गणेशपुराणम्/खण्डः २(क्रीडाखण्डम्)/अध्यायाः ०३१-०३५
← अध्यायाः २६-३० | गणेशपुराणम् - खण़्डः २(क्रीडाखण्डम्) अध्यायाः ३१-३५ [[लेखकः :|]] |
अध्यायाः ३६-४० → |
अध्याय ३१ प्रारंभ :-
क उवाच ।
वेदांश्च चतुरः साङ्गानध्यापयत तं मुनिः ।
एकस्मिन्दिवसे तातं वामनः पर्यपृच्छत ॥१॥
केनोपायेन देवानां पदप्राप्तिर्भविष्यति ।
भूभारहरणं तन्मे यथावद्वक्तुमर्हसि ॥२॥
कश्यप उवाच ।
उपदेशं करिष्यामि मन्त्रस्य सिद्धिदस्य ते ।
षडक्षरस्य विघ्नेशतोषकस्य ममात्मज ॥३॥
तस्मिन्प्रसन्ने विघ्नेशे जगत्स्थित्यन्तकारिणि ।
अनेकब्रह्मांडविधौ सर्वकारणकारणे ॥४॥
सर्वे कामाः प्रसिध्यन्ति तदर्थे यत्नमाचर ।
क उवाच ।
एवमुक्त्वा ददौ तस्मै सुमुहुर्ते महामनुम् ॥५॥
तदैव चलितस्तस्मादाश्रमाद्धर्षसंयुतः ।
प्रणम्य तमनुज्ञाप्य जगाम तपसे शिशुः ॥६॥
भ्रमता ददृशे तेन विदर्भे स्थानमुत्तमम् ।
लतावृक्षसमाकीर्णं कासारपरिशोभितम् ॥७॥
तत्र पद्मासनं कृत्वा जजाप तं मनुं शुभम् ।
षडक्षरं वर्षमात्रं निराहारो जितेन्द्रियः ॥८॥
निर्वाणं तस्य तज्ज्ञात्वाऽऽविरासीत्सिद्धिबुद्धियुक् ॥९॥
मयूरवाहनो देवः शुण्डादण्डविराजितः ।
विलसद्दशदोर्दण्डो रत्नमाला विभूषितः ॥२.३१.१०॥
आशीविषलसन्नाभिर्नानालंकारशोभितः।
आगतो दृढभक्तं तं धेनुर्वत्समिवादरात् ॥११॥
वामनस्तं पुरो दृष्ट्वा सर्वतेजोभिभाविनम् ।
सर्वसिद्धिकरं देवं सर्वविघ्ननिवारणम् ॥१२॥
नुनाव परया भक्त्या देवदेवं गजाननम् ॥१३॥
वामन उवाच ।
अव्यक्तं व्यक्तहेतुं निगमनुतनुं सर्वदेवाधिदेवं
ब्रह्माण्डानामधीशं जगदुदयकरं सर्ववेदान्तवेद्यम् ।
मायातीतं स्ववेद्यं स्थितिविलयकरं सर्वविद्यानिधानं
सर्वेशं सर्वरूपं सकलभयहरं कामदं कांन्तरूपम् ॥१४॥
तं वन्दे विघ्नराजं विधिहरमुनिभिः सेव्यमानं
सनागैस्तेजोराशिं त्रिसत्यं त्रिगुणविरहितं तत्त्वमस्यादिबोध्यम् ।
भक्तेच्छोपात्तदेहं निजजनसुखदं तत्त्वबुद्धिप्रकाशं
साम्बाद्यैः स्तूयमानं सकलतनुगतं भुक्तिमुक्तिप्रदं तम् ॥१५॥
क उवाच ।
इति स्तुतो देवदेवः प्रसन्नः प्राह वामनम् ।
वरं वरय तुष्टोऽयं यत्ते मनसि वर्तते ॥१६॥
स्तोत्रेण तपसा चैव परितुष्टो ददामि तत् ।
वामन उवाच ।
न ते स्वरूपं विदुरब्जजाद्या ब्रह्मर्षयो ये सनकादिकाद्याः ।
दृष्टोऽसि स त्वं जगतामधीश त्वत्तः कमन्यं वरमद्य याचे ॥१७॥
अथापि ते वाक्यभिदा भयात्त्वां याचे वरं तं मम नाथ देहि ।
पराजयो मे न भवेत्कदापि कार्येऽखिले विघ्नभयं न च स्यात् ॥१८॥
उद्यतोऽस्ति बलिः शक्रपदमत्तुं क्रतोर्बलात् ।
स च मां शरणं यातस्तस्य सिद्धिर्यथा भवेत् ॥१९॥
तथा कुरु जगत्कर्तर्यदि तुष्टोऽसि मेऽनघ ।
गजानन उवाच ।
एतत्ते भविता सर्वं स्मरणान्मम सुव्रत ॥२.३१.२०॥
सेत्स्यन्ति सर्वकार्याणि महान्ति च लघूनि च ।
क उवाच ।
एवमुक्त्वा गते देवे वामनोऽकारयच्छुभाम् ।
काश्मीरोपलजां सोऽथ स्थापयन्मूर्तिमुत्तमाम् ॥२१॥
चतुर्भुजां त्रिनयनां शुण्डादण्डविराजिताम् ।
प्रसन्नंकरिहस्ताभ्यां भक्तानामभयप्रदाम् ॥२२॥
स्मरणाद्दर्शनाद्धयानात्पूजनात्सर्वकामदाम् ।
प्रासादं कारयामास रत्नकांचननिर्मितम् ॥२३॥
तत्रैकं ब्राह्मणं स्थाप्य ग्रामं दत्वा धनानि च ।
त्रिकालं पूजने तस्य कारयामास तेन सः ॥२४॥
आगतः स्वगृहं नत्वा पितरं सर्वमब्रवीत् ।
तपश्च तत्फलं चाथ यज्ञं गन्तुमपृच्छत ॥२५॥
कश्यपेनाभ्यनुज्ञातो वामनो दर्भदण्डभृत् ।
सूत्रकृष्णाजिनधरो मेखली यज्ञमाययौ ॥२६॥
ह्रस्वाकृतिं मुनिं दृष्ट्वा मुनयो विस्मितास्तदा।
नायं मुनिर्यतस्तेजो दृश्यते परमाद्भुतम् ॥२७॥
तं दृष्ट्वा परमायान्तं बलिरुत्थाय सत्वरम् ।
कोऽसि त्वमिति पप्रच्छ नत्वा तं कुत आगतः ॥२८॥
किं वांच्छसि वद विभो पिता माता च कस्तव ।
वसतिस्तव कुत्रास्ति तत ऊचे स वामनः ॥२९॥
न स्मरे पितरौ राजन्ननाथं विद्धि मां कृशम् ।
त्रैलोक्ये वसतिर्मेऽस्ति याचे भूमिं त्रिभिः पदैः ॥२.३१.३०॥
मितां कर्तुं पर्णकुटीं शक्तिश्चेदस्ति दीयताम् ।
क उवाच ।
इति वाक्यं मुनेः श्रुत्वा ह्रदि ज्ञात्वा कृपायुतम् ॥३१॥
तं दातुमुद्यतं भूमिमूचे काव्यो बलिं तदा ।
शुक्र उवाच ।
न ब्राह्मणो हरिरयं कपटं रूपमास्थितः ॥३२॥
हरिष्यति त्रिभुवनं पदत्रयमिषेण तु ।
मा दीयतामस्य किञ्चिदिति सत्यं ब्रवीमि ते ॥३३॥
तमुवाच महादैत्यो मूढ किं वदसे वचः ।
हरिश्चेद्विमुखो गच्छेत्सर्वं मे सुकृतं नयेत् ॥३४॥
अस्मात्पात्रं किमन्यत्स्यादस्मै दत्तमनन्तकम् ।
इत्युक्त्वा तं पुनः प्राह वामनं दैत्यपुंगव ॥३५॥
ब्रह्मन्दत्ता मया भूमिः संकल्पः क्रियतामिति ।
वामनः प्राह राजानं संकल्पयितुमुद्यतः ॥३६॥
तावद्धारां निरुध्यैव स्थितः शुक्रोऽन्यदेहतः ।
ददौ शलाकां तत्पात्रे भग्ननेत्रो बहिर्गतः ॥३७॥
ततः पाणितले तस्य वामनस्य जलं ददौ ।
स्मृत्वा गणेशं ववृधे वामनो हर्षनिर्भरः ॥३८॥
मूर्ध्न्याक्रम्य स्वर्गलोकमेकपादेन रोदसी ।
पातालान्यपरेणापि दत्तं तन्मस्तकेऽपरम् ॥३९॥
तत ऊचे बलिं देवो गच्छ त्वं धरणीतलम् ।
त्वां विनाऽहं कथं यामीत्येवमाह बलिस्तु तम् ॥२.३१.४०॥
इत्याकर्ण्य वचस्तस्य पुनस्तं प्राह वामनः ।
सान्निध्यं मम तत्रापि भविता त्वदनुग्रहात् ॥४१॥
इन्द्रो मां शरणं यातः प्रियं कार्यं हि तस्य मे ।
तवापि मम भक्तस्य प्रियं पश्चाद्भविष्यति ॥४२॥
ऐन्द्रे पदे निवृत्तेऽस्य पदं यास्ये तवैव तत् ।
ततो ब्रह्मादयो देवास्तुष्टुवुर्वामनं विभुम् ॥४३॥
मुमुचुः पुष्पवर्षाणि वाद्यानि ववदुः सुराः ।
पुपूजुस्तेऽपि सर्वे च जगुश्च ननृतुः परे ॥४४॥
ततश्चान्तर्दधे देवो वामनोऽनन्तविक्रमः ।
स्वं स्वं स्थानं गता देवा यथापूर्वं मुदान्विताः ॥४५॥
क उवाच ।
एवं तेन कृता मूर्तिर्विख्याताऽभूज्जगत्त्रये ।
गजाननस्य देवस्य सर्वेषां कामदा नृणाम् ॥४६॥
इत्येतत्कथितं सर्वं प्रसङगाद्बलिचेष्टितम् ।
लाघवं वामनस्यापि महिमा सुमुखस्य ह ॥४७॥
अदोषाख्ये पुरे तेन स्थापितस्य महात्मना ।
दशबाहोः प्रसिद्धस्य देवदक्षिणभागतः ॥४८॥
प्रियत्वं तस्य शम्यास्ते कथयिष्येऽधुना स्फुटम् ॥४९॥ (१४०४ )
इति श्रीगणेशपुराणे क्रीडाखंडे बालचरिते एकत्रिंशोऽध्यायः ॥३१॥
अध्याय ३२ प्रारंभ –
क उवाच ।
शृणुश्वावहितो ब्रह्मन्नितिहासं पुरातनम्।
प्रियव्रतायाकथयत्स्वयमेव गजाननः ॥१॥
गजानन उवाच ।
शमीपत्रस्य महिमा शणुष्वार्य महाबलम् ।
न यज्ञैर्न च दानैश्च व्रतः कोटिशतैरपि ॥२॥
न जपैः पूजनैर्वापि मम तोषस्तथा भवेत् ।
न पद्मैर्नान्यकुसुमैः शमीपत्रैर्यथा भवेत् ॥३॥
शमीति कीर्तनादेव पापं नश्यति वाचिकम् ।
स्मरणान्मानसं पापं स्पर्शनात्कायजं तथा ॥४॥
नित्यं तत्पूजनाद्ध्यानाद्वन्दनाच्चैव भक्तितः ।
निर्विघ्नकरमायुष्यं ज्ञानं पापक्षयोऽपि च ॥५॥
वाञ्छासिद्धिरचापल्यं जायते नात्र संशयः ।
मुनिरुवाच ।
कोऽसौ प्रियव्रतो राजा किंशीलः कुत्र वाऽभवत् ॥६॥
कथं वै तस्य कथिता गुणाः शम्या महात्मना ।
एनं मे संशयं ब्रह्मन्कृपया नुद सुव्रत ॥७॥
क उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
शंकरस्य च संवादं पार्वत्या सह पुत्रक ॥८॥
पार्वत्युवाच ।
कथं शमी प्रिया देव सर्वज्ञ जगदीश्वर ।
गजाननस्य मे शंस यदि ते मय्यनुग्रहः ॥९॥
शंकर उवाच ।
शृणु प्रिये प्रवक्ष्यामि कथामेकां शुचिस्मिते ।
यथा प्रिया गणेशस्य शमीति ज्ञास्यते तथा ॥२.३२.१०॥
प्रियव्रतो नाम राजा पूर्वमासीन्महामतिः ।
सत्यवान्धर्मसंपन्नो धर्मात्मा शंसितव्रतः ॥११॥
तेजस्वी च वदान्यश्च वेदशास्त्रार्थतत्त्ववित् ।
सर्वलक्षणसंपन्नश्चतुरङ्गबलाधिकः ॥१२॥
पालयामास पृथिवीं प्रजाः पुत्रानिवौरसान् ।
कीर्तिश्च प्रथमं भार्या प्रभा तस्यापराऽभवत् ॥१३॥
धूर्तश्च कुशलस्तस्य प्रकृती संबभूवतुः ।
कुशलौ नीतिशास्त्रेषु षडाननपराक्रमौ ॥१४॥
बुद्ध्या पराक्रमेणापि रसा सर्वा वशीकृता ।
स तु राजा वशं नीतः प्रभया तस्य भार्यया ॥१५॥
क्रीडतेऽहर्निशं सोऽथ नानालंकारशोभया ।
यौवनाक्रान्तवपुषा रम्भादिभ्योऽतिरम्यया ॥१६॥
क्षणमात्रं न सहते वियोगं स तया सह ।
धिक्करोति सदा ज्येष्ठां तद्वचो न शृणोत्यपि ॥१७॥
रुषा निरीक्षेत तां स तन्मृतिं चिन्तयत्यपि।
स्वयं न भाषते किञ्चिन्न गृह्णाति तयाऽर्पितम् ॥१८॥
ततस्तस्याभवत्पुत्रः प्रभयां पतिसन्निभः ।
जातकर्म च राजाऽस्य कृत्वा धर्मसनेकधा ॥१९॥
नाम चास्याकरोत्पद्मनाभिरित्थं द्विजेरितम् ।
शुक्लपक्षे यथा चन्द्रो ववृधे सोऽपि बालकः ॥२.३२.२०॥
बुद्धिमान्कुशलो युद्धे पितृतोऽप्यधिकोऽभवत् ।
पंचमे व्रतबन्धं च चकारास्य नृपस्तदा ॥२१॥
प्रियव्रतो महाबुद्धिर्मद्राणामधिपो बली ।
पांचालराजकन्यां स भार्यां तस्याप्यमेलयत् ॥२२॥
अतिवैभवयुक्तौ तौ विवाहं चक्रतुस्तयोः ।
कदाचिदस्य सा पत्नी ज्येष्ठा दासीत्वमापिता ॥२३॥
पादसंवाहनं कर्तुमागता भर्तृसन्निधिम् ।
निपपात महीपृष्ठे सपत्न्या चरणाहता ॥२४॥
दुःखिता रुदती ह्रीणा जगाम निजमन्दिरम् ।
कमहं शरणं यायां को मे दुःखं व्यपोहयेत्॥२५॥
सपत्न्याऽमानिताया मे त्राता स्याद्धरिरव्ययः ।
स्मृतमात्रस्तु यस्त्राता द्रौपद्या करुणानिधिः ॥२६॥
यां नैव मनुते भर्ता न कोऽपि मनुतेऽपि ताम् ।
अतो न जीवितेनार्थः शोषयिष्ये कलेवरम् ॥२७॥
पिबे हालाहलं वापि पते वापीं जलान्विताम्।
न मनो निश्चयं याति तस्या विह्वलचेतसा ॥२८॥
एतस्मिन्नन्तरे दैवाद्देवलो ब्राह्मणोत्तमः ।
पुरोहितः समायातः स जगाद गजाननीम् ॥२९॥
उपासनां क्लेशहन्त्रीं सर्वकामफलप्रदाम् ।
सा तदैव प्रपद्याशु मूर्तिं मन्दारनिर्मिताम् ॥२.३२.३०॥
गजाननस्य संपूज्य स्नात्वा शुद्धदिने तु सा।
उपविष्टा पूजयितुं परमेण समाधिना ॥३१॥
त्यक्त्वा हरं हरिं चाम्बां तेजोयुक्तं परं रविम् ।
सर्वैः संपूज्यते देवदेव आदौ गजाननः ॥३२॥
विचार्यमाणे पंचानां भेदो नैवोपलभ्यते ।
यो भेदेनेक्षते चैतान्स याति नरकान्नरः ॥३३॥
एक एव परानन्दपूर्णोऽसौ परमेश्वरः ।
स्वेच्छया पंचधा जातो लोकानुग्रहकारणात् ।
एक एव पुमान्यद्वत्पुत्रमातुलनामभिः ॥३४॥
सा सम्यक् षोडशभिस्तमुपचारैः पुपूज ह।
दूर्वापुष्पैर्दक्षिणाभिर्नमस्कारैरनेकधा॥३५॥
कृत्वा करपुटं सा तु तुष्टाव जगदीश्वरम्।
कीर्तिरुवाच ।
त्वमेव जगदाधारस्त्वमेव सर्वकारणम् ॥३६॥
त्वमेव ब्रह्मा विष्णुश्च बृहद्भानुस्त्वमेव हि।
चन्द्रो यमो वैश्रवणो वरुणो वायुरेव च ॥३७॥
त्वमेव सागरा नद्यो लताकुसुमसंहतिः ।
सुखं दुखं तयोर्हेतुस्त्वं नाशस्त्वं विमोचकः ॥३८॥
इष्टविघ्नकरो नित्यं महाविघ्नकरो विराट् ।
त्वमेव पुत्रलक्ष्मीदस्त्वमेव सर्वकामधुक् ॥३९॥
त्वमेव विश्वयोनिश्च त्वमेव विश्वहारकः ।
त्वमेव प्रकृतिस्त्वं वै पुरुषो निर्गुणो महान् ॥२.३२.४०॥
त्वमेव शशिरूपेण सर्वमाप्यायसे जगत् ।
त्वमेव भूतभव्यं च भाविभावात्मकः स्वराट् ॥४१॥
शरण्यः सर्वभूतानां शत्रूणां तापनः परः ।
कर्मकाण्डपरो यज्वा ज्ञानकाण्डपरः शुचिः ॥४२॥
सर्ववेत्ता सर्वविधिः सर्वसाक्षी च सर्वगः ।
सर्वव्यापी सर्वविष्णुः सर्वसत्यमयः प्रभुः ॥४३॥
सर्वमायामयः सर्वमन्त्रतन्त्रविधानवित् ॥४४॥ (१४४८)
इति श्रीगणेशपुराणे क्रीडाखंडे बालचरिते नाम द्वाविंशोऽध्यायः ॥३२॥
क उवाच ।
एवं साऽनुदिनं पूज्य तुष्टाव तं विनायकम् ।
एकस्मिन्दिवसे तस्याः सख्यो दूर्वार्थमाययुः ।। १ ।।
शुक्रमासवशान्नापुः क्वापि दूर्वांकुरान्शुभान् ।
शमीपत्राणि भूयांसि गृहीत्वा तु तदन्तिकम् ।।२।।
आययुः परमश्रान्ता दूर्वाभावं न्यवेदयन् ।
शमीपत्रैः पुपूजैनं सर्वोपचारपूर्वकम् ।।३।।
दूर्वां विना निराहाराऽतिष्ठत्सा नियमे रता ।
तस्य तुष्टिः परा जाता शमीपत्रैः समर्पितैः ।।४।।
अशेत तत्पुरः स्वप्नमपश्यत्सा महाद्भुतम् ।
अब्दान्ते सैव मूर्तिस्तामिमां वाचमुवाच ह । ।।५।।
वरं ददामि ते सुभ्रु शमीपत्रैः सुतोषितः ।
सा नोवाच यदा किंचित्कीर्तिः सा तां पुनर्जगौ ।।६।।
मूर्तिरुवाच ।
वश्यस्ते भविता कान्तो भोगाश्वानेकशः शुभाः ।
त्वद्भक्तिनिरतः पुत्रो भविष्यति महाबलः ।।७।।
क्षिप्रप्रसादनेत्येवं कुरु नामास्य सुन्दरम् ।
तुर्येऽब्देऽस्य विषान्मृत्युर्भविष्यति पुनः क्षणात् ।।८।।
गृत्समदो द्विजोभेऽत्यं पुनस्तं जीवयिष्यति ।
राज्यकर्ता चिरायुश्च धर्मशीलो भविष्यति ।।९।।
इदं स्तोत्रं पठेद्यस्तु मम संतोषकारणम् ।
तस्य वश्यो भवेद्राजा किमन्यः प्राकृतो जनः । २.३३.१ ०।।
पुत्रवान्धनसंपन्नो वेदवेदाङपारगः ।
बुद्धिश्च वर्धते तस्य मेधावृद्धिर्भवेद्दृढा ।। ११ ।।
वाच्छितांल्लभते सोऽर्थांस्त्रिसन्ध्यं यः पठेदिदम् ।
मम भक्तिर्दृढा तस्य मोक्षश्चान्ते भविष्यति ।। १ २।।
एवं दत्त्वा वरान्स्वप्ने स देवोऽपिदधे क्षणात् ।
जागृता साश्रुनयना विस्मिता मानसेऽवदत् ।। १ ३।।
दीनानाथेन महती कृपा मयि नियोजिता ।
अनुग्रहो महान्मह्यं यद्दत्तं दर्शनं स्वयम् । । १४।।
विनायकेन देवेन पाविता परमादरात् ।
अद्याहं तेन देवेन सर्वभूतानुकम्पिना ।। १५।।
इयमेव परा सिद्धिरिदमेव तपःफलम् ।
अयमेव परो लाभो यदवोचन्मया सह ।। १ ६।।
क उवाच ।
ततः प्रभाते स्नाता सा परमानन्दनिर्भरा ।
पुपूज परया भक्त्या गणेशं वरदं शुभम् ।। १ ७।।
समाप्य नियमं मूर्तिं पूर्वस्थाने न्यवेशयत् ।। १ ८।।
पुरोहितं समानीय पूजयामास भक्तितः ।
गणेशं मनसा ध्यात्वा वदन्ती नाममालिकाम् ।। १ ९।।
स्मरन्ती तद्वरान्कीर्तिः समयं च प्रतीक्षती ।
ततः कालेन महता प्रभा सा निष्प्रभाऽभवत् ।।२.३३..२ ०।।
रक्तपित्तवती जाता प्रारब्धादीश्वरेच्छया ।
करौ पादौ च नासा च तस्याः क्षरति नित्यशः ।।२ १ ।।
अतिबीभत्सरूपां तां तत्याज मनसा पतिः।
न वक्ति नेक्षते ज्ञात्वा प्रयत्नान्निष्फलान्बहून् ।।२२।।
ततः कीर्तेर्गृहं यातस्तपसा सुन्दराकृतेः ।
कृपया गणराजस्य स्वयं वश्योऽभवच्च सः ।।२ ३।।
स गृहीत्वा करे तां तु मंच्चकं समुपानयत् ।
चिक्रीड स्वेच्छया कीर्त्या तन्निष्ठस्तत्परायणः ।।२४।।।
न वियोगं क्षणं तस्याः सहते नृपसत्तमः ।
साऽपि भोगानलङ्काराननन्तान्बुभुजे सती ।।२५।।
साऽपि गर्भवती जाता कालेन सुषुवे सुतम् ।
शुभे मुहूर्ते राजाऽसौ ददौ दानान्यनेकशः ।।२६।।
पुत्रजन्मप्रहष्टः सन्ब्राह्मणेभ्यो यथार्हतः ।
दिक्षु स्थाप्य द्विजान्पच्च जातकर्म चकार सः ।।२७।।
क्षिप्रप्रसादनेत्येवं नाम चक्रे ततोऽस्य ह ।
तुतोष पुत्रं दृष्ट्वैव नानालङ्कारसंयुतम् ।।२८।।
अतिप्रीतिमती कीर्तिरभवत्पुत्रदर्शनात्।
प्रभा च दुःखिता पुत्रं सपत्न्या वीक्ष्य सुन्दरम् ।।२९।।
एष एव भवेद्राजा ज्येष्ठपुत्रोऽयमित्युत ।
दध्योदनं तु सविषं कीर्तिपुत्राय सा ददौ ।। २.३३.३ ०।।
स तु विह्वलतां यातो विवृत्तनयनः क्षणात् ।
प्रभैव च महाशब्दं कृत्वाऽरोदीद्भृशातुरा ।।३ १ ।।
तस्या शब्दं समाकर्ण्य कीर्तिस्तमगमत्तदा ।
तमुदन्तं सा पतये न्यवेदयत सादरम् ।।३ २।।
भिषजोऽपि ददुस्तस्मा औषधानि नृपाज्ञया ।
परीक्ष्य विषबाधां ते तस्मै राज्ञे न्यवेदयन् ।। ३३ ।।
न गुणाय भवन्ति स्म नानामन्त्रौषधानि च ।
प्रभा तु धिक्कृता भर्त्रा निरस्ता दूरतो गृहात् ।। ३४।।
कीर्तिस्तं बालकं गृह्य सखीभिः काननं ययौ ।
नगराद्योजनं याति तावद्बालो ममार सः ।। ३५।।
अंके कृत्वा तु तं बालं रुरोद शोकविह्वला ।
मूर्छिता पतिता भूमौ लतेव वायुनेरिता ।।३ ६।।
च्युतालंकरणाध्वस्त कंकणा मस्तकांचला ।
क्षणेन किंचिदाश्वस्ता सस्मार द्विरदाननम् । ।३७।।
उत्पतेः स्मरती बालचेष्टितं निघ्नती स्वहृत् ।
दैवात्तेनैव मार्गेंण प्रययौ मुनिसत्तमः ।। ३८।।
नाम्ना गृत्समदः साधुः साक्षात्सूर्य इवापरः ।
गणेशभक्तप्रवरस्तपसां परमो निधिः ।। ३ ९।।
स तस्थौ करुणाविष्टः सा कीर्तिः प्रणनाम तम् ।
उवाच श्वसती सा तं गणनाथप्रसादजः ।।२.३३.४० ।।
अयं बालो मम मृतो जीवयैनं तपोबलात् ।
क्षिप्रप्रसादन इति नाम देवाज्ञया कृतम् ।।४ १ ।।
सपत्न्या दुष्टभावेन विषमस्मै समर्पितम् ।
ततोऽनेन समप्रापि मुने मरणमीदृशम् ।।४२ ।।
न सतां दर्शनं व्यर्थमिति याचे तपोधन ।
शरणं संत्यागं गेहन्ते साधवो जनाः ।। ३३ ।।
इति तस्या वचः श्रुत्वा मुहुर्तं ध्यानतत्परः ।
अभवन्मुनिशार्दूलस्ततो गृत्समदोऽब्रबीत् ।।४४।।
शृणु देवि प्रवक्ष्येऽहमुपायं पुत्रजीवने ।
अज्ञानतः शमीपत्रैस्त्वयाऽपूजि विनायकः ।।४५।।
तत्पुण्यमस्य हस्ते त्वमर्पयस्व ममाज्ञया ।
तत्प्रसादादाशु सुत उत्थास्यति तवाधुना ।।४६। ।
सा तु तद्वचनस्यान्ते कीतिर्हर्षसमन्विता ।
ददौ तस्मै शमीपूजासंभवै पुण्यमुत्कटम् ।।४७।।
उत्तस्थौ सुकुमारोऽस्या अमृतेनोक्षितो यथा ।
सा तु हर्षान्मुनेः पादौ ववन्दे शिरसा पुनः ।।४८।।
उवाच तं मुनिं ज्ञातं कथं शम्याप्रपूजनम् ।
महिमानं वद मुने शमीपूजनसंभवम् ।।४९।।
येन संजीवितो बालो मुक्तश्च यमकिङ्करैः ।
ज्ञात्वा तं च करिष्यामि नित्यं शम्याः प्रपूजनम् ।।२.३३.५०।।
येन वै बहुधा क्रूरा यमदूता दुरासदाः ।
निरस्ता गणनाथस्य दूतैर्बहु रणाजिरे ।।५ १।।
जीवयित्वा शिशुं मे ते गता धाम गजाननम् ।
येन पुण्येन बालो मे विषं त्यक्त्वा सुखी पुनः ।।५२।।
सजीवन्नुत्थितः शीघ्रं सुप्तोत्थित इवापरः ।
अतोऽहं परिपृच्छामि महिमानं शमीभवम् ।।५३।।
क उवाच ।
इति तद्वचनं श्रुत्वा प्रोचे गृत्समदस्तु ताम् ।
गृत्समद उवाच ।
उच्चारिते नाम्नि यस्याः कोटिपातकनाशनम् ।।५४।।
महिमानं हि कस्तस्याः साकल्येन वदेद्भुवि ।
संक्षेपेण तु वक्ष्यामि महिमानं यथामति ।।५५।।
व्रतदानतपोभिश्च नानातीर्थऽनिषेवणैः ।
पंच्चाग्निसाधनेरप्सु निवासैर्हेमकालिकैः ।।५६।।
न तत्फलमवाप्नोति यत्स्याच्छम्याप्रपूजने ।
प्रातःकाले त्रिसन्ध्यं वा शमीं नित्यं स्मरेत्तु यः ।।५७।।
वन्दयेदर्चयेद्वापि भक्तिभावसमन्वितः ।
ध्यात्वा गजाननं देवं तस्य तुष्टो विनायकः ।।५८।।
ददाति वांच्छितानर्थानन्ते मोक्षं न संशयः ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।।५९।।
नारदस्य च संवादं शक्रस्य च महात्मनः ।।२.३३.६०।। ( १५०८)
इति श्रीगणेशपुराणे क्रीडाखंडे बालसंजीवनं नाम त्रयस्त्रिंशोऽध्यायः ।।३३।।
कीर्तिरुवाच ।
ब्रूहि ब्रह्मन्नशेषेण संवादं नारदेन्द्रजम् ।
श्रुत्वा तं संशयं त्यक्त्वा तृप्ताः स्याममृतादिव ।। १ ।।
क उवाच ।
इति तस्या वचः श्रुत्वा वक्तुं समुपचक्रमे ।
स मुनिरितिहासं तं संवादं नारदेन्द्रजम् । ।२।।
मुनिरुवाच ।
कदाचित्पर्यटन्सुभ्रु नारदो दिव्यदर्शनः ।
यदृच्छया गतः शक्रं त्रिलोकीभ्रमणे रतः ।।३।।
शक्रस्तं परिपूज्यैव पप्रच्छौरवचेष्टितम् ।
यदाह नारदो धीमांस्तच्छृणुष्व महामुने ।।४।।
नारद उवाच ।
देशे मालवसंज्ञात औरवो नाम वै द्विजः ।
वेदवेदांगवित्साक्षाद्भानुरस्तं विना यथा ।।५।।
शक्तो यो मनसा स्रष्टुं पातुं हर्तुं चराचरम् ।
धर्मपत्नीरतो नित्यं समलोष्ठाश्मकांचनः ।। ६।।
मेधावी तपसा श्रेष्ठो जातवेदा इवापरः ।
सुमेधा नाम तस्यासीत्पत्नी परमधार्मिका ।।७।।
लावण्यलहरी कान्ता नानालंकारशोभना ।
रूपेण निर्जितरतिर्धिक्कृताप्सरसोगणा ।।८।।
पतिशुश्रूषणरता लालिता परमादरात् ।
तयोः समभवत्कन्या साऽपि ताभ्यां सुलालिता ।।९।।
नामास्याश्चक्रतुरुभौ शमीकेति निजेच्छया ।
यद्यत्प्रार्थयते सा तं तद्ददाति पिता विभुः ।।२.३४.१० ।।
सा तु कन्या रूपवती संजाता सप्तवार्षिकी ।
तदर्थं चिन्तयामास वरार्थमौरवो गतः ।। ११ ।।
धौम्यपुत्रं स शुश्राव वेदशास्त्रांगपारगम् ।
शौनकस्य मुनेः शिष्यं तेजोराशिं परं मुनिम् ।। १ २।।
गुरुवाक्यरतं दांतं गुरुशुश्रूषकं परम् ।
मन्दारनामकं शान्तं समाहूय शुभे दिने ।। १३ ।।
तां ददौ गृह्य विधिना पारिबर्हं ददौ बहु ।
जाते विवाहे मन्दारो ययौ स्वस्याश्रमं प्रति ।। १४।।
यौवनस्थां तु तां ज्ञात्वा शमीकां पुनराययौ ।
मन्दारो मानितः सम्यग्गौरवेण सुपूजितः ।। १५।।
संभोज्य सुमुहूर्तेन दत्त्वा वस्त्रादि कांचनम् ।
प्रास्थापयदुभौ विप्रो जामातरमथाब्रवीत् ।। १ ६।।
इयं सुता मम ब्रह्मन्दत्ता तुभ्यं विधानतः ।
पालयस्व बहुस्नेहादद्ययावन्मया यथा। । १७।।
प्रणिपत्याथ श्वशुरं ओमित्युक्त्वा जगाम सः ।
स्वमाश्रमपदं प्राप्य चिक्रीड निजभार्यया ।। १ ८।।
कदाचिद् ऋविमुख्योऽसौ भ्रुशुण्डी तस्य चाश्रमम् ।
मन्दारस्य समायातो द्विरदाननभक्तिमान् ।। १ ९।।
रुष्टोऽसावनलः साक्षात्तुष्टश्चेदीश्वरोपमः ।
तपसा निर्गता शुण्डा भ्रुशुण्डीति च सोऽभवत् ।।२.३४.२ ०।।
स्थूलोदरो बृहत्कायो नानालंकारमण्डितः ।
ददर्शतुरुभौ तं तौ मन्दारः शमिका तदा ।।२ १ ।।
विरूपमिव तं दृष्ट्वा जहसतुर्मुदा तदा ।
सोऽपमानभयात्त्रस्तश्चुकोपारुणलोचनः ।।२२।।
उवाच तं मन्दमते न जानासि मदोद्धतः ।
अहसीद्विवृतैर्दन्तैः पत्न्या सह यतस्तु माम् ।।२३। ।
अतो यातं वृक्षयोनौ सर्वप्राणिविवर्जितौ ।
क उवाच ।
शापं श्रुत्वाऽतिकठिनं संतप्तौ तौ बभूवतुः । ।२४। ।
प्रणम्य प्रोचतुर्विप्रमुच्छापं वक्तुमर्हसि ।
तत ऊचे भ्रुशुण्डी स जानन्करुणया युतः ।।२५।।
शुण्डां दृष्टवा कृतं हास्यं युवाभ्यां मूढभावतः ।
शुण्डावान्देवदेवोऽसौ सुप्रसन्नो भवेद्यदा ।।२ ६।।
तदा युवां निजं रूपं प्राप्स्येथे नात्र संशयः ।
एवमुक्त्वा गतो यावन्मुनिराश्रममण्डलम् ।।२७।।
तावत्तौ वृक्षतां यातौ त्यक्त्वा देहौ तु मानुषौ ।
मन्दारतां च मन्दारो ब्राह्मणः प्राप तत्क्षणात् ।।२८।।
शमिका शमितां प्राप्ता सर्वतः कण्टकैर्वृता ।
उभौ वृक्षौ प्राणिमात्रैर्वर्जितौ मुनिवाक्यतः ।।२९।।
अनागतौ तु तौ ज्ञात्वा शौनकश्चिन्तयान्वितः ।
मासमात्रे गते नैव याति कस्मान्महाबलः ।।२.३४.३ ०।।
मन्दारो यामि तं दृष्टुं शिष्या यान्तु मया सह ।
शीघ्रमौरवमागम्य पप्रच्छ शनकैरिदम् ।।३ १ ।।
अनितुं शमिकां प्राप्तो मन्दारः क्वास्ति तद्वद ।
औरव उवाच ।
मयाऽप्रेषि तदैवाशु दत्त्वा कन्यां तु तत्समम् ।। ३२ ।।
नागतश्चेत्स्वाश्रमं स न जाने क्व गतो ह्यसौ ।
चिन्तयामासुरथ ते औरवः शौनकादयः । । ३३ ।।
किमुभौ भक्षितौ मार्गे वृकव्याघ्रतरक्षुभिः ।
अथवा निहतौ चोरैर्दष्टावाशीविषेण वा ।।३४।।
ततस्ते त्वरिता जग्मुस्तदुदन्तबुभुत्सया ।
क्वचित्क्वचिज्जना ऊचुर्मासमात्रमितो गतौ ।। ३५।।
ततोऽरण्ये पदे दृष्टे स्रीपुंसोश्चारुत्रपिणी ।
अनूपेते तयोर्ज्ञात्वा स्नात्वा ध्यात्वा विलोकयन् ।। ३६ । ।
ज्ञात्वा भ्रुशुण्डिना शप्तावुपहासरुषावशात् ।
वृक्षतां गमितौ सर्वपक्षिकीटविवर्जितौ । ।३७। ।
मन्दारतां तु मन्दारः शमिका शमितामपि ।
शोचाते तावुभौ विप्रौ औरवः शौनकोऽपि च । । ३८।।
धौम्यपुत्रः साधुरयमध्ये तु समुपागतः ।
अधीतविद्यः स कथं गमितो द्रुमतां बलात् ।। ३९।।
पिता श्रुत्वा त्यजेत्प्राणान्पृष्टः किं वा वदामि तम् ।
औरवोऽपि शुशोचैनां शमिकां निजकन्यकाम् ।।२.३४.४० ।।
क उवाच ।
तावुभौ परिचिन्त्यैवं न भेदो भक्तदेवयोः ।
गणेशं परिराध्यैव मोचयाव इमावघात् । ।।४१ ।।
जितेन्द्रियावूर्ध्वदृष्टी निराहारौ दृढव्रतौ ।
एकांगुष्ठस्थितावुर्व्यां तोषयामासतुर्मुदा ।।४२।।
ततस्तौ कृपयाविष्टौ तेपाते परमं तपः ।
षडक्षरेण मन्त्रेण देवदेवं विनायकम् ।।४३ ।।
एवं द्वादशवर्षाणि चेरतुस्तप उत्तमम् ।
औरवः कन्यकार्थं च शिष्यार्थं शौनकोऽपि च ।।४४।। ( १५५२)
इति श्रीगणेशपुराणे क्रीडाखंडे बालचरिते चतुस्त्रिंशोऽध्यायः ।। ३४।।
अध्याय ३५ प्रारंभ :-
क उवाच ।
ततस्तुष्टः पाशपाणिर्दृष्ट्वा क्लेशं तथा तयोः ।
आविरासीन्महातेजा दशबाहुविनायकः ॥१॥
किरीटं कुण्डले मालामंगदे कटिसूत्रकम् ।
बिभ्रत्सर्पोपवीतं च सिंहारूढोऽग्निसन्निभः ॥२॥
पश्यतः स्म परामूर्तिं कोटिसूर्यसमप्रभाम् ।
तुष्ट्वतुरुभौ देवं नत्वा बद्धाञ्जली उभौ ॥३॥
तावूचतुः ।
विश्वस्य बीजं परमस्य पाता नानाविधानन्दकरः स्वकानाम् ।
निजार्चनेनादृतचेतसां त्वं विघ्नप्रहर्ता गुरुकार्यकर्ता ॥४॥
परात्परस्त्वं परमार्थभूतो वेदान्तवेद्यो हृदयातिगोपी ।
सर्वश्रुतीनां च न गोचरोऽसि नमाव इत्थं निजदैवतं त्वाम् ॥५॥
न पाद्मयोनिर्न हरो हरिश्च हरिः षडास्यो न सहस्रमूर्द्धा ।
मायाविनस्ते न विदुः स्वरूपं कथं न शक्यं परिनिश्चितुं तत् ॥६॥
तवानुकम्पा महती यदा स्याद्विभुंजतः कर्म शुभाशुभं स्वम् ।
कायेन वाचा मनसा नमे त्वां जीवंश्च मुक्तो नर उच्यते सः ॥७॥
त्वं भावतुष्टो विदधासि कामान्नानाविधाकारतयाऽखिलानाम् ।
संसृत्यकूपारविमुक्तिहेतुरतो विभुं त्वां शरणं प्रपद्ये ॥८॥
गणेश उवाच ।
तुष्टोऽहं परया भक्त्या तपसा परमेण च ।
अनया परया स्तुत्या ब्राह्मणौ वृणुतं वरान् ॥९॥
कुजन्मनाशकमिदं मम स्तोत्रं पठेत्तु यः ।
त्रिसन्ध्यं च त्रिवारं च सर्वान्कामानवाप्नुयात् ॥२.३५.१०॥
षण्मासाज्जायते विद्या लक्ष्मीर्नित्यजपादपि।
पंचवारजपान्मर्त्यं आयुरारोग्यमाप्नुयात् ॥११॥
क उवाच ।
श्रुत्वा गणेशवाक्यं तावूचतुः परमादृतौ ।
औरवस्य सुतो देव शमिका नामतः शुभा ॥१२॥
मन्दाराय सुता दत्ता वेदशास्त्रार्थदर्शिने ।
शौनकस्य च शिष्याय धौम्यपुत्राय धर्मिते ॥१३॥
उभौ प्रहसितौ मोहाददृष्ट्वा मार्गे भ्रुशुण्डिनम् ।
स च मत्वा निजावज्ञां शशाप परया रुषा ॥१४॥
तच्छापाद्वृक्षतां यातौ मन्दारः शमिकाऽपि सा ।
तयोश्च मातापितरौ शोचन्तौ भृशदुःखितौ ॥१५॥
आवां च क्लेशितौ देव सर्वेषां नः प्रियं कुरु ।
एतयोः कुजतां दूरीकुरु शीघ्रं गजानन ॥१६॥
गजानन उवाच ।
असंभावि वरं दास्ये कथं विप्रौ कथं वृथा।
करिष्ये भक्तवचनं तस्मात्तुष्टो ब्रुवे वरम् ॥१७॥
अद्यप्रभृति मन्दारमूलं स्थास्यामि निश्चलः ।
मृत्युलोके स्वर्गलोके मान्योऽयं च भविष्यति ॥१८॥
मन्दारमूलैर्मे मूर्तिं कृत्वा यः पूजयेन्नरः ।
शमीपत्रैश्च दूर्वाभिस्त्रितयं दुर्लभं भुवि ॥१९॥
यतः शमीमधिष्ठाय सर्वदाऽहं स्थिरो मुनी ।
अयमेव वरो दत्तो वृक्षयोरतिदुर्लभः ॥२.३५.२०॥
भवद्वाक्यानुरोधेन न भ्रुशुण्डीवचोऽन्यथा ।
दूर्वाभावेऽथ मन्दारो द्वयाभावे शमी मता ॥२१॥
उभयो सा फलं दद्यान्नात्र कार्या विचारणा ।
नानायज्ञैर्न तत्पुण्यं नानातीर्थव्रतैरपि ॥२२॥
दानैश्च नियमैश्चैव पुण्यं तत्प्राप्नुयान्नरः ।
यत्स्यान्मम शमीपत्रै पूजनेन द्विजोत्तमौ ॥२३॥
नाहं प्रीये धनकनकचयैर्नान्नदानैर्न वस्त्रैर्नानापुष्पैर्न च मणिगणैर्नैव मुक्ताफलैश्च ।
यद्वच्छम्या दलनिचयकृतैः पूजनैर्ब्राह्मणानां मन्दाराणां कुसुमनिचयैः सर्वकालं मुनीन्द्रौ ॥२४॥
यः शमीं प्रातरुत्थाय पश्मेद्वन्देच्च पूजयेत ।
स संकष्टं च रोगं च न विघ्नं न च बन्धनम ॥२५॥
प्राप्नोति मत्प्रसादेन दारान्पुत्रधनानि च ।
पशूनन्यांश्च कामांश्च मुक्तिमन्ते मदाश्रयाम् ॥२६॥
इदमेव फलं प्रोक्तं मन्दारैरपि पूजने ।
मन्दारमूर्तिपूजाभिरहं गृहगतोऽभवम् ॥२७॥
नालक्ष्मीर्न च विघ्नानि नापमृत्युर्न च ज्वरः ।
नाग्निचोरभयं तत्र कदाचिदपि जायते ॥२८॥
वेदवेदांगविद्विप्रः क्षत्रियो विजयी भवेत् ।
वैश्यस्तु वृद्धिमाप्नोति शूद्रः सद्गतिमाप्नुयात् ॥२९॥
क उवाच ।
एवमुक्त्वा स्थितो देवो मूले मन्दारके तदा ।
शमीमूलेऽपि तस्थौ स देवदेवो विनायकः ॥२.३५.३०॥
औरवोऽपि सपन्नीकस्तपस्तप्तुं स्थिरोऽभवत् ।
तस्य मूले तपस्तप्त्वा त्यक्त्वा देहं दिवं गतः ॥३१॥
शमीगर्भगतो दुःखादौरवो दृढयोगतः ।
शमीगर्भ इति ख्यातो जातोऽसौ हव्यभुक्ततः ॥३२॥
अत एव शमीकाष्ठं मथ्नन्तीहाग्निहोत्रिणः ।
शौनकोऽपि वचः श्रुत्वा गजाननसमीरितम् ॥३३॥
कृत्वा मन्दारमूलस्य मूर्तिं चारुगजाननीम् ।
मन्दारैश्च शमीपत्रैर्दूर्वाभिश्चार्चयन्मुदा ॥३४॥
ददौ वरान्शौनकाय परितुष्टो गजाननः ।
ततः स्वमाश्रमं यातः सर्वदाऽपूपुजच्च तम् ॥३५॥
गृत्समद उवाच ।
तदारभ्य शमी तस्य गणेशस्य प्रियाऽभवत् ।
इति ते सर्वमाख्यातं पुनश्च कथयामि ते ॥३६॥ (१५८८)
इति श्रीगणेशपुराणे क्रीडाखंडे बालचरिते शमीमन्दारप्रशंसानाम पच्चत्रिंशोऽऽध्यायः ॥३५॥