सामग्री पर जाएँ

दृष्टान्तकलिकाशतकम् (कुसुमदेवविरचितम्)

विकिस्रोतः तः
दृष्टान्तकलिकाशतकम्
कुसुमदेवः
१९३८

श्रीकुसुमदेवविरचितं दृष्टान्तकलिकाशतकम् । शिवस्मरणमेवैकं संसारान्तकनाशनम् । घनौघो घोरदावाग्निनिर्वापणपटुर्भवेत् ॥ १ ॥ काव्यमाला। साधुरेव प्रवीणः स्यात्सद्गुणामृतवर्णने । नवचूताङ्कुराखादकुशलः कोकिलः किल ॥२॥ दुर्जनो दूषयत्येव सतां गुणगणं क्षणात् । मलिनीकुरुते धूमः सर्वथा विमलाम्बरम् ॥ ३ ॥ यथा दोषो विभात्यस्य जनस्य न तथा गुणः । प्रायः कलङ्क एवेन्दोः प्रस्फुटो न प्रसन्नता ॥ ४॥ विवेक एव व्यसनं पुंसां क्षपयितुं क्षमः । अपहर्तुं समर्थोऽसौ रविरेव निशातमः ॥ ५॥ प्रायः सन्त्युपदेशार्हा धीमन्तो न जडाशयाः । तिलाः कुसुमसौगन्ध्यवाहिनो न यवाः कचित् ॥ ६ ॥ चिन्त्यते नय एवादावमन्दं समुपेप्सुभिः । विनम्य पूर्वं सिंहोऽपि हन्ति हस्तिनमोजसा ॥ ७ ॥ संस्थितस्य गुणोत्कर्षः प्रायः प्रस्फुरति स्फुटम् । दग्धस्यागरुखण्डस्य स्फारीभवति सौरभम् ॥ ८ ॥ मनखिहृदयं धत्ते रोषेणैव प्रसन्नताम् । भस्मना ज्वलदङ्गारः प्रसादं लभतेतराम् ॥ ९ ॥ उत्तमः क्लेशविक्षोभं क्षमः सोढुं नहीतरः । मणिरेव महाशाणधर्षणं न तु मृत्कणः ॥ १० ॥ खजातीयं विना वैरी न जय्यः स्यात्कदाचन । विना वज्रमणिं मुक्तामणिर्भेद्यः कथं भवेत् ॥ ११ ॥ सज्जना एव साधूनां प्रथयन्ति गुणोत्करम् । पुष्पाणां सौरमं प्रायस्तनुते दिक्षु मारुतः ॥ १२ ॥ उपकर्तुं यथा स्वल्पः समर्थो न तथा महान् । प्रायः कूपस्तृषां हन्ति सततं न तु वारिधिः ॥ १३ ॥ दृष्टान्तकलिकाशतकम् । सति शीले गुणा भान्ति पुंसां शौर्यादयो यथा । यौवने सदलंकाराः शोभां बिभ्रति सुभ्रुवः ॥ १४ ॥ जडः प्रभवति प्रायो दुःखं बिभ्रति साधवः । शीतांशावुदिते पद्म संकोचं याति वारिणि ।। १५ ॥ गुणेन स्पृहणीयः स्यान्न रूपेण युतो नरः । सौगन्ध्यहीनं नादेयं पुष्पं कान्तमपि क्श्चित् ।। १६ ॥ कश्चित्कस्यचिदेव स्यात्सुहृद्विश्रम्भभाजनम् । पद्म विकासयत्यर्कः संकोचयति कैरवम् ॥ १७ ॥ ईश्वराः पिशुनाञ्शश्वत्पुष्णन्तीति किमद्भुतम् । प्रायो निधय एवाहीन्द्विजिह्वान्दधतेतराम् ॥ १८ ॥ संपद्यास्ते परैः साकं विपदि स्वजनैर्जडः । जृम्भतेऽम्भोरुहं भृङ्गैः शुष्यत्युदकशैबलेः ॥ १९ ॥ नीचावमानमलिनां यो भुते संपदं पुमान् । लशुनाक्तां स कपूरचर्चा वितनुते तनौ ॥ २० ॥ व्यसनानन्तरं सौख्यं ह्यल्पमप्यधिकं भवेत् । काषायरसमाखाद्य स्वाद्वतीवाम्बु विद्यते ॥ २१ ॥ गुणानामन्तरं प्रायस्तज्ज्ञो जानाति नेतरः । मालतीमल्लिकामोद घ्राणं वेत्ति न लोचनम् ॥ २२ ॥ प्रभूतवयसः पुंसो धियः पाकः प्रवर्तते । जीर्णस्य चन्दनतरोरामोद उपजायते ॥ २३ ॥ कामाय स्पृह्यत्यात्मा संयतोऽ मनीपिणः । वीथीनियमितोऽप्युक्षा शष्पमासाद्य धावति ॥ २४ ॥ धनागमेऽधिकं पुंसां लोभमभ्येति मानसम् । निदाधकाले प्रालेयः प्रायः शैत्यं वहत्यलम् ॥ २५ ॥ सहजोऽपि गुणः पुंसां साधुवादेन वर्धते । कामं सुरसलेपेन कान्ति वहति काञ्चनम् ।। २६ ।। निन्दां यः कुरुते साधोस्तथा स्वं दूषयत्यसौ ! खे भूर्ति यः क्षिपेदुञ्चैर्मूर्ध्नि तस्यैव सा पतेत् ॥ २७ ॥ स्वभावं नैव मुञ्चन्ति सन्तः संसर्गतोऽसताम् । न त्यजन्ति रुतं मङ्क्षु काकसंपर्कतः पिकाः ।। २८ ! संपत्तौ कर्कशं चित्रं खलस्यापदि कोमलम् । शीतलं कठिनं प्रायस्तप्तं मृदु भवत्ययः ।। २२ । प्रायः प्रकुप्यतितरां प्रीत्यैव प्रखरो जनः । नयनं स्नेहसंपर्कात्कालुप्यं समुपैत्यलम् ॥ ३० ॥ शुभं बाप्यशुभं कर्म फलकालमयेक्षते । शरद्येव फलत्याशु शालिर्न सुरभौ क्वचित् ॥ ३१ ॥ भोगेच्छा नोपभोगेन भोगिनां जातु शाम्यति । लवणेनान्तरालेन तृष्णा प्रत्युपजायते ॥ ३२ ॥ दुर्लभोऽप्युत्तमः प्रायः स्वजातीयेन लभ्यते । कर्णकोटरगं वारि वारिणैवावकृप्यते ॥ ३३ ॥ जन्तोनिरुपभोगस्य दृश्यते भुवि रूक्षिता। वाताशिनो द्विजिह्रत्वं विहितं पश्य वेधसा ॥ ३४ ॥ ऊर्जितं सज्जनं दृष्ट्वा द्वेष्टि नीचः पुनः पुनः । कवलीकुरुते स्वस्थं विधुं दिवि विधुंतुदः ॥ ३५ ॥ न लभन्ते विनोद्योगं जन्तवः संपदां पदम् । सुराः क्षीरोदविक्षोभमनुभूयामृतं पपुः ।। ३६ ॥ संयतं कोमलं चित्तं साधोरापदि कर्कशम् । सुकुमारं मधौ पत्रं तरोः स्यात्कठिन शुचौ ॥ ३७ ।। ८१ दृष्टान्तकलिकाशतकम् । आकरः कारणं जन्तोर्दौजन्यस्य न जायते । कालकूटः सुधासिन्धोः प्राणिनां प्राणहारकः ।। ३८ ॥ गुणदोषाववाप्येते पुंसां संशीलनाद्बुधैः । लेभे पीयूषगरले मन्थनादम्बुधेः सुरैः ।। ३९ ।। स्वभावं न जहात्येव साधुरापद्गतोऽपि सन् ! कर्पूरं पावकस्पृष्टं सौरभं लभतेतराम् ॥ ४० ॥ न व्याप्तिरेषा गुणिनो गुणवाङ्जायते ध्रुवम् । चन्दनोऽनलसंदग्धो न भस्म सुरभि क्वचित् ॥ ४१ ।। अप्यापत्समयः साधोः प्रयाति श्लाघनीयताम् । विधोर्विधुंतुदास्कन्दविपत्कालोऽपि सुन्दरः ॥ ४२ ॥ विना परीक्षां नो तत्त्वं प्रसिद्धं जायते सतः । स्वधर्मबन्धान्नो शुद्धिर्जायते कर्षणं विना ॥ ४३ ।। प्राप्य वित्तं जडास्तूर्णं निर्वृतिं यान्ति नान्यथा । तोयमासाद्य गर्जन्ति न रिक्ताः स्तनयिलयः ॥ ४४ ॥ कार्यापेक्षो जनः प्रायः प्रीतिमाविष्करोत्यलम् । लोभार्थी शौण्डिकः शष्पैर्मेष पुष्णाति पेशलैः ॥ ४५ ॥ दुर्जनो जीयते युक्त्या निग्रहेण न धीमता । निपात्यते महावृक्षस्तत्समीपक्षितिक्षयात् ॥ ४६॥ सुखदुःखे समे स्यातां जन्तूनां क्लेशहेतुके । मूर्ध्नि स्थिताना केशानां भवेतां स्नेहछेदने ।। ४७ ॥ दुष्टदुर्जनदौरात्म्यैः सज्जने रज्यते जनः । आरुह्य पर्वतं पान्थः सानौ निर्वृतिमेत्यलम् ।। ४८ ॥ स्वभावसुन्दरं वस्तु न संस्कारमपेक्षते । मुक्तारत्नस्य शाणाश्मघर्षणं नोपयुज्यते ॥४९॥ ६ चतुर्दशगु० काव्यमाला । शोभते विदुषां मध्ये नैव निर्गुणमानसः । अन्तरे तमसां दीपः शोभते नार्कतेजसाम् ।। ५० ।। युक्त्या परोक्षं बाधेत विपक्षक्षपणक्षमः । शोषयत्यचिरेणैव प्रान्तरस्थमलं पयः ।। ५१ ।। दुर्गदेशं प्रविष्टो हि शूरोऽभ्येति पराभवम् । गाढपङ्कनिमग्नाङ्गो मातङ्गोऽप्यवसीदति ।। ५२ ।। नयेनाङ्कुरितं शौर्यं जयाय न तु केवलम् । अन्ययुक्तं विषं भुक्तं पथ्यं स्यादन्यथा मृतिः ॥ ५३ ।। मृदुभिर्बहुभिः शूरः पुंभिरेको न बाध्यते । कपोतपोतकैरेकः श्येनो जातु न बाध्यते ॥ ५४ ।। येनात्मा पण्यतां नीतः स एवान्विष्यते जनैः । हस्ती हेमसहस्रेण क्रीयते न मृगाधिपः ।। ५५ ।। गुणो गुणान्तरापेक्षी स्वरूपख्यातिहेतवे । स्वभावबाल्यं लावण्यं तारुण्येन मनोहरम् ॥ ५६ ॥ सुलभं वस्तु सर्वस्य न यात्यादरणीयताम् । स्वदारपरिहारेण परदारार्थिनो जनाः ॥ ५७ ।। विकृतं निजमात्मानं वस्त्रैः संस्कुरुते जडः । परेभ्यः स्वशरीरस्य के वा भूषां वितन्वते ॥ ५८ ॥ क्षणक्षयिणि सापाये भोगे रञ्जन्ति नोत्तमाः । संत्यज्याम्भोजकिञ्जल्कं न प्रार्थयति शैवलम् ॥ ५९ ॥ असंभवगुणस्तुत्या जायते खात्मनस्त्रपा । कर्णिकारं सुगन्धीति वदन्केनोपहस्यते ॥ ६०॥ धनाशया खलीकारः कस्य नाम न जायते । दूरादामिषलोभेन बध्यते खेचरः खगः ॥ ६१ ।। दृष्टान्तकलिकाशतकम् । तटस्थैः स्थापिताश्चेतो विशन्ति गुणिनां गुणाः । उत्कोचितानां पद्मानां गन्धो वायुभिराहृतः ।। ६२! निजाशयवदाभाति पुंसां चित्ते पराशयः । प्रतिमा मुखचन्द्राभे कृपाणे याति दीर्घताम् ॥ ६३॥ अधमं बाधते भूयो दुःखवेगो न तूत्तमम् । पादद्वयं ब्रजत्याशु शीतस्पर्शो न चक्षुषी ॥ ६४ ॥ गुणवान्सुचिरस्थायी न देवोऽप्यभिजायते। तिष्ठत्येकां निशां चन्द्रः श्रीमान्संपूर्णमण्डलः ।। ६५ ।। यत एवागतो दोषस्तत एव निवर्तते। अग्निदग्धस्य विस्फोटशान्तिः स्यादग्निना ध्रुवम् ॥ ६६॥ स्वधियो निश्चयो नास्ति यस्य संभ्रमते स्वयम् । प्रवातवालपत्रस्थः पटस्तत्र निदर्शनम् ॥ ६७ ॥ कथाप्रबन्धे वन्ध्येऽपि कश्चिदेवानुरञ्जते । प्रायश्वासादयत्यन्तः श्वसन्नि...सकैकसम्() ॥ ६८ ॥ बुद्धिमत्ताभिमानः को भवेत्प्रज्ञोपजीविनाम् । अन्यदीयैरलंकारैर्नाहंकारो विभूषणे ॥ ६९ ।। उत्तमोऽप्यधमस्य स्याद्याञ्चानम्रकरः क्वचित् । कौस्तुभादीनि रत्नानि ययाचे हरिरम्बुधिम् ॥ ७० ॥ प्रयत्ने समके केचिदेव स्युः फलभागिनः । क्षीरोदमथनाद्देवैरमृतं प्रापि नासुरैः ।। ७१ ॥ गुणैः T: पूजा भवेत्पुंसां नैकस्माज्जायते कुलात् । चूडारत्नं शशी शंभोर्यानमुच्चैःश्रवा हरेः ॥ ७२ ॥ भोगः परोपतापेन पुंसां दुःखाय न स्थिरः। पानमप्यसृजः क्षिप्रं स्वपीडायै जलौकसाम् ॥ ७३ ॥ काव्यमाला नोपभोगपरानर्थात्कोऽपि संचिनुते चिरम् । आखवः किमलंकारानात्मन्यादृत्य कुर्वते ।। ७४ 11 विवर्णवचनैर्मन्युगूढोऽप्यन्तः प्रकाशते । इन्धनान्तरसंस्थैश्च ज्वलत्यग्निः पयःकणैः ॥ ७५ !! निकटस्थं गरीयांसमपि लोको न मन्यते ।। पवित्रामपि यन्मर्त्या न नमस्यन्ति जाह्ववीम् ।। ७६ ॥ स्वजनः स्वात्मवज्जन्तुर्ज्ञायते गुणवान्परैः । गोपैर्योपवदज्ञायि हरिर्देवैर्जगत्पतिः ।। ७७ !! उत्तमस्तोषमायाति तदङ्गः पोष्यते यदि । वृक्षः प्रसीदति प्रायः पादाभ्यङ्गेन न स्वयम् ॥ ७८ ॥ सर्वत्र गुणवानेव चकास्ति प्रथिते नरे । मणिमूर्ध्नि गले बाहौ पादपीठेऽपि शोभते ॥ ७९ ॥ उत्तमं सुचिरं नैव विपदोऽपि भवन्त्यलम् । राहुग्रसनसंभूतक्षणो 'विच्छादयेद्विधुम् ।। ८० ।। प्रायः स्वभावं मुञ्चन्ति सन्तः संसर्गतोऽसताम् । चण्डाश्चण्डातपात्पादा हिमांशोरमृतसृजः ॥ ८१ ॥ तुल्यं परोपतापित्वं क्रुद्धयोः साधुनीचयोः । न दाहे ज्वलतोर्भेदश्चन्दनेन्धनयोः क्वचित् ।। ८२ ।। न भाति वाञ्छा वैजात्ये न देवा भान्ति वादिनि । अञ्जनं दूषणं वक्त्रे भूषणं किल लोचने ॥ ८३ ॥ दुर्भगः स्वात्प्रकृत्या यो विभूत्यापि स तादृशः । गोमयः श्रीनिवासोऽस्ति न तथापि मनोहरम् ॥ ८४ ।। गुणानर्चन्ति जन्तूनां न जाति केवलां क्वचित् । स्फाटिकं भाजनं भग्नं काकिण्यापि न गृह्यते ।। ८५ । दृष्टान्तकलिकाशतकम् । आगच्छदुत्सवो भाति यथैव न तथा गतः । हिमांशोरुदयः सायं चकास्ति न तथोषसि ॥ ८६ ॥ मनस्विनो न मान्यन्ते परतः प्राप्य जीवनम् । बलिमुग्भ्यो न काकेभ्यः स्पृहयन्ति हि कोकिलाः ।। ८७ ।। संतोषक्षतये पुंसामाकस्मिकधनागमः । सरसा सेतुभेदाय वर्षोंधः सूचनस्थितः ॥ ८८॥ जीयते भूगतोऽप्यात्मा कालेनात्मापि स्वर्गतः । भवेत्स्मशानमुद्यानमुद्यानं च स्मशानभम् ॥ ८९ ॥ उच्चशेखरगं वस्तु शुभं स्यात्सुखकारणम् । उपशामयते बाधं यथैवामृतसंस्कृतम् ॥ ९० ॥ संतुष्यत्युत्तमः स्तुत्या धनेन महताधमः । प्रसीदन्ति जपैर्देवा बलिभिर्भूतविग्रहाः ॥ ९१ ।। स्वजातीयविधाताय माहात्म्यं दृश्यते नृणाम् । श्येनो विहङ्गमानेव हिनस्ति न भुजङ्गमान् ॥ ९२ ।। गुरुं प्रयोजनोदेशादर्चयन्ति न भक्तितः । दुग्धदात्रीति गौर्गेहे पोष्यते न तु धर्मतः ॥ ९३ ॥ महतां तादृशं तेजो यत्र शाम्यन्त्यनौजसः । अस्तं यान्ति प्रकाशेन तारका हि विवस्वतः ।। ९४ ॥ दाता दानस्यान्तरा स्यात्पृथिव्यां गेहे गेहे याचकानां समूहाः । चिन्तारत्नस्यास्ति सत्त्वे विवादो मार्गे मार्गे रेणवः सन्त्यसंख्याः ॥१५॥ चारुता अपवशेन पदार्थे धैर्येण तदनु वादिगुणत्वात(?) । वेणुगो भवति मञ्जुरसौ.""यन्त्रगो हि सुखदः कृतशब्दः(१) ॥९६|| नराः संस्कारार्हा जगति किल केचित्सुकृतिनः समानायां जात्यामपि वयसि सत्यां परिधयः काव्यमाला। अयं दृष्टान्तोऽत्र स्फुटकरणतोऽप्यभ्यसनतः शुकः श्लोकान्वक्तुं प्रभवति न काकः क्वचिदपि ॥ ९७ ।। धनमपि परदत्तं दुःखमौचित्यमाजां भवति हृदि तदेवानन्दकारीतरेषाम् । मलयजरसबिन्दुर्वर्धते न प्रसन्नं नयति च रसवाहादेवमत्यन्तमत्र !! ९८ ॥ कालक्रमेण परिणामवशादनव्या भावा भवन्ति खलु पूर्वमतीव तुच्छाः । मुक्तामणिर्जलदतोयकणोऽप्यणीया- न्संपद्यते च चिरकीचकरन्ध्रमध्ये ॥ ९९ ॥ इयं कुसुमदेवेन कविनैकेन निर्मिता । दृष्टान्तकलिका नाम जृम्भतां कविमानसे ॥ १०० ॥ इति श्रीकुसुमदेवविरचितं दृष्टान्तकलिकाशतकं समाप्तम् ।