लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)/अध्यायः ०५८

विकिस्रोतः तः
← अध्यायः ५७ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)
अध्यायः ५८
[[लेखकः :|]]
अध्यायः ५९ →

श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि कथां पापविनाशिनीम् ।
कराञ्चनीपुरे त्वब्धितटे सिन्धुमुखे पुरा ।। १ ।।
यवसन्धाभिधः कश्चिद् धेनुखादकघातकी ।
न्यवसन्मांसमदिरामत्स्वादनोऽतिहिंसकः ।। २ ।।
शशान् कपीन् वराहाँश्च हरिणान् वनपक्षिणः ।
यादांसि चापि हिंसित्वा गवयाऽजोरणानपि ।। ३ ।।
सकुटुम्बः पाचयित्वा विक्रीणाति च खादति ।
एवं पापसमाचारः सदा पापपरायणः ।। ४ ।।
कुक्कुटादः कुक्कुटाण्डरसभक्षणकारकः ।
भ्रष्टदेहो भ्रष्टकर्मा यवसन्धीयजातिजः ।। ५ ।।
यवसन्धाभिधो वार्तां शुश्राव नाविकाननात् ।
शर्करानगरे तत्र संहितायाः कथा शुभा ।। ६ ।।
जायते मोक्षदा सर्वपापानां क्षालिनी त्विति ।
जायन्ते दिव्यदेहाश्च श्रोतारो ब्रह्मलोकगाः ।। ७ ।।
सर्वपापानि भगवान् शरण्यो भक्तवत्सलः ।
शरणागतभक्तस्य क्षमतेऽर्पयते दिवम् ।। ८ ।।
हिंसका बहवस्तेन तारिताः स्त्रीनरा अपि ।
तत्रास्ते लोमशर्षिश्च स्वतःप्रकाश ईशिता ।। ९ ।।
तथा सन्तः साधवश्च साध्व्यो विप्रर्षयोऽपि च ।
येषां वै दर्शनात् प्रसेवनात् प्रसादनात्तथा ।। 4.58.१ ०।।
शाश्वती जायते मुक्तिर्विमानेन गतिः परा ।
नैतादृशो हि समयः पुनरस्मान् मिलिष्यति ।। ११ ।।
पापनाशकरः शुद्धोऽनायासमोक्षणप्रदः ।
यवसन्धो बद्रिके संशुश्रावैतां गिरं शुभाम् ।।१ २।।
मुमुक्षाऽस्याऽभवत्तूर्णं पापनाशाय तत्क्षणम् ।
मया पापान्यनन्तानि कृतानि घातनानि वै ।। १ ३।।
तेषां न स्याद्धि निस्तारो विना दिव्यजनाश्रयम् ।
एते नौकाधराः सर्वे वदन्ति ऋतमेव तत् ।। १४।।
प्रयामि शर्करापुर्यामघानि क्षपयामि च ।
यदि पापविनाशो मे बहुहत्याघनाशनम् ।। १५।।
तदा तस्मादुत्तमं मे किमत्र परिशिष्यते ।
कर्मणां चेत् कृतानां तु भूमावत्र निवर्तनम् ।। १६।।
किमस्मादपरं साध्यं कर्तव्यं मेऽवशिष्यते ।
अवश्यं तत्र गन्तव्यं प्राणमात्रं तु यत्र वै ।। १७।।
अवश्यं तत्र वस्तव्यं यत्र स्याच्छान्तिरात्मनः ।
अवश्यं तत्र दातव्यं यत्रोप्तं फलदं भवेत् ।। १८।।
अवश्यं तत्र सुप्तव्यं यत्र निर्भीकता भवेत् ।
अवश्यं तत्र मर्तव्यं यत्रानन्दस्तु शाश्वतः ।। १९।।
यदि गच्छामि तत्रैव संहितायाः कथार्थकः ।
पापनाशो भवेन्मे चेद् गन्तव्यं मोक्षमेव ह ।।4.58.२०।।
पुनरावर्तनं नैव कराञ्चनीपुरं प्रति ।
रोचते मे पापकर्म नैव नैव च नैव च ।।२१।।
कुटुम्बसहितो यास्ये शर्करानगरं प्रति ।
महत्या नौकया यन्त्रगन्त्र्या यास्यामि सत्वरम् ।।२२।।
विचार्येत्थं यवसन्धः पत्नीं नाम्ना मजावलीम् ।
जगाद मानसं सर्वं संकल्पितं शुभावहम् ।।२३।।
सापि धन्यं निजभाग्यं मेने देशावलोकनम् ।
पुण्यावलोकनं चापि महोत्सवप्रलोकनम् ।।२४।।
मोक्षावलोकनं मेने श्रेष्ठं हिंसाद्यपेक्षया ।
बद्रिके सा सम्मताऽभूत् पुत्राः पुत्र्यस्तथाविधाः ।।२५।।
एकविंशतिसंख्यास्ते कुटुम्बिनो द्रुतं ततः ।
धनं द्रव्यं भूषणान्यम्बराणि भोजनान्यपि ।।२६।।
गृहयोग्यान्यौषधानि वेषवाराणि यान्यपि ।
देहादिसाधनकानि पात्राण्यावश्यकानि च ।।२७।।
पेटिका चोपकरणं शवयाद्यं ते समुत्सुकाः ।
निन्यिरे सर्वमेवापि योग्यं यात्रादि यद्धितम् ।।२८।।
नौकया यन्त्रवेगाभिगमयित्र्याब्धितीरके ।
ययुरग्रे सिन्धुमुखे ततो नद्यां तु नौकया ।।२९।।
तयैव सहसा सर्वे प्रतिपूरं ययुर्मुदा ।
प्रापुः श्रीशर्कराभूमिं स्नात्वा सिन्धुजले तु ते ।।4.58.३०।।
नीत्वोपदाः प्रजग्मुस्ते कथामण्डपमुत्तमम् ।
शुश्रुवुस्ते कथां रम्यां सर्वपातकनाशिनीम् ।।३ १।।
कथान्ते वाचकं सर्वे पुपूजुर्वस्तुभिः शुभैः ।
लोमशं च तथा साधून् प्रणेमुस्ते ततः परम् ।।३२।।
प्रार्थनां चक्रिरे पापमोक्षार्थिनीं शुभावहाम् ।
लोमशश्च तदा तेभ्यो ददौ श्रीब्रह्मकूर्चकम् ।।३३।।
व्रतं च पञ्चगव्यं च तथा श्रीकृष्णनाम च ।
मन्त्रं धुन्यं भजनं च ददौ पादामृतं तथा ।।३४।।
प्रसादान्नं ददौ तेभ्यः पापनाशनहेतवे ।
तेऽपि सर्वेऽतिभावेन चखदुरन्नमुत्तमम् ।।३५।।
पपुर्वारि व्रतं चक्रुः कथाश्रवणमाचरन् ।
मासान्ते पावना जाताः सर्वे विगतकल्मषाः ।।३६।।
भावनानुकूल एषामायुष्यान्तोऽभवत्तथा ।
द्वादश्यां चैत्रकृष्णस्य मध्याह्ने कृतभोजनाः ।।३७।।
सर्वे ते तु निषेदुर्वै वासगृहांगणे तदा ।
अकस्माच्चागतं दिव्यं विमानमम्बरात् ततः ।।३८।।
विमानतैजसा स्पृष्टाः सर्वे मूर्छां प्रपेदिरे ।
चतुर्भुजो हरिस्तेषां गोचरोऽपि तदाऽभवत् ।।३९।।
अनादिश्रीकृष्णनारायणः श्रीमाधवीश्वरः ।
तान् कृत्वा दिव्यदेहाँश्च त्याजयित्वा शवानि ह ।।4.58.४०।।
निन्ये विमानगान् कृत्वा नैजं धामाऽक्षरं शुभम् ।
आश्चर्यं परमं दृष्ट्वा महर्षयोऽपि वै तदा ।।४१।।
प्रशसंसुः प्रियकृष्णनारायणं दयानिधिम् ।
प्रशसंसुश्च तान् सर्वान् शरणागतमानवान् ।।४२।।
महापापान् पापशून्यान् शशंसुर्भक्तिसंभृतान् ।
अहोऽसंख्याऽघकर्तॄणामपि श्रीभगवान्हरिः ।।४३।।
कृपया चाऽनिवर्तिन्या करोति मोक्षणं परम् ।
धन्यो नारायणः कृष्णो धन्यास्ते मोक्षभागिनः ।।४४।।
धन्यं शार्करनगरं कथा धन्या प्रमुक्तिदा ।
बद्रिके एवमेवाऽन्ये मुक्तिं तत्र हि लेभिरे ।।४५।।
पठनाच्छ्रवणादस्य चिन्तनादघमोक्षणम् ।
भुक्तिर्मुक्तिर्भवेच्चापि तथा स्याच्छाश्वती गतिः ।।४६।।
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने कराञ्चनीपुरीस्थस्य सदाहत्याकरस्य यवसन्धस्य सकुटुम्बस्य संहिताकथाश्रवणेन मोक्षणमित्यादिनिरूपणनामाऽष्टपञ्चाशत्तमोऽध्यायः ।। ५८ ।।