सामग्री पर जाएँ

आनन्दमन्दिरस्तोत्रम् (लल्लदीक्षितविरचितम्)

विकिस्रोतः तः
आनन्दमन्दिरस्तोत्रम्
लल्लदीक्षितः
१९३८

श्रीकवीन्द्रबहादुरश्रीलल्लादीक्षितविरचितम् आनन्दमन्दिरस्तोत्रम् । वृन्दारकाक्लिकिरीटमणिप्रकाश- नीराजिञ्जिङ्घ्रियुगला कमलायताक्षी । शोणाम्वरावृततनुंर्निजभव्यभूमिः श्रीसंकटाद्य विकटावतु संकटान्नः ॥ १ ॥ संदर्शनामतलसल्ललनाजनाली- पूजासमाजनविभासितभव्यमूर्तिः । तत्पादपद्मवसनां विदुषां नताना श्रीसंकट्य भगवती भविकाय भूयात् ।। २ ।। १. अथ श्रीललाद शिल: १८५९ वैक्रमे (१८०२ शिखान्दे) स्तोत्रम रचितवानिति चरमसम्माते. २.अस्य च स्तोत्रस्यैकमेवेकादश बाल्माकं सुखकाल. आनन्दमन्दिरस्तोत्रम् । त्वत्पादपद्मविनतस्य न तस्य कस्य । संकष्टसंतपनमस्तमियात्समस्तम् । पूर्णेन्दुसुन्दरतराञ्चितचन्द्रिकायां कां यान्ति हन्त गतिमाशुन न वा तमांसि ॥ ३ ॥ देवि त्वदीयपदपङ्कजसेवकानां का नाम संभवभवोद्भटत्तापभी: स्यात् । किं चात्र चित्रमधिकं सरति स्मृतेऽपि तापस्तु तद्ध्वदि यदां नितरां विलग्नम् ॥ ४ ॥ देवि त्वदीयवरकार्यविधानरिक्तः सिक्तः स किं न सुधया सस्वद्रिशा भवत्या । बालेऽपि मय्यविनयेऽपि नवेऽपि मातः किं ते पुनः समुचिता न दयार्द्र्दृष्टिः ॥ ५ ॥ त्वद्भक्तिभावविभवेऽप्यभवं न भव्यः श्रीभूतभूपभविकाद्भुत्भागग्धेये । बालोऽपि बालश्विषणोऽपि च बालिशोऽपि नो संकटेऽद्य विकटे किमयं दयार्हः ॥ ६ ॥ त्वच्छक्तिरेव कवने मनने मतीनां स्त्रीणां घने, निधुवनेऽप्यवने वनेऽपि । सैवासि मां किल विलोकय दीनदीनं हीनं धियेन्दुसदृशा स्वद्रिशा चकोरम् ॥ ७ ॥ प्रातर्नटन्नलिनकान्तिनवामनानां पूजासभाजिततनूततिर मङ्गलानाम् । शोणाम्बरा सुरपतेर्दिशिव प्रकामं कामं, तनोतु निभृतं मम संकटा सा ॥ ८॥ ६ नानावतारचरितैर्भुवि भक्तकार्य धुर्य मुदा कृतवती भवती भवानी मां बालकं निजनवस्नुषया विधाय मातर्वियोगिनमिदं तब किं नु योग्यम् ॥ श्रीसंकटे भगवति स्फुटसंकटान्नः त्वं पाहि पाहि परिपाहि भवानि पाहि। वन्द्यैः कवीन्द्रतिलकैः किल कीत्यते ते रात्रिंदिवं यदिह नामं तु संकटघ्नी।। १० ॥ बद्धाञ्जलिस्त्वदुपकण्ठमकुन्ठकण्ठ- मुत्कण्ठितस्तु कथयामि महाप्रमादी । बालस्तवैव च वधूश्च जनी तवैव सङ्गेन ते कथमये हृदयं दयार्द्रम् !॥ ११ ॥ लोकेऽपि चेन्नु तनयस्तनुते प्रमादा- द्यद्यन्यथा विरहिणं स्नुपया न माता । त्वं तत्कथं वितनुषे स्नुषया वियोगं योगं च मामतिदये कथयात्र मातः ।। १२ । ते संकटेऽद्य विकटे निकटे भवानि बालारतवैव विलसन्ति तवेैव वश्वः ! ताँल्लालयस्यथ न मां किमहं दृशोस्ते रम्यः पुरः समभवं न भवन्महागाः ॥ १३ ॥ नित्यास्यथो विभुरसीश्वरभागधेये चञ्चच्चराचरचरित्रविचित्रभित्तिः । तस्मान्ममापि हृदये सदये स्थितासि मातर्मयीह कुपितासि रयात्क्क यामि ॥ १४ ॥ आनन्दमन्दिरस्तोत्रम् । दीनान्सदा दितिसुतान्सितदन्ति हन्त हन्तुं मुदादितिसुताः प्रभवन्ति शक्ताः । शुम्भादिकेष्वतियलेषु विजृम्भितेषु कोऽन्यो विनात्र भवतीं प्रभवेच्छरण्यः ॥ १५ ॥ भूपेषु भूतिविभवं भवभागधेये त्वं बिभ्रती भविकमद्भुतमात्नोषि । दीनेषु हीनसदृशेषु च माद्दशेषु स्निग्धां सुधांशुसदृशं न दृशं तनोषि ।। १६ ।। इन्दिन्दिरप्रचलसुन्दरवृन्दनन्द- दिन्दीवरालिसदृशा स्वद्रिशाध्यमन्दम् । त्वं मां विलोकय पुरंदरवन्दनीये कोऽन्यः प्रनन्दयति चन्द्रमृते चकोरम्॥ १७ ॥ उत्तुङ्गरिङ्गदुरुगाङ्गतरङ्गंसङ्ग- भङ्गीविभासिततनुः सदनङ्गदस्त्री । काशीविलासवलिता हरतां मदन्तः- संतापसंततिमियं नितरां समन्तात् ॥ १८ ॥ कान्ताजनार्पितहिरण्यजकुम्भधारा- साराभिषेकिततनुर्वितनुद्विपः स्त्री। कर्पूरपूरसरदर्चिसमर्चिताङ्गी भङ्गीकरोतु मदभव्यभरं भवानी ।।.१९॥ वृन्दारकेन्द्रकरचञ्चलचामराली- चञ्चच्चलञ्चिकुरचारुचरित्रचित्रा। लोकेशकेशवलसच्छयचन्द्रवृन्द- नीराजिता नगसुता महितां मुंदे स्यात् ॥ २० ॥ वृन्दारकालिमुकुटालिमिलामसार- माणिक्यमञ्जुमधुपाञ्चितपादपद्मा । पद्मालया कराचामरवीज्यभाना मानाय मे भवतु सा गिरिजासभाना ॥२१॥ नायाति ते हृदि दया सदयेऽपि भात- रद्यापि मे मनसि सत्कुतुकं चकास्ति । आलोक्य रोदनपरं तनयं न कस्याः स्वान्ते समुल्लसति सान्द्रदया नु मातुः ॥ २२ ॥ मातर्भवानि शुभवाणि भवानि नम्रः कत्रस्त्वदङ्घ्रिनलिनाञ्चिततचञ्चरीकः । चञ्चच्चराचरविचित्रचरित्रचारु- चूडेव लोकयसि मां न विलोलदृग्भिः ॥ २३ ॥ आलोक्य रोदनपरं तनयं नवं स्वं का वा भवेन्न जननी जनिताङ्कपालिः । दृष्ट्वापि मामपि रुदन्तमनन्तमन्तः- कान्तकृपापि न कथं समुदेति मातः ॥ २४ }} सिद्धेश्वरि त्रिभुवनेश्वरि सिद्धसंघ- संपूज्यपादकमले कमलायताक्षि । अन्वर्थतां कृतवती भक्ती भवानी सर्वेषु ते मयि कुलो व्यभिचारचारः ॥ २५ ॥ अद्धा स्मृतं यदिह सिद्धसुधीन्द्रसंधैः सिद्धिं दधाति बहुधा बहुधाम धाम । गन्धर्वधुर्यविबुधोदुरसाधु सिद्धिं सिद्धेश्वरी पदयुगं ध्रुवसादयातु ॥ २६ ॥ आनन्दमन्दिरस्तोत्रम् । वन्दारुवन्द्यसुरवृन्दकिरीटकोटि- श्रीमन्मसारमणि मञ्जुलमिलन्मिलिन्दम् । सान्द्राङ्गुलीचलदलं नगनन्दिनी श्री- यादारविन्दमिह नन्दयतादमन्दम् ॥ २७ ॥ आनन्दसुन्दर पुरंदर बिन्दुवृन्द- संदेह दोलितसुवर्णनवर्णनीयम् । मन्दान्प्रनन्दयतु बालमृणालवाह्य- त्किंजल्कपुञ्जजनिमञ्जुलमञ्जुकुञ्जम् ॥ २८ ॥ शाणावलीढितमनोहरहीरकामा- सद्भासुरं गिरिभुवो विभवौधभव्यम् । सद्भानुभानुनिकरद्युतिदामवामं कामं करोतु निभृतं मम जानुयुग्मम् ॥ २९ ॥ संतापसंततिनिरन्तरतान्तिशान्ति- कान्तं प्रकामकदलीकुलकोमलं च। श्रीकण्ठकेलिकलनाभवनं भवान्या जङ्घायुगं जरयतु ज्वरमुज्वलं मे॥२०॥ यस्य प्रकाममहिमानममन्दमान- मालोक्य काञ्चनगिरिर्जडलामयासीत् । शैलावलीन्द्रजनुषो निभृतं नितम्ब- भारः स में भवतु भव्यतराय भूषः ॥ ३१ ॥ योऽभून्महामतिमतां सदसद्वृकल्प- कल्पः प्रकामरसनाबलनाभिरामः । श्रीकण्ठमुष्टिधरपोकविलासशाली भव्याय मे भवतु भूधरभूवक्षः ॥ ३२ ॥ यस्मिन्सुवर्णविलसद्रवमञ्जुलामे वेणीसुमेषु जयमन्त्रलिपिर्विभाति । गाङ्गेयगौरतरकेतककान्तिकान्तः कष्टादिरीन्द्रजनुषोऽवतु पृष्ठभागः ।। ३३!! अद्धा धराधरधुरंधरधोरणीन्द्र- सज्जन्मनो निजजनोज्जवलभाग्यभाजः । रम्भानवोदितदल द्वयसुन्दराभं पार्श्वद्वयं दलयतान्मम दीर्घदुःखम् ।। ३ ।। अङ्गाङ्गसङ्गिसुषमाच्छतरङ्गिणीज- रिङ्गत्तरङ्गविभवद्भमिभावभूता । भूताधिपस्य सुदृशो निभृतं गभीर- नाभीनिभा भवतु मे भविकाय भूयः ॥ ३५ ॥ लावण्यपूर्णजलनाभि सुवापिकोद्य-- च्छैवालबालशुभमञ्जरिकेव मञ्जुः । सत्कञ्जगुञ्जदलिमञ्जुललोचनाया लोमावली कलयतान्कुशलं शिवाया: ।। ३६ ।। जेतुं शिवं स्तननगेषु तपस्यतो या निःश्रेणिकेव मदनस्य विभाति हैमी । सोपानपपङ्क्तिरिव नामिसरोवरस्य शैलेोद्भवो वलयतात्रियलीविलासम् वीक्ष्य प्रकामसुषमामसमां यथोः श्री- वक्षोजयोर्हिमगिरीन्द्रजनेर्जनन्याः । धूलि गजा दधति कुम्भयुगेऽतिदीना हीणा मनागपि तमोहरतां तमान्तौ ॥ ३८॥ आनन्दमन्दिरस्तोत्रम् । हेमप्रभौ विमलबालमृणालनाल- लीलाहरौ सुरुचिरौ गिरिराजजन्याः । सत्कान्तिकान्तमणिकङ्कणपृश्निपूर्णौ पाणी शिरीषमृदुलौ तनुतां मुदं नः ॥ ३९ ॥ श्रीकण्ठकण्ठपटलप्रकटां कपाली- शालीनतोद्गमवती गिरिराजपुत्र्याः । लीलातता भुजलता तनुतां विलासं लेखेव काञ्चनभवा निकषोपलस्था॥४०॥ स्वर्णाभवर्णशुभशङ्खवरेण्यशोभो लोभोल्लसद्गिरिशबाहुविलासशाली। लेखात्रयेण ललितः शिखरीन्द्रपुत्र्याः कण्ठः स कुण्ठयतु तापमकुण्ठनादः ॥ ११ ॥ रम्भानवोदितलसद्दलमध्यसुप्त- व्यालीव मञ्जुलविलासकला शिवायाः । सद्यक्षकर्दमविमर्दमनोभिरामा वेणी सुवर्णसुषमा महिता मुदे स्यात् ।। ४२ ॥ यत्साम्यमाप्तुमतुलं सुतपस्तपन्ति सन्मानसे सरसिजानि नतानि तानि । ऐन्द्री दिगङ्गणविजृम्भितमानुभानु- भास्वद्भवानि वदनं सदनं मुदां नः ॥ ४३ ।। व्योमाङ्गणभ्रमणविभ्रमसंभृताङ्गः प्राप्यापि पर्वणि शशी स यदीयसाम्यम् । पश्यन्यदीयसुषमाभसमां क्षिणोति तत्स्याद्भवानि वदनं सदनं मुदां नः ॥ ४४॥

काव्यमाला। खेदाम्बुसंकुलविलोलकपोलपालि शालिभ्रमद्भ्रमरकालि विलासवल्गत् । तुन्देन्दुबिम्बगतलम्बि भुजंगमञ्जु तत्स्याद्भवानि वदनं सदनं मुदां नः ॥ ४५ ॥ सत्कर्णभूषणसुवर्णमिलन्मसार- माणिक्यममञ्जुलमयूखविभाभिरामम् । स्वर्णाद्रिकीर्णमनि पृश्निवरेण्यवर्ण तत्स्याद्भबानि वदनं सदनं मुदां नः ॥ ४६॥ नासासु मौक्तिकमयूखसमूहसान्द्रं निस्तन्द्रचन्द्रकलितं वसुमेरुशृङ्गम् । कस्तूरिकाङ्कितमिव स्फुरदिन्दुबिम्बं तत्स्याद्भवानि वदनं सदनं मुदा नः ।। ४७ ।। पञ्चेषु पञ्चविशिखेषु विभावभूता लीलालसत्तिलसुमाच्छरमाभिरामा । मुक्तावलीवलितमञ्जुलमण्डना सा नासा विनाशयतु तापमगेन्द्रजायाः ॥१८॥ वैधेयधुर्यधिषणा निगदन्तिसाम्यं सद्वजीवकुसुमे न हि यस्य तस्य । तत्स्यात्सुधारसभरं यदि सोऽपि तुल्यः कल्याणमाकलयतादधरः शिवायाः ॥ १९॥ सद्विद्रुमद्रुमदलद्रवदामवामा निस्तन्द्रचन्द्रकरसान्द्ररमाभिरामाः । चज्नव्रजोज्ज्वलतलाः शशिमौलिकान्ता दन्तांशवो विदलयन्तु ममाद्य दुःखम् ॥ ५० ॥ आनन्दमन्दिरस्तोत्रम् । विद्यां चतुर्दशतयीं चतुरां चतस्र- श्चञ्चद्विचित्रनिगमान्रुचिरान्दधाना । कल्पद्रुमोदितलसहद्दलमञ्जुला सा लास्सं गिरां कलयताद्र्सना शिवायाः ॥ ५१ ।। भास्वद्विभाकरविभाभरभासुराभं भीमामुखं समभवद्भवमाप्रभावैः । भ्राजत्तदाशु तदलोकि भवेन दत्ता- अङ्गुष्ठ तदङ्कि चिबुकं तनुताच्छिवं नः ॥ ५२ ।। सत्कर्णभूषणमणिप्रविकीर्णवर्ण- श्रेणीसुवर्णकिरणालिवरेण्यवर्णा । श्रीमन्मधूकसुषमा गरिमाभिरामा कालीकपोलपटली तनुताच्छिवं नः ।। ५३ ।। कञ्जस्फुरञ्चपलखञ्जनयुग्ममञ्जु गुञ्जन्मिलेन्दमिलदं रुजमञ्जुलं यत् । श्रीमन्मसारमणिकान्तिनितान्तकान्तं काली सदीक्षणयुगं तनुताच्छिवं नः ॥५४॥ जानीमहे मदनदाहविधौ धनुर्य- तद्धसाशेषमभवत्तदिदं किमत्र । दुर्गाभ्रुवोर्जनिमुपेत्य जगज्जयाय जागर्ति तद्भुकुटियुग्ममिदं मुदे स्मात ॥ ५५ ॥ राहोर्भयादिव धृतार्धतनुः सितांशुः शीतांशुशेखररमालिकतामयासीत् । तत्रापि यन्मृगमदच्छलतो विभालि सोऽङ्कः शिवा तदलिकं तनुताध्छिवं नः ॥ १६ ॥ 12 काव्यमाला सत्कुण्डलप्रचलमण्डलमण्डितांशु- प्रोद्दण्डखण्डशुभताण्डवमण्डिगण्डौ । वर्ण्यौ सुवर्णगणकीर्णवरेण्यवर्णौ कर्णौ गिरीन्द्रजनुषस्तनुतां मुदं नः ॥ ५७ ॥ सिन्दूरपूरपरिपूरितमध्यभागा श्रीमन्मसारधरणी वसुपद्मरागा। सद्भानुभानुनिभृता तिमिरच्छटेव सीमन्तसंततिरगेन्द्रजनेर्मुदे स्यात् ।। ५८ ।। नानाच्छरत्ननिकरद्युतिदाम वामं श्रीहीरकालिसुषमागरिमाभिरामम् । मुक्तावलीवलितमैन्द्रधनुः प्रकामं कामं गिरींद्रजनुषः कुरुतात्किरीटम् ॥ ५९ ॥ वर्ण्याङ्गवर्णवरवर्णनवर्ण्यमाना नानाकवीन्द्रकविताकुललाल्यमाना । नन्दन्निलिम्पललनाततिवन्द्यमाना मानाय में भवतु शैलसुता समाना ।। ६० ।। यस्य प्रभाववशतः कवयामि यामि यद्यत्करोमि कलयामि भजामि नौमि । त्वच्छत्यनावृतमनाश्वलितुं न शक्तः शोण महामहिमशालिमहो नमामि ॥ ६१ ॥ वन्दे सुरासुरकिरीटमणिप्रदीप नीराजिताङ्घ्रिकमलां हिमशैलबालाम् । लक्ष्मीवचो भगवतीकरके किपुच्छ- स्वच्छोच्छलचटुलचामरवीज्यमानाम् ॥ ६२ ॥ आनन्दमन्दिरस्तोत्रम् । कुन्देन्दुसुन्दरमुखी करवृन्दसान्द्र- निस्त-द्र्चन्द्रचयचन्दनचर्चिताङ्गीम् । स्वच्छन्दनन्दनवनीसुममञ्जुमाला- मन्देन्दिरामिह नुमो नगनन्दिनीं ताम् ।। ६३ ।। ये नाम नाम निगदन्ति नगेन्द्रकन्ये मन्ये भवन्ति भुवनेषु भवानि धन्याः । नन्दत्कवीन्द्रविताकलनैरमन्द- भानन्दयामि भवतीं न कुतः कृपार्हः ॥ ६४ ॥ शोणाम्बरारुणमणिप्रविकीर्णवर्ण- श्रेणीवितीर्णकिरणा शरणाशरण्या । वीणागुणानणुगणकणपाणिपूर्णा- पर्णा सुवर्णकरणा शरणाय मे स्यात् ।। ६५॥ पीयूषपूरपरिपूरितहेमकुम्भ- धाराभिषेकसुषमागरिमाभिरामा । रामा शिरोमहितमण्डनदीप्तिवामा- कामारिवामवदनास्तु वितीर्णकामा ।। ६६ ।। ऐन्द्री दिगङ्गणविजृम्भितमण्डितांशु- मार्तण्डमण्डलमयूखरमाभिरामा । स्थादृद्धिसिद्धिकरचश्चलचामरौधै- रान्दोलिता नगसुता महिता मुदे नः ॥ १७ ॥ वातालिलोललहरीकुललाल्यमान- जम्बालजालविलसन्नलिनाच्छनेत्राम् । चित्राम्बरां जनविचित्रचारित्रचित्रां वन्दे पवित्रचरितां गुरुगोत्रपुत्रीम् ।। ६८ 3 केकिप्रकामकलकण्ठविकुण्ठकण्ठां ...................... । श्रीहाटकाङ्कघटितां तरतुङ्गतुङ्ग- शृङ्गस्थितां नगसुतां महितां नमामि ॥ ६९ ॥ बालाकुलाकलितचञ्चलचामराली- वातोर्मिदोलनचला चलवालबाला । लीलाकुलाललितबालमृगाङ्कमौलि- बालामला कलयताद्विपुलं विलासम् ॥ ७० ॥ भालाङ्कुशाभयवरासिसुशक्तिमुद्रा- पाशानकार्मुकमनोरमबाहुमालाम् । मालाकिताच्छचरणां शरणान्तराय च्छेदान्विता नगसुतां कलये विशालाम् ।। ७१ । क्षुभ्यद्विपक्षवरपक्षसुकक्षलक्ष- सद्धक्षणक्षणविलक्षणदक्षकक्षा। पक्षाश्रितस्वजनरक्षणदक्षिणा सा दाक्षायणी क्षपयतान्मदपक्षपक्षम् ॥ ७२ ।। झंझंझझंझझझझं कृतिम गुप्त- न्मञ्जीरपुलसिञ्जितमञ्जुलामिः । थंथंथथंथथथथं थथथथ्यमित्थं सत्ताललालनकलाकलनाकुलाभिः ।। ७३ ।। तंतुंतुणुंतुणुतुणूमिति नादवर्ण्य- वीणागुणानुरणनान्बितसद्मुजाभिः । रम्भादिभी रचितताण्डवमण्डिसाच्छो- द्दण्डारणासुखगणाय ममास्त्वपर्णा ।। ७४ ।। १७ आनन्दमन्दिरस्तोत्रम् । कादम्बिनीचपलमण्डलमण्डिताभा-- मैन्द्रीदिगङ्गणमणिद्युममणिप्रभाभाम् । तुन्देन्दुसुन्दरकरोत्करभासुराभां संभावयामि भबिकाय शुभां भवानीम् ।। ७५ ।। मुक्ताच्छगुच्छविषदच्छविहारतारा- गौरांशुकांशुनिचयाञ्चितचन्द्रिकारात् । सद्वक्रचन्द्रसुषमा शशिमौलिवामा राकैव सा तिरयतान्मम तीव्रतापम् ॥ ७६ ।। केशालिशैवलचया सुषमाम्बुपीना मीनाच्छमञ्जुनयना स्तनचक्रवाका । अम्भोजभव्यवदना सरसामला मे दूरीकरोत्वगसुंता सरसी सुतापम् ।। ७७ !! तुङ्गाङ्गभङ्गिनि मतङ्गवरे निषण्णा शोणाम्बरा रचितकुङ्कुमपङ्करागा । संध्येव नीलजलदोपरि राजमाना मानाय मे भवतु शैलसुतासमाना ॥ ७८ ॥ रिङ्गतुरङ्गगतिभङ्गितरङ्गिताङ्गी पार्श्वस्थितप्रथमचामरवीज्यमाना। बन्दीन्द्रबृन्दजयनादनिभाभिरामा रामा हरस्य वितनोतु तनोर्मुदं नः ।। ७९ ॥ श्रीमत्सुवर्णशिबिकोपरि राजमाना नाकस्थपाणिचटुचामरवीज्यमाना । मातङ्गदुन्दुभिधुधुंकृतिवन्धुरश्री: सश्रीकमाकलयतादिह मां मृडानी ।। ८० !! २ चतुर्दशगु० $ काव्यमाला । माद्यन्मृगेन्द्रमहिता स न राजमाने रम्यामरीमुकुटसन्मणिनन्द्यमाने । नन्दत्कवीन्द्रकविताभरभासमाने श्रीविन्ध्यवासिनि कुरुष्व शिवं समाने ।। ८१ ॥ देवि प्रतापतपने तपति त्वदीये व्यर्थ व्यधायि रविरेष विदग्धधात्रा। मत्वेत्यहो नवनवं प्रतिमासमर्कं कुर्वन्ननेन विजिते मनुते शठं स्वम् ॥ ८२ ।। मातुः सुधांशुधवला तव कीर्तिहंसी याता सरीरुहजनेः सदने समाना । तेनापि मूर्ध्नि विधृता धनमानदानं तच्चित्रचित्रमधिकं हृदि भासते नः ।। ८३ ॥ दैत्येन्द्रवृन्ददलनं निजदक्षरक्षा- पक्षाश्रितं किल विलक्षणकान्तिकान्तम् । शैलावलीन्द्रजनुषः शरणानुकूलं शूलं मम क्षपयतात्कलुषद्रुमूलम् ॥ ८४ ।। कल्पान्तकोपिशिवकायकषायकान्ति- श्चण्डांशुचण्डकरमण्डलतीक्ष्णधारः । कात्यायनीकरकुटीरसरीसृपेन्द्रः कौक्षेयकः क्षपतान्मदपक्षलक्षम् ।। ८५ ॥ शत्रूच्चमात्रगुरुगोत्रविचित्रगोत्र- चित्रासनैकचतुरा रुचिरा च पर्वा । शर्वाम्बुजातनयना करसंनिविष्टान् कष्टान्गदा दलयतान्मम संनिकृष्टान् ॥ ८६॥ आनन्दमन्दिरस्तोत्रम् । टांकारतारनिनदेन पलायिताभू- दैत्येन्द्रवृन्दपृतना दलनापि यस्य । चण्डांशुचण्डकिरणोत्कटकाण्डखण्डं कोदण्डमाक्षपयतादघमण्डलं मे ॥ ८७ ॥ श्रीमत्सुवर्णघटितोद्भटसौधमुग्ध- वातायनागतमरुञ्चयलोलचोलाम् । तुङ्गामरैर्मृदुमृदङ्गनिनादभङ्गि- नीराजितां नगसुतां महितां नमामि ॥ ८८ ।। पीयूषपूरपरिपूरितसत्तडाग- कल्लोललोलकमलोल्लसितामुदाराम् । हारावलीवृततनुं शुभशारदेन्दु- गौरां परां सुरुचिरां प्रणमामि ताराम् ॥ ८९ ।। सौवर्णसौधवलभीगृहराजमानां नानामरीविधृतचामरवीज्यमानाम् । कर्पूरपूरपरिपूरितपात्रवर्ति- नीराजितां नगमुतां महितां नमामि ।। ९० । स्वर्णाद्रिरम्यशिखरोपरिसंस्थितां तां नम्रामरीमुकुटसन्मणिकान्तिकान्ताम् । मन्दारदामकलितां ललितां नितान्तं कान्तां शिवस्य मुदितां महितां नमामि ॥ ९१ ।। कल्पद्रुमोल्लसितमूलविराजमाना तत्स्यन्दमानमकरन्दकदम्बसान्द्रा । निर्यत्य रागचयपिञ्जरिताङ्गभङ्गी भङ्गीकरोतु कलुषं नगनन्दिनी सा॥ ९२ ।। काव्यमाला। कैलासशैलशिखरोपरिशातकुम्भ- सिंहासनस्थितिमती चलचामरालीन् । लोकेशकेशवशिवप्रणुतामशेष- लोकालिमूललतिकां प्रकृतिं नमामि ॥ १३ ॥ यन्मायया वृतमिदं भुवनं विभाति न स्यन्दितुं किमपि नावृतमेव शक्तम् । लोकेशकेशवशिवाः प्रभवः स्फुरन्ति यन्माययैव किल तां प्रणमामि मायाम् ॥ ९४ ।। विश्वं स विष्णुरखिलं जनयत्यमन्द- मानन्दयत्यखिलमम्बुजभूः स मोदात् ।। अन्ते हरः स किल संहरतेऽखिलं त- द्यन्माययापरिमितां प्रकृति नुमस्ताम् ॥ ९५ ।। सर्वं चराचरमिदं भुवनं विभुर्या व्याप्य स्थितासि ललिता महितामिता त्वम् । वाचामगोचरतमा विषयः कथं स्या- स्तन्मे गिरां चपलतां जननि क्षमस्व ।। ९६ ॥ या मायया जगदिदं प्रकृतिर्ह्यशेष- मुत्पाद्य पालयति संक्षिपति प्रकामम् । सा मे कथं नु वचसामिह गोचरा स्या- न्मातः क्षमस्व चपलत्वमिदं शिशोर्मे ॥ ९७ ॥ ब्रह्माण्डखण्डभवनानि लसन्ति यस्यां तोयेषु बुहृदकुलानिव चञ्चलानि । सा मे कथं नु वचसां विषयः पराः स्या- स्तन्मे क्षमस्व गदितं तनयस्य मातः ॥ ९८ ।। आनन्दमन्दिरस्तोत्रम् । यजृम्भते यदिह भाति विभाति रामं तत्तत्परीतमिह भाति तवैव शक्त्या । तस्मान्मृडानि रचिता वचनस्त्वदीयै- र्मातस्तव स्तुतिरियं कृपया गृहाण ॥ ९९ ॥ अद्धा व्यधायि बहुधा बिगताधिबाधा राधा त्वया कुतुकिता न च धारणा मे। किं ते कुतूहलमभूत्यकटादकोप- शुम्भादिदम्भदलने सुररक्षणे च ॥ १००। आनन्दमन्दिरमिदं स्तवनं मृडान्या मोदात्कृतं किल कवीन्द्रबहादुरेण । भक्त्या पठेत्प्रतिदिनं सुकृती मुदा यः सायुज्यमद्विजनुषः शुभमामुयात्सः ।। १०१ ।। आनन्दमन्दिरमिदं स्तवनं भवान्याः स्वानन्दतोऽरचि कवीन्द्रबहादुरेण ! लल्लाख्यदीक्षितवरेण सुधीश्वरेण बान्धोकरेण चतुरेण मनोहरेण ॥ १०२। अङ्कपञ्चाष्टचन्द्रेऽव्दे मास्याषाढे कुजे तथा । षष्ठीदिने शुक्लपक्षे कवीन्द्रेण कृता नुतिः ॥ १०३ ॥ इति श्रीचिरंतनमोर्वणीकरोपनामकियत्कालाकलितवान्धोकरोपनामकाशी. स्थमहाराष्ट्रभारद्वाजगोत्रपण्डितेन्द्रकवीन्द्रश्रीमच्छीशंकरदीक्षितपौत्रपवित्र विचित्रचरित्रचित्रितश्नीमच्छ्रीलक्ष्मणदीक्षितपुत्रधीकीन्द्रबहादुर- लल्लादीक्षितविरचितमानन्दमन्दिरस्तवन संपूर्णतासरणिमफाणीत् ।