कल्पः/श्रौतसूत्राणि/मानव-श्रौतसूत्रम्/कल्पः ०३

विकिस्रोतः तः
← कल्पः २ मानव-श्रौतसूत्रम्
कल्पः ३
[[लेखकः :|]]
कल्पः ४ →

ब्रह्मा प्रायश्चित्तानि स्रुवेण जुहोत्यृक्तो भ्रेषे भूः स्वाहेति गार्हपत्ये यजुष्टो भुवः स्वाहेति दक्षिणाग्नौ सामतः स्वः स्वाहेत्याहवनीये सर्वतो भूर्भुवः स्वः स्वाहेत्याहवनीय एव १ दुष्टमपोऽभ्यवहरेदथ पात्राणि परिमृज्याल्लो हं निर्लिखेद्दारुमयं निष्टपेन्मार्तिकमद्भिः सौवर्ण ँ! राजतम् २ द्र व्यापचारे सामान्यँ यज्ञियं प्रतिनिदध्यात् ३ कर्मान्तरितं कुर्यात्सँ स्कारान्तरे प्रायश्चित्तमेव जुहुयात् ४ द्र व्यावृत्तौ सहमन्त्रमावर्तयेत्तूष्णीँ वा ५ देवतावदानयाज्यानुवाक्याहवि-र्मन्त्रकर्मविपर्यासेऽनाम्नातप्रायश्चित्तानां चापदि त्वं नो अग्ने स त्वं नो अग्ने अयाश्चाग्नेऽसीत्येताभिर्जुहुयाद्याहृतिभिश्चाथवा व्याहृतिभिरेव । होमकालेऽपि सर्वत्रानाम्नातप्रायश्चित्तेषु व्याहृतिभिरेव जुहुयात् ६ अकाले वाचँ विसृज्य वैष्णवीं निगद्य पुनर्यछेत् ७ व्रतोपेतस्य चेदाहवनीयोऽनुगछेत्प्रणीते मनसा व्रतमुपेत्य भूरित्युपतिष्ठेत ८ यदि वत्सा अपाकृता धयेयुर्वायव्या यवाग्वा प्रचर्य प्रातर्दोहेन प्रचरेद्यदि प्रातर्दोहेऽपरँ वायव्या ९ यदि सायंदोहमपहरे-द्दुष्येद्वा प्रातर्दोहं द्वैधं दोहयित्वार्धमातच्य प्रचरेत् १० यदि सायंदोह आर्तिमि-यादिन्द्रा य व्रीहीन्निर्वपेच्छ्वो भूते तेष्वनुनिर्वपेत् ११ यदि प्रातर्दोह ऐन्द्रं पुरोडाशँ यद्युभावैन्द्रं पञ्चशरावमोदनं पचेदाज्येनाग्निं प्रथमँ यजेत १२ हीनेष्वार्तिगते वा वत्सानपाकृत्य पुनर्यजेत १३ यस्य सांनाय्यं चन्द्र मा अभ्युदियाद्वत्सान्प्रतिनुदेत् १४ सायंदोहो हविरातञ्चनं तद्व्रतो यथाकालँ यजेत १५ व्रतमनुत्सहमानस्याभ्युदितेष्टिर्निरुप्तेषु च वत्सानपाकृत्य पुनर्यजेत १६ यदि हवीँ ष्यपहरेयुर्दुष्येयुर्वाज्येन सँ स्थाप्य पुनर्यजेत १७ यदि हवीँ षि मुह्येयुः पात्र्! याँ समधा विभज्यानुपूर्वेण प्रचरेत् १८ सर्वस्कन्ने नष्टे दुष्टे वा यथापूर्वं पुनः सँ स्करणम् १९ देवाञ्जनमगन्यज्ञ इति स्कन्नमभिमन्त्र्! यापो निनयेत् २० आज्ये स्कन्ने ददात्यनुत्पूते चित्रमुत्पूयमाने प्राण्युत्पूते वरम् २१ दुःशृतयोरवदानमात्रे सुशृते न प्रायश्चित्तं । तथा क्षामयोः २२ अदक्षिणेनेष्ट्वोर्वराँ समृद्धां दद्यात् २३ यदि कपालं भिद्येत गायत्र्! या त्वा शताक्षरया संदधामीति संधानकरैः शुचिद्र व्यैः संधायाथैतत्कपालं धाता धातुः पितुः पिताभिन्नो घर्मो विश्वायुर्यतो जातं तदप्यगात्स्वाहेत्यप्सु प्रहरेदथान्यत्कपालमाहृत्य सादनाभिमर्शनप्रोक्षणादि कृत्वा पूर्वयुक्तेषु कपालेष्वपिसृजेत् । उपहितस्य भेदे तु तस्य संधानादि पूर्ववत्कृत्वान्यत्सँ स्कृत्योपहितं कपालमुपधानकाले येन मन्त्रेणोपहितं तेनैवोपदध्यात्तत्स्थाने २४ यदि कपालं नश्येद्ब्राह्मण-व्याख्यातं धाता धातुः पितुः पितानष्टो धर्म इति नष्टाधिगतमप्सु प्रहृत्य नमस्ते रुद्रा यते नमोऽस्तु परायते नमो यत्र निषीदसीति चाभिमन्त्रयेत २५ यदि प्राक्प्रयाजेभ्यो बहिष्परिध्यङ्गारः स्कन्देत्तमभिमन्त्रयेताध्वर्युं मा हिँ सीर्यज्ञं मा हिँ सीरिति पुरस्ताद्ब्रह्माणं मा हिँ सीः प्रजां मा हिँ सीरिति दक्षिणतो होतारं मा हिँ सीः पत्नीं मा हिँ सीरिति पश्चादाग्नीध्रं मा हिँ सी पशून्मा हिँ सीरित्युत्तरतो ॥ यजमानं मा हिँ सीरिति सर्वत्रानुषजति २६ स्रुवबुध्नेनाक्त्वा आहं यज्ञं दधे निरृतेरुपस्थ आत्मन्देवेषु परिददामि विद्वान् सुप्रजास्त्वँ शतँ हिमा मदन्त इह नो देवा मयि शर्म यछत ॥ इत्यादत्ते २७ सहस्रशृङ्गो वृषभो जातवेदा घृताहुतः स्तोमपृष्ठः सुवीरः । मा मा हासीर्नाथितो न त्वा जहामि गोपोषं च नो वीरपोषं च धेहि ॥ मा नो महान्तमुत मा नो अर्भकं मा न उक्ष-न्तमुत मा न उक्षितम् । मा नो वधीः पितरं मोत मातरं मा नः प्रियास्तन्वो रुद्र रीरिषः ॥ इत्यनुप्रहरति २८ त्वं नो अग्ने स त्वं नो अग्ने सोमानँ स्वरनँ वृषभं चर्षणीनाँ विश्वरूपमदाभ्यं । बृहस्पतिँ वरेण्यं ॥ उदुत्तमँ वरुण पाशमस्मत् उदुत्तमं मुमुग्धि मद्वि पाशं मध्यमं चृत । अवाधमानि जीवसे ॥ । इति षड्भिरभिजुहोति २९ यद्यनभिनिरुप्तामावाहयेद्यथावाहितमाज्येनोपाँ शु यजेत । भागिनीं चेन्नावाहयेदुपोत्थायावाहयेत् ३० यदि बहिष्परिध्याहुतिः स्कन्दे-दग्नीधं ब्रूयादेताँ संकुष्य जुहुधीति । स यथावदानँ संपाद्य वषट्कृते मध्ये पाणिना जुहोति । तस्मै पूर्णपात्रं दद्यात् ३१ भूपतये स्वाहा भुवनपतये स्वाहा भूतानां पतये स्वाहेति बहिष्परिधि स्कन्नमभिमन्त्रयत्रे ३२ कालातिपत्तौ पाथिकृत्यनागते च ३३ यदि प्राङ्निर्वपणात्पौर्णमास्याममावास्यायाँ वा कालप्रवृत्तिँ स्पर्शयेदाग्नेयमष्टाकपालं पथिकृता व्यञ्जयेत् ३४ उत्सृष्टे चेद्ब्राह्मौदनिके सहाग्निः प्रयायादनुगछेत्कालँ वातिनयेत्पुनर्ब्रह्मौदनं पक्त्वा-नक्ताः समधि आदध्यात् ३५ 3.1.१

अग्निहोत्राय चेदुपसृष्टा निषीदेत् यस्माद्भीता निषीदसि ततो नो अभयं कृधि पशूनस्माकं मा हिँ सीर्नमो रुद्रा य मीढुषे ॥ इत्यभिमन्त्रयते उदस्थाद्देव्यदि-तिरायुर्यज्ञपतावधात् इन्द्रा य कृण्वती भागं मित्राय वरुणाय च ॥ इत्युत्थाप्योदपात्रमूधसि मुखे चोपगृह्णीयाद्यस्यान्नं नाद्यात्तस्मै तां दद्यात् १ अग्निहोत्रं चेत्प्रागधिश्रयणात्स्कन्देत्समुद्र ँ! वः प्रहिणोमीत्यप उपनिनीय यदद्य दुग्धं पृथिवीमभक्त यदोषधीरत्यसृपद्यदापः पयः पृथिव्यां पय ओषधीषु पयो अघ्न्यासु पयो वत्सेषु पयो गृहेषु पयोऽस्तु तन्नः ॥ इत्यभिमन्त्रयते २ यदि दुह्यमानावभिन्द्यादन्यामार्यकृतीं प्रक्षाल्य पुनर्दोहयेत् ३ यद्यधिश्रितँ स्कन्दे-दिति व्याख्यातँ ॥ वारुणीं निगद्य वारुण्याज्यं जुहुयात् ४ यदि प्राचीनं ह्रियमाणँ स्कन्देत्प्रजापतेर्विश्वभृति तन्वाँ हुतमसि स्वाहेत्यभिमृशेच्छ्वा-वलीढवच्च निनयेत् ५ यद्यधिश्रितँ शिरशिरायत्स्यात्समोषामुमिति ब्रूयाद्यं द्विष्यात् ६ विष्यण्णं मध्यमपर्णेन द्यावापृथिव्ययर्चान्तःपरिध्यवनयेत्की टावपन्नं प्राजापत्यर्चा वल्मीकवपायामवनीय भूरित्युपतिष्ठेत । विष्यण्णँ वा वल्मीकवपायां कीटावपन्नमन्तःपरिधि ७ अववृष्टे मित्रो जनान्यातयति ब्रुवाणो मित्रो दाधार पृथिवीमुत द्याम् मित्रः कृष्टीरनिमिषाभिचष्टे मित्राय हव्यं घृतवज्जुहोत ॥ इति पूर्वामाहुतिं जुहुयादन्यां दुग्ध्वाथ पुनरग्निहोत्रं जुहुयात् ८ यदि पूर्वस्याँ हुतायामाहवनीयोऽनुगछेदग्निर्दारौ दारावग्निरिति हिरण्यं निधायोत्तरां जुहुयादन्यां दुग्ध्वाथ पुनरग्निहोत्रं जुहुयात् ९ यदि पूर्वस्याँ हुतायाँ स्कन्देत् यत्र वेत्थ वनस्पते देवानां गुह्या नामानि । तत्र हव्यानि गामय ॥ इति समिधमाधायोत्तरां जुहुयादन्यां दुग्ध्वाथ पुनरग्निहोत्रं जुहुयात् १० यदि रुद्र ः! पशूनभिमन्येत द्वयोर्गवोः स्थाल्या दोहनेन च दोहयित्वा समानीय सजूर्जातवेद इति पूर्वामाहुतिं जुहुयादन्यां दुग्ध्वाथ पुनरग्निहोत्रं जुहुयात् ११ यदि सप्ताहमतिशमायेताग्ने दुःशीर्ततन इति पुरस्ताज्जुहुयादन्यां दुग्ध्वाथ पुनरग्निहोत्रम् जुहुयाद्यदि तदतिशमायेत द्वादश रात्रीः सायँ सायमाज्यं जुहुयात् १२ यदि रुद्र ः! प्रजा अभिशमयेतोत्तरपूर्वस्यां दिशि शतरुद्रि यं जपँ श्चङ्क्रम्येत १३ यस्याग्निमनुद्धृतँ सूर्योऽभिनिम्रोचेदुन्नीतेऽग्निहोत्रे ब्राह्मणो बहुविदुद्धरेद्धिरण्यं बद्ध्वा दर्भेणाग्रतो हरेत्पश्चादग्निहोत्रेणान्वियाद्वरो दक्षिणा १४ अनुद्धृतं चेदभ्युदियाद्व्याख्यातं प्रणयनं । चतुर्गृहीतमाज्यमग्रतो हरेदुषाः केतुना जुषताँ स्वाहेति पुरस्तात्प्रत्यङ्मुख आज्यं जुहुयादुपसाद्या तमितोरासीता होमात् १५ यस्योभा अनुगता इति व्याख्यातम् १६ 3.1.२

यस्याहुतेऽग्निहोत्रे पूर्वोऽग्निरनुगछेदग्निना च सहाग्निहोत्रेण चोद्द्रवेदित एव प्रथमं जज्ञ इत्युद्धृतमभिमन्त्रयत ॥ इषे राये रमस्वेत्याधास्यमाने सम्राडसीत्या-दधाति ॥ सारस्वतौ त्वोत्सौ प्रावतामित्याहितँ । हुतेऽग्नये ज्योति-ष्मतेऽष्टाकपालं निर्वपेद्वारुणँ यवमयं चरुम् १ यस्याहुतेऽग्निहोत्रेऽपरोऽग्निर-नुगछेदनुगमय्य पूर्वमपरस्मान्मथित्वा प्रणयेद्यदि त्वरेत तत एव प्राञ्चमुद्धृत्य दक्षिणाग्निमन्वानीय सायंप्रातर्जुहुयाच्छ्वोभूतेऽग्निँ समारोप्य मथित्वाग्नये तपस्वते जनद्वते पाक्कवतेऽष्टाकपालं निर्वपेत् २ सर्वानुगमेषु च यो अग्निं देववीतये हविष्मं आविवासति । तस्मै पावक मृडय ॥ इत्येतया सद्यः पूर्णाहुतिं जुहुयात् ३ यस्याग्ना अग्निमभ्युद्धरेयुर्भवतं नः समनसावित्यभिम-न्त्र्! याग्नये ऽग्निमतेऽष्टाकपालं निर्वपेत् ४ सायमग्निहोत्रस्य चेत्कालोऽतिपद्येत दोषा वस्तोर्नमः स्वाहेति पूर्वस्यामाहुतावन्ततोऽनुषजेत् ५ प्रातरग्निहोत्रं चेदभ्युदियादन्वग्निरुषसामग्रमक्शदित्युन्नीतमभिमन्त्रयते ६ आहवनीयँ यज-मान इहैव क्षेम्य एधि मा प्रहासीः । माममुमिति नाम गृह्णात्यामुष्यायणमिति गोत्रं ७ प्रातर्वस्तोर्नमः स्वाहेति पूर्वस्यामाहुतावन्ततोऽनुषजेत् ८ हुते मैत्रं चरुं निर्वपेत्सौर्यमेककपालम् ९ अपि वेन्धानौ दंपती वाग्यतावनश्नन्तौ सर्वाह्णमुपासीयातां १० द्वयोर्गवोः सायमग्निहोत्रं जुहुयात् ११ श्वो भूतेऽग्नये व्रतपतयेऽष्टाकपालं निर्वपेत् १२ 3.1.३

यद्यर्वाक्शम्याप्रासादग्निरपक्षायेत् इदं त एकं पर ऊ त एकं तृतीयेन ज्योतिषा सँ विशस्व इति सर्व ँ! संभृत्याहरति । सँ वेशनस्तन्वे चारुरेधि प्रियो देवानां परमे जनित्रे ॥ इति निवपति १ यदि परस्तरमितरावन्वानीय सायंप्रातर्जुहु-याच्छ्वो भूतेऽग्नये पथिकृतेऽष्टाकपालं निर्वपेत्पथोऽन्तिकाद्बर्हिरनड्वाँ श्च दक्षिणा २ योऽन्याग्निषु यजेत यस्य वान्येऽग्निषु यजेरन्सोऽग्नये वैश्वानराय द्वादशकपालं निर्वपेत् ३ यस्याग्नयः सँ सृज्येरन्मिथोऽन्यैर्वेष्टिसंनिपाते वैविची पूर्वा ४ अग्नये शुचय इति व्याख्यातम् ५ यस्याहिताग्नेरिति व्याख्यातम् ६ यस्याग्निरनुगछेदिति व्याख्यातम् ७ यस्याजस्रमवछिद्येतान्तरितान्होमा-न्हुत्वाग्नये तन्तुमतेऽष्टाकपालं निर्वपेदपि वा पूर्णाहुतिँ हुत्वा नाद्रि येत होमान्सायँ होमेन प्रतिपद्येत ८ यस्याधिश्रितेऽग्निहोत्रे हविषि वा निरुप्ते सोमे वा प्रततेऽनो रथोऽश्वः पुरुषः श्वा कृष्णः शकुनिरन्यद्वा सत्त्वमन्तरा विया-यात्त्रयस्त्रिँ शत्तन्तव इत्याहवनीये हुत्वा गामन्वावृत्यावर्तयतीदँ विष्णुर्विच-क्रम इति पदँ योपयत्यपो ऽन्वतिषिञ्चेदपि वा गार्हपत्याद्भस्मादाय वैष्ण-व्यर्चाहवनीयात्पदमनुध्वँ सयन्नुद्द्रवेत् ९ अनुगमय्य पूर्वमपरस्मात्प्रणयेत् । यदग्ने पूर्वं निहितं पदँ हि ते सूर्यस्य रश्मीनन्वाततन्थ । तत्र रयिष्ठामनुसंभरेताँ सं नः सृज सुमत्या वाजवत्या ॥ इत्यादधाति १० 3.1.४

यदि पृषदाज्यँ स्कन्देद्धिरण्यमन्तर्धाय भूयोऽभ्युन्नीयाश्वेनोपघ्राप्य मनो ज्योतिर्वर्धतां भूतिरित्येताभ्यामाहुती जुहुयात् १ यदि पशुरुपाकृतः पलाये-तान्यँ वा भावमापद्येत वायव्याँ यवागूं निरुप्याथान्यं तद्रू पं तद्वर्णं तद्वयसमुपाकरोति । वायव्यया यवाग्वा प्रचर्य पशुपुरोडाशेन प्रचरेत्सह स्विष्टकृदिडाँ वायव्यायाः पशुपुरोडाशस्य चैष एव मृते कल्पः २ स चेत्प्रत्यानीयेत त्वं नो अग्ने स त्वं नो अग्न इत्येताभ्यामाहुती जुहुयादेतावा-दिनोप्तस्य पशोरवद्येत्स तावन्तमेव कालं तिष्ठेद्यावदितरः शेषो भवति ३ यद्यूर्ध्वमुत्पतेदु दु तिष्ठ स्वध्वरोर्ध्व ऊ षु ण इत्येताभ्यामाहुती जुहुयात् ४ यदि यूपमाबृहेच्चालयेद्वा नितानस्त्वा मारुतो निहन्त्विति यथावसितमस्य परिषेकं कुर्यात् ५ यदि रशनां भिन्द्याद्द्रुह्येद्दशेद्वा त्रयस्त्रिँ शत्तन्तव इत्येतया ग्रन्थिँ संधायैतयैव जुहुयात् ६ यदि स्वरुर्नश्येत्स्वधितिर्वान्यँ यूपशकलं जुह्वामक्त्वा स्वरुं कुर्यात्तथा स्वधितिमञ्ज्यादेवमेव चषालम् । इष्टस्य दुरिष्टस्य ये यज्ञमभिरक्षन्तः । पशूनस्माकं मा हिँ सीर्यज्ञमन्वभिरक्षताम् ॥ इति जुहुयात् ७ यदि शकृन्मूत्रँ वा कुर्यात्पुनरुपपाय्याभ्युक्ष्य व्याहृतिभिरेव जुहुयात् ८ यस्माद्भीत उदप्रोष्टेत्युत्प्लवमाने जुहुयात् ९ यस्माद्भीत उदवेपिष्टेत्युद्वेपमाने १० यस्माद्भित उदवाशिष्टेत्युद्रा श्यमाने ११ यस्माद्भीतो निषीदसि ततो नो अभयं कृधि । पशूनस्माकं मा हिँ सीर्नमो रुद्रा य मीढुषे ॥ इति निषण्णे १२ अग्निर्भगः सवितेदं जुषन्तां प्रजापतिर्वरुणो य मह्यम् ॥ यो नो द्वेष्टि तनूँ रभस्वानागसो यजमानस्य वीरान् ॥ इति रममाणे जुहुयात् १३ यदि पशूखा स्रवेत् उखाँ स्रवन्तीमगदामकर्माग्निर्होता पृथिव्यन्तरिक्षम् । यत्र चुश्चुलदग्नावेव तन्नाभिप्राप्नुयुर्निरृतिं परस्तात् ॥ इत्यभिमन्त्रयते १४ यदि श्येनो वपाँ हरेदन्यद्वा सत्त्वमन्यद्वावदानम् यदवामृक्षच्छकुनिर्मुखेन निरृते तव । अग्निष्टद्र क्षतु हव्यवाड् घृतसूदनः ॥ इति जुहुयात् १५ यदवदानं न विन्देत्तदाज्यस्यावद्येद्धृदयनाशेऽन्यं पशुमालभेत । हिरण्ये द्विराज्यस्यावद्येत् १६ यदि कामयेत ते पशुँ व्यमथिषत त आर्तिमार्छेयुरिति कुविदङ्ग यवमन्तो यवं चिदिति नमउक्तिमत्यर्चाग्नीध्रीये जुहुयात् १७ यद्यष्टापदी स्यादष्टापद्या गर्भं शूले कृत्वा मृदा प्रलिप्य शामित्रीये निखानयेत्तस्याधस्तादयस्पात्रमुपकृष्य श्रपयेत्तस्य रसेन प्राक्स्विष्टकृतो हिरण्यगर्भं इत्यष्टाभिः प्रत्यृचमा हुतीर्जुहुयाद्धिरण्यमष्टापृडं दक्षिणा । सँ स्थिते मही द्यौः पृथिवी च न इति पशुश्रपणे गर्भमुपवपति ॥ नमो महिम्न इति पञ्चभिरुपतिष्ठते १८ 3.1.५

सत्त्रे चेत्प्रागपवर्गाद्यृपो विरोहेत्त्वाष्ट्रं बहुरूपमालभेत १ प्रजापतिर्मनसि सारस्वतो वाचि विसृष्टायां धाता दीक्षायां ब्रह्म व्रत इतिप्रभृतिभिर्यज्ञतनूर्यदि पूर्वस्यामार्तिः स्यात्तामुत्तरस्या सँ सृज्य जुहुयात्प्रजापतिर्मनसि सारस्वतो वाचि विसृष्टायाँ स्वाहेति । यद्युत्तरस्याँ सारस्वतो वाचि विसृष्टायां धाता दीक्षायाँ स्वाहेत्येवँ यस्याँ यस्यामार्तिः स्यात्तामुतरया सँ सृज्य जुहुयादपि वा त्रिभिरनुवाकैस्त्रीणि चतुर्गृहीतानि जुहुयात् २ यदि राजानमपहरेद्यो नेदिष्ठी सोमः स्यात्तमभिषुणुयात्सोमअविक्रयिणे किंचिद्दद्यात् ३ यदि सोमं न विन्देत्पूतीकानभिषुणुयाद्यदि न पूतीकानथार्जुनानि रोहिततूलानि हैमवतस्य स्थाने बभ्रुतूलानि मौजवतस्य । यदि नार्जुनान्यथ याः काश्चारण्या ओष-धीरभिषुणुयात् ४ प्रतिदुहा प्रातःसवने सोमाञ्श्रीणन्ति शृतेन माध्यंदिने दध्ना तृतीयसवने ५ पञ्च दक्षिणा ददाति ६ सँ स्थाप्य येन कामयेत तेन पुनर्यजेत । तत्र यत्कामयेत तद्दद्यात् ७ यद्दक्षिणास्वदास्यन्स्यात्तस्याध्वर्यवे वरं दद्यात् ८ यदि सर्पतां प्रस्तोता विछिद्येत ब्रह्मणे वरं दत्त्वा तमेव पुनर्वृणीते । यद्युद्गातादक्षिणेनेष्ट्वा तेन पुनर्यजेत । यदि प्रतिहर्ता सर्ववेदसं दद्यात् ९ यदि प्रातःसवने ग्रावा शीर्येत द्युतानस्य मारुतस्य साम्ना स्तुयुर्यदि माध्यंदिने बृहता यदि तृतीयसवनेऽनुष्टुभा १० यदि प्रातःसवने कलशो दीर्येत सषट्कारनिधनं ब्रह्मसाम कुर्याद्यदि माध्यंदिने श्रायन्तीयं ब्रह्मसाम कुर्याद्यदि तृतीयसवने वारवन्तीयमग्निष्टोमसाम कुर्यात् ११ यदि नाराशँ सा उपदस्येयुर्मँ यं ग्रहमु-पतिष्ठेरँ स्तस्यतस्य बिन्दुमवनयेत् १२ यदि हुताहुतौ पीतापीतौ वा सोमौ सँ सृज्येयातामन्तःपरिध्यङ्गारं दक्षिणापोह्य हुतस्य वाहुतस्य वा पीतापीतस्य सोमस्येन्द्रा ग्नी पिबतँ सुतँ स्वाहा ॥ इति जुहुयात् १३ प्रजापतये स्वाहेत्य-भक्षणीयमुत्तरयोः पूर्वस्मिन्नुपरवेऽवनयेत् १४ इन्दुरिन्दुमुपागात्तस्य त इन्दवि-न्द्र पीतस्येन्द्रि यावतो मधुमतो मधुमतः सर्वगणस्य सर्वगण उपहूतस्योपहूतं भक्षयामीत्यववृष्टं भक्षयेत् १५ यदि कूर्मं न विन्देत्कर्कं कछपमुपदध्याद्यदि तं न विन्देत्पुरोडाशं कूर्माकृतिँ श्रपयित्वा हिरण्यपृडमुपदध्यादुभयतो हिरण्यमित्येके १६ यद्याग्रायणः स्कन्देदुप वा दस्येदितरेभ्यो ग्रहेभ्यो निर्गृह्णीयाद्यदीतरे ग्रहाः स्कन्देयुरुप वा दस्येयुराग्रायणान्निर्गृह्णीयात् १७ द्रो णकलशे चेन्न विन्देत्पूतभृति वा हिरण्यमृजीषेऽप्यस्याभिषुणुयाद्धिरण्यम-भ्युन्नयेद्धिरण्येन सह जुहुयात् १८ सदसि चेच्चमसमभ्युपाकुर्याद्धिरण्यगर्भ इत्याग्नीध्रीये पूर्णाहुतिं जुहुयात् १९ यदि ध्रुवः स्कन्देत्प्रवर्तयेदायुर्धा असी-त्यभिमन्त्र्! य वरं दत्त्वावस्थापयेद्यद्युपदस्येत्स्वाहा दिव आप्यायस्वेति पर्यायैस्त्रिः सोममाप्याययेत् २० यदि सोमः स्कन्देद्व्याख्यातं पृषदाज्येन । यद्युपदस्येद्धिरण्यमृजीषेऽप्यस्याभिषुणुयाद्धिरण्यमभ्युन्नयेद्धिरण्येन सह जु-हुयात् २१ यदि राजाभिदह्येत ग्रहानध्वर्युः स्पर्शयेत्स्तोत्राण्युद्गाता शस्त्राणि होताथ यज्ञँ संभृत्यानुपूर्वं चेष्टेरन् २२ पञ्च दक्षिणा ददाति २३ सँ स्थाप्य येन कामयेत तेन पुनर्यजेत । तत्र यत्कामयेत तद्दद्यात् २४ यद्दक्षिणास्वदा-स्यन्स्यात्तस्याध्वर्यवे वरं दद्यात् २५ पुरा द्वादश्या दीक्षेरँ स्तयैवैनमृत्विजो याजयेयुः २६ 3.1.६
यद्यर्वाक्स्तुयुर्यावतीभिर्न स्तुयुस्तावतीभिरतिस्तुयुर्भूयोऽक्षरतराभिर्वा त्रैडँ वाग्निष्टोमसाम कुर्यात् १ यदि सर्वैः पर्यायैरस्तुतमभिव्युछेत्पञ्चदशभिर्होत्रे स्तुयुः पञ्चभिः पञ्चभिरितरेभ्य । यदि द्वाभ्याँ होत्रे मैत्रावरुणाय चान्यतरेण ब्राह्मणाछँ सिनेऽछावाकाय चान्यतरेण । यद्येकेन पञ्चभिर्होत्रे स्तुयुस्तिसृ-भिस्तिसृभिरितरेभ्यः २ यस्याश्विने शस्यमाने सूर्यो नोदियादश्वँ श्वेतँ रुक्म-प्रतिमुक्तं पुरस्तात्प्रत्यङ्मुखमवस्थापयत्यादित्यं बहुरूपमालभेत । सौर्योऽजः श्वेत उपालम्भ्यः ३ उपाँ शुदेवता समृतयज्ञे । संभारयजूँ षि व्याख्यातानि । वृषण्वती प्रतिपदुभयवन्त्याज्यानि प्रतिवन्ति वा ४ सँ वेशायोपवेशाय गायत्राभिभवे छन्दसे स्वाहेति पुरस्तात्प्रातःसवनस्य जुहुयात्सँ वेशायो-पवेशाय त्रिष्टुभाभिभवे छन्दसे स्वाहेति पुरस्तान्माध्यंदिनस्य सवनस्य जुहुयात्सँ वेशायोपवेशाय जगत्याभिभवे छन्दसे स्वाहेति पुरस्तादार्भवस्य पवमानस्य जुहुयात् ५ यदि रथंतरसामा सोमः स्यादार्भवे पवमाने बृहत्कुर्याद्यदि बृहत्सामा माध्यंदिने पवमाने रथंतरम् ६ यदि समाने जनपदे विद्विषाणयोः सुत्याः संनिवपेयुर्यद्यग्निष्टोमः परस्योक्थ्यं कुर्याद्यद्युक्थ्यः षो-डशिनँ । यदि षोडश्यतिरात्रँ । यद्यतिरात्रो विश्वजितमभिजितँ वा सर्वस्तोमं कुर्यात् ७ यदि सोमोऽतिरिच्येत होतृचमसमुख्यानुन्नीय स्तोत्रमुपाकरोत्यैन्द्रा -वैष्णवँ होतानुशँ सति ८ यदि प्रातःसवनेऽस्ति सोमो अयँ सुत इति मरुत्वतीषु गायत्रेण स्तुयुर्यदि माध्यंदिने बण्महं असि सूर्येत्यादित्यवतीषु गौरीवितेन स्तुयुर्यदि तृतीयसवने विष्णोः शिपिविष्टवतीषु गौरीवितेन स्तुयुः ९ उक्थ्यानि वातिप्रणयेद्यद्युक्थ्ये वातिरिच्येत षोडशिनँ यदि षोडशिनि वातिरात्रँ । यद्यतिरात्रे विष्णोः शिपिविष्टवतीषु बृहता स्तुयुः १० 3.1.७

यद्युख्योऽनुगछेत्प्रणीय पुनः प्रवृञ्ज्यान्नित्याः समिध आधाय यास्ते अग्न आद्रा र्! योनयः कामयमानो वना त्वँ यन्मातॄ रजगन्नपः । न तत्ते अग्ने प्रमृषे निवर्तनँ यद्दूरे सन्निहाभवः ॥ साकँ हि शुचिना शुचिः प्रशास्ता क्रतुनाजनि विद्वं अस्य व्रता ध्रुवा वया इवानुरोहते ॥ इति तिसृभिः । कृष्णँ वासो देयं कृष्णा वा गौः १ यद्युखा भिद्येत महावीरो वा कपालानि चूर्णयेत्पेषं पिष्ट्वान्यया मृदा सँ सृज्य य ऋते चिदभिश्रिष इत्युखां कुर्यात्तथा महावीरम् २ यदि दीक्षितस्योपतपेदुदकाँ स्य एकविँ शतिँ यवानोप्यैकविँ शतिं दर्भपिञ्जूलानि चावधाय जीवा नाम स्थ ता इमं जीवयतेति दीक्षितस्य नामग्राहं पर्यायैरुदकाँ स्यमभिमृशेत्प्राणापानौ त उपाँ श्वन्तर्यामौ पातामसाविति दीक्षि-तमभिमन्त्रय पुष्टपत इत्याग्नीध्रीये पूर्णाहुतिं जुहुयाद्या ओषधयः प्रथमजा इत्यनुवाकेन चत्वारो ब्राह्मणा नानागोत्रा उदकाँ स्येन दीक्षितमभिषिञ्चेयुर्न पुनः कुर्यात् ३ यदि दीक्षितः प्रमीयेत तीर्थेनारणी हृत्वातीर्थेन शरीरं दक्षिणतो विहारस्य निर्मन्थ्येन दग्ध्वा कृष्णाजिनेऽस्थीन्युपनह्य प्रेताग्निषु पुत्रं भ्रातरँ वा दीक्षयित्वा यजेयुर्दक्षिणस्याँ श्रोणावस्थीन्युपनिधाय यामेन सार्पराज्ञीषु पराचीषु प्रतिहितासु स्युयुस्ता जपन्तो दीक्षिता होतृप्रमुखाः सव्यानूरूनाघ्नाना मार्जालीयँ सव्यं त्रिः परियन्त्यग्न आयूँ षि पवस इति प्रतिपदँ रथंतरं पृष्ठम् ४ यद्येकाहो भवति सँ स्थिते दहनमस्थीनि हरेयुः ५ यदि सत्त्रे सँ स्थिते सँ वत्सरँ विहारमिन्धीताजुह्वतो यजमानाः ६ समाप्ते सँ वत्सरं ज्योतिष्टोमोऽस्थिया-जनीय । ऐन्द्र वायवाग्रा ग्रहा मैत्रावरुणाग्रा वा । स्तोत्रेष्वस्थीन्युपनिदध्युः । त्रिवृतः पवमानाः । सप्तदशँ शेषः । समानमन्यत् ७ यद्याहवनी-योऽनुगछेदाग्नीध्रीयात्प्रणयेद्यद्याग्नीध्रीयः शालामुखीयाद्यदि शालामुखीयो गार्हपत्याद्यदि गार्हपत्यस्तत एव मथ्यः ८ यदि सत्त्राय दीक्षेताथ सा-म्युत्तिष्ठेत्सोममपि विभज्य विश्वजितातिरात्रेण सर्वस्तोमेन सर्वपृष्ठेन सर्व-वेदसदक्षिणेन यजेत यजेत ९ 3.1.८
इति मानवसूत्रे प्रायश्चित्ताध्यायः समाप्तः