लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)/अध्यायः ०७१
← अध्यायः ७० | लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः) अध्यायः ७१ [[लेखकः :|]] |
अध्यायः ७२ → |
श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि कथां नकुलमोक्षदाम् ।
प्रसादोच्छिष्टसम्पन्ने चोत्करे तु बुभुक्षितः ।। १ ।।
नकुलः कश्चिदायातः कथामण्डपसन्निधौ ।
भुक्तवान् स तदोच्छिष्टं सतां प्रसादमिश्रितम् ।। २ ।।
तावत् स मूर्छितस्तत्र तत्याज निजविग्रहम् ।
देवस्वरूपः सञ्जातो वैशाखपञ्चमीदिने ।। ३ ।।
शुक्लपक्षे तदा सर्वैर्दृष्टः सुरोत्तमः स तु ।
पृष्टश्चोवाच वृत्तान्तं नैजं पूर्वभवस्य तु ।। ४ ।।
शृण्वन्तु वैष्णवा लोका अच्छोदरपुरे पुरा ।
अहमासं ज्ञानिवर्यो वारुटः सागराभिधः ।। ५ ।।
लोकाः सागरदानेति विदुर्मां ज्ञानिनाम्बरम् ।
इतिहासकथाभिज्ञं समाहूय निजालयान् ।। ६ ।।
कारयन्ति कथाख्यानं शृण्वन्ति मानवास्तदा ।
पूजयन्ति प्रसन्नास्तेऽर्पयन्ति मे धनादिकम् ।। ७ ।।
अहं तृप्तो धनं लब्ध्वा प्रयामि स्म स्वमन्दिरम् ।
कथासु दानवार्तां वै करोमि पूर्वभूभृताम् ।। ८ ।।
धर्मवार्तां गवां सेवां पितृसेवां वदामि च ।
तीर्थसेवां व्रतरक्षां देवपूजां समुत्सवान् ।। ९ ।।
नियमाँश्च यमाँश्चापि जनानुपदिशामि च ।
स्नानधर्मादिकं सर्वं चोपदिशामि सर्वथा ।। 4.71.१ ०।।
नाहं किंचिन्मनाग् वापि पालयामि तु तत्तथा ।
मृषावादी मिष्टवादी स्वार्थसिद्धिपरायणः ।। १ १।।
दुष्टात्माऽहं धनधूर्तो धनं हरामि वार्तया ।
न धर्मं न नियमं यमं व्रतं करोम्यपि ।।१२।।
आसीत् सर्वं वचने मे न क्रियायां तु किञ्चन ।
आचारहीनः सततं तदाऽभवं प्रतारकः ।। १ ३।।
गवां पित्रोः सुराणां च सेवया हीन इत्यपि ।
अभवं सर्वथा आर्या असत्प्रलापगर्जनः ।। १४।।
तेन पापेन मे विद्या कुविद्या समजायत ।
व्याख्यानानि समस्तानि शाठ्यपापफलानि च ।। १५।।
वाक्छलैर्ग्रथितान्येव पापदानि ममाऽभवन् ।
एवं पापातिभारेण नष्टायुष्यो मृतोऽभवम् ।। १६।।
याम्यपुरं गतस्तत्र याम्यैः संदंशकुण्डके ।
क्षिप्तो जिह्वा कर्तिता मे बहिः कृष्टा चिपीटकैः ।। १७।।
संदंशैस्तीक्ष्णधारैश्च निष्कासिता मुहुर्मुहुः ।
भेदिता छेदिता चापि प्रज्वालिता च कूर्चिता ।। १८।।
विदारिता कच्चरिता तनुर्मे कर्दमीकृता ।
बहूनि तत्र कष्टानि भुक्त्वा नकुलतामिह ।। १ ९।।
गतोऽस्मि क्षुधया त्वत्रोत्करोच्छिष्टं प्रजग्धिवान् ।
तेन नष्टानि पापानि ममाऽवशेषकाण्यपि ।।4.71.२०।।
पूतात्मा पूण्यवानस्मि सञ्जातोऽद्य दिवंगमः ।
सुरोऽस्मि चाऽद्य सम्पन्नः प्रयामि स्वर्गमुत्तमम् ।।२ १ ।।
इत्युक्तवान् बद्रिके स नेमे सर्वान् सुवैष्णवान् ।
अथ तत्र सुरं तं तु जगाद लोमशो मुनिः ।।२२।।
शृणु त्वं सुरवर्याऽद्य देवत्वं गतवानपि ।
मरणं ते पुनश्चाऽस्ति देवेऽमृतत्वमस्ति न ।।२३।।
तस्मात् साधय पुण्यात्मन्नमृतत्वं तु शाश्वतम् ।
अपुनर्भवसंज्ञं च ब्रह्मलोकमनामयम् ।।२४।।
श्रुत्वेतथं लोमशं सोऽपि पप्रच्छ कुशलं ध्रुवम्।
कथं मुनेऽमृतधामप्राप्तिः स्याद् वद मे द्रुतम् ।।२५।।
लोमशः प्रत्युवाचैनं कथां शृणु स्थिरो भव ।
प्रसादं श्रीहरेर्भुंक्ष्व नैवेद्यं हरयेऽर्पितम् ।।२६।।
व्रतं रक्ष सतां सेवात्मकं भक्तिं कुरु प्रभौ ।
कृष्णार्पणं समस्तं वै विधेहि परमेश्वरे ।।२७।।
मन्त्रं धुन्यं गृहाणाऽपि वैष्णवो भव उत्तमः ।
महाभागवतो भूत्वाऽक्षरं धाम प्रयास्यसि ।।२८।।
इत्युक्तश्च तदा देवस्वरूपः स कथालये ।
देवानां मण्डले दिव्यरूपस्तत्र तिरोऽभवत् ।। २९।।
संहितायाः कथां श्रोतुं देवगणे स्थिरोऽभवत् ।
व्रतं चक्रे प्रसादान्नभोजनं सप्तवासरान् ।।4.71.३०।।
सतां सेवां मानवेन स्वरूपेण करोत्यपि ।
पादसंवाहनं देहमर्दनं दर्शनादिकम् ।।३१ ।।
वैशाखशुक्लैकादश्यां प्रातः कथाश्रवोत्तरम् ।
लोमशः कृपया तस्मै मन्त्रं धुन्यं ददौ द्रुतम् ।।३२।।
'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ।
'प्रभोनारायण पद्मावतीनारायण प्रभो ।।३३।।
जयाकृष्ण ललिताश्रीकृष्ण राधापते विभो' ।
सोऽपि देवो मनुं लब्ध्वा नामधुन्यं चकार ह ।।३४।।
नैवेद्यभोजनं कृत्वा यावद् देवगणे स्थितः ।
अकस्मादाययौ तावन्मध्याह्ने श्रीनरायणः ।।३५।।
दिव्यश्वेतहयारूढः श्रीपतिः कमलापतिः ।
अनादिश्रीकृष्णनारायणश्रीपतिवल्लभः ।। ३६।।
तं नेतुमाययौ पक्षितुरगे छत्रशोभिते ।
आह्वयामास तं देवं भगवान् कम्भरात्मजः ।।३७।।
सर्वेषां पश्यतां देवश्चाऽश्वाऽऽरूढो बभूव ह ।
नीत्वा तं भगवान् कृष्णनारायणोऽक्षरं ययौ ।।३८।।
कृपैषा श्रीहरेश्चाति लोमशस्याऽपि भूयसी ।
सान्तममरभावं तं शाश्वताऽमरतामितः ।।३९।।
नकुलः सकुलश्चापि भगवत्कुलवान् कृतः ।
बद्रिके सा कथा चात्र प्रभूता कथिता परा ।।4.71.४० ।।
अथाऽन्यं ते प्रवदामि चमत्कारं हरेः प्रभोः ।
भाटः कश्चित्कथां श्रोतुं समायातः कथास्थलम् ।।४१ ।।
नारायणहरे कृष्णनारायणेति संजपन् ।
श्लोकं कृत्वा स्तुतिं चक्रे संहितायाः सभास्थले ।।४२।।
'कथा कल्याणदा चेयं श्रीकृष्णः करुणाप्रदः ।
कीरताराभिधो भाटः श्रेयसेऽत उपागतः' ।।४३।।
'नमो व्यासाय कृष्णाय संहितायै नमो मुहुः ।
वैष्णवानां सभायै च लोमशाय नमो मुहुः ।।४४।।
नमः सद्भ्यो महर्षिभ्यः साध्वीभ्यश्च नमो मुहुः ।
पावनेभ्योऽत्र देवेभ्यः सर्वेभ्यश्च नमो मुहुः ।।४५।।
श्रूयन्ते बहवः पापास्तारिताः कृपया खलाः ।
कृष्णनारायणेनात्र कीरतारं समुद्धर ।।४६।।
हृदये वर्तते यश्च व्यासे च पुस्तकेऽपि यः ।
सदस्येषु च भाटे यः स मामुद्धरतु प्रभुः ।।४७।।
बहूनां जन्मनामन्ते प्राप्तोऽस्मि परमेश्वरम् ।
शरण्यः स हरिर्भाटं प्रपन्नं पातु पामरम् ।।४८।।
प्राप्तमद्य मया स्वर्णं रत्नं पीयूषममृतम् ।
पीत्वा पीत्वा दृढो भूत्वा प्रयास्यामि परं पदम् ।।४९।।
उद्धर्ताऽनादिश्रीकृष्णनारायणः प्रभेश्वरः ।
परं धाम प्रयास्यामि मन्त्रधुन्यादिलाभवान् ।।4.71.५०।।
एवं तुष्टाव च नमश्चोवाच दण्डवत्तथा ।
चक्रे स्वात्मार्पणं तत्र धूलिं देहेऽप्यघर्षयत् ।।५१ ।।
अथ श्रीव्यासदेवश्च स्वतःप्रकाशकायनः ।
ददावस्मै मनुं नामधुन्यं सलिलसाक्षिकम् ।।५२।।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।
'प्रभोनारायण पद्मावतीनारायण प्रभो ।।५३।।
जयाकृष्ण ललिताश्रीकृष्ण राधापते विभो' ।
'बालकष्णाय विद्महेऽनादिकृष्णाय धीमहि ।।५४।।
तन्नो हृत्स्थः प्रचोदयादिति मन्त्रं च जगृहे ।
भाटः पवित्रतां प्राप्तोऽभवद् विगतकल्मषः ।।५५।।
बद्रिके स प्रसादं च जग्ध्वा पीत्वा पदामृतम् ।
दधार तौलसीं कण्ठीं चक्रे तिलकचन्द्रकौ ।।५६।।
धुन्यं चक्रे मुदा नृत्यन् कथां शुश्राव लीनवत् ।
ब्रह्मरसं पपौ नित्यं साधुसेवां चकार च ।।५७।।
मासमात्रं स्थितस्त्वेवं भजन् श्रीकान्तवल्लभम् ।
कथार्थांश्चिन्तयन् ध्यायन् हृदये परमेश्वरम् ।।५८।।
गोपालनन्दनं दिव्यं धारयन् कम्भरात्मजम् ।
वैशाखशुक्लैकादश्यां मुक्तसंसारबन्धनः ।।५९।।
कीरतारः कथां श्रूत्वा समाधिं प्राप मण्डपे ।
यावत्तत्र समायातं विमानं कृष्णशोभितम् ।।4.71.६०।।
दिव्यं तेजांसि परितः प्रासृजत् स्वर्णकान्तिमत् ।
कीरतारोऽभवन्मुक्तस्तदा वै दिव्यविग्रहः ।।६ १।।
चतुर्भुजः सुरूपश्च पार्षदः परमात्मनः ।
स्वर्णकुण्डलमुकुटस्रगापीडादिभूषितः ।।६२।।
आरुरोह विमानं तत् समाहूतो दयालुना ।
पश्यतां तु सदस्यानां ययौ धामाऽक्षरं हरेः ।।६३।।
शृणु बद्रीप्रिये चात्र कृपैव कारणं हरेः ।
य इच्छति मोक्षं तं द्रुतं नयति माधवः ।।६४।।
शाश्वतानन्दलब्धेस्तु साधनं शरणागतिः ।
तवाऽस्मीति याचकाय स ददाति परं पदम् ।।६५।।
देही दिव्यो भवत्येव प्रारब्धं परिवर्तते ।
कृष्णमन्दिरवासार्हो जायते कृपया हरेः ।।६६।।
नरो मुक्तः पार्षदः स्यान्नारी लक्ष्मीः प्रजायते ।
कृष्णेन सह रमतेऽश्नुते कृष्णस्य सद्रसान् ।।६७।।
न न्यूनं विद्यते तस्य तादात्म्यद्रवतां लभेत् ।
स्वामिनाथात् सर्वकामान् भुंक्ते कृष्णासनासनः ।।६८।।
स्पर्शानन्दान् समस्ताँश्च कृष्णमालिङ्ग्य सोऽश्नुते ।
रूपानन्दान् रसानन्दान् जिह्वास्वादान् समस्तकान् ।।६९।।
गन्धानन्दान् गिरानन्दान् समस्ताऽऽश्लेषमोदकान् ।
शय्यानन्दान् समस्ताँश्च कृष्णकान्तात् समश्नुते ।।4.71.७०।।
क्वचिद्धाम्नि निजं कृष्णं कान्तं रहः प्रसेवते ।
क्वचिद् रम्याणि पुष्पाणि भूत्वा गन्धैः प्रसेवते ।।७१ ।।
क्वचित् फलं स्वयं भूत्वा कृष्णं रसेन सेवते ।
क्वचिद्भूत्वा कामधेनुः कृष्णं दुग्धेन सेवते ।।७२।।
क्वचिद्भूत्वा रमा रामं वक्षस्याराममिच्छति ।
क्वचिच्छ्रीमाणिकी भूत्वा वहते कान्तमुत्तमम् ।।७३।।
क्वचिद् भ्रमरिका भूत्वा कृष्णगन्धं समश्नुते ।
क्वचिद् राधा सखी भूत्वा ताम्बूलं प्रददात्यपि ।।७४।।
भूत्वा लक्ष्मीर्हरेरोष्ठताम्बूलरसमेति च ।
आन्धसिकी क्वचिद् भूत्वा पाचयत्यस्य भोजनम् ।।७५।।
दासी भूत्वाऽऽप्लवनं सा कारयत्यच्युतस्य वै ।
देहसंवाहनं दासो भूत्वा करोति सेवनम् ।।७६।।
यष्टिः स्वर्णमयी भूत्वा करस्पर्शं सुविन्दति ।
नक्तकश्च क्वचिद् भूत्वा मुखस्पर्शं प्रविन्दति ।।७७।।
पादुकारूपमासाद्य पादचूम्बनमृच्छति ।
आदर्शरूपमासाद्य कृष्णं स्वस्मिन् दधात्यपि ।।७८।।
गेन्दुकतां समासाद्य कृष्णपृष्ठं दधात्यपि ।
कुंकुमं चन्दनं भूत्वा भालसुखं प्रविन्दति ।।७९।।
कज्जलं च क्वचिद् भूत्वा नेत्रस्पर्शं प्रविन्दति ।
दुग्धं दुग्धामृतं भूत्वा जठरे संविशत्यपि ।।4.71.८०।।
जलं भूत्वा तथा धौत्रं कटिस्पर्शं च विन्दति ।
तैलं भूत्वा रोममूलस्पर्शसुखं च विन्दति ।।८१ ।।
मनोभवः स्वयं भूत्वा कृष्णानन्दं समश्नुते ।
राधा भूत्वाऽस्य रमते यानं भूत्वा वहत्यपि ।।८२।।
सिंहासनं क्वचिद् भूत्वा राजते स्वामिनाऽऽश्रितम् ।
कम्बलश्च क्वचिद् भूत्वा परितः सेवते हरिम् ।।८३।।
सुगन्धिपवनो भूत्वा सेवते शीतलोऽपि सन् ।
ऊर्मिका वांऽगरक्षं च भूत्वाऽङ्गुलिं च वर्ष्म च ।।८४।।
कौस्तुभो रशना भूत्वा वक्षः कटिं च सेवते ।
भुक्तिपात्रं क्वचिद् भूत्वा प्रसादं सर्वमश्नुते ।।८५।।
स्नानकुण्डं क्वचिद् भूत्वा स्पर्शं विन्दति सर्वतः ।
क्वचित् कान्ता प्रमा भूत्वा कान्तमाश्लिष्यति प्रभुम् ।।८६।।
क्वचित्तु गरुडो हस्ती भूत्वा वाजी विमानकम् ।
वाहनं नरयानादि भूत्वा धारयति प्रभुम् ।।८७।।
क्वचित् पाशंवती भूत्वा सर्वसेवां करोति हि ।
मुक्ता मुक्तानिका प्रेम्णाऽस्तुवते हरिजं रसम् ।।८८।।
बद्रि धाम्न्यक्षरे प्रेम्णा मुक्ताः पिबन्ति तद्रसम् ।
गोलोके गोपिका गोपा पिबन्ति कृष्णजं रसम् ।।८९।।
वैकुण्ठे पार्षदाः पार्षदान्यः पिबन्ति तद्रसम् ।
अव्याकृतेऽमृते धाम्नि श्रीपुरे बदरीवने ।।4.71.९०।।
श्वेतद्वीपे क्षीरवार्धौ पिबन्ति सेविनो रसम् ।
कुंकुमवापिकाक्षेत्रे ब्रह्मप्रिया हरिप्रियाः ।।९ १ ।।
पिबन्त्यनादिकृष्णस्य रसं राधारमाश्रियः ।
जया च ललिता लक्ष्मीः मालती माणिकी प्रिया ।।९२।।
पद्मावती सुखदाश्रीर्नारायणी च भार्गवी ।
तुलसी पद्मिनी पद्मा पिबन्ति ता हरेः रसम् ।।९३।।
बदरी च विकुण्ठा च मुक्तिः शक्तिः सरस्वती ।
ता एताः श्रीकृष्णकान्तरसं पिबन्ति शाश्वतम् ।।९४।।
सनकाद्याः साधवश्च नारदाद्या महर्षयः ।
व्यासाद्याः शंसकाश्चापि कार्ष्णं रसं पिबन्ति हि ।।९५।।
बलिराजादयो दैत्या विभीषणादिराक्षसाः ।
ईश्वराः शंकराद्याश्च पिबन्ति श्रीहरेः रसम् ।।९६।।
अग्न्यादयो देवताश्च काश्यपा गरुडादयः ।
मानवा ध्रुवमुख्याश्च पिबन्ति श्रीहरेः रसम् ।।९७।।
भोगिनः शेषसर्पाद्या गावस्तु कामधेनवः ।
आत्मनिवेदिनो भक्ताः पिबन्ति श्रीहरेः रसम् ।।९८।।
बद्रिके शरणं प्राप्ताः सामस्त्येन समर्पिताः ।
दासा दास्यः प्रियवर्गाः पिबन्ति श्रीहरेः रसम् ।। ९९।।
ये ये धामाऽक्षरं प्राप्ताः परब्रह्मरसं तु ते ।
पिबन्ति सततं बद्रि परब्रह्मकृपाश्रयाः ।। 4.71.१० ०।।
कृपया च गतौ मुक्तिं सागरः कीरतारकः ।
पाठको वाचकः श्रोता संहिताया हि मोक्षदाः ।। १० १।।
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने सागरदानवारुटस्य कीरतारभाटस्य च कथाश्रवणसाधुसेवादिभिर्मोक्षणमित्यादिनिरूपणनामैकसप्ततितमोऽध्यायः ।। ७१ ।।