लघुपाणिनीयम्
लघुपाणिनीयम् [[लेखकः :ए.आर्.राजराजवर्मा|ए.आर्.राजराजवर्मा]] |
लघुपाणिनीयम् |
फलकम्:ए.आर्.राजराजवर्मणः कृतयः
ए.आर्.राजराजवर्मणा विरचितम् लघुपाणिनीयम्।
भूमिका ।
[सम्पाद्यताम्]व्याकरणदुर्गमार्गेष्वप्रौढान् बालकान् प्रचारयितुम् ।
लघुपाणिनीयमेतत् प्रणीयते राजराजेन ॥
अत्र किल भगवानाचार्यः पाणिनिर्महेश्वरप्रसादादधिगत्य शब्दविद्यारहस्यं वैदिकलौकिकभेदेन द्विविधाया सस्कृतभाषाया व्याकरणं प्रणिनाय । तस्य च सूत्राणां किञ्चिदूनैश्चतुर्भिः सहसैरुपकल्पितोऽष्टभिरध्यायैः परिच्छिन्नत्वादष्टाध्यायीति शब्दितः सूत्रपाठः शरीरम् । गणपाठो धातुपाठः अक्षरसमान्नायः शिक्षा लिङ्गानुशासनम् इति पञ्चाङ्गानि ।
'अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम् ।
अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः ।'
इत्युक्तलक्षणैः सूत्रैः प्रायशः प्रत्ययः आदेशः आगम इति त्रिधा भिन्नानि व्याकरणकार्याण्यनुशास्त्याचार्यः। पृथक्प्रयोगानर्हं परससर्गेणार्थप्रत्यायकमक्षरम् अक्षरसमुदायो वा प्रत्यय इत्युच्यते । यस्मिन्छब्दे प्रत्ययः ससृज्यते सा प्रकृतिः । यथा- 'घटत्वम्' इत्यत्र घटशब्दः प्रकृतिः, 'त्व' इत्यक्षरं प्रत्ययः । स्थितं वर्णमपनीय तत्स्थाने विहितमक्षरमक्षरसमुदायो वा आदेशः ; तत्र स्थितो वर्ण: स्थानीत्युच्यते । यथा तौ + इव = ताविव इत्यत्र औकारः स्थानी, आव् इत्यादेशः । प्रतिनवस्य वर्णस्य योजनमागमः । यथा-'तरु + छाया = तरुच्छाया' इत्यत्र रुकारछकारयोर्मध्ये चकार आगमः। आगमविपरीतः स्थितस्य नाशरूप आदेश एव लोप इत्युच्यते । यथा - 'राजन् + पुरुषः = राजपुरुषः इत्यत्र नकारस्य लोपः ।।
स्थाने शत्रुवदादेश: फाले पुण्ड्रवदागमः ।
दन्तानामिव लोप: स्याच्छत्रवत् प्रत्ययाः परे ।।
इत्यागमादेशलोपप्रत्ययानां भेदो दर्शितः प्राचीनैः ॥
अथाङ्गभूतानां धातुपाठादीनां स्वभावो वर्ण्यते - भू, एध, स्पर्ध, अद, हु इत्यादीनां क्रियावाचिनीनां प्रकृतीनां परिगणनं धातुपाठ इति व्यवह्रियते । तत्र 'भू सत्तायाम्' 'एध वृद्धौ' इत्याद्यर्थनिर्देशोऽर्वाचीन एव, न त्वाचार्यप्रणीतः । भूवादिरदादिरित्यादिदशगणात्मको धातुपाठः। सर्वादिः, प्रादिः इत्यादिनामशब्दप्रकृतीनां परिगणनं गणपाठः। ते च बहवः सन्ति । स्वरान्तो व्यञ्जनान्तो गुणवाची बह्वक्षर इत्यादिवत् केनापि साधारणेन धर्मेण ये निर्देष्टुं न शक्यन्ते तैरेव शब्दैः पाणिनिः गणान् कल्पयति । गणे यः शब्दः प्रथमं पठ्यते तेन तस्य गणस्य संज्ञा क्रियते । यथा - सर्व, विश्व, उभ, उभय इत्यादिर्गणः सर्वादिरित्युच्यते। अक्षराणां पाठोऽक्षरसमाम्नायः । अक्षराणामेवोच्चारणशिक्षणं शिक्षाख्यस्य भागस्य विषय: । अमुकस्य शब्दस्यामुकं लिङ्गमित्यनुशासनं लिङ्गानुशासनम् । तत्राक्षरसमाम्नायो महेश्वरेण प्रोक्त इति ह स्माहुः । अन्यानि तु पञ्च नि:संशयं पाणिनीयान्येव ।।
पञ्चपाठ्यामस्यां प्रतिष्ठापितमाचार्येण स्वकीयं व्याकरणम् । व्याप्नोति चैषा व्याकरणस्य समग्रं विषयम् । तथापि नैकः सर्वं जानातीति न्यायेन भगवत: पाणिनेस्तन्त्रे तत्र तत्र न्यूनतां पश्यन् कात्यायन ऋषिः प्राधान्येन शेषपूरणपरं वार्तिकसंज्ञितं तद्विवरणं प्रणिनाय । पाणिनेः सूत्रेषु कात्यायनस्य वात्तिकेषु च कूलङ्कषां चर्चा कुर्वन् पतञ्जलिः शब्दानुशासनसर्वस्वभूतं महाभाष्यमभाषिष्ट । अतश्च मुनित्रयस्य यथोत्तरं प्रामाण्यमिच्छन्ति पाणिनीयाः । न्याय्यं चैतत् । किंतु मुनित्रयेणास्मृता अपि दृश्यन्त एव प्रयोगा महाकविग्रन्थेषु । तथा हि -विश्रम इति वक्तव्ये विश्राम इति प्रयुञ्जाते काळिदासभवभूती । ऋतेशब्दयोगे पाणिनीयानामनभिमतापि द्वितीयाविभक्तिर्बहुत्र दृश्यते । एवं कृशाङ्गी, कम्बुकण्ठी, मृदुगावी इत्यादिपदानि पाणिनीयानुल्लङ्घय ईकारान्तान्येव कविभिः प्रयुज्यन्ते । अनुशिष्टाश्चैते प्रयोगा: पतञ्जलेरनन्तरगामिभिः काशिकाकारचन्द्रस्वामिप्रभृतिभिः । तथापि भट्टोजिप्रभृतयः केचिदर्वाचीनाः मुनित्रये श्रद्धाजाड्येन सुशब्दानेतान् न सहन्ते । वीरवैयाकरणानां दुःशाठ्यमिदं वीरवैष्णवैः कृतं शंकरदूषणमिव मध्यस्थैरुपेक्षणीयमिति मन्यामहे ॥
प्रसङ्गवशात् पाणिनीयव्याख्यातॄणामन्येऽपि केऽप्यसुन्दरा व्याख्याप्रकारा अत्र निरूप्यन्ते । ते हि पाणिनेः सर्वज्ञत्वं प्रतिज्ञाय तेन स्वप्नेऽप्यनुत्प्रेक्षितानर्थान् , तत्सूत्राणि निष्पीड्य, संपादयन्ति । तथा हि - ते कदाचिदिष्टसिद्ध्यर्थमेकधा स्थितं सूत्रं द्विधा छिन्दन्ति - य: किल योगविभाग इत्युच्यते । अन्यदा सूत्रगतानि पदानि समग्रमेव वा सूत्रमावर्तयन्ति । एकदा 'छन्दोवद्भवन्ति सूत्राणि' इति स्वातन्त्र्येण कंचिन्न्यायमुल्लिख्य पञ्चम्यर्थे चतुर्थी, चतुर्थ्यर्थे प्रथमा, अविभक्तिको निर्देश इत्यादिप्रतिज्ञानैर्विभक्तीर्व्याकुलीकुर्वन्ति । सूत्रेषु कुत्राप्यदृष्टं वर्णमैन्द्रजालिका इव प्रश्लेषादिभिरुपायैराविष्कुर्वन्ति । किं बहुना, नास्ति स उपायो यं काशकुशावलम्बिन एते नाद्रियेरन् । कुसृष्टिकल्पनाव्यवसायोऽयं, मन्ये, महाभाष्यादेवाधीत एभिः । भाष्यकाकारस्तावत् कमप्यर्थमादाय द्विसहस्रजिह्व इव सर्वतोमुखं प्रश्नसहस्रं प्रयङ्क्ते, एकैकं स्वयं चोत्तरयति । तत्संरम्भेषु कदाचिद्वादकोलाहले कुमार्गेणापि संचरते । योऽयं प्रौढिवाद इति व्यपदिष्टः पन्था दुर्व्याख्यातृभिः शिष्यव्यामोहनाय स्वग्रन्थेषु निबध्यते । मार्गोऽयं सर्वथा कुमार्गो न वेति विचारो दूरे तावदास्ताम् ; बालशिक्षणार्थमुद्दिष्टेषु ग्रन्थेषु नैष मार्गः शोभत इत्यत्र कस्य वा विप्रतिपत्ति: ? अतश्च ग्रन्थेऽस्मिन् सूत्राणि यथाश्रुतरीत्यैव व्याख्यायन्ते । तावतैव च तृप्यन्ति सुशब्दग्रहणमात्रदत्तदृष्टयो व्याकरणाध्यायिनः ॥
लोकेऽस्मिन् पाणिनीयं तन्त्रमिव परिपूर्णं नास्त्येवान्यव्याकरणप्रस्थानमिति निर्विवादमेतत् ; तथापि तन्त्रमेतत् पथ्यमेरण्डतैलमिव बालेभ्यो न रोचते । तत्र गुडजिह्विकाप्रयोगार्थमस्माकमयमारम्भः । पाणिनीयं व्याकरणमिति श्रुत्वैव बाला यद् बिभ्यति, तत्र को हेतुरिति विमृशाम:--पाणिनिस्तावत् संकेतजटिलै: सूत्रैर्व्यवहरति । संकेता: पुनस्तत्र तत्र विकीर्णाः परस्परसापेक्षाश्च । तथा हि - 'वृद्धिरादैच्' इति प्रथमं सूत्रं 'वृद्धिः' 'आत्' 'ऐच्' इति त्रिभिः प्रथमान्तै: पदैर्घटितम् । अनेन आ, ऐ, औ इत्येषां वर्णानां वृद्धिरिति संज्ञा विधीयते। तत्र ‘आत्' इत्यस्य आकार इत्यर्थ ग्रहीतुं 'तपरस्तत्कालस्य' इति वक्ष्यमाणस्य सूत्रस्यापेक्षास्ति । 'ऐच्' इत्ययं शब्द ऐकारं औकारं च बोधयतीति ग्रह: 'आदिरन्त्येन सहेता' इति सूत्रस्यार्थज्ञानेनैव भवति । तस्य च सूत्रस्यार्थग्रहो 'हलन्त्यम्' इति सूत्रान्तरेण विहितां संज्ञा अपेक्षते । हलन्त्यम्' इति सूत्रे च हल्पदं आदिरन्त्येन -' इत्यादिना सिद्धमिति परस्पराश्रयाद्व्याकुलीभावः । किं च पूर्वापेक्षया परस्य सूत्रस्य प्रामाण्यम् , कानिचित्सूत्राणि सूत्रान्तरापेक्षया असिद्धानि – इत्यादीनां स्वतन्त्रसंकेतानामनुरोधेन बालसुगमं कमपि विषयविभागं पाणिनिर्न कृतवान् । विषयश्च प्रकृत्या कर्कश: । मूलस्य तावदवस्थेयम् । व्याख्यानानां तु दशा शोच्यतरेति पूर्वमेव किल प्रतिपादितम् । एवं च पाणिनीयं तन्त्रं परिखाभिः प्राकारैश्च परिक्षिप्तं दुर्गमिव दुरासदं संवृत्तम् । दुर्गेऽस्मिन् प्रविविक्षूणां पुरातनैरुद्घाटितं द्वारद्वयं वर्तते काशिकाकृतमेकम् , रूपावतारकृतमन्यदिति। तत्र च प्रथमेन (द्वारेण) प्रविशन् दिदृक्षुः पुरुषो रथ्योपरथ्याक्रमेण बम्भ्रम्यमाणः सर्वतो नीतोऽपि तत्रत्यानामद्भुतपदार्थानां शकलीकृत्य तत इतो विकीर्णत्वात् पृथक्कृतान् एकदेशानेव पश्यति, न तु समग्रं किमपि दृश्यं वस्तु। द्वितीयेन तु प्रविशन् शकलीकृत्य विक्षिप्तानेकदेशानुच्चित्य यथास्थानं विनिवेश्य समग्रीकर्तु पुरः पश्चात् पार्श्वयोश्च पदे पदे विकृष्यमाण आयास्यते । एवं च द्वाराभ्यामुभाभ्यामपि प्रवेशे क्लेश एव प्रविष्टस्य । अतो वयं प्रकटमिदं प्राचीनै: प्रहतं द्वारद्वयमपि विहाय पक्केष्टकचितास्वपि प्राकारभित्तिषु तत्र तत्र सुलभैर्जालमागैर्बालानन्तः प्रवेश्य, तत्र च सुखसंवासोचितासु विरलास्वपि कासुचिद्वलभीषु निवेश्य दूरदर्शिनीप्रभृतीनां नवीनदृष्टानां यन्त्राणां साहाय्येन दूरविकीर्णानि शकलानि संनिधाप्यावश्यदर्शनीयं सर्वमप्यर्थजातं दर्शयिष्यामः ॥
तथा च ग्रन्थेऽस्मिन् प्राचीनं प्रस्थानद्वयमुपेक्ष्य नवीनमेकं प्रस्थानमुल्लिखितम् । काशिकावृत्त्यादिष्विव सूत्राणां पाठक्रमेण व्याख्याने रूपसिद्धिकथनं न चारु स्यात् ; कौमुदीरूपावतारादिष्विव रूपसिद्ध्यपेक्षया क्रममुपेक्ष्य व्याख्याने, प्रकरणाधिकारानुवृत्त्यादीनामयोगात् सूत्रार्थबोधो दुर्घटो भवति ; अत: संमिश्रः कोऽपि मार्गोऽत्र गृहीतः ॥
________
अथ ग्रन्थारम्भः
[सम्पाद्यताम्]व्याकरणप्रतिपाद्यो विषयोऽत्र चतुर्धा विभज्यते -
1.अक्षरनिरूपणपरः शिक्षाकाण्डः ।
2.शब्दानां रूपसिद्धिविचारकः परिनिष्ठाकाण्डः ।
3.शब्दानां व्युत्पत्तिप्रतिपादको निरुक्तकाण्डः ।
4.पदानामन्वयव्यवस्थावर्णनरूप आकाक्षाकाण्डश्चेति ।
________
शिक्षाकाण्डः ।
[सम्पाद्यताम्]संज्ञाप्रकरणम्
[सम्पाद्यताम्]१.अ इ उ ऋ ऌ
२.आ ई ऊ ॠ _ ए ऐ ओ औ
३.क ख ग घ ङ
४.च छ ज झ ञ
५.ट ठ ड ढ ण
६.त थ द ध न
७.प फ ब भ म
८.य र ल व _ _
९.श ष स _ _
१०.ह _ _