मृतो न च वार्चितः ।
सर्वेषां चैव देवानां यतो मोहः समाविशत् ॥१८॥
तं प्रसन्नं करिष्यामि ततो यज्ञो भविष्यति ।
एवं यावच्चिन्तयते ब्रह्मा तावत्सुरांगनाः ॥१९॥
देवान्वै तादृशाञ्ज्ञात्वा समीयुर्ब्रह्मणोऽन्तिकम् ।
पुलोमजा च गिरिजा छायाऽपि कमलाऽपि च ॥२.३६.२०॥
अन्या अपि समूचुस्तं सर्वास्ताः कमलाननम् ।
कथं यज्ञः समारम्भि मान्या नो मानिता कथम् ॥२१॥
नापूजि च कथं विघ्नहर्ता पूर्वं गजाननः ।
त्वयि विस्मरणं चैव न वाऽस्मारि सुरैः कथम् ॥२२॥
किमस्माभिरनुष्ठेयं देवैर्वा जलरूपिभिः ।
कं याम शरणं देव त्वदृते कमलोद्भव ॥२३॥
इति तासां वचः श्रुत्वा मा भयं कुरुतेति कः ।
ता उवाच यजिष्येऽहं यथा सर्वं भवेच्छुभम् ॥२४॥
किमसाध्यं हि भक्तानां सुप्रसन्ने गजानने ।
सर्वाः कुरुध्वं तद्भक्तिं स वः सर्वप्रियं चरेत् ॥२५॥
प्रसादयिष्येऽहमपि जगदीशं विनायकम् ।
अनादिनिधनं देवं सर्वकारणकारणम् ॥२६॥
इत्युक्तास्ता गता दूरं देशं कर्णाटकं शुभम् ।
मन्दारमूलं विघ्नेशं स्थित्वा ध्यातुं तदीरिताः ॥२७॥
रामेण स्थापितं पूर्वं वक्रतुण्डेति नामतः ।
यद्वरैर्विजयी रामो हत्वा राक्षसपुंगवान् ॥२८॥
दशाननं च विख्यातं ययौ पत्न्या निजं पदम् ।
तेपुस्तत्र तपो घोरं सर्वास्ताः सुरयोषितः ॥२९॥
काचिन्नामजपं चक्रे काचिन्मन्त्रजपं तथा ।
काचित्पद्मासनं तस्थौ ध्यायन्ती परमेश्वरम् ॥२.३६.३०॥
काचिद्वीरासनगता निराहारा तथाऽपरा ।
सम्मार्जयन्ती द्वाराणि चत्वराणि गृहाणि च ॥३१॥
प्रदक्षिणानमस्कारैः कुर्वन्ती भक्तिमुत्तमाम् ।
काचिदेकांगुष्ठगता तस्थौ ध्यात्वा विनायकम् ॥३२॥
काचिन्निमील्य नयने स्तोत्राण्येवापठत्तदा ।
बहुकाले व्यतिक्रान्ते न तुतोष विनायकः ॥३३॥
तदा चिन्तां परां जग्मुः किं कुर्म इति विह्वलाः ।
ततः सुमनसां भारान्दूर्वाभारांस्तथाऽपरा ॥३४॥
समर्प्य पुपुजुर्दैवं धूपदीपान्नकांचनैः ।
मन्दारपुष्पैरन्याश्च शमीपत्रैरथापराः ॥३५॥
नभोवाणीं ततः श्रुत्वा शमीपत्रं विना विभुः ।
न संतुष्येदिति तदा सर्वा एव शमीदलैः ॥३६॥
पुपूजुः परया भक्त्या देवदेवं गजाननम् ।
ततः परमकारुण्यात्सुप्रसन्नः शमीदलैः ॥३७॥
आविरासीत्पुरस्तासां लसच्चारुचतुर्भुजः ।
किरीटकेयूरधरो हारकुण्डलमण्डितः॥३८॥
लम्बकर्णो लसद्गंडो विषाणद्वयमण्डितः ।
सिद्धिबुद्धियुतश्चाखुवाहनः पीतवस्त्रवान् ॥३९॥
सर्वास्ता ददृशुर्देवं कोटिसूर्यसमप्रभम् ।
निमील्य नयने नेमुर्दण्डवत्पृथिवीतले ॥२.३६.४०॥
तुष्टुवुस्ताः करपुटं कृत्वा सौम्य महाव्रतम् ।
अतिप्रसन्नवदनाः परमानन्दनिर्भराः ॥४१॥ (१६२९)
इति श्रीगणेशपुराणे क्रीडाखंडे बालचरिते षट्त्रिंशत्तमोऽध्यायः ॥३६॥

अध्याय ३७ प्रारंभ –
कीर्तिरुवाच ।
कथं स्तुतिः कृता ताभिस्तां मे वद महामुने ।
मुनिरुवाच ।
श्रूयतां सा स्तुतिः कीर्ते शृणुष्वावहिता च ताम् ॥१॥
ता ऊचुः ।
नमस्ते सर्वरूपाय सर्वान्तर्यामिणे नमः ।
नमः सर्वकृते तुभ्यं सर्वदात्रे कृपालवे ॥२॥
नमः सर्व विनाशाय नमस्तेऽनन्तशक्तये ।
नमः सर्वप्रबोधाय सर्वपात्रेऽखिलादये ॥३॥
परब्रह्मस्वरूपाय निर्गुणाय नमो नमः ।
चिदानन्दस्वरूपाय वेदानामप्यगोचर ॥४॥
मायाश्रयायामेयाय गुणातीताय ते नमः ।
सत्यायासत्यरूपाय गुणाविक्षोभकारिणे ॥५॥
शरणागतपालाय दैत्यदानवभेदिने ।
नमो नानावताराय विश्वरक्षणतत्पर ॥६॥
अनेकायुधहस्ताय सर्वशत्रुनिबर्हण ।
अनेकवरदात्रे ते भक्तानां हितकारक ॥७॥
क उवाच ।
एवं स्तुत्वा पुनर्नत्वा याचन्ति स्म वरान्बहून ।
देवानां जलरूपाणां स्वरूपाणि प्रयच्छ भोः ॥८॥
नास्मृतिः सर्वदा ते स्यात्तथा कर्तुमिहार्हसि ।
गणेश उवाच ।
ददामि वांछितं वोऽहमनुष्ठानवशीकृतः ॥९॥
स्तुत्याऽनयाशु संतुष्टस्तथाऽस्तु वचनं तु वः ।
सावित्र्या वचनाज्जाता जलभूताः सुराः शुभाः ॥२.३७.१०॥
तद्वाक्यमन्यथा कर्तुं न हि शक्तः पितामहः।
निजं स्वरूपं यास्यन्ति स्थित्वांशेन तथाविधान् ॥११॥
स्वाधिकारान्प्रपत्स्यन्ते नान्यथा भाषितं मम ।
शमीपत्रैः पूजयन्तू यूयं देवास्तु मामिह ॥१२॥
येनर्पितं शमीपत्रं भुवनं तेन चार्पितम् ।
सुवर्णशतभाराणां फलं प्राप्तं न संशयः ॥१३॥
क उवाच ।
एवं ब्रुवति विघ्नेशे स्वरूपधारिणः सुराः ।
स्थिता अंशान्नदीरूपा ददृशुस्ते विनायकम् ॥१४॥
तेऽपि संप्रार्थयामासुर्नत्वा स्तुत्वा गजाननम् ।
क्षमापराधं नो देव बुद्धिमोहव्यपाश्रयात् ॥१५॥
त्यक्त्वा ज्येष्ठां भवन्तं च प्रारभामो यजिं च ताम् ।
दृष्टं तु तत्फलं सद्यः प्रसादात्ते पुनर्नवाः ॥१६॥
जाताः स्म परमानन्दं प्राप्ताः स्म कृपया तव ।
एवमुक्त्वा पुपूजूस्ते शमीपत्रैर्विनायकम् ॥१७॥
सोऽपि तान्प्रतिनन्द्याथ पिदधे विघ्ननाशनः ।
ततस्ते सुन्दरां मूर्तिं कृत्वा पाषाणतः शुभाम् ॥१८॥
चतुर्भुजां करिकराननां हेरम्बनामतः ।
प्रासादं परमं कृत्वा स्थापयामासुरादरात् ॥१९॥
ऊचुश्च सर्वलोकानामुपकाराय ते सुराः ।
इमं यः पूजयेद्भक्त्या विद्याधीशं सुपत्तने ॥२.३७.२०॥
तस्य प्रसन्नो भगवान्सर्वान्कामान्प्रदास्यति ।
वन्दनात्स्मरणाद्वापि नमनान्नात्र संशयः ॥२१॥
या तत्रासीन्महामूतिर्मन्दारतरुनिर्मिता।
तां गृहीत्वा ययाविन्द्रः स्वपुरं परमर्द्धिमत् ॥२२॥
सपत्नीकः पूजयते भक्त्येदानीमपि प्रभुः ।
सर्वे देवाः स्वस्वपदे ततो मन्दारवृक्षजाम् ॥२३॥
कृत्वा मूर्तिं गणेशस्य शमीपत्रैरपूजयन् ।
मुदं प्रापुः स्वयोषिद्भिरापुः कामाननुत्तमान् ॥२४॥
ब्रह्मा द्वादशवर्षाणि तपः कृत्वा महत्तरम् ।
कृत्वा प्रसन्नं विघ्नेशं पुनर्यागमकारयत् ॥२५॥
सोऽपि मन्दारजां मूर्तिं पुपूजे परमादरात् ।
विघ्नराजस्य वरदां शमीपत्रैरनेकधा ॥२६॥
स्वर्णपत्रैश्च दूर्वाभिर्मन्दारैः केतकैरपि ।
श्वेतदूर्वांकुरैश्चापि सर्वकामफलप्रदाम् ॥२७॥
गृत्समद उवाच ।
एवं ते वर्णितो मातर्महिमा लेशतः शुभे ।
मन्दारस्य च शम्याश्च श्रवणात्पापनाशनः ॥२८॥
ततःप्रभृति देवस्य प्रियाऽत्यन्तं शमी शुभा ।
अपूजि स त्वयाऽज्ञानात्तेनासौ पुत्र उत्थितः ॥२९॥
मन्दारस्यापि महिमा मया सम्यङ्निरूपितः ।
इदानीमनुजानीहि गमिष्ये निजमन्दिरम् ॥२.३७.३०॥
क उवाच ।
श्रुत्वा च महिमानं सा शमीमन्दारसंभवम् ।
प्रणिपत्य मुनिं पुत्रजीवनं विससर्ज ह ॥३१॥
श्रुत्वेदमाख्यानवरं गणेशप्रीतिवर्द्धनम् ।
न स संकष्टमाप्नोति सर्वांकामॉल्लभेन्नरः ॥३२॥
यः स्मरेत्प्रातरुत्थाय शमीं मन्दारमेव च ।
गणेशं च सदा भक्त्या निष्पापः स सुखी भवेत् ॥३३॥ ( १६६२ )
इति श्रीगणेशपुराणे क्रीडाखंडे बालचरिते शमीमन्दारमाहात्म्यं नाम सप्तत्रिंशोऽध्यायः ॥३७॥

अध्याय ३८ प्रारंभ :-
कीर्तिरुवाच ।
सम्यगुक्तं त्वया ब्रह्मंशमीमाहात्म्यमादरात् ।
मन्दारस्यापि कथितं तेन मे तुष्यते मनः ॥१॥
जीवितश्च कुमारोऽयमुपदिष्टः षडक्षरम् ।
न चोच्चारयितुं शक्यं बालभावान्मुनीश्वर ॥२॥
सुगमं सुप्रसादं च स्वराज्यप्रापकं मुने ।
जप्तं शक्यं बालकेन मन्त्रमस्मै दिशाधुना ॥३॥
मुनिरुवाच ।
सम्यग्दृष्टा तव मतिर्गजाननपदाम्बुजे ।
अतोऽहमस्य दास्यामि निजं मन्त्रं सुखप्रदम् ॥४॥
सर्वस्य जगतो हेतुर्नाम यच्चतुरक्षरम् ।
शुभाशुभस्य च द्रष्टर्दुष्टदैत्यहरस्य
च ॥५॥ सर्वधर्मपरित्रातुर्दिवोदासोपकारिणः ।
द्विजरूपधरस्यापि वाराणस्यां स्थितस्य ह ॥६॥
विश्वेश्वरस्याविमुक्तप्राप्त्यै यत्नं प्रकुर्वतः ।
सर्वान्तर्यामिणश्चापि विश्वेश्वरनुतस्य ह ॥७॥
जगतः पालनार्थाय जनार्दननुतस्य च ।
ध्यातस्य पूजितस्यापि ब्रह्मणा सृष्टिहेतवे ॥८॥
अर्चितस्य शिवेनापि सर्वसंहारहेतवे ।
पुलोमजाधवेनापि पूजितस्य सुभक्तितः ॥९॥
दैत्यानां निधनार्थाय देवराज्यसुखाप्तये ।
सूर्येण वरुणेनापि शशिना च यमेन च ॥२.३८.१०॥
अग्निना वायुना स्वस्वगुणोत्कर्षाय पूजिताः।
बृहस्पत्युशनोभ्यां च स्वस्वोत्कर्षाय पूजितः ॥११॥
शेषेणाराधितो ढुण्ढिर्धराधरणहेतवे ।
गन्धर्वकिन्नरा यक्षाः सिद्धचारणराक्षसाः ।
ऋषयः पशवः सर्वे स्थावरा जंगमाः शुभाः ॥१२॥
आराधयन्ति विश्वेशं स्वस्वकार्यार्थसिद्धये ।
अपारगुणपारोऽयं ढुण्ढिराजोऽखिलेश्वरः ॥१३॥
गुणान्तं न ययुर्यस्य ब्रह्मविष्णुशिवादयः ।
तस्मिंस्तु पूजिते भक्त्या शमीपत्रेण भावतः ॥१४॥
पुत्रस्ते भविता राज्यभागी शत्रुनिबर्हणः ।
कीर्तिरुवाच ।
श्रुतो मे महिमा ब्रह्मन्ढुण्ढिराजाश्रयोऽखिलः ॥१५॥
किंकर्मा कथमुत्पन्नः कस्यांशः किंपराक्रमः ।
केनास्य च कृतं नाम केनासौ पूजितः पुरा ॥१६॥
इमं मे संशयं ब्रह्मंश्छेत्तुमर्हस्यशेषतः ।
मुनिरुवाच ।
सम्यक्पृष्टं त्वया भद्रे ज्ञानाधिकतया शुभे ॥१७॥
भक्त्या निवेदितश्चायं संशयस्मं नुदामि ते ।
यथा दुरासदो दैत्यो हतोऽनेन तु राक्षसाः ॥१८॥
मायावतारो मोहाय यातो दिवोदासं नृपम् ।
अविमुक्तं समानीतो यथा विश्वेश्वरो हरः ॥१९॥
ढुण्ढिराजेति नामास्य येन जातं नृपांगने ।
तत्सर्वं कथयिष्यामि यथा स्कन्दाच्रु१९तं मया ॥२.३८.२०॥
अगस्त्याय कथयता शृणुश्वैकमनाः शुभे ।
स्कन्द उवाच ।
शृणुष्वावहितो ब्रह्मन्नविमुक्ताश्रयां कथाम् ॥२१॥
यस्याः श्रवणमात्रेण सर्वपापैः प्रमुच्यते ।
कश्यपाय हरिः प्राह सृज नानाविधाः प्रजाः ॥२२॥
प्ररूढनपसा सोऽथ ससृजे जारजा प्रजाः ।
एकविंशतिसाहस्रमण्डजाः स्वेदजास्तदा ॥२३॥
उद्भिज्जाश्चैव तावन्त्यो मानुष्यं तासु दुर्लभम् ।
पुण्येन लभते तच्च ब्राह्मण्यं बहुपुण्यतः ॥२४॥
तच्चेत्संरक्षितं सम्यग्धर्माधर्मव्यवस्थया।
ददाति परमं स्थानं यद्गत्वा न निर्वतते ॥२५॥
चतुराशीतिलक्षेषु नो चेत्पतितजन्मसु ।
दुराचारा नरा याम्ययातनासु पतन्ति वै ॥२६॥
कर्मक्षये ततो जाते बहुकालेन ते पुनः ।
मृत्युलोकं समायान्ति काणाः कुब्जा दरिद्रिणः ॥२७॥
तदेषामनुकम्पार्थं ब्रह्मेशानादयः सुराः ।
ऋषयश्च महाभागा नानातीर्थानि चक्रिरे ॥२८॥
क्षेत्राणि च महार्हाणि प्राणिपापहराणि च ।
विलयन्तः स्थिातास्तत्र पापं देवर्षयस्तदा ॥२९॥
यत्र स्थितानां जन्तूनां पापस्य विलयो भवेत् ।
जन्तून्पापात्परित्रातुं स्थिता देवर्षयः सदा ॥२.३८.३०॥
सर्वश्रेष्ठां सर्वगुणां भुक्तिमुक्तिप्रदां शुभाम्।
विश्वेश्वरो निर्ममेऽथ ध्यातृज्ञातृविमुक्तिदाम् ॥३१॥
सर्वतीर्थमयीं रम्यां नाम्ना वाराणसीं पुरीम् ।
यत्र चक्रे सरः ख्यातं विष्णुना प्रभविष्णुना ॥३२॥
तपस्यता कृतं चारु स्नानमात्रेण मुक्तिदम् ।
यद्दृष्ट्वा कन्धराकम्पाच्छिवस्य कुण्डलान्मणिः ॥३३॥
पतितस्तत्र संजाता नाम्ना सा मणिकर्णिका ।
ततो भगीरथाहूता जाता भागीरथी नदी ॥३४॥
अत्र कीटपतंगानां मुक्तिर्मरणतो भवेत् ।
त्रिवारनामस्मरणात्काशीवासफलप्रदा ॥३५॥
धन्यास्ता वीरुधो वल्ल्यस्तृणवृक्षा न चान्यतः।
गच्छन्ति कमठा मत्स्या भूकैलासं विहाय तत् ॥३६॥
नित्यं यत्र स्थितो शम्भुर्नानारूपोऽथ रूपवान् ।
रविः शशी हरिर्ब्रह्मा स एव गिरिजापतिः ॥३७॥
विनायकः शक्तिरूपः कारणं जगतोऽपि सः ।
प्रलयेऽपि त्रिशूलाग्रे ध्रियते येन काशिका ॥३८॥
एकोऽयं पंचधा जातो लोकानुग्रहकाम्यया ।
भक्तो यां यां ध्याति मूर्तिं सा तेन ध्रियते क्षणात् ॥३९॥
अत्र यो मनुते भेदं सोऽवीचीर्लभते नरः ।
स्तुतिमेकत्र निन्दां वा परत्र यः समाचरेत् ॥२.३८.४०॥
स याति नरकानेकविंशतिं बहुवत्सरम् ।
अतो भस्मासुरसुतः ख्यातो नाम्ना दुरासदः ॥४१॥
स शुक्रमुपसंगम्य विद्यां पंचाक्षरीमगात् ।
दिव्यवर्षसहस्रं स एकांगुष्ठस्थितोऽभवत् ॥४२॥
निराहारः काष्ठभूतः सवल्मीकोऽस्थिशेषवान् ।
नेत्रमात्रावशिष्टोऽसौ जजाप परमं मनुम् ॥४३॥
आययौ तं वरं दातुं तत्क्लेशपरितोषितः ।
दशबाहुः पंचवक्त्रो रुण्डमालाविभूषितः ॥४४॥
त्रिशूलं डमरुं बिभ्रज्जटाजूटविभूषितः ।
गंगाधरस्त्रिनयनश्चिताभस्मांगलेपनः ॥४५॥
वृषध्वजो वृषारूढः शशिरेखाविभूषितः ।
 अपर्णांक कृपाविष्टो जगाद दैत्यपुंगवम् ॥४६॥
शिव उवाच ।
उत्तिष्ठोत्तिष्ठ भद्रं ते तपसा क्लेशितो भृशम् ।
ईप्सितं ते प्रदास्यामि वरयस्व हृदि स्थितम् ॥४७॥
क उवाच ।
तत उन्मील्य नयने बद्ध्वांजलिपुटोऽसुरः।
प्रणम्य परितुष्टाव वरदं तं महेश्वरम् ॥४८॥
त्वं जगत्कारणं देव परमानन्दविग्रहः ।
क्षराक्षरातीततनुर्गुणत्रयविकारकृत् ॥४९॥
गुणातीतो ज्ञानमयो व्यक्ताव्यक्तविधानवित् ।
मुनिध्येयतनुः सर्वभक्तानुग्रहकारकः ॥२.३८.५०॥
ब्रह्माण्डानामनन्तानां हेतुः श्रेयस्करः सताम् ।
अखण्डानन्दपूर्णस्त्वममोघफलदायकः ॥५१॥
सर्वाधारः सर्वसहः सर्वशक्त्युपबृंहितः।
पृथिवीवायुसलिलवह्नितेजः स्वरूपवान् ॥५२॥
अद्य धन्यं तपो नेत्रे पितरौ जन्म ते यतः ।
दृष्टं स्वरूपं साक्षान्मे गतं पापं लयं परम् ॥५३॥
योगिहृच्छ्रुतिवाचो यो गोचरो न कदाचन ।
इदानीं वरये देव तन्मे त्वं दातुमर्हसि ।
शिव उवाच।
निःशंक वरयाशु त्वं सर्वं दास्येऽतिदुर्लभम् ॥५४॥
स्तोत्रेण तपसा चैव प्रणयेन सुतोषितः ।
मुनिरुवाच ।
ततो वव्रेऽभयं देवात्सुप्रसन्नात्सदाशिवात् ॥५५॥
चतुराकरजेभ्यो मे मा मृत्युः संभवेदिति ।
यक्षरक्षःपिशाचेभ्यो देवदानवकिन्नरात् ॥५६॥
मुनिमानवगन्धर्वसर्पेभ्यो हि वनेचरात् ।
दृष्ट्वा रूपं मदीयं तु त्रसेयू रणमूर्द्धनि ॥५७॥
सर्वे देवा महाभाग सुरराज्यं च यच्छ मे ।
संस्मृतिश्चरणे नित्यं भक्तिस्तेऽव्यभिचारिणी ॥५८॥
शिव उवाच ।
एकां शक्तिं विना सर्वं देव्येभ्योऽदायि तेऽभयम् ।
शक्तितेजोद्भवः कश्चिज्जित्वा संजीवयिष्यति ॥५९॥
शिरसि स्थाप्य चरणं धरिष्यति निरन्तरम् ।
निष्काशितो यदा तेन चरणस्ते शिरो गतः ॥२.३८.६०॥
तदा पुनस्त्रिलोकीं त्वं बलाज्जेष्यसि तेजसा ।
भक्तिश्व मे दृढतरा स्मृतिस्ते वै भविष्यति ॥६॥
गृत्समद उवाच ।
एवं दत्त्वा वरांस्तस्मै शिवोऽन्तर्धानमन्वगान् ।
दुरासदोऽपि स्वगृहमाययौ हर्षनिर्भरः ॥६२॥
इदं स्तोत्रं पठेद्यस्नु सर्वान्कामानवाप्नुयात् ॥६३॥
(१७२५) इति श्रीगणेशपुराणे क्रीडाखंडे बालचरितेऽष्टत्रिंशोऽध्यायः ॥३८॥

अध्याय ३९ प्रारंभ :-
मुनिरुवाच ।
ततस्तु वरगर्वेण शिवलब्धेन दैत्यराट् ।
न ममर्ष निजात्मानं मोहितः केवलं तु सः ॥१॥
इयेष पृथिवीं जेतुं हयारूढोऽभवत्पुरा ।
निबद्धकेशहस्तस्तु विलसत्कर्णकुण्डलः ॥२॥
असिहस्तो धनुष्पाणिर्निषंगद्वे शोभितः ।
रत्नमुक्तामणिमयीं बिभ्रन्मालां महाधनाम् ॥३॥
कस्तूरीतिलको दिव्यवस्त्रच्छन्नः सुकञ्चुकः ।
ताम्बूलविलसद्वक्त्रः प्रकृतिद्वयसंयुतः ॥४॥
याभ्यां स्वभुजवीर्येण जिता वीरा अनेकशः ।
उभयोः पार्श्वयोस्तस्य यौ गच्छेतां बलान्वितौ ॥५॥
चतुरंगं तु तत्सैन्यं पृथिवीविजयोद्यतम् ।
रजसाच्छादयद्व्योम विस्तीर्णं जलधेरिव ॥६॥
यो यो वीरो भवेत्स्फीतस्तं तमेवाजयच्च सः।
तत आदाय रत्नानि द्रव्याणि च सहस्रशः॥७॥
आस्थापयत्स तत्स्थाने स्वीयानाप्तान्महाबलान् ।
नानाधिकारे बलवान्वशे कृत्वाऽखिलान्नृपः ॥८॥
ये चाशस्त्राः करान्स्थाप्य तमेव शरणं ययुः ।
अत्यन्तं भीरवो ये तु त्यक्त्वा राज्यमपीपलन् ॥९॥
दूतैरेव वशे चक्रे तानपीत्थं दुरासद ।
एवं भूमण्डलं जित्वा शक्रं जेतुमियेष सः॥२.३९.१०॥
ससैन्यः सहसा प्रायान्नगरीं शक्रपालिताम् ।
ज्ञात्वा वरस्य सामर्थ्यं तस्य दुष्टस्य देवराट्॥११॥
पलाय्य च गुहां यातः सामरः सकुटुम्बकः ।
तस्मिन्नेव क्षणे विष्णुः स्थानात्क्षीराब्धिमाययौ॥१२॥
अंके लक्ष्म्याः शिरः स्थाप्य शेते स्म मधुसूदनः ।
त्यक्त्वा कैलासशिखरं काशीं यातस्तु शूलभृत् ॥१३॥
तेनैव साकमगमश्चतुरश्चतुराननः ।
यो यो याति पदं त्यक्त्वा तत्र तत्र स दैत्यराट्।॥१४॥
स्थापयत्येव बलिनं निजं दूतं सुहृत्तमम् ।
एवं निर्जित्य विबुधान्दर्पेणैव महाबलः ॥१५॥
कैवर्तकानां विषये न्यवसद्भस्मके पुरे।
मुकुन्दपुरमित्येव ख्यातं लोकेषु सर्वतः ॥१६॥
यस्मिन्भस्मासुरो राजा पूर्वमासीद्बलान्वितः ।
शंकरेण वरो यस्मै दत्तं आश्चर्यकारकः ॥१७॥
स मरिष्यति मूर्ध्नि त्वं यस्य हस्तं प्रदास्यसि ।
एवं दत्तवरो दैत्यो दुष्टभावप्रचोदितः ॥१८॥
परीक्षार्थं वरस्याथ वरदातुस्तु मस्तके ।
करं दातुं ययौ दुष्टः पपाल गिरिजापतिः ॥१९॥
स दृष्टश्चक्रहस्तेन विष्णुना प्रभविष्णुना ।
सुन्दरं मोहिनीरूपं धृत्वा यातस्तदन्तिकम् ॥२.३९.२०॥
उवाच मम वाक्ये चेत्स्थास्यसि त्वं नरोत्तम ।
अंगनाऽहं तदा ते स्यां हर्षादोमिति सोऽब्रवीत् ॥२१॥
नृत्यति स्म तदा सा तु तद्वाक्यात्स ननर्त ह ।
सा यथाऽदर्शयद्भावं सोऽपि दर्शयते तथा ॥२२॥
तयाऽस्थापि स्वशिरसि हस्तस्तेनापि तत्क्षणात् ।
भस्मसादभवद्दैत्यो दुष्टचेष्टितमन्तकृत् ॥२३॥
मुकुन्दोऽपि स्थितस्तत्र तन्नाम्ना पप्रथे पुरम् ।
अनुष्ठानवतां नृणां सद्यः परमसिद्धिदम् ॥२४॥
सा मोहिनी सर्वकामान्ददाति भक्तितो नृणाम् ।
तत्र स्थित्वा त्रिभुवनं शास्ति गर्वाद्दुरासदः ॥२५॥
उवाच मन्त्रिणो गर्वात्कथं त्रिभुवनं मया।
आक्रान्तं स्वप्रतापेन जयताऽसुरवैरिणः ॥२६॥
ततोऽमात्याः समूचुस्ते विमुक्तं न जितं त्वया ।
दशमं खण्डमिति तत्तुल्यं नास्ति हि कुत्रचित् ॥२७॥
यत्रात्ते शंकरः सर्वसुरैरपि च सेव्यते ।
न जितं यत्पुरं यावत्तावत्ते पौरुषं वृथा ॥२८॥
इति तद्वाक्यमाकर्ण्य मुदं लेभे रणप्रियः ।
उवाच तान्सद्य एव यामि तां वै ससैनिकः ॥२९॥
विमानवरमास्थाय क्षणाद्यातः स काशिकाम् ।
प्रविष्टमात्रे दैत्येन्द्रे हाहाकारः पुरेऽभवत् ॥२.३९.३०॥
तत्र ये विबुधा आसन्सर्वे चान्तर्दधुस्तदा ।
शिवस्तु निजभक्तत्वान्न चुकोपाथ किञ्चन ॥३१॥
दत्तं राज्यं कियंत्कालमित्युक्त्वा परिवारवान् ।
केदारक्षेत्रमगमन्मुनयोऽपि पलायिताः ॥३२॥
जैगीषव्यं विना सर्वे क्षेत्रसंन्यासिनं शुभे ।
ततो बभंज मूर्तिं स मोहाविष्टो दुरासदः ॥३३॥
प्रासादान्महतो भंक्त्वा ममुदे ज्ञानदुर्बलः ।
कोऽपि चेत्स्मरते देवं तं ताड्य कुरुते बहिः ॥३४॥
न स्वाहा न वषट्कारः स्वधाकारो न च क्वचित् ।
न वेदाध्ययनं क्वापि न शास्त्राध्ययनं क्वचित् ॥३५॥
न पुराणं देवपूजा न व्रतं न प्रदक्षिणाः ।
दुरासदे दुष्टमतौ तत्र राज्यं प्रशासति ॥३६॥
कर्ममार्गे विलुप्ते तु धर्मोऽपि लयमाययौ।
नष्टे धर्मे सुराः कीर्ते आसन्सर्वे बुभुक्षिताः ॥३७॥ ( १७६२ )
इति श्रीगणेशपुराणे क्रीडाखंडे बालचरिते दुरासदोपाख्यानं नाम एकोनचत्वारिंशोऽऽध्यायः ॥३९॥

अध्याय ४० प्रारंभ :-
गृत्समद उवाच ।
ततः केदारमगमन्सर्वे देवर्षयस्तदा ।
व्यजिज्ञपुः पद्मभवं सशिवं सर्ववित्तमम् ॥१॥
प्रणम्य शिरसा सर्वे वागीन्द्राग्निपुरःसराः ।
देवर्षय ऊचुः ।
पदभ्रष्टा वयं देवाः स्वाचारन्मुनयोऽपि च ॥२॥
दुरासदभिया देव स्नानं कर्तुं न च क्षमाः।
केनास्मै हि वरो दत्तो येनासौ भुवनेश्वरः ॥३॥
जातो दुष्टो वधश्चास्य कस्मादेतद्विचिन्त्यताम् ।
येनैव सौख्यं लोकानां तत्कर्तव्यं दयालुभिः ॥४॥
क उवाच ।
इति तद्वचनं श्रुत्वा प्रोवाच चतुराननः ।
उपायं कथयिष्यामि तद्वधाय सुरर्षयः ॥५॥
यदा तेन तपस्तप्तं दारुणं बहुवासरम् ।
ददावस्मै वरान्देवो ह्यनन्तानम्बिकापतिः ॥६॥
एनं यो घातयेद्देवः स नास्ति भुवनत्रये ।
कदाचिद्देवदेवोऽसौ गुणत्रयविभागकृत् ॥७॥
अहं शिवश्च विष्णुश्च त्रेधा जाता यदाज्ञया ।
गुणत्रयविभागात्स गुणेश इति पप्रथे ॥८॥
विश्वव्यापी च मायावी विश्वकर्ताऽपहारकः ।
गुणातीतो गणेशश्च परात्परतरः शिवः ॥९॥
बिभृयात्सोऽवतारं चेत्पार्वत्या जठरे विभुः ।
तदैव तस्य नाशः स्यान्नान्यथा सुरसत्तमः ।
स्तुवन्तु सर्वे तस्मात्तं विश्वचिन्ताकरं प्रभुम् ।
आदौ कुरुत तां देवीं प्रसन्नां भववल्लभाम् ॥२.४०.१०॥
तत्तेजःसंभवो बालो दुरासदवधे भवेत् ।
एवमेव वरस्तेन शंकरेण कृतोऽस्य ह ॥११॥
मुनिरुवाच।
एवं वाक्यं ब्रह्ममुखाच्छुत्वा देवा जहर्षिरे।
तुष्टुवुर्भवकान्तां तां भवानीं भक्तवत्सलाम् ॥१२॥
देवर्षय ऊचुः ।
नताः स्म हे त्वां जगदेकहेतुं परात्परां विश्वविचित्रशक्तिम् ।
अचिन्त्यरूपां त्रिदशैरशेषैरशेषवन्द्यां त्रिगुणां गुणेशाम् ॥१३॥
धराधरां त्वां धरणीस्वरूपामाधारभूतां स्थिरजंगमानाम् ।
त्रैलोक्यसारां त्रिगुणादिभूतां त्रयीतनुं तां त्रिदशस्वरूपाम् ॥१४॥
नताः स्म हे देवि वरप्रदांत्वां विष्णोर्विमोहां पददां सुराणाम् ।
भक्तार्तिहन्त्रीं सकलार्थदात्रीं त्रैलोक्यकर्तीं निखिलार्थगोप्त्रीम् ॥१५॥
एवं स्तुता तदा देवी जगाद सुरसत्तमान् ।
वृणुध्वं वांछितं देवाः स्तोत्रेणानेन तोषिता ॥१६॥
ददामि सकलान्कामान्भवतां ये मनोगतान् ।
तत ऊचुः सुराः सर्वे वृत्तांतं ब्रह्मणेरितम् ॥१७॥
तत ऊचे च तान्देवी स्तुवन्तु गणनायकम् ।
शुभाशुभस्य यः कर्ता सर्वासिद्धिकरो विभुः ॥१८॥
अवाप्तसर्वकामार्थः सर्वस्य जगतः पिता ।
ततस्ते तुष्टुवुर्देवं भक्त्या सर्वे विनायकम् ॥१९॥
देवर्षय ऊचुः ।
नताः स्मो विघ्नकर्तारं दयालुं सर्वपालकम् ।
सर्वस्य जगतो हेतुं सर्वव्यापिनमीश्वरम् ॥२.४०.२०॥
अनेकशक्तिसंयुक्तं सर्वकामप्रपूरकम् ।
दीनानुकम्पिनं देवं सर्वज्ञं करुणानिधिम् ॥२१॥
स्वेच्छोपात्ताकृतिं नाना ह्यवताररतं सदा ।
गुणातीतं गुणक्षोभं चराचरगुरुं विभुम् ॥२२॥
एकदन्तं द्विदन्तं च त्रिनेत्रं दशहस्तकम् ।
शुंडादंडमुखं विघ्ननाशनं पापहारकम् ॥२३॥
भक्तानां वरदं नित्यं सृष्टिस्थित्यन्तकारकम् ।
अनादिमध्यनिधनं भूतादि भूतवर्धनम् ॥२४॥
त्रिलोकेशं सुराधीशं दुष्टदानवमर्दनम् ।
लम्बकर्णं बृहद्भानुं व्यालभूषाधरं शुभम् ॥२५॥
एवं स्तुत्वा तु तं देवं गणेशं सर्वसिद्धिदम् ।
शुश्रुवुस्ते नभोवाणीं माभूद्वो मानसो ज्वरः ॥२६॥
दुरासदं महावीर्यं हनिष्यामि भयंकरम् ।
इति श्रुत्वा नभोवाणीं पुनः शंकरमाययुः ।
ध्याननिष्ठं च ते दृष्ट्वा प्रणम्योचुश्च पार्वतीम् ॥२७॥
देवा ऊचुः ।
न जानीमो नभोवाणीं केनेमामीरितां शुभे ।
हरस्य ध्याननिष्ठात्वात्कथं कुर्मोऽखिलेश्वरि ॥२८॥
देव्युवाच ।
दैत्यो देवा इदानीं यो निश्चरं स मरिष्यति ।
तस्याः क्रोधेन तप्ताया निश्वसन्त्याः पुनःपुनः ॥२९॥
आस्यान्नासापुटान्नेत्रान्निःसृतं तेज उत्तमम् ।
ज्वालामालाकुलं दग्धुं ब्रह्माण्डमिव चोद्यतम् ॥२.४०.३०॥
प्रत्याहतदृशः सर्वे ददृशुर्ज्ञानचक्षुषा।
वैनायकीं महामूर्तिं दशहस्तां तमोनुदाम् ॥३१॥
बिभ्रतीं मुकुटं रत्नकोटिसूर्यसमप्रभाम् ।
विद्युत्प्रभामहारत्नकुण्डले रदनं शुभम् ॥३२॥
दिव्याम्बरे च सिन्दूरमायुधानि दशैव च ।
कस्तूरीतिलकं भाले मालां हृदि फलान्विताम् ॥३३॥
यत्तेजो व्यानशे विश्वं प्रलयानलसन्निभम् ।
व्यालयज्ञोपवीतं च ज्ञात्वा नेमुः सुरास्तदा ॥३४॥
प्रार्थयामासुरथ ते आनन्दघनमीश्वरम् ।
दृष्टोऽति योगगम्यस्त्वमप्रतर्क्योऽव्ययः स्वराट् ॥३५॥
निरामयो निराभासो निर्विकल्पोजरोऽमरः ।
सर्वस्वरूपः सर्वेशःस्वप्रकाशो जगन्मयः ॥३६॥
अव्यक्तो जगदाधारो ब्रह्मरूपोऽखिलार्थदृक्।
पुराणपुरुषो ज्ञानमूर्तिर्वाचामगोचरः ॥३७॥
वयं धन्या वयं धन्या दृष्ट्वा तं ननृतुः सुराः ।
मुनिरुवाच ।
यथा देवैर्वणितोऽसौ तेजोरूपी विनायकः ॥३८॥
एवमेव जगन्माता प्रशशंस गजाननम् ।
निर्गुणं यन्निराकारमव्यक्तं सर्वगं परम् ॥३९॥
ध्यानगम्यं चिदाभासं सच्चिदानन्दविग्रहम् ।
सर्वव्यापी जगद्धेतुरद्ययावद्विचिन्तितम् ॥२.४०.४०॥
विनायकस्वरूपेण साकारं दृष्टमद्य यत् ।
अवतीर्णं मम गृहे हन्तु दैत्याननेकशः ॥४१॥
जगतामुपकाराय पातुं विश्वं चराचरम् ।
पुपूज पार्वतीभक्त्या ददौ सिंहं स्ववाहनम् ॥४२॥
वक्रतुण्डेति नामास्य दध्रे सर्वार्थदं नृणाम् ।
दुरासदस्य च वधं प्रार्थयामास तं तदा ॥४३॥
देवानां च पदप्राप्तिं निःसपत्नामयाचयत् ॥४४॥ (१८०६)
इति श्रीगणेशपुराणे क्रीडाखंडे बालचरिते चत्वारिंशोऽध्यायः ॥४०॥